| YouTube Channel

ऊर्णोनुवः (UrNonuvaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ऊर्णुञ् आच्छादने”@} 2 3 ऊर्णावकः-विका, ऊर्णावकः विका, 4 ऊर्णुनविषकः-ऊर्णुनुविषकः-ऊर्णु- नूषकः-षिका, 5 ऊर्णोनूयकः-यिका
6 ऊर्णविता-ऊर्णुविता-त्री 7, ऊर्णावयिता-त्री, ऊर्णुनविषिता-ऊर्णुनुविषि- ता-ऊर्णुनूषिता-त्री, ऊर्णोनूयिता-त्री
8 ऊर्णुवन्-ऊर्णुवती, ऊर्णावयन्-न्ती, ऊर्णुनविषन्-ऊर्णुनुविषन्-ऊर्णु- नूषन्-न्ती
9 ऊर्णुवानः, ऊर्णावयमानः, ऊर्णुनविषमाणः-ऊर्णुनुविषमाणः-ऊर्णुनूष- माणः, ऊर्णोनूयमानः
अूर्णविष्यमाणः-ऊर्णुविष्यमाणः, ऊर्णावयिष्यमाणः, ऊर्णुनविषिष्यमाणः- ऊर्णुनुविषिष्यमाणः-ऊर्णुनूषिष्यमाणः, ऊर्णोनूयिष्यमाणः
10 ऊर्णुत्-ऊर्णुतौ-ऊर्णुतः
11 12 ऊर्णुतम्- 13 तः, ऊर्णावितं-तः, ऊर्णुनविषितः-ऊर्णुनुविषितः-ऊर्णुनूषितः, ऊर्णोनूयितः-तवान्
अूर्णवः, ऊर्णावः, 14 ऊर्णुनविषुः-ऊर्णुनुविषुः-ऊर्णुनूषुः, ऊर्णुनावयिषुः, 15 ऊर्णोनुवः
अूर्णवितव्यम्-ऊर्णुवितव्यम्, ऊर्णावयितव्यम्, ऊर्णुनविषितव्यम्-ऊर्णुनु- विषितव्यम्-ऊर्णुनूषितव्यम्, ऊर्णोनूयितव्यम्
अूर्णवनीयम्, ऊर्णावनीयम्, ऊर्णुनविषणीयम्-ऊर्णुनुविषणीयम्-ऊर्णुनू- षणीयम्, ऊर्णोनूयनीयम्
16 ऊर्णव्यम्- 17 अवश्योर्णाव्यम्, ऊर्णाव्यम्, ऊर्णुनविष्यम्-ऊर्णुनुविष्यम्- ऊर्णुनूष्यम्, ऊर्णोनूय्यम्
अीषदूर्णवः-दुरूर्णवः-सूर्णवः
18 ऊर्णूयमानः, ऊर्णाव्यमानः, ऊर्णुनविष्यमाणः-ऊर्णुनुविष्यमाणः-ऊर्णु- नूष्यमाणः, ऊर्णोनूय्यमानः
19 ऊर्णवः, ऊर्णावः, ऊर्णुनविषः-ऊर्णुनुविषः-ऊर्णुनूषः, ऊर्णोनूयः
अूर्णवितुम्- 20 ऊर्णुवितुम्, ऊर्णावयितुम्, ऊर्णुनविषितुम्-ऊर्णुनुविषितुम्- ऊर्णुनूषितुम्, ऊर्णोनूयितुम्
21 अूर्णुतिः, ऊर्णावना, ऊर्णुनविषा-ऊर्णुनुविषा-ऊर्णुनूषा, ऊर्णुनावयिषा, ऊर्णोनूया
अूर्णवनम्, ऊर्णावनम्, ऊर्णुनविषणम्-ऊर्णुनुविषणम्-ऊर्णुनूषणम्, ऊर्णोनूयनम्
अूर्णुत्वा, ऊर्णावयित्वा, ऊर्णुनविषित्वा-ऊर्णुनुविषित्वा-ऊर्णुनूषित्वा, ऊर्णोनूयित्वा
समूर्णुत्य, समूर्णाव्य, समूर्णुनविष्य-समूर्णुनुविष्य-समूर्णुनूष्य, समूर्णोनूय्य
ऊर्णावम् २, ऊर्णुत्वा २, ऊर्णावम् २, ऊर्णावयित्वा २, ऊर्णुनविषम् २, ऊर्णुनविषित्वा २, ऊर्णुनुविषम्
ऊर्णुनुविषित्वा
ऊर्णुनूषम् २- ऊर्णुनूषित्वा २, ऊर्णोनूयम् २- ऊर्णोनूयित्वा
22 ऊर्णा, 23 ऊरुः।
प्रासङ्गिक्यः
01
=>
(११४)
02
=>
(२-अदादिः-१०३९। सक। सेट्। उभ।)
03
=>
[[१। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, आवादेशः। एवं णिच्यपि सर्वत्र बोध्यम्।]]
04
=>
[[२। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति सन इड्विकल्पः। इट्पक्षे ‘विभाषोर्णोः’ (१-२-३) इति इडादेः प्रत्ययस्य ङित्त्वं वैकल्पिकम्। ङित्त्वाभावपक्षे गुणावादेशयोः ‘ऊर्णुनविषकः’ इति रूपम्। ङित्त्वपक्षे उवङि ‘ऊर्णुनुविषकः’ इति रूपम्। इडभावपक्षे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘ऊर्णुनूषकः’ इति रूपम्। एवं सर्वत्र सन्नन्ते रूपत्रयस्योपपत्तिः।]]
05
=>
[[३। ‘सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यः--’ (वा। ३-१-२२) इति यङ्। ‘सन्यङोः’ (६-१-९) इति द्वितीयस्यैकाचः द्वित्वे ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे रूपम्। एवं यङन्ते सर्वत्र बोध्यम्।]]
06
=>
[[४। ‘विभाषोर्णोः’ (१-२-३) इति इडादिप्रत्ययस्य वैकल्पिकङिद्वद्भावात् रूपद्वयम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
[[आ। ‘प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम्।।’ भ। का। ७-९३।]]
08
=>
[[५। ‘सार्वधातुकमपित्’ (१-२-४) इति शतुर्ङिद्वद्भावात् गुणाभावे, उवङि रूपम्। एवं ‘ऊर्णुवान’ इत्यत्रापि ज्ञेयम्।]]
09
=>
[[B। ‘दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य। तस्थौ सिसङ्ग्रा- मयिषुः शितेषुः सौमित्रिरक्षिभ्रुवमुज्जिहानः।।’ भ। का। ३-४७।]]
10
=>
[[६। क्विपि ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। एवं ल्यप्यपि।]]
11
=>
[पृष्ठम्०११३+ २५]
12
=>
[[१। ‘ऊर्णोतेर्नुवद्भावो वाच्यः--’ (वा। ७-२-११) इत्यतिदेशेन एकाच्त्वात् ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। एवं क्तिनि क्त्वायां ज्ञेयम्।]]
13
=>
[[आ। ‘केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्त्राः। सोऽनूर्णुतोऽद्यौज्ज- नसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
14
=>
[[B। ‘वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते। तं प्रोर्णनूषुरुपलैः सवृक्षैराबभौ कपिः।।’ भ। का। ९-३६।]]
15
=>
[[२। यङन्तात् पचाद्यचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, ‘न धातुलोप आर्धधातुके’ (१-१-४) इति गुणनिषेधे उवङि रूपम्।]]
16
=>
[[३। ‘अचो यत्’ (३-१-९७) इति यति गुणे ‘वान्तो यि प्रत्यये’ (६-१-७९) इति वान्तादेशे रूपम्।]]
17
=>
[[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति वृद्धौ आवादेशे रूपम्।]]
18
=>
[[५। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
19
=>
[[६। ‘ॠदोरप्’ (३-३-५७) इति भावे अप्।]]
20
=>
[[C। ‘यत्नं प्रोर्णुवितुं तूर्णं दिशं कुरुत दक्षिणाम्।’ भ। का। ७-९३।]]
21
=>
[पृष्ठम्०११४+ २४]
22
=>
[[१। ‘ऊर्णोतेर्डः’ (द। उ। ५-६४) इति डः प्रत्ययः। ‘ऊर्णा मेषादिलोम्रि स्यादावर्ते चान्तरा भ्रुवोः’ इत्यमरकोशव्याख्यायां सुधायां तु ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डः--इति साधितम्। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इत्यत्र ‘अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि कारकान्तरेष्वपि क्वचित्-परितः खाता = परिखा--’ इति सिद्धान्तकौमुद्यामुक्तम्।]]
23
=>
[[२। ऊर्णूयते = आच्छाद्यते--इति कर्मणि ‘ऊर्णोतेर्नुलोपश्च’ (द। उ। १-११५) इति कुः प्रत्ययः। ऊरुः = सक्थिः।]]