| YouTube Channel

ऊर्णुञ् (UrNuJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ऊर्ण्
मूलधातुः:
ऊर्णुञ्
धात्वर्थः:
आच्छादने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ऊर्णोति-ऊर्णौति
धातुप्रदीपः
Sanskrit
ऊर्णुञ् आच्छादने
- ऊर्णोति ऊर्णौति ऊर्णुते प्रोर्णुनाव प्रोर्णुनुवे प्रौर्णोत् प्रौर्णुत प्रौर्णावीत्। प्रौर्णवीत् प्रौर्णुवीत् प्रौर्णुविष्ट ऊर्णुनूषति ऊर्णुनविषति ऊर्णुनुविषति ऊर्णोनूयते ऊर्णावयति और्णुनवत् (11) ऊर्णुत्वा प्रोर्णुत्य प्रोर्णुतः ऊर्णा ऊर्णायुः ।। 30 ।।
क्षीरतरङ्गिणी
Sanskrit
ऊर्णुञ् आच्छादने
- ऊर्णोतेर्विभाषा (7390) हलादौ पिति सार्वधातुके वृद्धिः, पक्षे गुणः-प्रौर्णौति प्रोर्णोति ऊर्णोतेर्विभाषा (726) इति वृद्धिः-प्रौर्णावीत् , प्रौर्णवीत् गुणोऽपृक्ते (7391) प्रौर्णौत् सनीवन्तर्घ (7249) इति वेट् प्रोर्णुनविषति, प्रोर्णुनुविषति, प्रोर्णुनूविषति सूचिसूत्रि (3122 वा0) इति यङ् प्रोर्णौनूयते विभाषोर्णोः (123) कित्त्वम्-प्रोर्णुवितव्यम् प्रोर्णवितव्यम् ऊर्णोर्तेर्डः (उ0547) ऊर्णा ऊर्णोतेर्नुलोपश्च (उ0 130) इति कुः-ऊरूः महति ह्रस्वश्च (उ0131) उरुः 27
धातुवृत्तिः
Sanskrit
ऊर्णुञ् (अर्थः) आच्छादने
उदात्त उभयतोभाषः ( ऊर्णुते, ऊर्णुवाते ऊर्णुषे ऊर्णुवे ऊर्णुवहे ऊर्णुनुवे ऊर्णुनुविषे ऊर्णुनुविध्वे, ऊर्णुनुविढ्वे ऊर्णुनुवे ऊर्णुनुविवहे ) "असंयोगाल्लिट्'' इति लिटः कित्त्वान्न गुणः "अजादेर्द्वितीयस्य'' इति नुशब्दस्य द्विर्वचनम्, रेफस्य तु "न न्द्रा'' इति भवति नोपधोऽयं णत्वं तु सांहितिकं, तच्च द्विर्ववचने ऽसिद्धमिति कृते द्विर्वचने पूर्वस्य णत्वं परस्य तु व्यवधानान्न भवति [पूर्वत्रासिद्धीयमद्विर्वचने] इत्येतत् "उभौ साभ्यासस्य '' इति लिङ्गान्नप्रवर्त्तत इति नौतावुक्तम् "सूचिसूत्रि'' इत्यत्र हरदत्तेनाप्ययमर्थः स्फोरितः [ऊर्णोतेश्चोपसंख्यानम् ] इत्याम्प्रतिषेधः ( ऊर्णविता ऊर्णुविता ऊर्णुविष्यते ऊर्णविष्यते) "विभाषोर्णोः'' इतीडादेः प्रत्ययस्य पक्षे ङित्त्वान्नगुणः ( ऊर्गुताम् ) ऊर्णुष्व ऊर्वै ) आटि गुणावौ (और्णुत और्णुथाः और्णुवि और्णुवहि ऊर्णुवीत ऊर्णुवीयाताम् ऊर्णुवीथाः, ऊर्णुवीय ऊर्णुविवहि ) आशिषि ( ऊर्णुविषीष्ट, ऊर्णुविषीढ्वम् ऊर्णुविषीध्वम् ऊर्णुविषीय, ) ङित्त्वपक्षे उवङ् अन्यदा तु गुणः ( ऊर्णविषीष्ट) इत्यादि, ( और्णविष्ट और्णविष्ठाः और्णविषि ) ङित्त्वपक्षे उवुङुदाहार्यः ( और्णुविष्ट ) ( 1 ) ( 1 ) और्णुविष्ठाः और्णुविषि इति पुस्तकान्तरेऽधिकम् इत्यादि ( ऊर्णौति ऊर्णोति ऊर्णुतः ऊर्णुवन्ति ऊर्णौषि, ऊर्णोषि ऊर्णौमि ऊर्णोमि) "ऊर्णोतेर्विभाषा'' इति हलादौ पिति सार्वधातुके पक्षे वृद्धिः, अन्यदा ( 2 ) ( 2 ) वृद्ध्यभावः अन्यत्राजादावुवङ्, इति पुस्तकान्तरेऽधिकः गुणः (ऊर्णुनाव ऊर्णुनुवतुः ऊर्णुनुविथ ऊर्णुनविथ ऊर्णुनुविव ऊर्णुनविव)"विभाषोर्णोः'' इति ङित्त्वविकल्पनात् पक्षे उवङ् अन्यदा गुणः अन्यत्र "असंयोगाल्लिट् कित्'' इति नित्यं कित्त्वादुवङेव ( ऊर्णुविता ऊर्णविता ऊर्णुविष्यति, ऊर्णविष्यति ऊर्णौतु, ऊर्णोतु और्णोत् और्णुताम् और्णोः और्णवम् ) ऊर्णोतेरित्यधिकृत्य "गुणोपृक्त'' इति वृद्ध्यपवादो गुणः (ऊर्णुयात् ऊर्णुयाः उर्णुयाम्) "ङिच्च पिन्न भवति'इतिपित्वाभावान्न वृद्धिर्नापि गुणः आशिषि (ऊर्णुयात् ) इत्यादि, (और्णावीत् और्णावीः और्णविषम् ) "ऊर्णोतेर्विभाषा'' इतीडादौ परस्मैपदपरे सिचि वा वृद्धिः, अन्यदा गुणो ऽङित्त्वपक्षे, ङित्त्वपक्षे तूवङ् (और्णवीत् और्णुवीत्) इत्यादि ( ऊर्णुनूषति ऊर्णुनविषति ऊर्णुनुविषति ) "सनीवन्त'' इतीडभावपक्षे "इको झल्'' इति कित्त्वम्, इटि तु पूर्ववद्वाङित्वम्, ( ऊर्णोनूयते ) "सूचिसूत्रि'' इत्यादिना यङ् ( ऊर्णोनौति ) " उत्तो वृद्धिर्लुकि हलि'' इति वृद्धिः "नाभ्यस्तस्य'' इति निषेधो ऽभ्यस्तस्योहानङ्गत्वान्न भवति "ऊर्णेतेर्विभाषा'' इति वृद्धिविकल्पस्तु श्तिपा निर्देशान्नाशङ्क्यः अत एव "गुणोऽपृक्त'' इति गुणश्चापृक्ते, ऊर्णोनुवन्तीत्यत्र "अदभ्यस्तात्'' इत्यद्भावो भवति, अभ्यस्तस्यानङ्गत्वात् पारायणिकास्त्वङ्गस्येत्यनाश्रित्याद्भावमिच्छन्ति अङ्गाधिकारः कथं बाध्येतेति तच्चिन्त्यम् लुङि ऊर्णोतेरिति स्तिपा निर्देशाद्वृद्धिविकल्पो नेति नित्या सिचिवृद्धिर्भवति (और्णोनावीत्) इत्यादि "विभाषोर्णोः इति ङित्त्वपक्षे उवङ् ( और्णोनुवीत् ) इत्यादि ( ऊर्णावयति और्णुनवत्, ) अत्र णौ कृतं स्थानिवदिति नुशब्दस्य द्विर्वचने उपधाह्रस्वत्वे ( सूत्रम्) दीर्घो लघोः (इति सूत्रम्) इत्यभ्यासस्य दीर्घो भवति, चङ्परे णौ यदङ्गं तस्य योऽभ्यास इति सूत्रार्थव्यवस्थापनात्, अत्र त्वङ्गावयवस्याभ्यासो त्वङ्गस्य ( ऊर्णुत्वा ) "श्र्युकः किति'' इत्यनिट्त्वम्, यद्यप्येकाच इत्यनुवर्त्तते तथापि दोषोऽस्य नुवद्भावात् उक्तं
वाच्य ऊर्णोर्नुवद्भावो यङ्प्रसिद्धिः प्रयोजन्म् आमश्च प्रतिषेधार्थमेकाश्चेडुपग्रहात्
इति (ऊरुः) "ऊर्णोतेर्नुलोपश्च'' इत्युप्रत्यये नुशब्दलोपः (उरुः) "महति ह्रस्वश्च'' इति ह्रस्वश्च धातोः रम्भेवोरू यस्याः सा (रम्भोरू) "ऊरुत्तरपदादौपम्य'' इत्यूङ्प्रत्ययः (संहितोरूः शफोरूः वामोरूः लक्षणोरुः ) "संहितशफलक्षणवामदेवश्च''इत्यूर्वन्ताद्बहुव्रीहेरूङ्प्रत्ययः, शफशब्दः संहितपर्यायः, (सहितोरूः) हितेन सहितं सहितं, (सहोरूः) सहशब्दस्सहितवचनः "सहितसहाभ्यां च'' इत्यूङ् अतिशयेनोरुः (वरिष्ठः वरीयान्) उरोर्भावकर्मणी (वरिमा) "पृथ्वादित्वादिमनिच्'' "प्रियस्थिर'' इत्यादिना वरादेशः उरुमाचष्टे (वारयति)इत्यत्र "णाविष्ठवत्'' इति वरादेशे वृद्धिः टिलोपस्तु "प्रकृत्यैकाच्'' इति प्रकृतिभावान्नभवति (ऊर्णा) "ऊर्णोतेर्ड'' इति डप्रत्ययः (ऊर्णायुः) "ऊर्णायायुस्'' इति मत्वर्थो युस्, सित्त्वासत् "सिति च'' इति पदत्वाद्भत्वाभावात् "यस्य'' इति लोपो भवति ऊर्णा नाभौ यस्य (ऊर्णनाभः) "अच्प्रत्यन्वव"इत्यत्राजिति योगविभागात् समासान्तः "ङ्यापोः संज्ञाछन्दसोः'' इति ह्रस्वः 28
कृदन्तरूपमाला
Sanskrit
1 {@“ऊर्णुञ् आच्छादने”@} 2 3 ऊर्णावकः-विका, ऊर्णावकः विका, 4 ऊर्णुनविषकः-ऊर्णुनुविषकः-ऊर्णु- नूषकः-षिका, 5 ऊर्णोनूयकः-यिका
6 ऊर्णविता-ऊर्णुविता-त्री 7, ऊर्णावयिता-त्री, ऊर्णुनविषिता-ऊर्णुनुविषि- ता-ऊर्णुनूषिता-त्री, ऊर्णोनूयिता-त्री
8 ऊर्णुवन्-ऊर्णुवती, ऊर्णावयन्-न्ती, ऊर्णुनविषन्-ऊर्णुनुविषन्-ऊर्णु- नूषन्-न्ती
9 ऊर्णुवानः, ऊर्णावयमानः, ऊर्णुनविषमाणः-ऊर्णुनुविषमाणः-ऊर्णुनूष- माणः, ऊर्णोनूयमानः
अूर्णविष्यमाणः-ऊर्णुविष्यमाणः, ऊर्णावयिष्यमाणः, ऊर्णुनविषिष्यमाणः- ऊर्णुनुविषिष्यमाणः-ऊर्णुनूषिष्यमाणः, ऊर्णोनूयिष्यमाणः
10 ऊर्णुत्-ऊर्णुतौ-ऊर्णुतः
11 12 ऊर्णुतम्- 13 तः, ऊर्णावितं-तः, ऊर्णुनविषितः-ऊर्णुनुविषितः-ऊर्णुनूषितः, ऊर्णोनूयितः-तवान्
अूर्णवः, ऊर्णावः, 14 ऊर्णुनविषुः-ऊर्णुनुविषुः-ऊर्णुनूषुः, ऊर्णुनावयिषुः, 15 ऊर्णोनुवः
अूर्णवितव्यम्-ऊर्णुवितव्यम्, ऊर्णावयितव्यम्, ऊर्णुनविषितव्यम्-ऊर्णुनु- विषितव्यम्-ऊर्णुनूषितव्यम्, ऊर्णोनूयितव्यम्
अूर्णवनीयम्, ऊर्णावनीयम्, ऊर्णुनविषणीयम्-ऊर्णुनुविषणीयम्-ऊर्णुनू- षणीयम्, ऊर्णोनूयनीयम्
16 ऊर्णव्यम्- 17 अवश्योर्णाव्यम्, ऊर्णाव्यम्, ऊर्णुनविष्यम्-ऊर्णुनुविष्यम्- ऊर्णुनूष्यम्, ऊर्णोनूय्यम्
अीषदूर्णवः-दुरूर्णवः-सूर्णवः
18 ऊर्णूयमानः, ऊर्णाव्यमानः, ऊर्णुनविष्यमाणः-ऊर्णुनुविष्यमाणः-ऊर्णु- नूष्यमाणः, ऊर्णोनूय्यमानः
19 ऊर्णवः, ऊर्णावः, ऊर्णुनविषः-ऊर्णुनुविषः-ऊर्णुनूषः, ऊर्णोनूयः
अूर्णवितुम्- 20 ऊर्णुवितुम्, ऊर्णावयितुम्, ऊर्णुनविषितुम्-ऊर्णुनुविषितुम्- ऊर्णुनूषितुम्, ऊर्णोनूयितुम्
21 अूर्णुतिः, ऊर्णावना, ऊर्णुनविषा-ऊर्णुनुविषा-ऊर्णुनूषा, ऊर्णुनावयिषा, ऊर्णोनूया
अूर्णवनम्, ऊर्णावनम्, ऊर्णुनविषणम्-ऊर्णुनुविषणम्-ऊर्णुनूषणम्, ऊर्णोनूयनम्
अूर्णुत्वा, ऊर्णावयित्वा, ऊर्णुनविषित्वा-ऊर्णुनुविषित्वा-ऊर्णुनूषित्वा, ऊर्णोनूयित्वा
समूर्णुत्य, समूर्णाव्य, समूर्णुनविष्य-समूर्णुनुविष्य-समूर्णुनूष्य, समूर्णोनूय्य
ऊर्णावम् २, ऊर्णुत्वा २, ऊर्णावम् २, ऊर्णावयित्वा २, ऊर्णुनविषम् २, ऊर्णुनविषित्वा २, ऊर्णुनुविषम्
ऊर्णुनुविषित्वा
ऊर्णुनूषम् २- ऊर्णुनूषित्वा २, ऊर्णोनूयम् २- ऊर्णोनूयित्वा
22 ऊर्णा, 23 ऊरुः।
प्रासङ्गिक्यः
01
=>
(११४)
02
=>
(२-अदादिः-१०३९। सक। सेट्। उभ।)
03
=>
[[१। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, आवादेशः। एवं णिच्यपि सर्वत्र बोध्यम्।]]
04
=>
[[२। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति सन इड्विकल्पः। इट्पक्षे ‘विभाषोर्णोः’ (१-२-३) इति इडादेः प्रत्ययस्य ङित्त्वं वैकल्पिकम्। ङित्त्वाभावपक्षे गुणावादेशयोः ‘ऊर्णुनविषकः’ इति रूपम्। ङित्त्वपक्षे उवङि ‘ऊर्णुनुविषकः’ इति रूपम्। इडभावपक्षे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘ऊर्णुनूषकः’ इति रूपम्। एवं सर्वत्र सन्नन्ते रूपत्रयस्योपपत्तिः।]]
05
=>
[[३। ‘सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यः--’ (वा। ३-१-२२) इति यङ्। ‘सन्यङोः’ (६-१-९) इति द्वितीयस्यैकाचः द्वित्वे ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे रूपम्। एवं यङन्ते सर्वत्र बोध्यम्।]]
06
=>
[[४। ‘विभाषोर्णोः’ (१-२-३) इति इडादिप्रत्ययस्य वैकल्पिकङिद्वद्भावात् रूपद्वयम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
[[आ। ‘प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम्।।’ भ। का। ७-९३।]]
08
=>
[[५। ‘सार्वधातुकमपित्’ (१-२-४) इति शतुर्ङिद्वद्भावात् गुणाभावे, उवङि रूपम्। एवं ‘ऊर्णुवान’ इत्यत्रापि ज्ञेयम्।]]
09
=>
[[B। ‘दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य। तस्थौ सिसङ्ग्रा- मयिषुः शितेषुः सौमित्रिरक्षिभ्रुवमुज्जिहानः।।’ भ। का। ३-४७।]]
10
=>
[[६। क्विपि ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। एवं ल्यप्यपि।]]
11
=>
[पृष्ठम्०११३+ २५]
12
=>
[[१। ‘ऊर्णोतेर्नुवद्भावो वाच्यः--’ (वा। ७-२-११) इत्यतिदेशेन एकाच्त्वात् ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। एवं क्तिनि क्त्वायां ज्ञेयम्।]]
13
=>
[[आ। ‘केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्त्राः। सोऽनूर्णुतोऽद्यौज्ज- नसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
14
=>
[[B। ‘वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते। तं प्रोर्णनूषुरुपलैः सवृक्षैराबभौ कपिः।।’ भ। का। ९-३६।]]
15
=>
[[२। यङन्तात् पचाद्यचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, ‘न धातुलोप आर्धधातुके’ (१-१-४) इति गुणनिषेधे उवङि रूपम्।]]
16
=>
[[३। ‘अचो यत्’ (३-१-९७) इति यति गुणे ‘वान्तो यि प्रत्यये’ (६-१-७९) इति वान्तादेशे रूपम्।]]
17
=>
[[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति वृद्धौ आवादेशे रूपम्।]]
18
=>
[[५। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
19
=>
[[६। ‘ॠदोरप्’ (३-३-५७) इति भावे अप्।]]
20
=>
[[C। ‘यत्नं प्रोर्णुवितुं तूर्णं दिशं कुरुत दक्षिणाम्।’ भ। का। ७-९३।]]
21
=>
[पृष्ठम्०११४+ २४]
22
=>
[[१। ‘ऊर्णोतेर्डः’ (द। उ। ५-६४) इति डः प्रत्ययः। ‘ऊर्णा मेषादिलोम्रि स्यादावर्ते चान्तरा भ्रुवोः’ इत्यमरकोशव्याख्यायां सुधायां तु ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डः--इति साधितम्। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इत्यत्र ‘अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि कारकान्तरेष्वपि क्वचित्-परितः खाता = परिखा--’ इति सिद्धान्तकौमुद्यामुक्तम्।]]
23
=>
[[२। ऊर्णूयते = आच्छाद्यते--इति कर्मणि ‘ऊर्णोतेर्नुलोपश्च’ (द। उ। १-११५) इति कुः प्रत्ययः। ऊरुः = सक्थिः।]]