| YouTube Channel

ऊर्ज्जस् (Urjjas)

 
वाचस्पत्यम्
Sanskrit
ऊर्ज्जस्
न०
ऊर्ज्ज--असुन् उत्साहातिशयाधायके बले२ अन्नरसभेदे ततोऽस्त्यर्थे विनि उर्ज्जस्विन्, बलच् ऊ-र्जस्वल, मतुप् मस्यवः ऊर्ज्जस्वत् तद्वति
त्रि०
तत्रविन्यन्तस्य मतुबन्तस्य स्त्रियां ङीप् “ऊर्ज्जस्वन्तंहविषोदत्त भागम्” ऋ० १०, ५१, ८, “ऊर्ज्जस्वती चासिपयस्वती च” थजु० १, २७, “ऊर्जस्वन्तं मन्यमानम् आत्मानंभगवानजः” भाग० ३, २०, ४२, “ऊर्ज्जस्वलं हस्तितुरङ्गमेतत्” भट्टिः “भोक्तारमूर्ज्जस्वलमात्मदेहम्” रघुः “ऊर्ज्ज-स्विन्य ऊर्ज्जमेधाश्च यज्ञे” भा० अनु० ७६ अ० ।“अन्नमूर्ज्जस्करं लोके दत्त्वोर्ज्जस्वी भवेन्नरः” भा० अनु०११२ अ० ऊर्जः करोति ऊर्जस् + कृ--अच् त० ।अमृतायमानरसाधायके
त्रि०
“ऊर्ज्जस्करान् हव्य-वाहान्” भा० व० २२ अ०