| YouTube Channel

ऊर्ज्जः (UrjjaH)

 
शब्दकल्पद्रुमः
Sanskrit
ऊर्ज्जः,
पुं,
(ऊर्ज्जयति उत्साहयति जिगीषून् इति ।ऊर्ज्ज + णिच् + अच् ।) कार्त्तिकमासः उत्-साहः बलम् (यथा, ऋग्वेदे २६ ।“वसिष्ठा हि मिहेध्य वस्त्राण्यूर्जां पते” “ऊर्जांबलपराक्रमादीनाम्” इति भाष्यम् ।) प्राणनम् ।इति मेदिनी
(वीर्य्यम् यथा, मनुः ५५ ।“पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति”
“यस्मात् पूजितमन्नं सामर्थ्यं वीर्य्यं ददाति”
)इति कुल्लुकभट्टः
) कान्तिकनामसंवत्सरः
(स्वारोचिषस्य मनोः पुत्त्रभेदः यथा हरिवंशे७ १४ ।“प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव ।स्वारोचिषस्य पुत्त्रास्ते मनोस्तात महात्मनः”
स्त्री,
हिरण्यगर्भकन्या यथा, हरिवंशे १७ ।“हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः”
)