ऊर्ज्ज (Urjja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
पुराणम्
Englishऊर्ज्ज २ / ŪRJJA II. One of the seven hermits of the svārociṣa manvantara. The seven hermits of the svārociṣa manvantara were ūrjja, stambha, prāṇa, vāta, Pṛṣabha Niraya and Parīvān. (viṣṇu purāṇa, aṁśa 3, Chapter 1).
ऊर्ज्ज / ŪRJJA. III. A King of the hehaya dynasty. He was the grandfather of the famous jarāsandha. (agni purāṇa, Chapter 278).
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritऊर्ज्ज बलाधाने जीवने वा अदन्तचु० पक्षे अक० तत्-करणे सेट् । उर्ज्जवत् । नाभयो वाजिनमूर्जयन्ति”ऋ०९, ८९, ४, “यो ह्येबान्नमत्ति स प्राणिति तमूर्ज्ज-यति” शत० ब्रा०७, ५, १, १८, “तां वो देवाःसुमतिमूर्ज्ज-यन्तीमिषमश्याम” ऋ०५, ४१, १८ ।
ऊर्ज्ज स्त्री ऊर्ज्ज--भावे क्विप् । १ बले । करणे क्विप् । २ अन्ने ।३ अमृतरसाभिधेयेऽन्नस्य अत्यन्तसारभूते रसभेदे स्त्री “विश्वे-देवा यामूर्ज्जं मदन्ति” ऋ० ७, ४९, ४, “यास्त ऊर्ज्जस्तन्वःसम्बभूवुः” अथ०१२, १, १२, इह पृथिव्याः सम्बोधनेन तस्याविकारान्नसूक्ष्मांशत्वमूर्जामुक्तम् । “स ऊर्जमुपजीवतीति”वृ० उ० “ऊर्ज्जं सूक्षितिं सूम्नम्” ऋ० २, २०, “उर्गस्वाङ्गिरस्यूर्णम्रदा ऊर्ज्जं मयि धेहि” यजु० ४, ४०, “ऊर्क् अन्नरसरूपा” वेददी० ऊर्ज्जं बलं धेहि इत्यर्थः“अन्नमूलं बलं पुंसाम्” इत्युक्तेः अन्नरसस्य वलाधाय-कत्वम् । “तमःसमूहाकृतिमप्यशेषादूर्जा जयन्तं प्रथितप्रका-शान्” भट्टिः ऊर्ज्जा बलेन “बलमूर्ज्जञ्च यच्छति” मनुःअत्र बलोर्जोभेदोदैहिकमानसिकत्वाभ्यां शारीरिकं बलमूर्क्इति बोध्यम् । ४ जले स्त्री । “ऊर्जो नपातं स हि नाय-मस्मयुः” यजु० २७, ४४, ऊर्क्शब्देनाप उच्यन्ते अद्भ्यो-वृक्षाजायन्ते ततोऽग्निः इत्यग्नेरप्पौत्रत्वम् । वेददी० ।“जर्ज्जांपते पाहि” यजु०२७, ४३ ।
ऊर्ज्ज ऊर्जति रसादिकं सोमोऽत्राधारे अच् । १ कार्त्तिकेमासि तस्य शरदृतोरुत्तरावयवत्वात् तत्र सोमेन रसवी-र्याधिक्यवर्द्धनेन तथात्वम् । “इषोर्जौ शरत्” इत्युपक्रम्यअयने विभज्य च “तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भग-वानाप्यायते सोमोऽम्ललवणमधुररसा बलवन्तो भवन्त्यु-त्तरोत्तरं च सर्वप्राणिनां बलमभिवर्द्धते” सुश्रुते शरदृतोर-न्तिमस्य कार्त्तिकस्य उत्तरोत्तरबलाधिक्याभिधानेनास्य तथात्वम् । करणे अच् घञ् वा सेट्कत्वान्न कुत्त्वम् । २ उ-त्साहे । भावे अच् घञ् वा । ३ बले ४ जीवने च ।करणे अच् घञ् वा । ५ जले “ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालम्” यजु० २, ३४ । जल-स्योर्जाधायकतात् अन्नस्य जलाधीनतयैव बलहेतुत्वाच्चतथात्वम् “ऊर्जसन! ऊर्ज्जं धाः” ऋ०६, ४, ४, “ऊ-र्जस्य सने! अन्नस्य दातः!” भा० “ऊर्जाद उत यज्ञि-यासः” ऋ०१०, ५३, ४ । ऊर्जादः अन्नादाः भा० “अत्रऊर्जशब्दःअन्नगतं रसमभिधत्ते तेन तदाधायकत्वात् तथात्वम् । “तदक्षितर्पणादेघ लभेतोर्जमसंशयम्” सुश्रु०कर्त्तरि अच् । ६ बलान्विते “कृतजगत्त्रयभूर्ज-मतङ्गजम्” माघः ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
