ऊर्ज (Urja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishऊर्जः [ūrjḥ], 1 of the month Kārtika (as giving vigour and energy)
'बाहुलोर्जौ कार्तिकिकः' इत्यमरः
ऊर्जमतङ्गजम् 6.5.
Power, strength.
Procreative power.
Life, breath.
of the sons of हिरण्यगर्भ (reckoned among the seven Ṛiṣis of the third Manvantara).
र्जा Food ऊर्जावती (गङ्गा) * 13.26.84.
Strength, sap. नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम् 6.3.
Growth.
of a daughter of Dakṣa and wife of Vasiṣṭha. -र्जम् Water. -मासः The month कार्तिक
12.11.44. -मेध Eminent intelligence, very wise
Hch.
Apte 1890
Englishऊर्जः 1 N. of the month Kārtika (as giving vigour and energy)
Śi. 6. 50.
2 Energy.
3 Power, strength.
4 Procreative power.
5 Life, breath.
6 N. of the sons of हिरण्यगर्भ (reckoned among the seven Ṛṣis of the third Manvantara).
र्जा 1 Food.
2 Energy.
3 Strength, sap.
4 Growth.
5 N. of a daughter of Dakṣa and wife of Vasiṣṭha.
र्जं Water.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishऊर्ज, अस्, m., N. of the month Kārttika, i. e.
November-December (as imparting food or strength)
power, strength
effort, exertion
procreative power
life, breath
N. of a son of the second Manu
of
Satyahita
of Vatsara
of the sons of Hiraṇya-garbha
who are reckoned among the seven Ṛṣis of the
third Manvantara
(आ), f. food, strength, sap
N. of
a daughter of Dakṣa and wife of Vasiṣṭha
(अम्),
n. water.
—ऊर्ज-योनि, इस्, m., N. of a son of Viśvā-
mitra.
—ऊर्ज-वाह, अस्, m., N. of a son of Śuci.
—ऊर्ज-सनि, इस्, इस्, इ, Ved. granting strength.
—ऊर्ज-स्तम्भ, अस्, m., N. of one of the seven
Ṛṣis of the second Manvantara.
—ऊर्जाद् (°जा-अद्),
त्, त्, त्, Ved. an eater of strengthening food.
—ऊर्जा-
वत्, आन्, अती, अत्, abounding in food.
—ऊर्जाहुति (°जा-
आह्°), इस्, इस्, इ, Ved. offering nourishing or strength-
giving sacrifices.
Apte Hindi
Hindiऊर्जः
- ऊर्ज्+णिच्+अच्
कार्तिक का महीना
ऊर्जः
- ऊर्ज्+णिच्+अच्
स्फूर्ति
ऊर्जः
- ऊर्ज्+णिच्+अच्
सामर्थ्य
ऊर्जः
- ऊर्ज्+णिच्+अच्
प्रजननात्मक शक्ति
ऊर्जः
- ऊर्ज्+णिच्+अच्
"जीवन, प्राण"
Shabdartha Kaustubha
Kannadaऊर्ज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾರ್ತಿಕ ಮಾಸ
निष्पत्तिः - > ऊर्ज (बलप्राणनयोः) + णिच् - "अच्" (३-१-१३४)
व्युत्पत्तिः - > ऊर्जयति उत्साहयति जिगीषून्
प्रयोगाः - > "कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम्"
उल्लेखाः - > माघ० ६-५०
ऊर्ज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉತ್ಸಾಹ
ऊर्ज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬಲ /ಶಕ್ತಿ
ऊर्ज
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜೀವನ /ಬದುಕು
निष्पत्तिः - > ऊर्ज - भावे "अच्"
ऊर्ज
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಲ /ನೀರು
निष्पत्तिः - > ऊर्ज (बलप्राणनयोः) + णिच् - "घज्" (३-३-१२१)
ऊर्ज
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಶಕ್ತಿವಂತ /ಬಲಶಾಲಿ
निष्पत्तिः - > ऊर्ज - "अच्" (५-२-१२७)
विस्तारः - > "ऊर्जः कार्तिके बले" - हेम० । "ऊर्जस्तु कार्तिकोत्सहबलेषु प्राणनेऽपि च"- मेदि० ।
ऊर्ज
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಉತ್ಸಾಹಶಾಲಿ
L R Vaidya
Englishधातुपाठः (Krishnacharya)
Sanskrit ऊर्ज्
ऊर्ज
बलप्राणनयोः
चुरादिः
सकर्मकः
सेट्
उभयपदी
ऊर्जयति-ते
ऊर्जस्वी- अधिकबलवान्
धातुप्रदीपः
Sanskritऊर्जँ ऊर्ज बल, प्राणधारणयोः
- ऊर्जयति और्जिजत् ऊर्जिजयिषति ऊर्जा ऊर्जस्वी ऊर्जितम् ऊर्क, ऊर्जौ 16
अभिधानचिन्तामणिः
Sanskritज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः ।
श्रावणिकोऽथ नभस्यः प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥
भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः ।
कार्तिकिको बाहुलोर्जौ द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥
ज्येष्ठ (पुं), शुक्र (पुंक्ली), आषाढ (पुं), शुचि (पुं), श्रावण (पुं), नभस् (पुं), श्रावणिक (पुं), नभस्य (पुं), प्रौष्ठपद (पुं), भाद्रपद (पुं), भाद्र (पुं), आश्विन (पुं), आश्वयुज (पुं), इष (पुं), कार्त्तिक (पुं), कार्त्तिकिक (पुं), बाहुल (पुं), ऊर्ज (पुं), ऋतु (पुं)
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।
क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥
अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।
अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
शोक (पुं), शुच् (स्त्री), शोचन (क्ली), खेद (पुं), क्रोध (पुं), मन्यु (पुं), क्रुधा (स्त्री), रुषा (स्त्री), क्रुध् (स्त्री), कोप (पुं), प्रतिघ (पुं), रोष (पुं), रुष् (स्त्री), उत्साह (पुं), प्रगल्भता (स्त्री), अभियोग (पुं), उद्यम (पुं), प्रौढि (स्त्री), उद्योग (पुं), कियदेतिका (स्त्री), अध्यवसाय (पुं), ऊर्ज (पुं), वीर्य (क्ली)
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्यौजसी
शुष्मं शुष्म च शक्तिरूर्जसहसी युद्धं तु संख्यं कलिः ।
p{0033}
संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनं
संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ७९६ ॥
द्वन्द्वं समाघातसमाह्वयाभिसंपातसंमर्दसमित्प्रघाताः ।
आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ७९७ ॥
समुदायः समुदयो राटिः समितिसंगरौ ।
अभ्यामर्दः संपरायः समीकं सांपरायिकम् ॥ ७९८ ॥
आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् ।
प्राण (पुं), स्थामन् (क्ली), तरस् (क्ली), पराक्रम (पुं), बल (पुंक्ली), द्युम्न (क्ली), शौर्य (क्ली), ओजस् (क्ली), शुष्म (क्ली), शुष्मन् (क्ली), शक्ति (स्त्री), ऊर्ज (पुंस्त्री), सहस् (क्ली), युद्ध (क्ली), सङ्ख्य (पुंक्ली), कलि (पुं), सङ्ग्राम (पुं), आहव (पुं), सम्प्रहार (पुं), समर (पुंक्ली), जन्य (पुंक्ली), युध् (स्त्री), आयोधन (क्ली), संस्फोट (पुं), कलह (पुं), मृध (क्ली), प्रहरण (क्ली), संयत् (क्ली), रण (पुंक्ली), विग्रह (पुं), द्वन्द्व (क्ली), समाघात (पुं), समाह्वय (पुं), अभिसम्पात (पुं), सम्मर्द (पुं), समिध् (स्त्री), प्रघात (पुं), आस्कन्दन (क्ली), आजि (स्त्री), प्रधन (पुं), अनीक (पुंक्ली), अभ्यागम (पुं), प्रविदारण (पुं), समुदाय (पुं), समुदय (पुं), राटि (स्त्री), समिति (स्त्री), सङ्गर (पुं), अभ्यामर्द (पुं), सम्पराय (पुंक्ली), समीक (क्ली), साम्परायिक (क्ली), आक्रन्द (पुं), संयुग (पुंक्ली), नियुद्ध (क्ली)
अभिधानरत्नमाला
Sanskritमधु
मधु, माधव, शुक्र, शुचि, नभस्, नभस्य, इष, ऊर्ज, सहस्, सहस्य, तपस्, तपस्य
चैत्रादिमासा मधुमाधवौ द्वौ,
ततः परं शुक्रशुची क्रमेण ।
नभोनभस्यौ कथिताविषोर्जौ,
सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
verse 1.1.1.114
page 0014
नाममाला
Sanskritदीधिति, भानु, उस्र, अंशु, गभस्ति, किरण, कर, पाद, रुचि, मरीचि, भास्, तेजस्, अर्चिस्, गो, द्युति, प्रभा, दीप्ति, ज्योतिस्, महस्, धामन्, रश्मि, ऊर्ज, विभावसु
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।
पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
दीप्तिर्ज्योतिर्महो धाम रश्मिरूर्जो विभावसुः ।
verse 0.1.1.45
page 0023
शब्दकल्पद्रुमः
Sanskritऊर्ज्ज, क जीवने । बले । इति कविकल्पद्रुमः ॥
(चुरां-परं-अकं-सेट् ।) दीर्घादिः । क ऊर्जयतिजनो जीवति बली स्याद्वेत्यर्थः । इति दुर्गादासः ॥
ऊर्ज्जं, (उर्ज्ज्यते जीव्यतेऽनेत । ऊर्ज्ज + घञ् ।)ञलम् । इति शब्दरत्नावली ॥
(यथा, भागवते ।४ । २४ । ३८ ॥
“नम ऊर्ज इषे एय्याः पतये यज्ञरेतसे ।तृप्तिदाय च जीवानां नमः सर्व्वरसात्मने” ॥
)
ऊर्ज्जः, (ऊर्ज्जयति उत्साहयति जिगीषून् इति ।ऊर्ज्ज + णिच् + अच् ।) कार्त्तिकमासः । उत्-साहः । बलम् । (यथा, ऋग्वेदे । १ । २६ । १ ।“वसिष्ठा हि मिहेध्य वस्त्राण्यूर्जां पते” । “ऊर्जांबलपराक्रमादीनाम्” । इति भाष्यम् ।) प्राणनम् ।इति मेदिनी ॥
(वीर्य्यम् । यथा, मनुः । २ । ५५ ।“पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति” ॥
“यस्मात् पूजितमन्नं सामर्थ्यं वीर्य्यं च ददाति” ॥
)इति कुल्लुकभट्टः ॥
) कान्तिकनामसंवत्सरः ॥
(स्वारोचिषस्य मनोः पुत्त्रभेदः । यथा हरिवंशे७ । १४ ।“प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च ।स्वारोचिषस्य पुत्त्रास्ते मनोस्तात महात्मनः” ॥
हिरण्यगर्भकन्या । यथा, हरिवंशे ७ । १७ ।“हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः” ॥
)
वाचस्पत्यम्
Sanskritउ(ऊ)र्ज जीवने वा अक० पक्षे सेट् । उ(ऊ)र्ज्जयति ते उ(ऊ)र्ज्जति । और्ज्जिजत्--तऔर्ज्जीत् । उ(ऊ)र्ज्जयाम् बभूव आस चकार चक्रेपक्षे उ(ऊ)र्जाम् बभूव आस चकार । क्त उ(ऊ)र्ज्जित, वृद्धेबलान्विते । णिणन्तत्वे वर्द्धिते दीर्घादिरयमिति बहवः
ऊर्ज्ज बलाधाने जीवने वा अदन्तचु० पक्षे अक० तत्-करणे सेट् । उर्ज्जवत् । नाभयो वाजिनमूर्जयन्ति”ऋ०९, ८९, ४, “यो ह्येबान्नमत्ति स प्राणिति तमूर्ज्ज-यति” शत० ब्रा०७, ५, १, १८, “तां वो देवाःसुमतिमूर्ज्ज-यन्तीमिषमश्याम” ऋ०५, ४१, १८ ।
ऊर्ज्ज स्त्री ऊर्ज्ज--भावे क्विप् । १ बले । करणे क्विप् । २ अन्ने ।३ अमृतरसाभिधेयेऽन्नस्य अत्यन्तसारभूते रसभेदे स्त्री “विश्वे-देवा यामूर्ज्जं मदन्ति” ऋ० ७, ४९, ४, “यास्त ऊर्ज्जस्तन्वःसम्बभूवुः” अथ०१२, १, १२, इह पृथिव्याः सम्बोधनेन तस्याविकारान्नसूक्ष्मांशत्वमूर्जामुक्तम् । “स ऊर्जमुपजीवतीति”वृ० उ० “ऊर्ज्जं सूक्षितिं सूम्नम्” ऋ० २, २०, “उर्गस्वाङ्गिरस्यूर्णम्रदा ऊर्ज्जं मयि धेहि” यजु० ४, ४०, “ऊर्क् अन्नरसरूपा” वेददी० ऊर्ज्जं बलं धेहि इत्यर्थः“अन्नमूलं बलं पुंसाम्” इत्युक्तेः अन्नरसस्य वलाधाय-कत्वम् । “तमःसमूहाकृतिमप्यशेषादूर्जा जयन्तं प्रथितप्रका-शान्” भट्टिः ऊर्ज्जा बलेन “बलमूर्ज्जञ्च यच्छति” मनुःअत्र बलोर्जोभेदोदैहिकमानसिकत्वाभ्यां शारीरिकं बलमूर्क्इति बोध्यम् । ४ जले स्त्री । “ऊर्जो नपातं स हि नाय-मस्मयुः” यजु० २७, ४४, ऊर्क्शब्देनाप उच्यन्ते अद्भ्यो-वृक्षाजायन्ते ततोऽग्निः इत्यग्नेरप्पौत्रत्वम् । वेददी० ।“जर्ज्जांपते पाहि” यजु०२७, ४३ ।
ऊर्ज्ज ऊर्जति रसादिकं सोमोऽत्राधारे अच् । १ कार्त्तिकेमासि तस्य शरदृतोरुत्तरावयवत्वात् तत्र सोमेन रसवी-र्याधिक्यवर्द्धनेन तथात्वम् । “इषोर्जौ शरत्” इत्युपक्रम्यअयने विभज्य च “तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भग-वानाप्यायते सोमोऽम्ललवणमधुररसा बलवन्तो भवन्त्यु-त्तरोत्तरं च सर्वप्राणिनां बलमभिवर्द्धते” सुश्रुते शरदृतोर-न्तिमस्य कार्त्तिकस्य उत्तरोत्तरबलाधिक्याभिधानेनास्य तथात्वम् । करणे अच् घञ् वा सेट्कत्वान्न कुत्त्वम् । २ उ-त्साहे । भावे अच् घञ् वा । ३ बले ४ जीवने च ।करणे अच् घञ् वा । ५ जले “ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालम्” यजु० २, ३४ । जल-स्योर्जाधायकतात् अन्नस्य जलाधीनतयैव बलहेतुत्वाच्चतथात्वम् “ऊर्जसन! ऊर्ज्जं धाः” ऋ०६, ४, ४, “ऊ-र्जस्य सने! अन्नस्य दातः!” भा० “ऊर्जाद उत यज्ञि-यासः” ऋ०१०, ५३, ४ । ऊर्जादः अन्नादाः भा० “अत्रऊर्जशब्दःअन्नगतं रसमभिधत्ते तेन तदाधायकत्वात् तथात्वम् । “तदक्षितर्पणादेघ लभेतोर्जमसंशयम्” सुश्रु०कर्त्तरि अच् । ६ बलान्विते “कृतजगत्त्रयभूर्ज-मतङ्गजम्” माघः ।
क्षीरतरङ्गिणी
Sanskritऊर्जँ ऊर्ज बल, प्राणनयोः
- (अर्थविवरणम्) प्राणनं जीवनम्
ऊर्जयति ऊर्जनम्, ऊर्जस्विनि (?, ऊर्जस् इति) प्राप्ते भ्राजभास (32177) इति क्विप्-ऊर्क्, ऊर्जस्विन् (द्र0 52114) इति निपातनाद् असन्तोऽप्यस्ति 16
धातुवृत्तिः
Sanskritऊर्जँ ऊर्ज (अर्थः) बल, प्राणनयोः
(अर्थविवरणम्) प्राणनं जीवनम्
( ऊर्जयति और्जिजत् ऊर्जिजयिषति ) "नन्द्रा'' इति रेफवर्जस्य द्वितीयस्यैकाचो द्विर्वचनम् ( ऊर्कृ ) "भ्राजभास'' इत्यादिना क्विप् "चोः कुः'' इति कुत्वं, णिलोपस्य [ पूर्वत्रासिद्धये न स्थानिवत् ] इति स्थानिवत्त्वनिषेधात्पदान्तता, संयोगान्तलोपस्तु "रात्सस्य'' इति नियमान्न भवति 16
कृदन्तरूपमाला
Sanskrit1 {@“ऊर्ज ब्रलप्राणनयोः”@} 2 प्राणनम् = जीवनम्।
ऊर्जकः-र्जिका, 3 ऊर्जिजयिषकः-षिका
ऊर्जयिता-त्री, ऊर्जिजयिषिता-त्री
4 5 ऊर्जयन्-न्ती, ऊर्जिजयिषन्-न्ती
ऊर्जयिष्यन्-न्ती-ती, ऊर्जिजयिषिष्यन्-न्ती-ती
ऊर्जयमानः, ऊर्जिजयिषमाणः
ऊर्जयिष्यमाणः, उर्जिजयिषिष्यमाणः
6 ऊर्क् 7 -ऊर्जौ-ऊर्जः, बहूर्क्
-- ऊर्जितम्-तः, ऊर्जिजयिषितः-तवान्
ऊर्जः, ऊर्जिजयिषुः
ऊर्जयितव्यम्, ऊर्जिजयिषितव्यम्
ऊर्जनीयम्, ऊर्जिजयिषणीयम्
ऊर्ज्यम्, ऊर्जिजयिष्यम्
ईषदूर्जः, दुरूर्जः, सूर्जः
-- ऊर्ज्यमानः, ऊर्जिजयिष्यमाणः
ऊर्जः, ऊर्जिजयिषः
ऊर्जयितुम्, ऊर्जिजयिषितुम्
ऊर्जना, ऊर्जिजयिषा
ऊर्जनम्, ऊर्जिजयिषणम्
ऊर्जयित्वा, ऊर्जिजयिषित्वा
समूर्ज्य, समूर्जिजयिष्य
ऊर्जम् २, ऊर्जयित्वा २, ऊर्जिजयिषम् २
ऊर्जिजयिषित्वा २। 8
01 (११३)
02 (१०-चुरादिः-१५४९-सक। सेट्। उभ।)
03 [[५। ‘न न्द्राः संयोगादयः’ (६-१-३) इति रेफस्य द्विर्वचननिषेधात् जिशब्दस्य द्वित्वम्।]]
04 [पृष्ठम्०१११+ २६]
05 [[आ। ‘ओलण्डिताद्रिरपि जालितदिव्यधामा निष्पीडितारिरनुनाटितमर्त्यभावः। अश्राथबाधितमनाः स निरीक्षकाणाम् आनन्दमन्तरपरत् परमूर्जयन्तम्।।’ धा। का। ३-१४।]]
06 [[१। ‘भ्राजभास--’ (३-२-१७७) इत्यादिना क्विप् ताच्छीलिकः। ‘चोः कुः’ (८-२-३०) इति कुत्वम्। सोपसृष्टादपि क्विप्। ‘रात् सस्य’ (८-२-२४) इति नियमात् जका- रस्य लोपो न।]]
07 [[B। ‘प्रीत्याऽपि दत्तेक्षणसन्निपातं भयं भुजङ्गाधिपवद् दधानम्। तमःसमूहाकृतिमप्यशेषान् ऊर्जा जयन्तं प्रथितप्रकाशान्।।’ भ। का। १२-१०। ऊर्जा = बलेन इत्यर्थः। तृतीयान्तमेतत्।]]
08 [पृष्ठम्०११२+ २६]
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
