ऊरुस्तम्भ (Urustambha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishShabdartha Kaustubha
Kannadaऊरुस्तम्भ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಂಧಿವಾತ /ಮಂಡಿಯು ಚಲಿಸದಂತೆ ಮಾಡುವ ಒಂದು ವಾತರೋಗ
निष्पत्तिः - > "अण्" (३-२-१)
व्युत्पत्तिः - > ऊरू स्तभ्नाति
Bopp
Latinशब्दकल्पद्रुमः
Sanskritऊरुस्तम्भः, (ऊरू स्तभ्नाति इति ऊरु + स्तन्भ +अण् ।) ऊरुरोगविशेषः । यथा । अथोरुस्तम्भाधिकारः । तत्रोरुस्तम्भस्य विप्रकृष्टसन्निकृष्टनिदान-सम्प्रात्पिपूर्व्वकं लक्षणमाह ।“शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्न्निषेवितैः ।जीर्णाजीर्णे तथायाससंक्षोभस्वप्नजागरैः ॥
सश्लेष्ममेदः पवनः साममत्यर्थस्रञ्चितम् ।अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ॥
सक्थ्यस्थिनी प्रपूर्य्यान्तःश्लेष्मणा स्तिमितेन सः ।तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥
परकीयाविव गुरू स्यातामतिशयव्यथौ ।ध्यानाङ्गमर्द्दस्तैमित्यतन्द्राच्छर्द्द्यरुचिज्वरैः ॥
संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः ।तमूरुस्तम्भमित्याहुराढ्यवातमथापरे” ॥
जीर्णाजीर्णे किञ्चिज्जीर्णं किञ्चिदजीर्णं तस्मिन्भोजनमित्यर्थः । अतएव दृढबलेन जीर्णाजीर्णेसमश्नत इति पठितम् । तत्र शीतादिभिर्निषे-वितैर्भुक्तैः । संक्षोभेण सञ्चलनेन । स्वप्नेन दिवा ।जागरणेन रात्रौ । अभिभूय दूषयित्वा । इतरंदोषं पित्तम् । स्तिमितेन आर्द्रेण द्रुतेनेति यावत् ।न तु घनेन । एवंविधेन श्लेष्मणा । सः पवनः ।तदा ऊरू स्तभ्नाति तेन स्तम्भेन । अचेतनौ शून्यौ ।परकीयाविव अक्रियावित्यर्थः । ध्यानं संमूढता ।पादसम्बन्धिनीभिः सदनकृच्छ्रोद्धरणसुप्तिभिश्चसंयुक्तौ । अयंसुश्रुतेन महावातव्याधिषु पठितः ॥
*प्राग्रूपमाह ।“प्राग्रूपं तस्य निद्रातिध्यानं स्तिमितता ज्वरः ।रोमहर्षोऽरुचिश्छर्द्दिर्जङ्घोर्व्वोः सदनं तथा” ॥
* ॥
तस्योपशयमाह ।“वातशङ्किभिरज्ञानात्तत्र स्यात् स्नेहनात् पुनः ।पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ॥
जङ्घोरुग्लानिरत्यर्थं शश्वदादाहवेदना ।पदञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः ।अन्यनेयौ हि संभग्नावूरू पादौ च मन्यते” ॥
अन्यनेयौ अन्यपुरुषचाल्यौ भवत इत्यर्थः । अज्ञा-नात् अनिश्चयात् स्तम्भ-सुप्ति-कम्पादि-दर्शनेन ।वातशङ्किभिः वातव्याधिशङ्किभिः । तत्र ऊरुस्तम्भे ।स्नेहनात् स्नेहादिना स्नेहन्या चिकित्सया । पाद-सदनादय ऊरुभग्नोपमत्वात् ते विकाराः स्युः ।जङ्घोरुग्लानिः जङ्घोर्व्वोर्गमनादावशक्तिः । आदा-हवेदना ईषद्दाहेन सह वेदना ॥
* ॥
ऊरुस्तम्भस्यारिष्टं लक्षणमाह ।“यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत् ।ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्” ॥
अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्न-मात्रं साधयेत् ॥
* ॥
* ॥
अथोरुस्तम्भस्य चिकित्सा ।“स्नेहासृक्स्राववमनं वस्तिकर्म्मविरेचनम् ।वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम् ॥
तस्मादत्र सदा कार्य्यं स्वेदनं घनरूक्षणम् ।आममेदःकफाधिक्यान्मारुतं नयता समम् ॥
यत् स्यात् कफप्रशमनं न तु मारुतकोपनम् ।तत्सर्व्वं सर्व्वदा कार्य्यमूरुस्तम्भस्य भेषजम् ॥
सर्व्वो रूक्षक्रमः कार्य्यस्तत्रादौ कफनाशनः ।पश्चाद्वातविनाशाय विधातव्याखिला क्रि ॥
भोज्याः पुराणाः श्यामाककोद्रवोद्दालशालयः ।जाङ्गलैरघृतैर्म्मांसैः शाकैश्चालवणैर्हितैः” ॥
उद्दालो वनकोद्रवः ।“दद्याद्वास्तूकशाकेन हीनेन लवणेन तु ।जीर्णशाल्योदनं रूक्षमूरुस्तम्भवते भिषक् ॥
रूक्षणाद्वातकोपश्चेन्निद्रानाशादिसम्भवः ।स्नेहस्वेदक्रमस्तत्र कार्य्यो वातामयापहः ॥
प्रतारयेत् प्रतिस्रोतः सरितं शीतलोदकाम् ।सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥
मूलैर्व्वा वाजिगन्धायाः अथवार्कस्य कारयेत् ।गाढमुत्सादनं वैद्य ऊरुस्तम्भे सवेदने ॥
त्रिफलाग्रन्थिकव्योषचूर्णं लिह्यात् समाक्षिकम् ।ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत् ॥
नागरं पिप्पलीञ्चापि गुग्गुलुं वा शिलाजतु ।ऊरुस्तम्भी पिबेण्मूत्रैर्द्दशमूलीरसेन वा” ॥
इत्यूरुस्तम्भाधिकारः । इति भावप्रकाशः ॥
अपि च ।“त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।ऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम् ॥
हरीतकीं शृङ्गवेरं देवदारु च चन्दनम् ।क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥
जङ्घाशूलमूरुस्तम्भं सप्तरात्रे तु नाशयेत्” ॥
* ॥
इति गारुडे १८७ अध्यायः ॥
(“एक ऊरुस्तम्भ इति आमत्रिदोषसमुत्थानः” ।इति चरके सूत्रे ऊनविंशोऽध्यायः ॥
अस्य सकारणलक्षणसम्प्राप्तिचिकित्सितानि यथा, “श्रिया परमया ब्राह्म्या परया च तपःश्रिया ।अहीनं चन्द्रसूर्य्याभ्यां सुमेरुमिव पब्बतम् ॥
धीर्धृतिस्मृतिविज्ञानज्ञानकीर्त्तिक्षमालयम् ।अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ॥
भगवन् ! पञ्च कर्म्मांणि समस्तानि पृथक्तथा ।निर्द्दिष्टान्यामयानान्तु सर्व्वेषामेव भेषजम् ॥
दोषजोऽस्त्यामयः कश्चिद्यस्यैतानि भिषग्वर ! ।न स्युः शक्ता निशमने साध्यस्य क्रियया ततः ॥
अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम् ।सलिङ्गं भेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः” ॥
* ॥
निदानं सम्प्राप्तिलक्षणे च यथा ॥
“स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः ।द्रव्यशुष्कदधिक्षीरात्युग्रानूपौदकामिषैः ॥
पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः ।लङ्घनाध्यशनायासभयवेगविधारणैः ॥
स्नेहाच्चामञ्चितङ्कोष्ठे वातादीन् मेदसा सह ।रुद्ध्वाशु गौरवादूरू यात्यधोगैः शिरादिभिः ॥
पूरयन् सक्थिजङ्घोरुदोषो मेदोबलोत्कटः ।अविधेयं परिस्पन्दं जनयत्यल्पविक्रमम् ॥
महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा ।तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः ॥
गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः ।भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् ॥
गुरुः श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु ।स्तम्भयेत् स्थैर्य्यशैत्याभ्यामूरुस्तम्भस्ततो मतः” ॥
पूर्व्वरूपाणि यथा ॥
“प्राग्रूपं ध्याननिद्रातिस्तैमित्यानोचकज्वराः ।रोमहर्षश्च छर्द्दिश्च जङ्घोर्व्वोः सदनन्तथा” ॥
अन्यदत्रैव प्रागुक्तम् ॥
* ॥
चिकित्सा-यथा ॥
“तस्य न स्नेहनं कार्य्यं न वस्तिर्न विरेचनम् ।न चैव वमनं यस्मात्तन्निबोधत कारणम् ॥
वृद्धये श्लेष्मणो नित्यं स्नेहनं वस्तिकर्म्म च ।तत्स्थस्योद्धरणे चैव न समर्थं विशोधनम् ॥
श्लेष्मस्थानगतः श्लेष्मा पित्तञ्च वमनात्सुखम् ।हर्त्तुमामाशयस्थौ च स्रंसनात्तावुभावपि ॥
पक्वाशयस्थाः सर्व्वेऽपि वस्तिभिर्मूलनिर्जयात् ॥
शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिताः ॥
वातस्थाने हितं शैत्यात्तयोस्तम्भाच्च तद्गताः ।न शक्याः सुखमुद्धर्त्तुं जलं निम्नादिव स्थलात् ॥
तस्य संशमनं कुर्य्यात् क्षपणं शोधनन्तथा ।आधिक्यादामकफवोर्युक्त्यपेक्षः सदा भिषक् ॥
सदा रूक्षोपचाराय यवश्यामाककोद्रवान् ।शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः ॥
सुनिषण्णकनिम्बार्कवेत्रारम्बधपल्लवैः ।वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः ॥
क्षारारिष्टप्रयोगैश्च हरीतक्यास्तथैव च ।मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः ॥
समङ्गा शाल्मली विल्वं मधुना सह नापिबेत् ।तथा ग्रीवेष्टकोदीच्यदेवदारुनतान्यपि ॥
चन्दनं धातकीकुष्ठं तालीशं नलदन्तथा ।मुस्तं हरीतकी लोध्रं पद्मकं तिक्तराहिणी ॥
देवदारु हरिद्रे द्वे वचा कटुकरोहिणी ।पिप्पली पिप्पलीमूलं सरलं देवदारु च ॥
चव्यं चित्रकमूलानि देवदारु हरीतकी ।भल्लातकं समृला च पिप्पली पञ्च तान् पिबेत् ॥
सक्षौद्रानर्द्धश्लोकोक्तान् कल्कानूरुग्रहापहान्” ॥
“मूर्व्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम् ।पूर्व्ववद्वा पिबेत्तोये रात्रिस्थितमथापि वा ॥
स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम् ।सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम् ।लेहयेन्मधुना चूर्णं मक्षौद्रं वा जलप्लुतम्” ॥
“अपतर्पणजश्च स्याद्दोषः सन्तर्पयेत्तु तम् ।युक्त्या जाङ्गलर्जर्मासैः पुराणैश्चैव शालिभिः ॥
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्त्तिपूर्व्वकः ।स्नेहस्वेदक्रमस्तत्र कार्य्यो वातामयापहः” ॥
“कुष्टं श्रीवंष्टकोदीच्यं सरलं दारुकेशरम् ।अजगन्धाश्वगन्धा च तैलन्तैः सार्षपं पचेत् ।सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्द्दितः पिबेत्” ॥
इति कुष्ठाद्यं तैलम् ॥
* ॥
“पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः ।तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः” ॥
इति अष्टकट्वरं तैलम् ॥
* ॥
“इत्यभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् ।श्लेष्मणः क्षपणन्त्वन्यद्वाह्यं शृणु चिकित्सितम् ॥
वल्मीकमृत्तिकामूलं करञ्जात् सफलत्वचम् ।इष्टकानां ततश्चूर्णैः कुर्य्यादुत्सादनं भृशम् ॥
मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् ।पिचुमर्द्दस्य वा मूलैरथवा देवदारुणः ॥
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् ।गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम्” ॥
“श्योनाकं खदिरं विल्वं वृहत्यौ सरलासनौ ।अग्निमन्थाढकीशिग्रुश्वदंष्ट्रासुरसार्जकान् ॥
तर्कारीं नक्तमालञ्च जलेनोत्क्वाथ्य सेचयेत् ।प्रलेपो मूत्रपिष्टैर्वाप्यूरुस्तम्भनिवारणः ॥
कफक्षयार्थं व्यायामेष्वेनं शक्येषु चोत्सृजेत् ।स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा ॥
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम् ।सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् ।श्लेष्मणः क्षपणं यत्स्यान्न च मारुतकोपनम् ॥
तत् सर्व्वं सर्व्वदा कार्य्यमूरुस्तम्भस्य भेषजम् ।शरीरं बलमग्निञ्च कार्य्यैषा रक्षता क्रिया” ॥
इति चरके चिकित्सास्थाने २७ अध्यायः ॥
* ॥
“निष्कत्रयं शुद्धसूतं निष्कद्वादशगन्धकम् ।गुञ्जावीजञ्च षण्णिष्कं निम्ववीजं जया तथा ॥
प्रत्येकं निष्कमात्रन्तु निष्कं जैपालवीजकम् ।जया जम्बीरधुस्तूरकाकमाचीद्रवैर्दिनम् ॥
भावयित्वा वटीं कृत्वा दद्याद्गुञ्जाचतुष्टयम् ।गुञ्जाभद्ररसो नाम हिङ्गुसैन्धवसंयुतः ॥
शमयत्यूर्द्ध्वगं दुःखमूरुस्तम्भं सुदारुणम्” ॥
इति गुञ्जाभद्रो रसः ॥
इति वैद्यकरसेन्द्रसार-संग्रहे ऊरुस्तम्भाधिकारः ॥
* ॥
)
वाचस्पत्यम्
Sanskritऊरुस्तम्भ ऊरू स्तभ्राति स्तन्भ--अण् उप० स० । १ रोगभेदेस च रोगः भावप्र० सनिदानपूर्वरूपादिर्दर्शितः यथा“शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः । जीर्णाजीर्णत-यायाससंक्षोभस्वप्नजागरैः । सश्लेष्ममेदःपवनः साम-मत्यर्थसञ्चितम् । अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ।शक्थ्यस्थिनी प्रपूर्य्यान्तः श्लेष्मणा स्तिमितेन सः । तदा स्त-भ्नाति तेनोरूस्तब्धौ शीतावचेतनौ । परकीयाविव गुरू स्यातामतिशयव्यथौ । ध्यानाङ्गमर्द्दस्तैमित्यतन्च्छर्द्यरुचिज्वरैः ।संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः । तमूरुस्तम्भमित्याहुराढ्यपादमथाप” “प्राग्रूपं तस्य निद्रा ऽतिध्यानं स्तिमि-तता ज्वरः । रोमहर्षोऽरुचिच्छर्द्दिर्जङ्घोर्वोः सदनं तथा ।वातशङ्किभिरज्ञानात्तत्र स्यात् स्वेहनात् पुनः । पादयोःसदनं सुप्तिः कृच्च्राद्युद्धरणं तथा । जङ्घोरुग्लानिरत्यर्थंशश्वदादाहवेदना । पदं च व्यथते न्यस्तं शीतस्पर्शं नवेत्ति च । संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः ।अन्यनेयौ हि सम्भग्नाषूरुपादौ च मन्यते । यदा दा-हार्त्तितोदादौ वेपनः पुरुषो भवेत् । ऊरुस्तम्भस्तदा ह-न्यात् साधयदन्यथा नवम्” अन्यथा दाहाद्युक्तोपद्रवरहितंतमपि नवमुत्पन्नमात्रं साधयेत् । सात्विकभावेन २ ऊ-र्वोःस्तम्भे च । “करिणीवोरुस्तम्भविधृता” काद० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
