| YouTube Channel

ऊरुजः (UrujaH)

 
E Bharati Sampat
Sanskrit
(पुं) ऊरोर्जायते | ऊरु+जनी(प्रादुर्भावे)+डः। ‘अन्येष्वपि दृश्यते’ ३.२.१०१। १.वैश्यः। (स्त्री) ऊरुजी ऊरुजन्मन् २.भृगुवंशस्य एकः ऋषिः। (वि) ऊरौ जातः।
Wordnet
Sanskrit
Synonyms:
वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकः
noun
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयः वर्णः यस्य प्रमुखं कर्म व्यापारः अस्ति।
"विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्ययनसम्पन्नः वैश्य इति संज्ञितः॥ [गारुडे ४६ अध्यायः]"
Synonyms:
वैश्यः, वणिकः, पणिकः, व्यवहर्ता, ऊरव्यः, ऊरुजः, अर्यः, भूमिस्यृक्, विट्, द्विजः, भूमिजीवी, वार्तिकः
noun
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
"चारुदत्तः वैश्यः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
ऊरुजः
पुं,
(ऊरोर्जायते इति ऊरु + जन् + ।)बैश्यः तु ब्रह्मण ऊरुभ्यां जातः इत्यमरः
(यथा, विष्णुपुराणे ।रजसा तमसा चैव समुद्रिक्तास्तथोरुजाः” ।भृगुवंशीय ऋषिभेदः और्व्व इति नाम्नाख्यातः तस्य जन्मकथा और्व्वशब्दे द्रष्टव्या
)