| YouTube Channel

उष्णिक् (uSNik)

 
Wordnet
Sanskrit
Synonyms:
उष्णिक्
noun
वैदिकछन्दोविशेषः।
"उष्णिकः प्रत्येकस्मिन् चरणे सप्त वर्णाः भवन्ति।"
पुराणम्
English
उष्णिक् / UṢṆIK. One of the seven horses of the Sun. The seven horses of the Sun are, gāyatrī, bṛhatī, uṣṇik, jagatī, triṣṭup, anuṣṭup, and Paṅkti. (viṣṇu purāṇa, aṁśa 2, Chapter 8).
शब्दकल्पद्रुमः
Sanskrit
उष्णिक्, [ह्]
स्त्री,
(उत् + स्निह् + क्विन् निपा-तनात् उपसर्गान्तलोपः षत्वं ।) सप्ताक्षर-च्छन्दः (यथा छन्दोमञ्जर्य्यां, --“उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्व्विका ।गायत्र्युष्णिगनष्टुप् वृहती पङ्क्तिरेव च”
उष्णिक्सप्ताक्षरा वृत्तिः सा त्रिधा मधुमती-कुमारललिता-मदलेखाभेदात् उदाहरणपूर्व्वकंतल्लक्षणं यथा तत्रैव “ननगि मधुमती” ।“रविदुहितृतटे वनकुसुमनतिः ।व्यधित मधुमती मधुमथनमुदम्”
“कुमारललिता जस्गाः”
“मुरारितनुवल्ली कुमारललिता सा ।व्रजैणनयनानां ततान मुदमुच्चैः”
“मस्गौ स्यान्मदलेखा”
) “रङ्गे बाहुविरुग्नात्कुम्भीन्द्रान्मदलेखा लग्नाभून्मुरशत्रोः कस्तूरी-रसचर्च्चा”