| YouTube Channel

उशीनरः (uzInaraH)

 
E Bharati Sampat
Sanskrit
(पुं) १.यदुवंशस्य राजविशेषः। ‘उशीनरस्य विक्रान्तौ वृष्णयस्ये प्रकीर्तिताः’ भा०। २.चन्द्रवंशस्य राजविशेषः। ययातिपुत्रीमाधव्याः पतिः, शिबिचक्रवर्तिनः पिता ३.उशीनरदेशः। ४.उशीनरदेशजनाः।
शब्दकल्पद्रुमः
Sanskrit
उशीनरः,
पुं,
(उशीप्रदो वाञ्छाप्रदो नरो यत्र ।)देशभेदः तत्पर्य्यायः गान्धारः इति जटा-धरः
चन्द्रवंशोद्भवराजविशेषः तु शिवि-राजपिता इति श्रीभागवतम्
(पुरुवंशीयोनृपभेदः यथा महाभारते श्येनकपोतीये ।१३० २१-२३ ।“उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत
तां देवसमितिं तस्य वासवश्च विशाम्पते ।अभ्यगच्छन्नृपवरं ज्ञातुमग्निश्च भारत
जिज्ञासमानौ वरदौ महात्मानमुशीनरं ।इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः”
तस्य चारित्रं तत्रैव १३१ अध्याये द्रष्टव्यम्
)