| YouTube Channel

उशिक् (uzik)

 
E Bharati Sampat
Sanskrit
(पुं)(उशिज्) वष्टि उश्यते वा वश(कान्तौ)+इजिः। उ०२.७१, सम्प्र०। १.अग्निः। २.घृतम् ‘उशिगग्नौ घृतेऽपि च’ सि०कौ०।
पुराणम्
English
उशिक् / UŚIK I. A hermit about whom mention is made in the ṛgveda.
उशिक् / UŚIK II. One uśik as the wife of the hermit dīrghatamas is mentioned in the ṛgveda Maṇḍala 1, Anuvāka 16, Sūkta 112. This Usik was the maid of the queen of the old King of kaliṅga. The king requested dīrghatamas to beget children by his queen. The queen did not like this. She sent her maid Usik to dīrghatamas. The hermit kakṣīvān was the son born to dīrghatamas by uśik. (ṛgveda, Maṇḍala 1, Anuvāka 18, Sūkta 125).
शब्दकल्पद्रुमः
Sanskrit
उशिक्, त्रि, (वश कान्तौ + इजि + सम्प्रसारणम् ।)कमनीयम्
“न यद्वचश्चित्रपदं हरेर्यशोजगत्पवित्रं प्रगृणीत कर्हिचित् ।तद्वायसं तीर्थमुशन्ति मानसाःन यत्र हंसा निरमन्त्युशिक्क्षयाः”
इति श्रीभागवते स्कन्धे अध्यायः “चित्रपद-मपि यद्वचो हरेर्यशो प्रगृणीत तद्वायसं तीर्थंकाकतुल्यानां कामिनां रतिस्थानं उशन्ति मन्यन्तेकुतः मानसाः सत्त्वप्रधाने मनसि वर्त्तमाना हंसाःयतयो यत्र निरमन्ति कर्हिचिदपि नितरां नरमन्ते उशिक्क्षयाः उशिक् कमनीयं ब्रह्मक्षयो निवासो येषां ते यथा प्रसिद्धा हंसाःमानससरसि चरन्तः कमनीयपद्मषण्डनिवासा-स्त्यक्तविचित्रान्नादियुक्ते उच्छिष्टगर्त्ते काकक्रीडा-स्थाने रमन्ते इति शेषः” इति तट्टीकायांश्रीधरस्वामी
(कामयमानम् यथा ऋग्वेदे१ १३१ “आदित्ते अस्य वीर्य्यस्य चर्किर-न्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदा-विथ” “उशिजो धर्म्मं कामयमानाः जनाः” ।इति भाष्यम्
)