| YouTube Channel

उशनसस्तोम (uzanasastoma)

 
वाचस्पत्यम्
Sanskrit
उशनसस्तोम
पु०
उशनसः स्तोमो यत्र अलुक्समा०वा विसर्गस्य लुक् एकाहसाध्ये यागभेदे “उशनसस्तोमेनगरगीर्ण्णमिवात्मानं मन्यमानो यजेत” आ० श्रौ० ९, ५, ।“उशनसस्तोमोनाम एकाहसाध्यः पुनः स्तोम इति चास्यैवसंज्ञा गरोविषं गीर्णो येन गरगीर्ण्णः यो बहुप्रति-ग्रहादिना पापादिभयात् गरगीर्णमिवात्मानं मन्यते सएतेन यजेत” नारा० वृ० “उशना यत् सहस्यैरयातंत्वमपोयदवेतुर्वशायेति सूक्तमुखीये” इति तत्रैव सूक्तप्रार-म्भः सूत्रे उक्तः