| YouTube Channel

उल्लोप्य (ullopya)

 
Monier Williams Cologne
English
उल्-लोप्य
n.
a kind of song,
Yājñ.
Monier Williams 1872
English
उल्लोप्य उल्-लोप्य, अम्, n. (rt. लुप्), N. of a
song.
वाचस्पत्यम्
Sanskrit
उल्लोप्य
न०
उद् + लुप--यत् लौकिकगीतिभेदे तच्चमिताक्षरायां दर्शितं यथा ।“यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौ नाभि-रमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह “यथाविधा-नेन पठत् सामगायमविच्युतम् सावधानस्तदभ्यासात्प-रं ब्रह्माधिगच्छति” या० “स्वाध्यायावगतमार्गानतिक्रमेणसामगायं साम्नोगानात्मकत्वेऽपि गायमिति विशेषणम्अगोतमन्त्रव्युदासार्थम् अविच्युतमक्खलितम् साव-धानः समाध्यनुष्यूतात्मैकाग्य्रचित्तवृत्तिः पठन् त-दभ्यासवशात्तत्र निष्णातः शब्दाकारशून्योपासने पर-म्ब्रह्माधिगच्छति तदुक्तम् “शब्दब्रह्मणि निष्णातःपरं ब्रह्माधिगच्छतीति” यस्य पुनर्वौदक्याङ्गीतौ चित्तंनाभिरमते तेन लीकिकगीतानुष्यूतात्मोपासनङ्कार्य्यमि-त्याह “अपरान्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा औवे-णकं सरोविन्दु मुत्तरङ्गीतकानि ऋग्गाथापाणिकादक्षविहिता ब्रह्मगीतिका गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्” या० “अपरान्तकोल्लोप्यभद्रकप्रकर्य्यौवेणकानिसरोविन्दुकसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्तगीतकानि चशब्दादासारितबर्द्धमानकादि गीतकानिगृह्यन्ते गाथाद्याश्चतस्रोगीतकानि गृह्यन्ते ऋग्गाथा-द्याश्चतस्रोगीतिका इत्येतदपरान्तकादिगीतजातमध्या-रोपितात्मभावम्मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् ।तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकतापत्तिहेतुत्वात् ।“चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाह “गी-तज्ञो यदि योगेन नाप्नोति परमम्पदम् रुद्रस्यानुचरोभूत्वासह तेनैव मोदते” या० “गीतज्ञोयदि कथञ्चिद्योगेनपरमम्पदन्न प्राप्नोति तर्हि रुद्रस्य सचिवोभूत्वा तेनैवसह मोदते”