| YouTube Channel

उल्काचक्र (ulkAcakra)

 
Monier Williams Cologne
English
उल्का—चक्र
n.
(in
astrol.
) a particular position of the stars, Rudrayāmala (T. )
वाचस्पत्यम्
Sanskrit
उल्काचक्र
न०
रुद्रयामलोक्ते ग्राह्यमन्त्रशुभाशुभज्ञापकचक्रभेदे “उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम् ।मत्स्याकारमूर्द्ध्वमुखं सर्वमन्त्रादिविग्रहम् स्कन्धदेशावधिनाथ! पुच्छपर्यन्तमेव अकाराक्षरमारभ्य द्वादशा-क्षरमातृकम् विलिखेत् पृष्ठदेशं तु शुभाशुभविशुद्धये ।त्रयोदशाक्षरान्नाथ! एकविंशाक्षरान्तकम् नेतव्यंसाध-कैर्मन्त्रं पृष्ठस्थं समुदाहृतम् तथा श्रीशुभदं प्रोक्तं क-ण्ठादिपुच्छकान्तकम् द्वाविंशादि चतुस्त्रिंशदक्षरान्तंशुभं मनुम् पुच्छस्थं नापि गृह्णीयान्मुखस्थञ्च तथाध्रुवम् शीर्षस्थञ्चापि गृह्णीयात् तदक्षरं शृणुप्रभो! पञ्चत्रिंशादि द्वाचत्वारिंशद्वर्णान्तमेव मस्त-कस्थं शुभं प्रोक्तं मुखवर्णान् शृणु प्रभो त्रिचत्वारिं-शवर्णादि एकपञ्चाशदन्तकम् मुखस्थमन्त्रं मन्त्री तु नगृह्णीयात् कदाचन पुच्छस्थं शृणु यत्नेन निरर्थकमहा-र्त्तिदम् भ्रमो गात्रस्य पीडाभिः देवता कुप्यतेऽनिशम् ।द्विपञ्चाशदक्षरादि एकपष्टितमान्तिकान् वर्णान् पुच्छ-स्थितान् प्रोक्तान् नेत्रस्थान् शृणु वल्लभ! द्विषष्टितमव-र्ण्णादि चतुषष्ठ्यक्षरान्तकम् अङ्गं लोचनमन्त्रञ्च त-तोऽन्यत् रसनास्थितम् तत् सर्वं शुभदं प्रोक्तं एतदन्यतमशृणु वैष्णवानाञ्च शैवानां शाक्तानां मन्त्रजापनम् ।अन्यदेवेषु भक्तानां भक्तिमुक्तिप्रदं नृणाम्” “एतच्च चतु-षष्टिस्त्रिषष्टिर्वा वर्ण्णाः सम्भवतोमताः स्वराविंशतिरेकश्चस्पर्शानां पञ्चविंशतिः यादयश्च स्मृताश्चाष्टौ चत्वारश्चयमास्तथा अनुस्वारो विसर्गश्च + कँपौ चापि पराश्रितौ ।दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च” इति शिक्षो-क्तविभागाभिप्रायं चतुःषष्टेरन्यकथनम् कॢकारस्य दीर्घ-सत्त्वमतेनेति बोध्यम्