| YouTube Channel

उलूकः (ulUkaH)

 
Apte
English
उलूकः [ulūkḥ], 1 An owl
नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्
Bh.*
2.93
त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः
Śi.*
11.64.
cf.
also कथमुलूकशब्द उलूकवचनः रल्योः समान- वृत्तित्वात् ŚB. on MS.* 9.4.22.
N.
of Indra.
N.
of a Muni (perhaps identical with कणाद, whose वैशेषिक- दर्शन is called आलूक्य-दर्शन).
(pl. )
N.
of a country and its king who was an ally of the Kurus.
कम्
N.
of the reed Saccharum Cylindricum
see उलप.
Fat
वनिष्टुसन्निधानादुरूकेण वपाभिधानम् (v. l. ) MS.* 9.4.22. -जित् A crow. -यातुः A demon in the shape of an owl
उलूकयातुं शुशुलूकयातुम्
Rv.*
7.14.22.
Apte 1890
English
उलूकः 1 An owl
नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणं Bh. 2. 93 त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः Śi. 11. 64.
2 N. of Indra.
3 (pl.) N. of a country and its king who was an ally of the Kurus.
कं N. of the reed Saccharum Cylindricum
see उलप.
Hindi
Hindi
उल्लू (पु)
Apte Hindi
Hindi
उलूकः
पुं*
- वल्+ऊक् संप्रसारण
उल्लू
उलूकः
पुं*
- वल्+ऊक् संप्रसारण
इन्द्र
उलूकः
पुं*
- "वल्+ऊ, संप्रसारण"
एक ऋषि जिसे वैशेषिक का कर्ता कणाद समझा जाता है
E Bharati Sampat
Sanskrit
(पुं) वल(संवरणे)+ऊकः। उ०४.४१, सम्प्रसारणम् निपातनं १.गूबे. ‘कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजसिमृदमुलूकः प्रीतिमांश्चक्रवाकः’ माघः११.६४। २.इन्द्रः। ३.दुर्योधनदूतः योद्धः
Wordnet
Sanskrit
Synonyms:
इन्द्रः, देवराजः, जयन्तः, ऋषभः, मीढ्वान्, मरुत्वान्, मघवा, विडोजा, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित्, वज्री, वासवः, वृत्रहा, वृषा, वास्तोस्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्भभेदी, हरिहयः, स्वाराट्, नमुचिसूदनः, संक्रन्दनः, दुश्च्यवनः, तुराषाट्, मेघवाहनः, आखण्डलः, सहस्त्राक्षः, ऋभुक्षा, महेन्द्रः, कोशिकः, पूतक्रतुः, विश्वम्भरः, हरिः, पुरुदंशा, शतधृतिः, पृतनाषाड्, अहिद्विषः, वज्रपाणिः, देवराजः, पर्वतारिः, पर्यण्यः, देवताधिपः, नाकनाथः, पूर्वदिक्कपतिः, पुलोमारिः, अर्हः, प्रचीनवर्हिः, तपस्तक्षः, बिडौजाः, अर्कः, उलूकः, कविः, कौशिकः, जिष्णुः
noun
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
"वेदेषु इन्द्रस्य सूक्तानि सन्ति।"
Synonyms:
उलूकः, ऊलूकः, पेचकः, कौशिकः, वायसारातिः, दिवान्धः, दिवाभीतः, निशाटः, नक्तञ्चरः, निशादर्शी, नक्तचारू, रजनीचरः, काकभीरुः, कावरुकः, घूकः, वक्रनासिका, रक्तनासिकः
noun
पक्षिविशेषः यः निशायाम् अटति।
"उलूकः निशाचरः अस्ति।"
Synonyms:
उलूकः
noun
एकः राजा
"उलूकः उलूकानां राजा आसीत्"
Synonyms:
उलूकः
noun
नागविशेषः
"उलूकस्य वर्णनं सुपर्णाध्याये वर्तते"
Synonyms:
उलूकः
noun
एका जातिः
"उलूकस्य वर्णनं महाभारते वर्तते"
Synonyms:
उलूकः
noun
एकः मुनिः
"उलूकस्य औलूक्यदर्शनम् ख्यातम् अस्ति"
Synonyms:
उलूकः
noun
एकः जनसमुदायः
"उलूकानाम् उल्लेखः महाभारते हरिवंशे अस्ति"
वैजयन्तीकोषः
Sanskrit
Word: उलूकः
Root: उलूक
Gender: पुं
Number: all
अर्थः उलूकः इति पक्षिविशेषः
Meaning(s):
Hooting-owl
Shloka(s):
2|3|22|1 उलूकः पेचकः कोण्ठः काकारिर्हरिलोचनः। (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|22|2 नक्तञ्चरो घर्घरको निशादर्शी बहुस्वनः॥ (अन्तरिक्षकाण्डः/खगाध्यायः)
2|3|23|1 महापक्षी कृष्णोऽसौ नक्तकः कृतमालकः। (अन्तरिक्षकाण्डः/खगाध्यायः)
Synonym(s):
2|3|22|1 उलूकः (उलूक) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|1 पेचकः (पेचक) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|1 कोण्ठः (कोण्ठ) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|1 काकारिः (काकारि) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|1 हरिलोचनः (हरिलोचन) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|2 नक्तञ्चरः (नक्तञ्चर) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|2 घर्घरकः (घर्घरक) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|2 निशादर्शी (निशादर्शिन्) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|22|2 बहुस्वनः (बहुस्वन) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
2|3|23|1 महापक्षी (महापक्षिन्) (पुं) Hooting-owl उलूकः इति पक्षिविशेषः
Related word(s):
परा_अपरासंबन्धः नक्तकः
जातिः पक्षी
Tamil
Tamil
உலூக: : ஆந்தை, இந்திரன், ஒரு முனிவரின் பெயர்.
अमरकोशः
Sanskrit
Word: उलूकः
Root: उलूक
Gender: पुं
Number: all
Meaning(s):
owl
name of a muni
name of a nAga
name of a king, name of the ulUkas
Shloka(s):
2|5|15|1 पत्री श्येन उलूकस्तु वायसारातिपेचकौ। (सिंहादिवर्गः)
2|5|15|2 दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। (सिंहादिवर्गः)
Synonym(s):
2|5|15|1 उलूकः (उलूक) (पुं) owl, name of a muni, name of a nAga, name of a king, name of the ulUkas
2|5|15|1 वायसारातिः (वायसाराति) (पुं)
2|5|15|1 पेचकः (पेचक) (पुं) bed, owl, couch, louse, cloud, tip or the root of an elephant's tail
2|5|15|2 दिवान्धः (दिवान्ध) (पुं)
2|5|15|2 कौशिकः (कौशिक) (पुं) owl, love, marrow, silken, passion, sheathed, having paws, kind of seed, an ichneumon, lexicographer, name of gAdhi, coming from an owl, relating to kuzika, interpolation after, forming a receptacle, name of bhadrazarman, one who catches snakes, one who is versed in dictionaries, shala tree [ Shorea robusta - Bot. ], fragrant resin of Guggul tree [Commiphora wightii - Bot.]
2|5|15|2 घूकः (घूक) (पुं)
2|5|15|2 दिवाभीतः (दिवाभीत) (पुं) owl, thief, timid by day, flower closing itself by day
2|5|15|2 निशाटनः (निशाटन) (पुं)
Related word(s):
परा_अपरासंबन्धः पक्षी
जातिः पक्षी
शब्दकल्पद्रुमः
Sanskrit
उलूकः,
पुं,
(उचतीति, उच समवाये, उलूकादय-इति साधु, यद्वा वलते, उलूकादित्वात् वलेः सम्प्र-सारणम् ऊकश्च ।) पेचकपक्षी इत्यमरः
तत्-पर्य्यायः तामसः घूकः दिवान्धः कौ-शिकः कुशिः नक्तञ्चरः निशाटः का-कारिः घोरदर्शनः १० इति राजनिर्घण्टः
(“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” ।इति माघे ११ ६४ तथा, मनुः ११ १३१ ।“श्वगोधोलूककाकांश्च शूद्रहत्याव्रतञ्चरेत्”
)इन्द्रः (“उलूकाविन्द्रपेचकौ” इत्युणादिवृत्तिः ।४ ४१ ।) भारतयोधी सच शकुनिपुत्त्रः इतिहेमचन्द्रः
(यथा, महाभारते ।“आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ।उलूक गच्छ कैतव्य ! पाण्डवान् सहसोमकान्”
विश्वामित्रपुत्त्रः यथा, भारते १३ ५१ ।“उलूकोऽथ मुद्गलश्च तथर्षिः सैन्धवायनः” ।)उलूकदेशवासिनि त्रि यथा, महाभारते ।२७ ११ ।“उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्”
)
कृदन्तरूपमाला
Sanskrit
1 {@“लोकृ दर्शने”@} 2 ‘दर्शने लोकते लोकेर्भाषार्थे णौ तु लोकयेत्।।’ 3 इति देवः।
लोककः-किका, लोककः-किका, लुलोकिषकः-षिका, लोलोककः-किका
लोकिता-त्री, लोकयिता-त्री, लुलोकिषिता-त्री, लोलोकिता-त्री
लोकन्-न्ती, लोकयन्-न्ती, लुलोकिषन्-न्ती
-- लोकिष्यन्-न्ती-ती, लोकयिष्यन्-न्ती-ती, लुलोकिषिष्यन्-न्ती-ती
-- लोकमानः, लोकयमानः, लुलोकिषमाणः, लोलोक्यमानः
लोकिष्यमाणः, लोकयिष्यमाणः, लुलोकिषिष्यमाणः, लोलोकिष्यमाणः
लोक्-लोग्-लोकौ-लोकः
-- -- -- लोकितम्-तः, लोकितः, लुलोकिषितः, लोलोकितः-तवान्
लोकः, आलोकः, अवलोकः
-- -- -- 4 उलूकः, लोकनः, विलोकः, प्रलोकी, भयलोकी, लोकः, लुलोकिषुः, लोलुकः
लोकितव्यम्, लोकयितव्यम्, लुलोकिषितव्यम्, लोलोकितव्यम्
लोकनीयम्, लोकनीयम्, लुलोकिषणीयम्, लोलोकनीयम्
लोक्यम्, लोक्यम्, लुलोकिष्यम्, लोलोक्यम्
ईषल्लोकः-दुर्लोकः-सुलोकः
-- -- -- लोक्यमानः, लोक्यमानः, लुलोकिष्यमाणः, लोलोक्यमानः
लोकः, लोकः, लुलोकिषः, लोलोकः
5 लोकितुम्, लोकयितुम्, लुलोकिषितुम्, लोलोकितुम्
लोका, लोकना, लुलोकिषा, लोलोका
लोकनम्, आलोकनम्- 6 अवलोकनम्, लोकनम्, लुलोकिषणम्, लोलोकनम्
लोकित्वा, लोकयित्वा, लुलोकिषित्वा, लोलोकित्वा
7 आलोक्य, आलोक्य, आलुलोकिष्य, आलोलोक्य
लोकम् २, लोकित्वा २, लोकम् २, लोकयित्वा २, लुलोकिषम् २, लुलोकिषित्वा २, लोलोकम्
लोलोकित्वा २।
प्रासङ्गिक्यः
01
=>
(१५२०)
02
=>
(१-भ्वादिः-७६। सक। सेट्। आत्म।)
03
=>
(श्लो। ४०)
04
=>
[[१। ‘उलति नेत्राभ्यां दहति उलूकः। ऊर्ध्वालोकनादिति निरुक्तम्’ इति अमर- टीकायां क्षीरस्वामिना उक्तम्। द। उ। वृत्तौ तु (३-४६) ‘उत्क्रम्य दृष्टि- विषयमालोकयतीति उलूकः कौशिकः’ इत्येवं दृश्यते। अत्राहोज्ज्वलदत्तः-- ‘सर्वस्वे तु ऊर्ध्वौ कर्णावस्येति पृषोदरादित्वात् उलूक इत्यपि साधितम्’ इति।]]
05
=>
[पृष्ठम्११७९+ २३]
06
=>
[[आ। ‘अक्लिन्दनीयान् शुधितात्मनो जनान् प्रशीकते यः करुणावलोकनैः।’ धा। का। १-११।]]
07
=>
[[B। ‘आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।’ शि। वि। ९-८४।]]