| YouTube Channel

उरोहस्त (urohasta)

 
Spoken Sanskrit
English
उरोहस्त - urohasta -
n.
- mode of boxing or wrestling
Monier Williams Cologne
English
उरो—हस्त
n.
a mode of boxing or wrestling (बाहुयुद्ध-भेद),
T.
वाचस्पत्यम्
Sanskrit
उरोहस्त
न०
उरसि हस्तश्चपेटाघातोयत्र बाहुयुद्धभेदेबाहुयुद्धप्रकारः भा० स० २२ अ० दर्शितः यथा“करग्रहणपूर्वन्तु कृत्वा पादाभिवादनम् कक्षैः कक्ष्यां वि-धुन्वानावास्फोटं तत्र चक्रतुः स्कन्धे दोर्भ्यां समाहत्य-निहत्य मुहुर्मुहुः अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनंविभो! चित्रहस्तादिकं कृत्वा कक्ष्याबन्धं चक्रतुः ।गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् बाहुपाशा-दिकं कृत्वा पादाहतशिराबुभौ उरोहस्तं ततश्चक्रेपूर्णकुम्भौ प्रयुज्य तौ करसंपीडनं कृत्वा गर्जन्तौवारणाविव दुर्दान्तौ मेघसङ्काशौ बाहुप्रहरणाबुभौ त-लेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ सिंहाविव सुसंक्रुद्धावाकृष्याकृष्य युध्यतम् अङ्गेनाङ्गं समापीड्य-बाहुभ्यामुभयोरपि आवृत्य बाहुभिश्चापि उदरं चप्रचक्रतुः उभौ कढ्यां सुपार्श्वे तु तक्षवन्तौ शि-क्षितौ अधोहस्तं स्वकण्ठे तूदरस्यीरसि चाक्षिपत् ।सर्वातिक्रान्तमर्य्यादं पृष्ठभङ्गञ्च चक्रतुः संपूर्ण्णमूर्द्धा बाहु-भ्यां पूर्णकुम्भं प्रचक्रतुः तृणपीडं यथाकामं पूर्णयोगंसमुष्टिकम् एवमादिनियुद्धानि प्रकुर्वन्तौ परस्परम्” ।व्याख्यातञ्चैतत् नीलकण्ठेन “कक्षैः दौर्मूलैः कक्ष्यांप्रकोष्ठगतां रज्जुं धुन्वानौ यतः तत्र कक्षै आस्फोटंचक्रतुः बाहुमूलास्फालनेन अङ्गदबन्धरज्जुशेषं कम्पय-न्तावित्यर्यः चित्रहस्तादिकं हस्तस्यातिवेगेन आकु-ञ्चनप्रसारणोपर्यधश्चालनमुष्टीकरणानि चित्रहस्ताः आ-दिपदात् पादस्याप्याकुञ्चनादि कक्ष्याबन्धं परस्परक-क्ष्यायां हस्तौ कृत्वा बन्धनम् गलेन नण्डेन भालदे-शेनाभिघातस्तेन पाषणसदृशाङ्गत्वात्तयोरभिघातेन वि-स्फुलिङ्गोत्पत्त्याऽशनिं वज्रमिव ससृजतुरित्यर्थः बाहुपा-शादिकं चरणपाश आदिशब्दार्थः पादाभ्याम् आहताःशिराः स्नायवोयाभ्यान्तौ दृढप्रहारौ नाडोपर्य्यन्तभपिवदनाबन्तावित्यर्थः उरोहस्तं उरसि चपेटाप्रहारम् ।पूर्ण्णकुम्भौ द्वित्वं परस्परं द्वावपि चक्रतुरिति वक्तुम् ।तलेन चपेटया आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिःबहुत्वाद्द्वावपि मिथः उदरम् आदाय प्रचक्रतुः प्रचिक्षि-पतुः कॄ विक्षेपेऽस्य छान्दसं रूपम् एवं कठ्यां सुपार्श्वेच प्रचक्रतुः तक्षवन्तौ तक्षस्तनूकरणं गात्रसङ्कोच इत्यर्थःतद्वन्तौ अधोहस्तं उदरस्याधस्तात् हस्तं कृत्वा हस्ताभ्या-मुदरमावेष्ट्य स्वकण्ठे स्वोरसि कण्ठोरःसमीपे अनीयआक्षिपत् आस्फालितवान् पृष्ठस्य भूसम्बन्ध जातंभङ्गं पराभवं वाहुभ्यां उदरादिनिपीडने सम्पूर्ण्णसूर्द्धातृणपीडं पूर्ण्णयोगं योगोविश्रब्धघातनं तच्च पूर्ण्णम् ।अत्यत्र मुष्टेः पातं प्रदर्श्य अन्यत्र पातनमित्यर्यः एवमा-दिनियुद्धानि पादाकर्षणशीर्षकक्ष्यीकरणादीनि”