| YouTube Channel

उरुः (uruH)

 
E Bharati Sampat
Sanskrit
(वि) ऊर्णोति ऊर्णुञ्(आच्छादने)+कुः। उ०१.३१। १.बृहत् ‘शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः’ किराता०५.४२। २.विस्तारम् ३.अधिकम् ‘स पिशङ्गजटावलिः किरन्नुरु तेजः परमेण मन्युना’ किराता०१५.४७। ४.श्रेष्ठम् (स्त्री) उर्वी ५.भूमिः। ‘शरवृष्टिं विधूयोर्वीं स्रग्विणो रक्तवाससः’मनुः ७.२५६।
शब्दकल्पद्रुमः
Sanskrit
उरुः, त्रि, (उर्णौति ऊर्णू + “महति ह्रस्वश्च”४ ३२ इति उणादिसूत्रेण कुः नुलोपोह्रस्वश्च ।) महान् वड इति भाषा तत्पर्य्यायः ।वड्रम् विपुलम् विशङ्कटम् पृथु वृहत् ६विशालम् पृथुलम् महत् इत्यमरः
विस्तीर्णम् १० विकटम् ११ इति जटाधरः
(यथा, महाभारते सौपर्णे २१ १८ ।“विलीर्णं ददृशतुरम्बरप्रकाशंतेऽगाधं निधिमुरुमम्भसामनन्तम्” ।बहुलम् यथा, ऋग्वेदे २९ “तुविजिताउरुक्षयां” “उरुक्षयो बहुनिवासौ” इतिभाष्यम्
)