| YouTube Channel

उभौ (ubhau)

 
Hindi
Hindi
दोनों
E Bharati Sampat
Sanskrit
(वि.द्वि) उभौ १.द्वयम् २.द्वौ/द्वे उभ(पूरणे)+कः। ‘इगुपधज्ञाप्रीकिरः कः’ ३.१.१३५। ‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्’ माघः३.८। (स्त्री) (न) उभे ‘उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् सा वा शम्भोस्तदीया वा जलमयी मम’ कुमार०२.६०।
अभिधानचिन्तामणिः
Sanskrit
--source--
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः
धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् १४२३
युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले
-wordlist-
राजि (स्त्री), लेखा (स्त्री), तति (स्त्री), वीथी (स्त्री), माला (स्त्री), आलि (स्त्री), आवलि (स्त्री), पङ्क्ति (स्त्री), धोरणी (स्त्री), श्रेणी (पुंस्त्री), उभौ (पुंद्वि), द्वौ (पुंद्वि), युगल (क्ली), द्वितय (क्ली), द्वय (क्ली), युग (क्ली), द्वैत (क्ली), यम (क्ली), द्वन्द्व (क्ली), युग्म (क्ली), यमल (क्ली), यामल (क्ली)
कृदन्तरूपमाला
Sanskrit
1 {@“उभ पूरणे”@} 2 ओभकः-भिका, ओभकः-भिका, 3 ओबिभिषकः-षिका
ओभिता-त्री, ओभयिता-त्री, ओबिभिषिता-त्री
4 उभन्-न्ती-ती, ओभयन्-न्ती, ओबिभिषन्-न्ती
ओभिष्यन्-न्ती-ती, ओभयिष्यन्-न्ती-ती, ओबिभिषिष्यन्-न्ती-ती
-- ओभयमानः, ओभयिष्यमाणः
उप्-उब्-उभौ-उभः
-- -- 5 6 उभितः, उभितम्-तवान्, ओभितः-तम्, ओबिभिषितः-तवान्
7 उभौ, ओभः, ओबिभिषुः, ओबिभयिषुः
ओभितव्यम्, ओभयितव्यम्, ओबिभिषितव्यम्
ओभनीयम्, ओभनीयम्, ओबिभिषणीयम्
ओभ्यम्, ओभ्यम्, ओबिभिष्यम्
ईषदोभः, दुरोभः, स्वोभः
-- उभ्यमानः, ओभ्यमानः, ओबिभिष्यमाणः
ओभः, ओभः, ओबिभिषः
ओभितुम्, ओभयितुम्, ओबिभिषितुम्
उब्धिः, ओभना, ओबिभिषा, ओनिभयिषा
ओभनम्, ओभनम्, ओबिभिषणम्
8 ओभित्वा, ओभयित्वा, ओबिभिषित्वा
प्रोभ्य, प्रोभ्य, प्रोबिभिष्य
ओभम् २, ओभित्वा २, ओभम् २, ओभयित्वा २, ओबिभिषम्
ओबिभिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०४)
02
=>
(४-तुदादिः-१३१९-सक। सेट्। पर।)
03
=>
[[४। उपधाकार्यं द्वित्वात् प्रबलम् इति पूर्वं लघूपधगुणः। अनन्तरं द्वितीयैकाचः ‘सन्यङोः’ (६-१-९) इति द्वित्वम्।]]
04
=>
[[५। शप्रत्ययस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङित्त्वात् लघूपधगुणो न।]]
05
=>
[पृष्ठम्०१०२+ २४]
06
=>
[[आ। ‘पीयूषोभितहेमकुम्भविशुभद्वक्षोजशुम्भत्तमा--’ धा। का। २-७५।]]
07
=>
[[१। ‘इगुपधज्ञा’ (३-१-१३५) इति कः। नित्यद्विवचनान्तः।]]
08
=>
[[२। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वाभावात् गुणः।]]