| YouTube Channel

उभयः (ubhayaH)

 
शब्दकल्पद्रुमः
Sanskrit
उभयः, त्रि, (उभौ अवयवौ अस्य उभ + तयप् ।उभादुदात्तो नित्यमिति ४४ तयपो-ऽयजादेशः कथमुभये देवमनुष्या इति यतोबहूनामुभावयवौ घटतः नैष दोषः अत्र हिद्वौ राशी समुदायस्यावयवौ एको देवानां अपरोमनुष्याणामिति उभादुदात्तो नित्यमिति नित्य-ग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दप्रयोगोमाभूत् उभयशब्दस्यैव यथा स्यादिति ।) युगलम् ।इति शब्दचन्द्रिका
दुइ इति भाषा (यथा, मनुः ५५
“पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति ।अपूजितन्तु तद्भक्तमुभयं नाशयेदिदम्”
)