| YouTube Channel

उप्तः (uptaH)

 
शब्दकल्पद्रुमः
Sanskrit
उप्तः, त्रि, (उप्यते स्म यः क्षेत्रादिषु वप् + क्ता ।)कृतवपनः वोना इति भाषा यथा, --“तद्वै धनुस्त इषवः रथो हयास्तेसोटहं रथी नृपतयो यत आनमन्ति ।सर्व्वं क्षणेन तदभूदसदीशरिक्तंभस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्”
इति श्रीभागवते स्कन्धे १५ २१
श्रीकृष्णवियोग एवात्र हेतुः नान्य इत्याह तद्वै इतियतो येभ्य ईशेन रिक्तं शून्यं असत् कार्य्याक्षमंसन्मन्त्रविधानैरपि भस्मनि हुतमिव भस्मन्नितिलुप्तसप्तम्यन्तं पदम् अतिप्रीतादपि कुहकान्मा-याविनः सकाशाद्राद्धं लब्धं यथा सम्यक्कर्षणा-दिनापि उषरभूमौ उप्तं वीजमिव” इति तट्टी-कायां श्रीधरस्वामी
*
कृतमुण्डनम् यथा --“सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणा” ।इति कात्यायनकृतच्छन्दोगपरिशिष्टेऽप्येवम् तदे-कश्रुतिमूलकत्वात् तद्धृतपारस्करीये पर्य्युप्त-शिरसमिति सूत्रेऽपि तथैवार्थः तद्भाष्यकृताहरिशर्म्मणापि परि सर्व्वतोभावेनोप्तशिरसंमुण्डितशिरसमिति व्याख्यातम्” इति प्राय-श्चित्ततत्त्वम्