| YouTube Channel

उपोषितः (upoSitaH)

 
शब्दकल्पद्रुमः
Sanskrit
उपोषितः, त्रि, (उपोष्यते स्म उप + वस + कर्त्तरि+ क्त ।) कृतोपवासः यथा, --“उपोषितो द्वितीयेऽह्नि पूजयेत् पुनरेव ताम्” ।इति दुर्गोत्सवप्रकरणे तिथ्यादितत्त्वम्
(यथा रघौ २१९ ।“पपौ निमेषालसपक्ष्मपङ्क्ति-रुपोसिताभ्यामिव लोचनाभ्याम्”
)