| YouTube Channel

उपोदिका (upodikA)

 
शब्दसागरः
English
उपोदिका
f.
(-का) A potherb, (Basella rubra or lucida.)
E.
उप and उद
water, कन् and टाप् affs. and substituted for the pen. or being
substituted उपोदीका.
Yates
English
उपो_दिका (का) 1.
f.
Idem.
Wilson
English
उपोदिका
f.
(-का) A potherb, (Basella rubra or lucida.)
E.
उप and उद water, कन् and टाप् affixes, and
substituted for the pen. or being substituted उपोदीका.
Shabdartha Kaustubha
Kannada
उपोदिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಪಸಿ ಗಿಡ
शब्दकल्पद्रुमः
Sanskrit
उपोदिका,
स्त्री,
(उपाधिकमुदकमस्याम् उत्तर-पदस्य चेत्युत्तरपदस्योदादेशः कप् टाप् ।)पूतिका इत्यमरः
अस्या गुणाः सारकत्वम् ।स्निग्धत्वम् बलश्लेष्मकारित्वम् हिमत्वञ्च इतिराजवल्लभः
(यथा, वैद्यके ।“तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका” ।“मदघ्नी चाप्युपोदिका” ।इति सूत्रस्थाने अध्याये वाभटेनोक्तम्
“उपोदिकादधिभ्यान्तु सिद्धा मदविनाशिनी” ।इति चरके सूत्रस्थाने अध्याये
“स्वादुपाकरसा वृष्या वातपित्तमदापहा ।उपोदिका सरा स्निग्धा बल्या श्लेष्मकरी हिमा”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
)
वाचस्पत्यम्
Sanskrit
उपोदिका स्त्री उपाधिकमुदकं यत्र उदादेशः संज्ञायां कन्अतैत्त्वम् पूतिकाशाके अमरः तत्पाकादि प्रकारगुणादिवैद्यके उक्तम् “एकाहं षड्रमोपेता किमन्यैर्व्यञ्जनान्तरैः ।तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका वटपत्रवच्छुभ-पत्रिका परितप्ततैलसुपाचिता नवहिङ्गुवासमुवासितापरिभोक्तृचित्तसुविकाशिका सुतप्तवतैलविपाचिता सुघ-नाम्लतक्रसुपाचिता सूपोदिकाज्यभर्ज्जिता भोक्तु-राशु रसनाग्रनर्त्तकी पोदिका शीतला बल्या श्लेष्मलावातपित्तहा पथ्यात्र दोषशमनी निद्रापुष्टिकरी मता”उपाधिकमुदकं यत्र उदादेशः गौरा० ङीष् स्वार्थे कन्वा ह्रस्यः उपोदीकाप्यत्र स्त्री