उपासना (upAsanA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiउपासना
- "उप+आस्+ल्युट्, युच् वा"
"सेवा, हाजरी, सेवा में उपस्थित रहना"
उपासना
- "उप+आस्+ल्युट्, युच् वा"
"व्यस्त, तुला हुआ, जुटा हुआ"
उपासना
- "उप+स्+ल्युट्, युच् वा"
"पूजा, आदर"
उपासना
- "उप+आस्+ल्युट्, युच् वा"
"अराधना, शराभ्यास"
उपासना
- "उप+आस्+ल्युट्, युच् वा"
धार्मिक मनन
उपासना
- "उप+आस्+ल्युट्, युच् वा"
यज्ञाग्नि
Shabdartha Kaustubha
Kannadaउपासना
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > उपासन ಪದದ ಅರ್ಥ
निष्पत्तिः - > भावे "युच्" (३-३-१०७)
प्रयोगाः - > "स्वर्णैर्वितीर्णैः करवाम वामनेत्रे भवत्या किमुपासनासु"
उल्लेखाः - > नैष० ८-९८
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
EnglishSanskrit Tibetan
Tibetannye bar spyod
१) उपभोग २) उपासना
अभिधानचिन्तामणीशिलोच्छः
Sanskritपर्येषणोपासनापि शुश्रूषायामधीयते ॥ ३८ ॥
पर्येषणा (स्त्री), उपासना (स्त्री)
अभिधानरत्नमाला
Sanskritवरिवस्या
वरिवस्या, परिचर्या, शुश्रूषा, उपासना, परीष्टि, सेवा, भक्ति, उपास्ति, प्रसादन, आराधन, उपचार
वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् ।
सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥
verse 1.1.1.129
page 0016
शब्दकल्पद्रुमः
Sanskritउपासना, (उपासनमिति । उप + आस् +युच् + टाप् ।) सेवा । तत्पर्य्यायः । वरिवस्या २शुश्रूषा ३ परिचर्य्या ४ उपासनम् ५ । इत्यमरः ॥
(“न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् ।न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥
गायत्र्युपासना नित्या सर्व्ववेदैः समीरिता ।यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्व्वथा ॥
तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥
कुर्य्यादन्यन्न वा कुर्य्यात् इति प्राह मनुः स्वयम् ।विहाय तान्तु गायत्रीं रिष्णूपास्तिपरायणः ॥
शिवोपास्तिरतो विप्रो नरकं याति सर्व्वथा ।तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ॥
देवीपादाम्बुजरता आसन् सव्व द्विजोत्तमाः” ॥
इति श्रीदेवीभागवतम् ॥
सत्यपि ईश्वरे न हि तस्य सर्व्वैश्वर्य्यवत्त्वात्सर्व्वतः पूर्णकामत्वाच्च उपासनयालमिति वाच्यम् ।यतः सर्व्वेषामपि भूतजातानामविदितात्मतत्त्वा-नामपि स्वस्वोत्पत्त्यादिकारणे अलक्षितत्वेनापिप्रीतिरिति नैसर्गिकी वृत्तिरेव । परं यदि चरजस्तमोभ्यामन्धीभूतानांसुतरामात्मानात्मविवेक-विहीनानामज्ञमनुष्याणामविद्याकामकर्म्मकलुषी-कृते चित्ते नित्यमुक्तशुद्धबुद्धस्वभावः प्रशान्तविमल-ज्योतिःस्वरूपः स सर्व्वभूतान्तरात्मा न सम्यक्प्रतिभाति । तथा च आत्मस्वरूपमजानन्नपिसर्व्वोऽपि जनः स्वभावगत्यैव परमप्रीत्यात्मानंभजते नोचेत् कथमात्मज्ञानविमूढोऽपि अनेनैवमे श्रेयो भविता अस्मिन् कृतेऽहं सुखी भवेयम्इत्याकारेण सर्व्वथा आत्मसुखोत्पादनाय प्रयतते?तस्य सर्व्वान्तरात्मत्वात् सर्व्वैरपि जीवैः सहनित्यसम्बन्धवत्त्वाच्च । यद्यपि तस्मिन् नित्यानन्द-स्वरूपे भगवति परमेश्वरे एकान्तप्रीतिकरणमेवतदुपासनं तथापि सर्व्वलोकमोहप्रदायिन्यां ज्ञा-नावरणकारिण्यामविद्यायां सत्यां कुतः सा सर्व्व-सुखप्रदा तापत्रयच्छेत्री परमा प्रीतिरनुभवनीया?अतस्तस्या आत्मज्ञानविलोपिन्या मलिनसत्व-गुणाया रजस्तमःप्रधानाया अविद्यायाः प्रणाश-नार्थमेवावश्यमुपासना करणीयेति सर्व्वेषामपिशास्त्राणां सारमतमिति बोध्यम् । परन्तु सबल-दुर्ब्बलाद्यधिकारिभेदेन उपासनाया अपि प्रभेद-उपदिष्टस्तत्वदर्शिभिः । यदि च मनुष्याणां निः-श्रेयसार्थं बहवः पन्थानः स्वमतानुसारेण शा-स्त्रकृद्भिरुपदिष्टास्तत्रापि आत्मज्ञानमेवाविद्या-नाशनायालमिति वेदान्त-भगवद्गीता-पातञ्जल-साङ्ख्यादिज्ञानशास्त्रोपदेष्टॄणां प्रशस्तमतमित्येवदृश्यते । वस्तुतस्तु तज्ज्ञानमेव मुक्तेः साक्षा-त्कारणमित्यत्र नैव केषाञ्चिदपि संशयावसरः ।किन्तु नैव योगाभ्यासादृते प्रायेण तत्वज्ञान-स्योत्पत्तिः । विशेषतः शोकमोहनिमग्नायार्ज्जुनायस्वयं भगवता वासुदेवेनाप्युपदिष्टम् । यथा, भग-वद्गीतायाम् । ६ । ४५-४७ ।“प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः ।अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपिमतोऽधिकः ।कर्म्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्ज्जुन ! ॥
योगिनामपि सर्व्वेषां मद्गतेनान्तरात्मना ।श्रद्धावान् भजते यो मां स मे युक्ततमो मतः” ॥
तथा च श्रीमद्भागवते । ३ । २५ । १३ ।“स्वमातरं देवभूतिं प्रति कपिलोक्तिः । यथा, “योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च” ॥
योगाअपि क्रियाभक्तिज्ञानादिभेदेन बहुधासन्ति तत्र प्रथमतः क्रियायोग एव तत्वज्ञानप्रेप्सु-नाप्यविदुषा संसारासक्तमनसा समाचरणीयः ॥
ननु “ज्ञानादृते मुक्तिर्नास्ति” । “तमेव विदित्वाति-मृत्युमेति नान्यः पन्था विद्यतेऽयनाय” । “विद्य-यामृतमश्नुते” । इत्यादौ सति कथं क्रियायोग-एवारम्भणीय इत्युपदिश्यते ? इति चेत् सत्यम् ।किन्तु लोके हि श्रद्धाभक्तितपस्यादिषु सात्त्विक-राजस तामसादिप्रकृतिभेदात् तेषामविद्याविमो-हितानां स्वस्वगुणानुसारिणीं प्रवृत्तिं विचार्य्यशोच्यांस्तान् प्रत्यनुकम्प्याविद्योत्थाभिमानमोहरा-गद्वेषादिपरिहरणेन शनैः शनैः सत्त्वशोधनार्थंमहात्मभिः शास्त्रकृद्भिरादौ क्रियायोगएव वि-हितः । कीदृश्यस्तेषां गुणानुसारिण्यः प्रवृत्तय-स्तादृशीभिः प्रवृत्तिभिः समन्वितानां कार्य्यं वाकिमिति चेत् अवधार्य्यताम् । यथा, भगवद्गीता-याम् । १७ । ३ -- १३ ॥
“सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत ! ।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।माञ्चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥
आहारस्त्वपि सर्व्वस्य त्रिविधो भवति प्रियः ।यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः ।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥
कट्वम्लवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥
यातयामं गतरसं पूतिपर्य्युसितञ्च यत् ।उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदिष्टो य इज्यते ।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥
अभिमन्धाय तु फलं दम्भार्थमपि चैव यत् ।इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥
विधिहीनममृष्टान्नं मन्त्रहीनमदक्षिणम् ।श्रद्राविरहितं यज्ञं तामसं परिचक्षते” ॥
“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः” ।इत्यत्र “अतिशब्दः कट्वादिषु सप्तस्वपि सम्बध्यते ।तेन अतिकटुर्निम्बादिः अत्यम्लोऽतिलवणोऽत्यु-ष्णश्च प्रसिद्धः अतितीक्ष्णो मरिचादिः अतिरूक्षःकङ्गुकोद्रवादिः अतिविदाही सर्षपादिः” ॥
इतिस्वामी । अमेध्यम् अपवित्रम् ॥
यष्टव्यं यजनीय-मर्च्चनीयमिति यावत् ॥
फलमभिसन्घाय उद्दिश्यइज्यते यज्ञः क्रियते इत्यर्थः ॥
ब्राह्मणादिभ्यो नसृष्टं दत्तमन्नं यद्वा न निष्पादितमन्नं भक्ष्यभोज्या-दिकं यस्मिन् यज्ञे तम् । विधिहीनं शास्त्रोक्तवि-धिशून्यम् । अदक्षिणं दक्षिणाविरहितमिति ॥
नन्वेवं चेत् तर्हि कीदृशोऽयमविदुषानुष्ठेयःक्रियायोगस्तस्य सत्त्वशोधनार्थं इति जिज्ञासायांब्रूमः ॥
यथा, पातञ्जले ।“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” ॥
तपः शास्त्रान्तरोपदिष्टं चान्द्रायणादि, स्वा-ध्यायः प्रणवपूर्व्वाणां मन्त्राणां जपः । ईश्वरप्रणि-धानं सर्व्वक्रियाणां तस्मिन् परमगुरौ फलनिरपे-क्षतया समर्पणम् । एतानि क्रियायोग उच्यते ।इति राजमार्त्तण्डवृत्तिः ।यद्यप्यत्र चान्द्रयणादीति तपसोऽर्थो व्याख्यातःकिन्तु शास्त्रान्तरे मतान्तरमपि दृश्यते तच्चकायिकादिभेदेन त्रिविधम् । यथा, भगवद्गीता-याम् । १७ । १४ -- १६ ।“देवद्विजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् ।ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत् ।स्वाध्यायाभ्यासनञ्चैव वाङ्मयं तप उच्यते ॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।भावसंशुद्धिरित्येतत्तपो मानसमुच्यते” ॥
एतेषां तपसामपि त्रिगुणानुसारिप्रकृत्यादिभेदेनतपःकर्म्माण्यपि त्रिविधानि परिकीर्त्तितानि ।तत्रैव । १७ । १७ -- १९ ॥
“श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्” ॥
अपि च अशेषतः कर्म्मणां त्यागः कर्त्तव्यः नित्या-दिकं कर्त्तव्यं वेति जातसंशयमर्ज्जुनं प्रति भगवत-उपदेशः । यथा, तत्रैव । १८ । ३ -- १० ॥
“त्याज्यं दोषवदित्येके कर्म्म प्राहुर्मनीषिणः ।यज्ञदानतपःकर्म्म न त्याज्यमिति चाप्ररे ॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! ।त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्त्तितः ॥
यज्ञदानतपःकर्म्म न त्याज्यं कार्य्यमेव तत् ।यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
एतान्यपि तु कर्म्माणि सङ्गं त्यक्त्वा फलानि च ।कर्त्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥
नियतस्य तु सन्न्यासः कर्म्मणो नोपद्यते ।मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥
दुःखमित्येव यत्कर्म्म कायक्लेशभयात्त्यजेत् ।स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥
कार्य्यमित्येव यत्कर्म्म नियतं क्रियतेऽर्ज्जुन ! ।सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥
न द्वेष्ट्यकुशलं कर्म्म कुशले नानुषज्जते ।त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः” ॥
कार्य्यमिति । कार्य्यं कर्त्तव्यं नियतं नित्यमित्यर्थः ॥
फलतः न हि देहधारिणामशेषतः कर्म्मणस्त्यागःसम्भवेत् यथा, तत्रैव । १८ । ११ ॥
“न हि देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः ।यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते” ॥
परं अनिष्टादिफलमत्यागिनामेव न हि सन्न्या-सिनां कदाचित् फलसम्बन्धः । तत्रैव । १८ । १२ ॥
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्म्मणः फलम् ।भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित्” ॥
अतः काम्यानां कर्म्मणां परित्यागस्तथा सर्व्वतःफलाभिसन्धानत्यागपूर्व्वस्य ईश्वरार्पणपरस्य वानित्यादेः कर्म्मणः करणमेव सत्त्वशोधनार्थं प्रश-स्यते । यतः सर्व्वत्र सात्त्विकज्ञानस्यैव संसार-बन्धनच्छेत्तृत्वं राजसतामसयोऽस्तु भेदज्ञानत्वात्संकीर्णज्ञानत्वाच्च बन्धमोहकारित्वमेव दृश्यतेयथा, तत्रैव । १८ । २०-२२ ॥
“सर्व्वभूतेषु येनैकं भावमव्ययमीक्ष्यते ।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
पृथक्त्वेन तु यजज्ञानं नानाभावान् पृथग्विधान् ।वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
यत् तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम् ।अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम्” ॥
सुतरां तेषां गुणभेदेन कर्म्माण्यपि पृथक्त्वेनो-क्तानि । यथा, तत्रैव । १८ । २३-२५ ॥
“नियतं सङ्गरहितमरागद्वेषतः कृतम् ।अफलप्रेप्सुना कर्म्म यत्तत्सात्त्विकमुच्यते ॥
यत्तु कामेप्सुना कर्म्म साहङ्कारेण वा पुनः ।क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।मोहादारभ्यते कर्म्म यत्तत् तामसमुच्यते” ॥
कर्त्तारोऽपि त्रिविधाः । तत्रैव । १८ । २६-२८ ॥
“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।सिद्ध्यसिद्धोर्निर्व्विकारः कर्त्ता सात्त्विक उच्यते ॥
रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः ॥
अयुक्तः प्राकृतस्तब्धः शठो नैष्कृतिकोऽलसः ।विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते” ॥
एवं सति सर्व्वत्र हि विशुद्धसत्त्वगुणस्यैव ब्रह्म-सिद्धये कारणत्वं बोध्यते । विशुद्धसत्त्वाश्रयीसाधको हि शनैः शनैः भक्त्यात्मकस्य क्रियात्म-कादेर्वा योगादेर्निरन्तराभ्यासबलात् आदिपदे-नात्र केवलं विद्याबलाद् वेति सूच्यते । निष्कामःसन् सत्त्वोद्रेकेणान्तःकरणस्थानि सर्व्वाणि पापानिसन्दह्य तत्त्वज्ञानं प्राप्नुयात् । ततस्तज्ज्ञानेनात्म-साक्षात्कारं लब्ध्वा जीवन्मुक्तो भवेत् । ततः कैवल्यंप्राप्य नित्यानन्दमयो भवेत् ।अतएव सर्व्वमङ्गलोपायीभूतस्य सत्त्वगुणस्यो-द्रेकाय दुर्ब्बलाधिकारिभिः प्रथमं निष्कामेणान्तः-करणेन क्रियायोगादिरूपेश्वरोपासना कार्य्येतिलक्ष्यते न हि सत्त्वभावेन परमेश्वरोपासनामृतेरजस्तमोभावाः केनापि विलापयितुं शक्येरन् ।तदभावे नितरां विशुद्धसत्त्वगुणोद्रेकाशा सुदूर-पराहतैव । प्रबलरजस्तमोभ्यामस्याभिभूतत्वात् ।एवं सति सर्व्वतः सात्त्विकाहारः सात्त्विकानुष्ठानंसात्त्विकाचरणमित्यादिसत्त्वभावाश्रयेण क्रमशःरजस्तमोभावं विलापयन् कैवल्याकाङ्क्षी परामात्म-साक्षात्काराभिलाषी वा साधकः कालेन परम-सिद्धिं ध्रुवमाप्नुयादेव । परन्तु दुर्ब्बलाधिकारिणाप्रथमतश्चित्तस्य स्थिरत्वापादनाय काञ्चित् स्वा-भीष्टां भागवतीं मूर्त्तिमालम्ब्यैवोपासना कर्त्तव्याअन्यथा तेषां सर्व्वरूपाद्युपाधिपरिवर्जिते निर्व्वि-कारे निरञ्जने गुणातीतेऽवाङ्मनसगोचरे पर-ब्रह्मणि चित्तधारणा विडम्बनैव । परन्त्वित्यत्र नहि ईश्वरोपासनामुपलक्षीकृत्य कथं पौत्तलिका-डम्बरं प्रतिपादयितुं प्रयतसे इति वाच्यम्महात्मभिर्ब्रह्मविद्भिः पूर्व्वाचार्य्यैर्हि कलुषित-चित्तानां दुर्ब्बलाधिकारिणाम् चित्तशुद्ध्यै प्रथ-मतश्चित्तस्थैर्य्यसम्पादनाय धारणाध्यानावलम्बन-रूपायां प्रतिमायामुपासनायाः कर्त्तव्यतयोपदिष्ट-त्वात् । अयमर्थः यावत् न सत्त्वोद्रेकेण चित्तशुद्धि-र्भवेत् यावन्न स्वहृदये निर्गुणपरमात्मधारणयासमाधिशक्तिर्भवेत् यावन्न तत्कथादिषु दृढाभक्तिःरतिश्च भवेत् तावदर्च्चादौ आदिपदेनात्र सूर्य्येवह्नौ जले अभीष्टमूर्त्तौ वा उपासना कर्त्तव्ये-त्यर्थः । परमेवं मा मन्यध्वं यत् केवलं मृच्छिलादि-निर्म्मितप्रतिमूर्त्तिमाश्रित्यैव यावज्जीवं स्थूलो-पासना कर्त्तव्येति ॥
“आसत्वशोधनात् क्रमेणस्वहृदये दृढतरधारणाध्यानप्रभावेन आचित्त-समाधानाच्च” । इति कालनिर्द्देशात् । फलतःआदौ नित्याद्यवश्यकर्म्म करणीयमेव । पुरा कर्म्म-णैव हि बहवः सिद्धिं गताः तथा हि भगवद्-गीतायाम् । ३ । १९-२० ॥
“तस्मादसक्तः सततं कार्य्यं कर्म्म समाचर ।असक्तौ ह्याचरन् कर्म्म परमाप्नोति पूरुषः ॥
कर्म्मणैव हि संसिद्धिमास्थिता जनकादयः” ॥
यदा तु रजस्तमोभावानां निवृत्तौ सत्यां बहु-जन्मार्ज्जितसौभाग्यवशात् तस्मिन्नेव ऐकान्तिकीरतिरुत्पद्यते तादृशस्यात्मरतेरात्मतृप्तस्य योगिनः न तदा किञ्चिदपि कर्म्मणा प्रयोजनमस्तियथा तत्रैव । ३ । १७-१८ ॥
“यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्य्यं न विद्यते ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः” ॥
एवं प्राप्तविद्योऽपि साधारणवत् कर्म्माचरेत्चेत् तत्तु केवलं लोकशिक्षार्थमेव न तु तस्य स्वा-भीष्टसिद्धये अविद्याकामकर्म्माद्यभावात् सुखदुः-खादिद्वन्द्वनिर्म्मुक्तत्वाच्च ।यथा तत्रैव ३ । २१, २५ श्लोके ।“यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥
सक्ताः कर्म्माण्यविद्वांसो यथा कुर्व्वन्ति भारत ! ।कुर्य्याद् विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्” ॥
किन्तु यावदस्मिन् त्रिधातुके शोणितशुक्रप-रिणामपिण्डे शरीरे कर्त्तृत्वाद्यभिमानवान् तावत्“ब्रह्मज्ञोऽस्मि अलं मे कर्म्मणा” इत्येवं मौढ्यात्संसारासक्तोऽतत्त्वज्ञपुरुषः कर्त्तव्यं कर्म्म परि-त्यजति चेत् उभयतो भ्रश्यत् एव । तथाहि योग-वाशिष्ठे मोक्षप्रकरणे ७४ । ४१ ।“संसारविषयासक्तो ब्रह्मज्ञोऽस्मीति वादिनः ।कर्म्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा” ॥
अतएव कर्म्मत्यागे प्रायशो दोषएव न तुक्वचित् विधिर्लक्ष्यते यतो विद्योदये तत्त्वज्ञानीविधिनिषेधसापेक्षो भवितुं नार्हति सर्व्ववासना-कामकर्म्ममय्यविद्याभावात् न हि विधिनिषेधाभ्यांसह विदुषः कोऽपि सम्बन्धः । किन्तु अदूरद-र्शिनो भन्दस्य तत्त्वज्ञानोपदेशेन कर्म्मानुष्ठानाद्बुद्धिभेदो न कर्त्तव्य इत्यादिशतिभगवान् वासुदेवः ।यथा भगवद्गीतायां ३ । २६, २९ ॥
“न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन्” ॥
“प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्म्मसु ।तानकृतस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्” ॥
भवतु अलं बहुना वाग्जालेन । योऽस्य विश्वस्यआकाशवत् सर्व्वदा सर्व्वत्र ओतप्रोतरूपेण अन्त-र्वहिर्विराजते तस्य सर्व्वव्यापिनः सर्व्वान्तर्यामिनःपरमपुरुषस्य स्वरूपभावे यावन्न साधकस्य स्वहृ-दये धारणाध्यानादिभिः स्थैर्य्यमापद्यते तावद-र्च्चादावेवोपासना कार्य्या दुर्ब्बलाधिकारिणेत्येवनिष्कर्षः ॥
तथा हि कुलार्णवतन्त्रे ६ उल्लासे ।“चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।साधकानां हितार्थाय ब्रह्मणो रूपकल्पना ॥
अरूपं रूपिणं कृत्वा कर्म्मकाण्डरता नराः ।ब्रह्मज्ञानामृतानन्दपराः सुकृतिनो नराः” ॥
किञ्च तत्रैव ९ उल्लासे ।“निर्व्विशेषं परं ब्रह्म साक्षात् कर्त्तुमनीश्वराः ।ये मन्दास्तेऽनुकल्प्यन्ते सविशेषनिरूपणैः” ॥
अधिकारिभेदेनालम्बनीयोपास्यदेवस्यापि भेदःप्रदर्शितः । यथा । तत्रैव ९ म उल्लासे ।“अग्नौ तिष्ठति विप्राणां हृदि देवो मनीषिणाम् ।प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम्” ॥
अपि च कति दिनानि यावत् कर्म्माणि कर्त्तव्यानि अर्च्चाद्यधिष्ठानेऽर्च्चनं वा कर्त्तव्यमिति विवि-त्सायां मूढान् प्रत्यनुकम्प्य तदप्युपदिदिशुः पूर्व्वा-चार्य्याः । यथा भागवते ११ । २० । ९ ॥
“तावत्कर्म्माणि कुर्व्वीत न निर्व्विद्येत यावता ।मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते” ॥
तथा, तत्रैव ३ । २९ । २५ ॥
“अर्च्चादावर्च्चयेत्तावदीश्वरं मां स्वकर्म्मकृत् ।यावन्न वेद स्वहृदि सर्व्वभूतेष्ववस्थितम्” ॥
ननु निःश्रेयसार्थिनां साधकानां यदि प्रथमतःक्रियायोगएव कर्त्तव्यः तर्हि अलं प्रमाणशत-विस्तारेण तत्र परम्पराकर्त्तव्यमेव विधीयतामितिचेत् अवधेहि यत्पथावलम्बनेन सत्त्वे शोधितेसति दुर्ब्बलाधिकार्य्यपि सत्वरं सबलाधिकारित्वंयाति । यथा, भागवते ३ । २८ । १-५ ।श्रीभगवानुवाच । (कपिलदेवः ।)“योगस्य लक्षणं वक्ष्ये सवीजस्य नृपात्मजे ।मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥
स्वधर्म्माचरणं शक्त्या विधर्म्माच्च निवर्त्तनम् ।दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्च्चनम् ॥
ग्राम्यधर्म्मनिवृत्तिश्च मीक्षधर्म्मरतिस्तथा ।मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥
अहिंसा सत्यमस्तेयं यावदथपरिग्रहः ।ब्रह्मचर्य्यं तपः शौचं स्वाध्यायः पुरुषार्च्चनम् ॥
मौनं सदासनजयः स्थैर्य्यं प्राणजयः शनैः ।प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि” ॥
सवीजस्य सकारणस्य योगस्य इत्यर्थः ॥
विधर्म्मा-ल्लोकानिष्टकारित्वादिविरुद्धधर्म्भात् ॥
दैवाल्लब्धेनप्रारब्धलब्धेन ॥
आत्मविदिति । आत्मतत्त्वज्ञानिनांचरणसेवनम् ॥
ग्राम्यधर्म्मेति मोक्षपथं विहायधर्म्मार्थकामादयः ग्राम्यधर्म्मत्वेनोच्यन्ते अतएवग्राम्यधर्म्मस्त्रेवर्गिकधर्म्मस्तस्मान्निवृत्तिः ॥
मित-मिति मितं स्वल्पं मेध्यादनं पवित्रद्रव्यभोजनम्विविक्ते निर्जने क्षेमस्य मङ्गलस्य सेवनम् ॥
अस्तेय-मचौर्य्यम् ॥
यावदर्थपरिग्रह इति । यावतार्थेनजीवेत तावन्मात्रस्य परिग्रहः ॥
ब्रह्मचर्य्यं योषित्-सङ्गराहित्यम् ॥
स्वाध्याय इति स्वाध्यायः जपा-ध्ययनादिः ॥
पुरुषार्च्चनं परमपुरुषस्य उपासनम् ॥
मौनमिति मौनं मुनेर्व्रताचरणं मननशीलत्वंवाचांसंयमत्वं वा ॥
आसनानां स्वस्तिकादीनां विजयः ॥
स्थैर्य्यं दीर्घकालमवस्थातुं शक्तिः ॥
प्राणजयः प्राणा-यामैः प्राणनिरोधकरणसामर्थ्यम् ॥
प्रत्याहारेति ॥
मनसा सह इन्द्रियाणां शब्दस्पर्शादिविषयात्हृदि हृदये प्रत्याहारः प्रत्याकर्षणम् ॥
तत्रैव । ३ । २८ । ६ -- ९ ॥
“स्वाधिष्ठानामेकदेशे मनसा प्राणधारणम् ।वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥
एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ॥
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।तस्मिन् स्वस्तिसमासीनः ऋजुकायः समभ्यसेत् ॥
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकः ।प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम्” ॥
स्वाधिष्ठानामिति । मूलाधारादिचक्राणामे-कस्मिन् स्थाने मनसा सह प्राणानां धारणम् ॥
वैकुण्ठेति तैकुण्ठस्याकुण्ठितस्य सुखदुःखादि-भिरपरामृष्टस्य परमपुरुषस्य लीलाभिध्यानंसृष्ट्यादिव्यापारसमालोचनम् । आत्मनो मनसःसमाधानमैकाग्र्यसाधनम् ॥
जितप्राणो निरुद्ध-प्राणवृत्तिः । अतन्द्रितः निरलसः ॥
विजितासनःवशीकृतकरचरणादिसंस्थानविशेषः ॥
प्राणस्येति ।प्रतिकूलेन विपर्य्ययक्रमेण वा चित्तं यथा येनप्रकारेण स्थिरमचञ्चलं चाञ्चल्यरहितं स्यात् तथाप्राणमार्गं शोधयेदित्यर्थः ॥
तेन किं स्यादित्यतआह । तत्रैव ३ । २ । १० ॥
“मनोऽचिरात् स्याद्विरजं जितश्वासस्य योगिनः ।वाष्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्” ॥
निरुद्धप्राणवृत्तेर्योगिनः मनोऽचिरात् वह्निता-पितलोहवत् अविद्याकामकर्म्मजनितमलं विषय-सङ्गजनितपापनिचयमित्यर्थः विहाय विरजं नि-र्म्मलं स्यात् । इदानीं पूर्व्वोपदिष्टप्राणायामादिनाकेन कार्य्येण किं फलं स्यात् तत्सर्व्वं क्रमेण सुव्यक्तंबोधयति । तत्रैव ३ । २८ । ११-१२ ॥
“प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्विषान् ।प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥
यदा मनः स्वं विरजं योगेन सुसमाहितम् ।काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः” ॥
प्राणायामद्वारा वातपित्तश्लेष्मादिदोषान् धार-णया पापानि प्रत्याहारेण इन्द्रियाकर्षणेन विषय-संसर्गान् ध्यानेन अनीश्वरान् शोकमोहाभि-मानदम्भक्रोधमात्सर्य्यादिदोषान् दहेदित्यन्वयः ।अनेन विधिना यदा मनः स्थिरतां याति तदा यु-ञ्जानो योगी प्रथमे धारणालम्बनस्वरूपां भगवतःकाञ्चित् स्वाभीष्ठां मूर्त्तिं ध्यायेदित्युपदिदेश भग-वान् कपिलदेवः ॥
इदानीं ध्येयमूर्त्तिं विवृणोति ।यथा, तत्रैव ३ । २८ । १३ -- १९ ॥
“प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥
लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् ।श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥
मत्तद्विरेफकलया परीतं वनमालया ।परार्ध्यहारबलयकिरीटाङ्गदनूपुरम् ॥
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ।दर्शनीयतमं शान्तम् मनोनयनवर्द्धनम् ॥
अपीव्यदर्शनं शश्वत् सर्व्वलोकनमस्कृतम् ।सन्तं वयसि केशोरे भृत्यानुग्रहकातरम् ॥
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।प्रेक्षणीये हि तं ध्यायेत् शुद्धभावेन चेतसा” ॥
ध्येयमूर्त्तेः सकाशात् मनो यावत् विषयान्तरंन याति तावद्ध्यायेदितिभावः । गुहाशयं बुद्धितत्त्वेविराजमानं एवं निरन्तरध्यानेन साधकस्य चित्तंयदा भगवद्रूपे लब्धपदं भवेत् तदा चित्तस्य शनैःशनैः सौक्ष्मकरणाय मूर्त्तिं हापयित्वा भगवतश्च-रणारविन्दादीन्येकैकाङ्गानि ततः साभरणान्य-स्त्राणि ततो विलासहासादीनि च क्रमेण यथा-विधि ध्यातुमुपदिष्टवान् कपिलः ॥
ततः किमि-त्याह । एवं चिरं ध्यात्वा योगी बहुजन्मार्जित-सौभाग्यवशात् यदि हरौ प्राप्तभावो भक्त्या द्रव-द्धृदय आनन्दार्णवे भासमानो भवेत् तर्हि तस्मिन्स्थूले भगवद्रूपे वडिशवत् संलग्नं चित्तं निर्गुणस्यपरब्रह्मणः स्वरूपलाभार्थं तस्मादङ्गादिस्थूलरूपाद्वियोज्य निरालम्बनं निर्व्विषयं कृत्वा उपरत-गुणप्रवाहः सन् धातृध्येयादिज्ञानाभावात् सर्व्वो-पाधिपरिवर्ज्जितमेकमेवाद्वितीयमात्मानं पश्यत्येव ॥
यथा तत्रैव ३ । २८ । ३४-३५ ॥
“एवं हरौ भगवति प्रतिलब्धभावोभक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ।औत्कण्ठ्यवाष्पकलया मुहुरर्द्यमान-स्तच्चापि चित्तवडिशं शनकैर्वियुङ्क्ते ॥
मुक्ताश्रयं यदि हि निर्व्विषयं विरक्तंनिर्व्वाणमृच्छति मनः सहसा यथार्च्चिः ।आत्मानमत्र पुरुषोऽव्यवधानमेक-मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः” ॥
ननु सुचिरं साधनेन लब्धेऽप्यात्मनि किमायातं ।किन्तु श्रम एवेति चेत् न यतोऽनेकजन्मसाधन-बलात् यदाऽखण्डमात्मानं ईक्षते स योगी सुख-दुःखादिकं सर्व्वमहङ्कारनिष्ठं पश्यति तदादेहा-द्युपाधिनिर्म्मुक्तो जीवन्मुक्तो भवेत् ।यथा तत्रैव ३ । २८ । ३६ -- ३७ ॥
“सोऽप्येतया चरमया मनसो निवृत्त्यातस्मिन् महिम्न्यवसितः सुखदुःखवाह्ये ।हेतुत्वमसति कर्त्तरि दुःखयोर्यत्स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥
देहञ्च तं न चरमः स्थितमुत्थितं वासिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम् ।दैवादुपेतमथ दैववशादपेतंवासो यथा परिकृतं मदिरामदान्धः” ॥
जीवन्मुक्तस्य देहाद्युपाधिवर्गस्य निवृत्तौ तत्र मनः-संयोगाभावात् कथं देहादेर्वर्त्तनमिति शङ्कयन्स्वारम्भकं प्रारब्धवीजमेवेत्यर्थः देहादेः स्थिति-कारणमित्याह । तत्रैव ३ । २८ । ३८ ॥
“देहोऽपि दैववशगः खलु कर्म्म यावत्स्वारम्भकं प्रतिसमीक्षत एव सासुः ।तं सप्रपञ्चमधिरूढसमाधियोगःस्वप्नं पुनर्न भजते प्रतिबुद्धवस्त” ॥
ननु यदि परब्रह्मलामायात्मसाक्षात्कारात्तमेवचरमं देहं मन्यसे तर्हि विद्यैव सुगमोपायः श्रूयतेतस्मिन् सति कथं वृथा कर्म्माडम्बरे प्रवर्त्तयसेइति चेत् न कर्म्मविद्ययोरधिकारिभेदात् आदा-वीश्वरार्पितकर्म्मणा निष्कामकर्म्मणा वा चित्त-शुद्धिं विना कुतोविद्यायामधिकारः । इत्यत्राधि-कारिभेदमुद्दिश्य ज्ञानकर्म्मणोः पृथक्त्वं प्रदर्श्यापितत्त्वज्ञानमुपदिशन्तं भगवन्तं वासुदेवं पृष्टवान्जातसंशयोऽर्जुनः । यथा गीतायां ३ । १-२ ।“ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन ।तत्किं कर्म्मणि घोरे मां नियोजयसि केशव ॥
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्” ॥
हे जनार्द्दन ! चेद्यदि ते कर्म्मणः सकाशात्बुद्धिर्बोधः ज्ञानमिति यावत् ज्यायसी गरीयसीमता तर्हि कथं मां घोरे कर्म्मणि नियोजयसी-त्यन्वयः । व्यामिश्रेण ज्ञानकर्म्मणोर्मिश्रीभूतेनवाक्येन कथं मे बुद्धिं मोहयसीव । इत्येवं विवि-त्सोरर्ज्जुनस्य संशयं निराकुर्व्वन्नाह भगवान् वासु-देवः । तत्रैव ३ । ३-४ ॥
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ! ।ज्ञानयोगेन साङ्ख्यानां कर्म्मयोगेन योगिनाम् ॥
न कर्म्मणामनारम्भान्नैष्कर्म्म्यं पुरुषोऽश्नुते ।नच सन्न्यसनादेव सिद्धिं समधिगच्छति” ॥
“अतः सम्यक्चित्तशुद्ध्यर्थं ज्ञानोत्पत्तिपर्य्यन्तंवर्णाश्रमोचितानि कर्म्माणि कर्त्तव्यानि अन्यथाचित्तशुद्ध्यभावेन ज्ञानानुत्पत्तेरित्याह न कर्म्मणा-मिति । कर्म्मणां अनारम्भात् अननुष्ठानात् नै-ष्कर्म्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु “चैतमेवप्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” इति श्रुत्यासंन्यासस्य मोक्षाङ्गत्वं तर्हि संन्यासादेव मोक्षोभविष्यति किं कर्म्मभिरित्याशङ्क्योक्तं न चेति । नचचित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्सिद्धिं मोक्षं समधिगच्छति प्राप्नोति इति तट्टी-काकृत् पूज्यपादश्रीधरस्वामी ।ननु कामं ईश्वरार्पितेन निष्कामकर्म्मणा चित्त-शुद्धिः प्रजायते ततो ज्ञानं लब्ब्धा मोक्षमाप्नुयात्किन्तु भक्तिबलेनापि सत्त्वं संशोध्याचिरादेवा-विद्याबन्धनात् मुक्तो भवेदित्यपि बहुषु शास्त्रेषुदृश्यते । सर्व्वेभ्यो हि भक्तिमाहात्म्यस्याधिक्यं प्रद-र्शितं महात्मभिरतो बहुप्रयाससाध्यं कर्म्माडम्बरंविहाय भक्तिपथाश्रयएव गरीयान्निश्रेयसार्थ-मिति चेन्न तदप्यधिकारिभेदेनोक्तत्वात् अर्च्चा-दावर्च्चनादिक्रियायोगसाध्यत्वाच्च । किञ्च पुरुषाणांनिश्रेयसाय शास्त्रविहितमार्गत्रयं मुक्त्वा नह्यपरःपन्थाः क्वापि दृश्यते श्रूयते वा । तथाहि श्रीमद्भा-गवते ११ । २० । ६-८ । तत्त्वजिज्ञासुमुद्धवं प्रति-यथोक्तवान् भगवान् वासुदेवः ।“योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।ज्ञानंकर्म्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥
निर्व्विण्णानां ज्ञानयोगो न्यासिनामिह कर्म्मसु ।तेष्वनिर्व्विण्णचित्तानां कर्म्मयोगस्तु कामिनाम् ॥
यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।न निर्व्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः” ॥
यदृच्छया दैवगत्या । न निर्व्विण्णो न प्राप्तनिर्व्वेदः ।अतः सर्व्वत्रैव भिन्नभिन्नाधिकारमपेक्ष्य ज्ञान-कर्म्मभक्तियोगादयो विहिताः । यथा तत्रैव ११ ।२० अध्याये २६ ॥
“स्वे स्वेऽधिकारे या निष्ठा सगुणः परिकीर्त्तितः ।कर्म्मणां जात्वशुद्धानां अनेन नियमः कृतः” ॥
यथा तत्त्वज्ञानार्थी निकृष्टसात्त्विककर्त्ता प्रथ-मतः केवलं अविद्याकर्म्मनिर्हारादीनुद्दिश्य निष्का-मकर्म्मानुष्ठानमाचरति न जातूद्रिक्तविशुद्धसत्त्वो-ऽधिरूढयोगो योगीव सहसा भेदबुद्ध्यादिकं परि-हातुमर्हति तथा प्रथमं सगुणभक्तियोगाश्रयिणो-ऽपि न हि युगपत् भगवत्स्वरूपतत्त्वज्ञा निर्गुण-भक्ता इव भगवत्प्रतिमाद्यर्च्चनादिक्रियायोगं परि-त्यक्तुं समर्था भवेयुः किन्तु तादृशेन सगुणभक्ति-योगावलम्बिना दुर्ब्बलाधिकारिणा भगवत्प्रतिमा-पूजादिकर्म्मयोगएव कर्त्तव्यः इत्येतद्विहितंशास्त्रकृद्भिः ।अथ यथाशास्त्रं निकृष्टसात्त्विककर्त्तुर्भेदबुद्धिंप्रदर्श्य दुर्ब्बलाधिकारिणो भक्तियोगावलम्बिनःकर्त्तव्यमपिप्रदर्शयामः । यथा भागवते ३ । २९ । १० ।“कर्म्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः” ॥
दुर्ब्बलभक्तियोगाधिकारिकर्त्तव्यता च तत्रैव ।११ । ११ । ३४-४२ ।“मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्च्चनम् ।परिचर्य्या स्तुतिः प्रह्वगुणकर्म्मानुकीर्त्तनम् ॥
मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव ।सर्व्वलोभोपहरणं दास्येनात्मनिवेदनम् ॥
मज्जन्मकर्म्मकथनं मम पर्ब्बानुमोदनम् ।गीत-ताण्डव-वादित्र-गोष्ठीभिर्मद्गृहोत्सवः ॥
यात्रा बलिर्विधानञ्च सर्व्ववार्षिकपर्ब्बसु ।वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥
ममार्च्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।उद्यानोपवनाक्रीडपुरमन्दिरकर्म्मणि ॥
संमार्ज्जनोपलेपाभ्यां सेकमण्डलवर्त्तनैः ।गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥
अमानित्वमदम्भित्वं कृतस्यापरिकीर्त्तनम् ।अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।तत्तन्निवेदितं मह्यं तदानन्त्याय कल्पते ॥
सूर्य्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम् ।भूरात्मा सर्व्वभूतानि भद्र पूजापदानि च” ॥
हे भद्र ! एतानि मम पूजास्थानानि । अधुनाकस्मिन् स्थले केन यजेत इत्याह तत्रव ११ । ११ ।४३-४५ ।“सूर्य्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।आतिथ्येन तु विप्राग्रे गोष्वङ्ग यवसादिना ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।क्षेत्रज्ञं सर्व्वभूतेषु समत्वेन यजेत माम्” ॥
हृदि खे हृदयाकाशे ॥
मुख्यधिया प्राणदृष्ट्या ॥
जले जलाञ्जलिप्रदानरूपतर्पणपूर्व्वकैर्द्रव्यैः ॥
स्थ-ण्डिले भूमौ मन्त्रन्यासैः ॥
भोगैरिति । देहे भोगै-रात्मानं एतैरन्नादिभिर्देहस्थपरमात्मानं यजेऽहंनत्वविद्याकर्म्मजनितं देहं बिभर्म्मीति चिन्तयेत् ॥
क्षेत्रज्ञमिति । सर्व्वभूतेषु क्षेत्रज्ञरूपेणावस्थितंकूटस्थब्रह्मचैतन्यस्वरूपं मां समत्वेन यजेत ॥
* ॥
एतेषु स्थानेषु तव कीदृग्रूपं ध्येयमित्यपेक्षयाहतत्रैव ११ । ११ । ४६-४७ ।“धिष्णेष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः ।युक्तं चतुर्भुजं शान्तं ध्यायन्नर्च्चेत् समाहितः ॥
इष्टापूर्त्तेन मामेवं यो यजेत समाहितः ।लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया” ॥
यदा “मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्च्चनम्” इत्या-रभ्य “लभते मयि सद्भक्तिम्” इत्यन्तैरेतैश्चतुर्द्दश-श्लोकैर्धारणाध्यानायनभूतप्रतिमाद्याश्रयिण्या भक्ति-योगोपयोगिक्रिययैव सद्भक्तिलाभः प्रदर्शयामासस्वयं भगवान् । सुतरां तदा दुर्ब्बलाधिकारिणाभक्तियोगाश्रयिणापि प्रथमे क्रियायोगएव कर्त्तव्यःइति बोध्यतेऽन्यथाचित्तशुद्ध्यभावात् ज्ञानं न लभेतइति तात्पर्य्यार्थः ॥
ननु मा भूत्तत्वज्ञानं किन्तु शास्त्रविहितक्रिया-योगशून्यया भक्त्या क्रमेण निर्गुणाया भक्तेरुदयेनैवचरितार्थतेति चेन्न तयोस्तत्वज्ञाननिर्गुणभक्तियो-गयोर्लक्षणे नैक्यदर्शनात् उभयोरेवात्मसाक्षात्का-ररूपचरमफलत्वेनोक्तत्वाच्च । यथा श्रीमद्भागवते३ । २९ । ११-१२ ।“मद्गुणश्रुतिमात्रेण मयि सर्व्वगुहाशये ।मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्यदाहृतम् ।अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे” ॥
ईदृग्भक्तिर्यदि बहुजन्मार्जितसुकृतिवशात् कस्या-पि क्वचिदुत्पद्येत तर्हि सालोक्यादिमुक्तिं साध-कान्तरैः प्रार्थनीयां भगवता स्वयं दीयमानामपितादृग्भक्तो नेच्छतीति तन्निस्पृहतां दर्शयन्नाह ।तत्रैव ३ । २९ । १३ ।“सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः” ॥
अपि च तत्त्वज्ञानिनो निर्गुणभक्तस्य च तयोःशब्दतएव भेदः न तु लक्षणतः यत उभावेवलक्षणादिना सर्व्वत्र एकाचारौ एकनिष्ठावेक-भावापन्नौ लक्ष्येते । यथा भागवते ११ । ११ ।२९-३३ । भगवद्भक्ततमस्य लक्षणमुपदिष्टवानुद्धवंप्रति भगवान् ।“कृपालुरकृतद्रोहस्तितिक्षुः सर्व्वदेहिनाम् ।सत्यसारोऽनवद्यात्मा समः सर्व्वोपकारकः ॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।अमानी मानदः कल्पो मैत्रः कारुणिकः कविः” ॥
कविः क्रान्तदर्शी सर्व्वज्ञ इत्यर्थः ।“आज्ञायैवं गुणान् दोषान् मया दिष्टानपि स्वकान् ।धर्म्मान् सन्त्यज्य यः सर्व्वान् मां भजेत स सत्तमः ॥
ज्ञात्वा ज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः ।भजन्त्यनन्यभावेन ते मे भक्ततमा मताः” ॥
तथा, ज्ञानिनोऽपि लक्षणं प्रदर्शयामास । यथा, तत्रैव ११ । ११ । १२-१७ ।“न तथा बध्यते विद्वांस्तत्र तत्रादयन् गुणान् ।प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥
वैशारद्येक्षयाऽसंगशितया छिन्नसंशयः ।प्रतिबुद्ध इव स्वप्नान् नानात्वद् विनिवर्त्तते” ॥
यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः ॥
यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया ।अर्च्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः ॥
न स्तवीत न निन्देत कुर्व्वतः साध्वसाधु वा ।वदतो गुणदोषाभ्यां वर्ज्जितः समदृङ्मुनिः ॥
न कुर्य्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा ।आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः” ॥
ननु भक्तिज्ञानयोश्चरमफलैकत्वेपि भक्तेः समधिक-प्रसंशादर्शनात् भक्तिरेवगरीयसीति चेत् न भक्ति-वत् ज्ञानस्यापि प्रसंशादर्शनात् आत्मसाक्षात्-कृतौ साक्षात्कारणत्वाच्च । यथा श्रीमद्भागवते११ । १९ । १ -- ५ ॥
श्रीभगवानुवाच ।“यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः ।मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥
ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः ।स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥
ज्ञानविज्ञानससिद्धाः पदं श्रेष्ठं विदुर्मम ।ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्त्ति माम् ॥
तपस्तीर्थं जपो दानं पवित्रानीतराणि च ।नालं कुर्व्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥
तस्माजज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।ज्ञानविज्ञानसम्पन्नो भज भां भक्तिभावितः” ॥
किञ्च भगवद्गीतायां ४ । ३३-३९ ।“श्रेयान् द्रव्यमयाद् यज्ञाञ्ज्ञानयज्ञः परन्तप ! ।सर्व्वं कर्म्माखिलं पार्थ ! ज्ञाने परिसमाप्यते ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ! ।येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥
अपिचेदसि सर्व्वेभ्यः पापिभ्यः पापकृत्तमः ।सर्व्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुन ! ।ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा ॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥
श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति” ॥
अतएव निर्गुणभक्तिज्ञानयोर्न कियदप्यन्तरंमन्यन्ते तत्त्वदृशः स्वरूपतस्तयोरेकात्मत्वात् अत-त्त्वदर्शिनोऽज्ञा एवाविद्यामोहितत्वात् भिन्नदृशोभवन्ति ॥
वरं भक्तियोगमुपदिशन्नुपसंहारे ज्ञान-विज्ञानसम्पन्ना भक्तिरेव ब्रह्मलब्धये सम्यक् हित-साधनीति प्रदर्शितवानुद्धवाय भगवान् ॥
यथाभागवते ११ । १८ । ४५-४६ ।“भक्त्योद्धवानपायिन्या सर्व्वलोकमहेश्वरम् ।सर्व्वोत्पत्त्यव्ययं ब्रह्म कारणं मोपयाति सः ॥
इति स्वधर्म्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः ।ज्ञानविज्ञानसम्पन्नो न चिरात् समुपैति मां” ।निष्कामेनानुष्ठितभक्तिरेव शनैः शनैः सान्द्रत्वेननिर्गुणतां गच्छन्ती सती परमप्रेमानन्दरूपेणपरिणमते सुतरां तदा स्वयं सान्द्रानन्दमयं तज्-ज्ञानं प्रकाशते । तयोर्हि तत्स्वरूपत्वात् न क्वापिनिर्गुणभक्तिज्ञानयोगयोर्भेदः श्रूयते । यथा छा-न्दोग्ये “सत्यं ज्ञानमनन्तं ब्रह्म । आनन्दरूपममृतंयद् विभाति शान्तं शिवमद्वैतम” । इति ज्ञाना-नन्दयोर्ब्रह्मस्वरूपत्वात् अतएव क्वचित् केनापि नपूर्णानन्दत्वेन परिणताया निर्गुणस्वरूपाया भक्ते-र्ज्ञानेन सह कियानपि भेदो दर्शयितुं शक्यतेस्वरूपतस्तयोरेकात्मत्वात् । परन्तु तत्त्वज्ञानो-त्पादनक्षमा भक्तिरेवानुष्ठेया न तु संसारबन्धन-कारिणी नश्वरफलदात्री अन्धभक्तिवत् सकामाभक्तिरेवानुमोदनीया तत्त्वदर्शिभिरिति बोध्यम् ॥
यथा भागवते १ । २ । ७ ।“वासुदेवे भगवति भक्तियोगः प्रयोजितः ।जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम्” ॥
विशेषतः प्रह्लादध्रुवयोरिव नित्यानित्यवस्त्ववाप्ति-दर्शनात् । असुरकुलजातोऽपि प्रह्लादः निष्काम-भक्तियोगमाचरन् तत्प्रभावेन शतशः पितृप्रयुक्तांबाधामतिक्रम्यात्मप्रसादलब्धं विमलानन्दस्वरूपंजीवन्मुक्तत्वं ततो निर्व्वाणमप्यवाप्तवान् । ध्रुवःपुनः स्वायम्भुवमनुवंशजातोऽपि विमातृवचना-दीर्ष्यापरवशः सन् परमतत्वज्ञाद्देवर्षिनारदादप्यु-पदेशं लब्ब्धा अन्तःकामवीजं परिपुष्णन् कठोर-तपसापि सकामभक्तियोगमनुष्ठाय कल्पस्थायिनध्रुवाख्यलोकं लब्धवान् ततः गृहप्रत्यागमनकालेसहसा जातनिर्व्वेद आत्मधिक्कारेण मुहुरन्वशो-चत् ॥
इदानीं प्रदर्शयामो यथाक्रमं तयोः राज-पुत्रयोः सकामनिष्कामभक्तियोगानुष्ठाननित्या-नित्यफलम् ॥
यथा, श्रीमद्गागवते । ४ । ९ । २७-३५ ॥
“सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् ।प्राप्य सङ्कल्पनिर्व्वाणंनातिप्रीतोऽभ्यगात् पुरम् ॥
विदुर उवाच ।सुदुर्ल्लभं यः परमं पदं हरेःमायाविनस्तच्चरणार्च्चनार्ज्जितम् ।लब्ध्वाऽप्यसिद्धार्थमिवैकजन्मनाकथं स्वमात्मानममन्यतार्थवित् ॥
मैत्रेय उवाच ।मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।नैच्छन् मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥
ध्रव उवाच ।समाधिना नैकभवेन यत् पदंविदुः सनन्दादय ऊर्द्ध्वरेतसः ।मासैरहं षड्भिरमुष्य पादयो-श्छायामुपेत्यापगतः पृथङ्मतिः ॥
अहोवत ममानात्म्यं मन्दभाग्यस्य पश्यत ।भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥
मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः ।यो नारदवचस्तथ्यं नाग्राहीषमसत्तमः ॥
दैवीं मायामुपाश्रित्य प्रसुप्तैव भिन्नदृक् ।तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥
मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ॥
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ।स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो वत ॥
ईश्वरात् क्षीणपुण्येण फलीकारानिवाधनः” ।भगवता नृसिंहदेवेन प्रलोभ्यमानोऽपि प्रह्लादःनिष्कामभक्तिज्ञानप्रभावेन किमपि नैच्छदितिधर्म्मनन्दनमजातशत्रुं युधिष्ठिरं श्रावयामास दे-वर्षिर्नारदः । यथा, भागवते । ७ । ९ । ५१-५५ ॥
“एता वद्वर्णितगुणो भक्त्या भक्तेन निर्गुणःप्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥
श्रीभगवानुवाच ।प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥
मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥
प्रीणन्ति ह्यथ मां धीराः सर्व्वभावेन साधवः ।श्रेयस्कामा महाभागाः सर्व्वासामाशिषां पतिम् ॥
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।एकान्तित्वाद् भगवति नैच्छत्तानसुरोत्तमः” ॥
तत्रैव ७ । १० । १ -- ५ ।नारद उवाच ॥
“भक्तियोगस्य तत् सर्व्वमन्तरायतयार्भकः ।मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
मा मां प्रलोभयोत्पत्त्या सक्तं कामेषु तैर्वरैः ।तत्संगभीतो निर्व्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ।भगवन् संसारवीजेषु हृदयग्रन्थिषु प्रभो ! ।नान्यथा तेऽखिलगुरो ! घटेत करुणात्मनः ॥
यस्तु आशिष आशास्ते न स भृत्यः स वै बणिक् ।आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ॥
अहं त्वकामस्तद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।नान्यथेहावयोरर्थो राजसेवकयोरिव” ॥
अस्तु तस्य निस्पृहत्वादि किन्तु तत्त्वज्ञानं नासी-दिति चेत् न यतः उपरिष्टादेव तत्त्वज्ञानमूलायानिर्गुणाया भक्तेर्लक्षणं प्रदर्शितं । यथा, भागवते७ । ५ । १३ ॥
हिरण्यकशिपुं प्रति प्रह्लादोक्तिः ।“स एष आत्मा स्वपरेत्य बुद्धिभि-र्दुरत्ययानुक्रमणो निरूप्यते ।मुह्यन्ति यद्वर्त्मनि वेदवादिनोब्रह्मादयो ह्येष भिनत्ति मे मतिम्” ॥
किञ्च तत्रैव ३१ ।“न ते विदुः स्वार्थगतिं हि विष्णुंदुराशया ये वहिरर्थमानिनः ।अन्धा यथान्धैरुपनीयमानावागीशतन्त्यामुरुदाम्नि बद्धाः” ॥
स्वार्थगतिमिति । स्वस्मिन् एवार्थो येषां ते स्वा-र्थास्तत्वज्ञानिनस्तेषां गतिर्ज्ञानस्वरूपस्तं । वहि-रर्थमानिनः इति । वहिर्वाह्यवस्तुषु अर्थो येषांतान् गुरून् इति मन्यन्ते ये इति ॥
ननु क्वचिदर्च्चादेर्निन्दापि लक्ष्यते यदा तदुपासनंनिष्फलमिति चेन्न । यतः सर्व्वतः साधुसङ्गलाभस्योत्कर्षः इति प्रदर्शयन् विशेषतः सर्व्वाभ्यउपासाभ्यः हृद्देशे आत्मध्यानमेव गरीय इत्येवोपदिदिशुः महान्तः शास्त्रकृतः । अन्यथा “मदर्च्चा-स्थापने श्रद्धा” “अर्ञ्चायामर्च्चयेत्तावत्” “यावन्नमे कथारतिः” इत्यादि वचनानां निष्फलत्वंस्यात् । दर्शितञ्च यथासम्भवमुपासनायां दुर्ब्बला-धिकारिणां यत् यत् कर्त्तव्यं इदानीं सबलाधि-कारिणां करणीयं यत्प्रकृतपथं तदेव दर्शयामःसमासेनेति । यथा, वृहदारण्यकश्रतौ ॥
“आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च” । अर्थात् आत्मैव साक्षात् कर्त्तव्यःसाक्षात्कारे उपायमाह श्रवणं मननं निदिध्या-सनञ्च किन्तत् श्रवणादि इति जिज्ञासायां ब्रूमः ।यथा । “श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्ता-नामद्वितीये वस्तुनि तात्पर्य्यावधारणम् । लिङ्गानितु । उपक्रमोपसंहाराभ्यासाऽपूर्व्वताफलार्थवा-दोपपत्त्याख्यानि । तत्र प्रकरणप्रतिपाद्यस्यार्थस्यतदाद्यन्तयोरुपादानं उपक्रमोपसंहारौ । यथा, छान्दोग्ये षष्ठप्रपाठके प्रकरणप्रतिपाद्यस्याद्विती-यवस्तुनः एकमेवाद्वितीयमित्यादौ “ऐतदात्म्यमिदंसर्व्वम्” । इत्यन्ते च प्रतिपादनम् ॥
प्रकरणप्रतिपाद्यस्य वस्तुनः तन्मध्ये पौनःपुन्येनप्रतिपादनं अभ्यासः । यथा, तत्रैवाद्वितीयवस्तु-नो मध्ये “तत्त्वमसीति” नवकृत्वः प्रतिपादनम् ॥
प्रकरणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणा-विषयीकरणं अपूर्व्वत्वम् । यथा तत्रैवाद्वितीय-वस्तुनः तन्त्वौपनिषदं पुरुषं पृच्छामीत्यादिनाउपनिषन्मात्रवेद्यत्वप्रतिपादनात् । मानान्तरा-विषयीकरणं फलन्तु प्रकरणप्रतिपाद्यस्यात्म-ज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयो-जनं यथा तत्रैव “आचार्य्यवान् पुरुषो वेद तस्यतावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” ।इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते ।प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं अर्थवादः ।यथा, तत्रैव उततमादेशमप्राक्षो येनाश्रुतं श्रुतंभवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीयवस्तुप्रशसनम् ।प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणायुक्तिः उपपत्तिः” । यथा, तत्र “सौम्यैकेन मृत्-पिण्डेन सर्व्वं मृण्मयं विज्ञातं स्यात् वाचारम्भण-विकारो नामध्येयं मृत्तिकेत्येव सत्यम्” । इत्यादा-वद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वेयुक्तिः श्रूयते” । मननन्तु । “श्रुतस्याद्वितीयवस्तुनोवेदान्तार्थानुगुणयुक्तिभिरनवरतमनुचिन्तनम्” ।“विजातीयदेहादिप्रत्ययरहिताऽद्वितीयवस्तुसजा-तीयप्रत्ययप्रवाहः निदिध्यासनम्” ॥
इति वेदा-न्तशास्त्रेषु ॥
समाधिस्तु द्विविधः । सविकल्पको निर्व्विकल्पक-श्चेति । तत्र सविकल्पको नाम ज्ञातृज्ञानादि-विकल्पलयानपेक्षयाऽद्वितीयवस्तुनि तदाकारा-कारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृण्मय-गजादिभानेऽपि मृद्भानवत् द्वैतभानेऽप्यद्वैतं वस्तुभासते ॥
निर्व्विकल्पकस्तु ज्ञातृज्ञानादिभेदलयापेक्षयाऽद्वि-तीयवस्तुनि तदाकाराकारिताया बुद्धिवृत्तेरति-तरामेकीभावेनावस्थानम् । तदा तु जलाकारा-कारितलवणानवभासेनाद्वितीयवस्तुमात्रमेवावभा-सते ॥
इति वेदान्ते उपदिष्टं पूर्व्वर्षिभिः ॥
अतो ज्ञानलक्षणानि भगवद्गीतायां । १३ । ७-११ ॥
“अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कारएव च ।जन्म मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥
असक्तिरनभिष्वङ्गः पुत्त्रदारगृहादिषु ।नित्यञ्च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा” ॥
अतो ज्ञेयं वस्तु तत्रैवाध्याये । १२-१७ ॥
“ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥
सर्व्वतः पाणिपादन्तत् सर्व्वतोऽक्षिशिरोमुखम् ।सर्व्वतःश्रुतिमल्लोके सर्व्वमावृत्य तिष्ठति ॥
सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् ।असक्तं सर्व्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
वहिरन्तश्च भूतानामचरं चरमेव च ।सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य विष्ठितम्” ॥
तथा च श्वेताश्वतरश्रुतौ आत्मज्ञानेनैव मुक्ति-रिति स्फुटं दर्शयामास । यथा, --“सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् ।सर्व्वस्य प्रभुमीशानं सर्व्वस्य शरणं वृहत्” ॥
“आत्मा गुहायां निहितोऽस्य जन्तो-रणोरणीयान् महतो महीयान् ।तमक्रतुं पश्यति वीतशोकोधातुः प्रसादान्महिमानमीशम्” ॥
महानिव्वाणतन्त्रे च । ५ । ११ ॥
“परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् ।तालवृन्तेन किं कार्य्यं लब्धे मलयमारुते” ॥
ननु किमिदानीं वाग्भङ्ग्याऽद्वैतवादं संस्थाप-यितुं प्रयतते इति चेत् दर्शयामः ।तथा च श्रीविष्णुधर्म्मे, --“परात्मनो मनुष्येन्द्र विभागो हि न कल्पितः ।क्षये तस्यात्मपरयोर्विभागाभावएव हि ॥
आत्मा क्षेत्रज्ञसंज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः ।तैरेव विगतः शुद्धः परमात्मा निगद्यते ॥
अनादिसम्बन्धवत्या क्षेत्रज्ञोऽहमविद्यया ।युक्तः पश्यति भेदेन ब्रह्मत्वात्मनि संस्थितम्” ॥
तथाहि श्वेताश्वतरश्रुतिभाष्यधृतवशिष्टवचनंप्रश्नपूर्व्वकं दर्शितम् । यथा, --“यद्यात्मा निर्गुणः शुद्धः सदानन्दोऽजरोऽमरः ।संसृतिः कस्य तात ! स्यात् मोक्षो वाऽविद्यया विभो ॥
क्षेत्रनाशे कथं तस्य ज्ञायते भगवान् यतः ।यथावत् सर्व्वमेतं मे वक्तुमर्हसि साम्प्रतम् ॥
तस्यैव नित्यशुद्धस्य सदानन्दमयात्मनः ।अवच्छिन्नस्य जीवस्य संसृतिः कीर्त्त्यते बुधैः ॥
एकएव हि भूतात्मा भूते भूते व्यवस्थितः ।एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥
मान्त्यारूढः सएवात्मा जीवसंज्ञः सदा भवेत् ॥
”तथा च शुकशिष्यो गौडपादाचार्य्यः ॥
“यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते ।न सर्व्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः” ॥
तस्मादद्वितीये परमात्मन्युपाधितो जीवेश्वरयो-र्जीवानाञ्च परस्परं भेदव्यवस्थायाः सिद्धत्वान्नविशुद्धसत्वोपाधेरीश्वरस्याविशुद्धोपाधिजीवगताःसुखदुःखमोहाज्ञानादयः ॥
तथा च भगवान्पराशरः ।ज्ञानात्मकस्यामलसत्त्वराशे-रपेतदोषस्य सदा स्फुटस्य ।किं वा जगत्यस्ति समस्तपुंसा-मज्ञातमस्यास्ति हृदि स्थितस्य” ॥
कथं तर्ह्यौपाधिकभेदेन बन्धमुक्त्यादिव्यवस्था सोपा-धिकानां तेषां वा सोपाधिकैश्वरस्य वा स्वरूप-स्येति इत्याशङ्क्य दृष्टान्तपूर्व्वकं व्यवस्थां दर्शयति ॥
“एकस्तु सूर्य्यो बहुधा जलाधारेषु दृश्यते ।आभाति परमात्मा च सर्व्वोपाधिषु संस्थितः” ॥
“ब्रह्य सर्व्वशरीरेषु वाह्ये चाभ्यन्तरे स्थितम् ।आकाशमिव भूतेषु बुद्धावात्मा म चान्यथा” ॥
एवं सति यया बुद्ध्या देहोऽहमिति मन्यते ।‘अनात्मन्यात्मता भ्रान्त्या सा स्यात्संसारबन्धिनी’ ॥
सर्व्वैर्विकल्पैर्हीनस्तु शुद्धो बुद्धोऽजरोऽमरः ।प्रशान्तो व्योमवद्व्यापी चैतन्यात्मा सकृत्प्रभुः ॥
धूमाभ्रधूलिभिर्व्योम यथा न मलिनीयते ।प्राकृतैरपरामृष्टो विकारैः पुरुषस्तथा ॥
यथैकस्मिन् घटाकाशे जलैर्धूमादिभिर्युते ।नान्ये मलिनतां यान्ति दूरस्थाः कुत्रचित् क्वचित् ॥
यथा द्वन्द्वैरनेकैस्तु जीवे च मलिनीकृते ।एतस्मिन्नापरे जीवा मलिनाः सन्ति कुत्रचित्” ॥
परं नतु केवलं प्रकृतेः पृथग्रूपचैतन्यज्ञान-मात्रेण ब्रह्मज्ञानं सम्भवितुमर्हति । यदि चैकेपण्डिताः पृथग्ज्ञानेनैव सिद्धिः स्यादिति मन्यन्तेकिन्तु नैव श्रुतय एवं परिचक्षते । यथा, श्वेताश्व-तरोपनिषदि “ज्ञाज्ञौ द्वावजावीशानीशावजाह्येका भोक्तृभोग्यार्थयुक्ता अनन्तश्चात्मा विश्व-रूपो ह्यकर्त्ता त्रयं यदा विन्दते ब्रह्ममेतत्” ॥
अतएव ब्रह्मजिज्ञासोर्योगिनः श्रत्यपदिष्टब्रह्म-तत्त्वविज्ञानेनैव मुक्तिः स्यात् अन्यथा श्रमएव ॥
यथा, तत्रैव “क्षरं प्रधानममृताक्षरं हरःक्षरात्मानावीशते देवएकः । तस्याभिधानात्योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमाया-निवृत्तिः ॥
ज्ञात्वा देवं सर्व्वपाशापहानिः क्षीणैःक्लेशैर्जन्ममृत्यप्रहाणिः । तस्याभिध्यानात्तृतीयं देह-भेदे विश्वैश्वय्य केवल आप्तकामः” ॥
परं योगा-भ्यासादृते नैव कदाचित् तत्त्वज्ञानास्योत्पत्ति-रिति श्रुतिस्मृत्यादीनां ज्ञानप्रतिपादकशास्त्रा-णामुपदेशो दृश्यते यदि च पूर्व्वपूर्व्वप्रकरणे पुराण-प्रभृतिविहितयोगादिमतं प्रदर्शितं तत्रापि तत्-व्रढीकरणाय वैदिक्मतमिदानीं प्रदर्शयामः । यथायजुर्व्वेदोक्तश्वेताश्वतरीययोगप्रकरणम् । ओँ “युञ्जा-नः प्रथमम् मनस्तत्त्वाय सविता धियः ॥
अग्निंज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥
१ ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे सुवर्गेयायशक्त्यै ॥
२ ॥
यक्ताय मनसा देवान् सुवर्य्यतो धिया दिवं ।वृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥
३ ॥
युञ्जते मन उत युञ्जते धियोविप्रा विप्रस्य वृहतो विपश्चितः ॥
विहोत्रा दधे वयुना विदेक इन् ।महो देवस्य सवितुः परिष्टुतिः ॥
४ ॥
युजे वां ब्रह्म पूर्व्यं नमोभिःविश्लोका यन्ति पथ्येव सूराः” ॥
५ ॥
परन्तु आत्मज्ञादविशदीकरणाय दक्षसंहितैवश्रेयसी जीवानामिति प्रदर्शयितुं भूयोऽप्यनुस-रामः । यथा, “ऊरुस्थोत्तानचरणः सव्ये नस्येतरं करम् ।उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥
निमीलिताक्षः सत्त्वस्थो दन्तेर्दन्तानसंस्पृशन् ।तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत्” ॥
किन्तुएवं मा मन्यध्वं यत् गृहान्निःसृत्य अरण्यवा-सादौ योगाभ्यासतत्त्वज्ञानादेः सुगमो भवेत्इत्यत्र यथाह दक्षः सप्तमाध्याये ।“लोको वशीकृतो येन येन चात्मा वशीकृतः ।इन्द्रियार्थो जितो येन तं योगं प्रब्रवीम्यहं ॥
प्राणायामास्तथा ध्यानं प्रत्याहारस्तु धारणा ।तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥
नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात् ।व्रतैर्यज्ञैस्तपोभिश्च न योगः कस्यचित् भवेत् ॥
न च पथ्याशनात् योगो न नासाग्रनिरीक्षणात् ।न च शास्त्रातिरिक्तेन शौचेन स भवेत् क्वचित् ॥
न मौनमन्त्रकुहकैरनेकैः सुकृतैस्तथा ।लोकयात्रावियुक्तस्य योगो भवति कस्यचित् ॥
अभियोगात् तथाभ्यासात् तस्मिन्नेव तु निश्चयात् ।पुनः पुनश्च निर्व्वेदाद् योगः सिध्यति नान्यथा” ॥
अतएव निर्व्वेदादृते केवलं तपःस्वाध्यायादिभिर्नयोगसिद्ध्विः शास्त्रकृद्भिरनुमोदनीया । किन्तुआदरनैरन्तर्य्येण आत्मचिन्तादयएव ब्रह्मलब्ध्यैसदुपाया इति बोध्यम् यथा तत्रैव ।“आत्मचिन्ताविनोदेन शौचक्रीडनकेन च ।सर्व्वभूतसमत्वेन योगः सिध्यति नान्यथा ॥
यश्चात्मनि रतो नित्यमात्मक्रीडस्तथैव च ।आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ॥
रतश्चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः ।आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिध्यति ॥
सुप्तोऽपि योगयुक्तः स्याज्जाग्रच्चापि विशेषतः ।ईदृक्चेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम्” ॥
परन्तु विषयासक्तिवर्ज्जनं विना क्वापि कस्य-चिदपि आत्मसिद्धिर्न प्रजायते । यथा तत्रैव, --“य आत्मव्यतिरेकेण द्वितीयं नैव पश्यति ।ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः ॥
विषयासक्तचित्तो हि यतिर्मोक्षं न षिन्दति ।यत्नेन विषयासक्तिं तस्माद् योगी विवर्ज्जयेत्” ॥
यदि च केचित् विषयेन्द्रियसंयोगैः सिद्धिर्भवेत्इति वदन्ति तत्र तेषां भ्रान्तिरेव सा यथा तत्रैव, “विषयेन्द्रियसयोगं केचित् योगं वदन्ति हि ।अधर्म्मो धर्म्मरूपेण गृहीतस्तैरपण्डितैः” ॥
इति ॥
यदि चाद्वैततत्त्वज्ञानमेव सर्व्वतो निश्रेयसकरंजीवानाभित्यशेषवः प्रदर्शितम् किन्तु दुर्ब्बलमब-लाद्यधिकारिभेदेन यथाकमं क्रियाभंक्तिज्ञान-वोगादयः सन्निवेशिता इत्यलमतिपल्लवितेन ॥
* ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“आस उपवेशने”@} 2 आसकः-सिका, आसकः-सिका, आसिसिषकः-षिका, दुरासिका 3
आसिता-त्री, आसयिता-त्री, असिसिषिता-त्री
4 5 अध्यासयन्, 6 आसयन्-न्ती, आसयिष्यन्-न्ती-ती
7 आसीनः, 8 आसिसिषमाणः, आसिसिषिष्यमाणः
आः-आसौ-आसः
-- -- आसितम्-तः-तवान्, आसितः, आसिसिषितः-तवान्
आसः, आसः, आसिसिषुः, आसिसयिषुः
आसितव्यम्, असयितव्यम्, आसिसिषितव्यम्
आसनीयम्, आसनीयम्, आसिसिषणीयम्
आस्यम्, आस्यम्, आसिसिष्यम्
ईषदासः-दुरासः-स्वासः
-- 9 उपास्यमानः, आस्यमानः, आसिसिष्यमाणः
आसः, आसः, 10 कैलासः, आसिसिषः
आसितुम्, आसयितुम्, आसिसिषितुम्
11 आसना, 12 उपासना, 13 उपास्तिः 14, आस्या, 15 आसिसिषा
आसनम्, 16 आसनम्, आसिसिषणम्
17 आसित्वा, आसयित्वा, आसिसिषित्वा
उपास्य, समास्य, उपासिसिष्य
आसम् २, आसित्वा २, आसम् २, आसयित्वा २, आसिसिषम् २
आसिसिषित्वा
01 (६१)
02 (२-अदादिः-१०२१-अक। से। आ।)
03 [[१। ‘संज्ञायाम्’ (३-३-१०९) इति ण्वुल्। ‘दुरीश्वरद्वारबहिर्वितर्दिकादुरासिकायै रचितोऽयमञ्जलिः।’ इति वैराग्यपञ्चके (३)।]]
04 [पृष्ठम्००६०+ ३०]
05 [[आ। ‘त्रिवर्गपारीणमसौ भवन्तम् अध्यासयन् आसनमेकमिन्द्रः। विवेकदृश्वत्वमगात् सुराणां तं मैथिलो वाक्यमिदं बभाषे।।’ भ। का। २-४६।]]
06 [[१। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् शतैव।]]
07 [[२। ‘ईदासः’ (७-२-८३) इति आनस्यादेरीकारः।]]
08 [[B। ‘अध्यासिसिषमाणेऽथ वियन्मध्यं निशाकरे।’ भ। का। ८-३८।]]
09 [[C। ‘आकाशचारिवनिताभिरुपास्यमाना साऽऽह स्म तन्मनसिकृत्य महान्त- मर्थम्।।’ वा। वि। ३-५१।]]
10 [[३। “केलिः प्रयोजनमस्य = कैलः ‘चूडादिभ्य उपसंख्यानम्’ (वा। ५-१-११०) इत्यण्। आस्यतेऽस्मिन् इत्यासः। ‘हलश्च’ (३-३-१२१) इत्यधिकरणे घञ्। कैलश्चासावासश्चेति ‘विशेषणं विशेष्येण--’ (२-१-५७) इति संज्ञात्वात् लोहित- शाल्यादिवत् समासो नित्यम्।।” इति मा। धा। वृत्तिः।]]
11 [[४। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति शुद्धादेव धातोः युच्।]]
12 [[ड्। ‘प्रायोपासनया शान्तिं मन्वानो वालिसम्भवः। युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम्।।’ भ। का। ७-७३।]]
13 [[५। बाहुलकात् क्तिन्--इति मा। धा। वृत्तिः।]]
14 [[E। “ईड्योऽयमीशः समुपास्तिशीलैराशासितः पीतपटीं वसानः। स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिंसी नतचित्तनिञ्जी।।” धा। का। २-४५।]]
15 [[६। ‘वाऽसरूप--’ (३-१-९४) इति न्यायेन ण्यदपि भावे इति मा। धा। वृत्तिः।]]
16 [[आ। ‘त्रिवर्गपारीणमसौ भवन्तम् अध्यासयन् आसनमेकमिन्द्रः। विवेकदृश्वत्वमगात् सुराणां तं मैथिलो वाक्यमिदं बभाषे।।’ भ। का। २-४६।]]
17 [पृष्ठम्००६१+ २५]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
