| YouTube Channel

उपाकर्मन् (upAkarman)

 
शब्दसागरः
English
उपाकर्म्मन्
n.
(-र्म्म)
1. Preparation.
2. A ceremony performed before read-
ing the Vedas.
3. Beginning to read the Vedas.
E.
See the preced-
ing, the
aff.
being मनिन्.
Capeller Eng
English
उपाकर्मन्
n.
preparation, commencement,
esp.
to study
the Vedas.
Yates
English
उपा_कर्म्मन् (र्म्म) 1.
n.
Preparation for
the study of the Vedas.
Wilson
English
उपाकर्म्मन्
n.
(-र्म्म) Preparation.
1 A ceremony performed before reading the Vedas.
2 Beginning to read the Vedas.
E.
see the preceding, the affix being मनिन्.
Apte
English
उपाकर्मन् [upākarman],
n.
Preparation, beginning, commencement
अध्याय˚.
A ceremony performed before commencing to read the Veda after the monsoons (cf. श्रावणी)
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु
Y.*
1.142
Ms.*
4.119.
Apte 1890
English
उपाकर्मन् n. 1 Preparation, beginning, commencement
अध्याय°.
2 A ceremony performed before commencing to read the Veda after the monsoons (cf. श्रावणी)
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा हस्तेनौषधिभावे वा पचम्यां श्रावणस्य तु Y. 1. 142
Ms. 4. 119.
Monier Williams Cologne
English
उपा-कर्मन्
n.
preparation, setting about, commencement (esp. of reading the Veda),
PārGṛ.
ii
Mn.
iv, 119
Yājñ.
Monier Williams 1872
English
उपा-कर्मन्, अ, n. preparation, beginning
a
ceremony performed before reading the Vedas
be-
ginning to read the Vedas.
Benfey
English
उपाकर्मन् उपाकर्मन्, i. e. उप-आ
-कृ + मन्,
n.
The beginning of holy
study, Man. 4, 119.
Apte Hindi
Hindi
उपाकर्मन्
नपुं*
- उप+आ+कृ+मनिन्
"तैयारी, आरम्भ, उपक्रम"
उपाकर्मन्
नपुं*
- उप+आ+कृ+मनिन्
वर्षारंभ के पश्चात् वेदपाठ के उपक्रम से पूर्व किया जाने वाला अनुष्ठान
Shabdartha Kaustubha
Kannada
उपाकर्मन्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರಾರಂಭ /ಉಪಕ್ರಮ
उपाकर्मन्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶ್ರಾವಣಮಾಸದಲ್ಲಿ ಹೋಮಪೂರ್ವಕ ಮಾಡುವ ವೇದಸ್ವೀಕಾರ
निष्पत्तिः - > उप + + डुकृञ् (करणे) - कर० "मनिन्" (उ० ४-१८४)
प्रयोगाः - > "अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥"
उल्लेखाः - > याज्ञ० १-१४२
L R Vaidya
English
upAkarman {% n. %} 1. Preparation, beginning, commencement
2. a ceremony performed before commencing to read the Veda after the monsoons, Yaj.i.142 (in. ritualistic works).
Aufrecht Catalogus Catalogorum
English
उपाकर्मन् W. p. 315. Bik. 164.
वाचस्पत्यम्
Sanskrit
उपाकर्म्मन्
न०
उप + + कृ--करणे मनिन् येन कर्मविशे-षेण वर्षान्ते पुनर्वेदः पठितुमारभ्यते तादृशे, कर्मभेदे तच्च“अथातोऽध्यायोपाकरणम्” इत्युपक्रम्य आश्व० सू० दर्शितम्तत्कालकर्त्तव्यतादि तत्रैवोक्तः विशेषस्तु नि० सि० उक्तोयथा “तत्र बह्वृचानां प्रयोगपारिजाते शौनकः “अथातःश्रावणे मासे श्रवणर्क्षयुते दिने श्रावण्यां श्रावण मासिपञ्चम्यां हस्तसंयुते दिवसे विदधीतैतदुपाकर्म यथो-दितम् स्वध्यायोपाकृतिं कुर्य्यात्तत्रोपासनवह्निना”अत्र पौर्णमासी उपसंहारन्यायेन यजुर्वेदपरेति हेमाद्रिः ।अत्र हस्तयुक्ता पञ्चम्युक्ता कारिकयाऽपि “तन्मासे हस्त-युक्तायां पञ्चम्यां वा तदिष्यते” इति केवलपञ्चम्यांहस्तयुतेऽन्यस्मिन् वा दिन इति तु हेमाद्रिः उपासन-वह्निनेति तु “कर्मद्वयमिदं केचिल्लौकिकाग्नौ प्रकुर्वते”इति कारिकोक्तलौकिकाग्निना विकल्प्यते तत्र “अध्याप्यैरन्वारब्धः” इति सूत्रात् सशिष्यत्वेन तदधिकारित्वात्नाचार्य्याग्नौ “नान्यस्याग्नावन्योजुयादिति” निषेधाल्लौकिकएव तदभावे स्मार्त्त इति निगर्वः यद्यपि दीपिकायाम् ।“वेदोपाकृतिरोषधिप्रजनने पक्षे सिते श्रावणे” इति शुक्ल-पक्षोऽपि सर्वेषां मुख्यकालत्वेनोक्तः वक्ष्यमाणगार्ग्य-वचनेन छन्दोगान् प्रति विहितस्य तस्याविसोधितासर्वान् प्रति निवृत्तिश्च तथापि श्रावणमाससंबन्धस्य सत्रो-क्तत्वात कृष्णपक्षेऽपि कार्य्यमिति वृद्धाः तथा आश्व०सूत्राणि “अथातोऽध्यायोपाकरणम्” “ओषधीनां प्रादु-र्भावे” “श्रवणेन श्रावणस्य पञ्चम्यां हस्तेन वा” ।अत्र श्रवणोमुख्योऽन्यो गौणः तस्याहर्द्वययोगेहेमाद्रौ व्यासः “धनिष्ठासंयुतं कर्य्याच्छ्रावणं कर्म यद्भ-येत् तत्कर्भ सकलं ज्ञेयमुपाकरणसंज्ञितम् श्रवणेनतु यत् कर्म्म ह्युत्तराषाढसंयुतम् संवत्सरकृतोध्याय-स्तत्क्षणादेव नश्यतीति” प्रयोगपारिजाते गार्ग्योऽपि ।“उदयव्यापिनी त्वेव विष्ण्वर्क्षे घटिकाद्वयम् तत्कर्मसकलं ज्ञेयं तस्य पुण्यमनन्तकमिति” पूर्वेद्युरुत्तारा-षाढायोगे, परेद्युः श्रवणाभावे घटिकाद्वयन्यूने वापञ्चम्यादौ कार्यम् तु पूर्वविद्धायां सङ्गवेऽपि, अपवादाभावात् किञ्च परेद्युः सङ्गवास्पर्शे निषिद्धपूर्वग्रहणे किं मानम् सङ्गववाक्यं श्रवणवाक्यं वेतिचेत् तर्हि व्रीहिवाक्यादश्वशफवाक्याच्च माषमिश्राणाम-प्युपादानं स्यादिति महत्पाण्डत्यम् एतेन पर्वाप्यौदयिकं व्याख्यातम् निषेधप्रवेशस्योभयत्र साम्यात् ।श्रवणयुतदिने संक्रान्त्यादौ तु “उपाकर्म कुर्वन्तिक्रमात्सामर्ग्यजुर्बिदः ग्रहसंक्रान्तियुक्तेषु हस्तश्रवण-पर्वसु” इति हेमाद्रौ निषेधात् पञ्चम्यादयो ग्राह्याः ।अत्र ग्रहसंक्रान्तिदिने येषां प्राप्तन्तैः सर्वैरुपाकर्म कार्यम्इत्येको वाक्यार्थः तेनाथर्वषेदिनामपि निषेधः अ-न्यथा हस्तादित्रये प्रत्येकं ग्रहसंक्रान्त्योः षड्वाक्यक-ल्पनापत्तेः मदनरत्नेऽपि “यदि स्यात् श्रावणं पर्व ग्र-हसंक्रान्तिदूषितम् स्यादुपाकरणं शुक्लपञ्चम्यां श्रा-बणस्य तु” स्मृतिः, स्मृतिमहार्णवे “संक्रातिर्ग्रहणं वापियदि पर्वणि जायते तन्मासे हस्तयुक्तायां पञ्चम्यां वातदिष्यते” तत्रापि प्रयोगपारिजाते वृद्धमनुकात्या-यनौ “अर्द्धरात्रादधस्ताच्चेत् संक्रान्तिर्ग्रहणं यदा ।उपाकर्म कुर्वीत परतश्चेन्न दोषकृदिति” मदनरत्नेगार्ग्योऽपि “यद्यर्द्धरात्रादर्वाक् तु ग्रहः संक्रमएव वा ।नोपाकर्म तदा कुर्य्याच्छ्रावण्यां श्रवणेऽपि वा” एतेन ग्र-हणकाले श्रवणसत्त्वे एव निषेधोनार्वागिति मूर्खशङ्का-परास्ता, ग्रहविशिष्टानां हस्तश्रवणपर्वणां प्रत्येकं नि-षेधे तद्युक्तोपाकर्मनिषेधे विशिष्टोद्देशे वाक्यभेदात्पञ्चम्यां संक्रान्तौ निधाभावापत्तेश्च तेनार्द्धरात्रात्पूर्वं ग्रहसत्त्वमात्रे उपाकर्मनिषेधो तद्योगे यत्तु“प्रतिपन्मिश्रिते नैव नोत्तराषाढसंयुते श्रवणे श्रावणंकुर्युर्ग्रहसंक्रान्तिवर्जिते” इति प्रतिपन्मिश्रितनिषेधकंवचनं तन्निर्सूलम् हेमाद्रौ निगमः “ग्रहयोगोगुरुं हन्ति संक्रान्तिः शिष्यघातिनी तपोहन्त्युत्तराषाढाउपाकर्मणि वैष्णवे” अत्र “वेदोपाकरणे प्राप्ते कुलीरेसंस्थिते रवौ उपाकर्म कर्त्तव्यं कर्त्तव्यं सिंहयुक्तके”इति वचनं देशान्तरविषयम् “नर्मदोत्तरभागे तु कर्त्तव्यंसिंहयुक्तके कर्कटे सस्थिते भानावुपाकुर्य्यात्तु दक्षिणा”वृह० वचनात् इति प्रयो० पा० उक्तम् पराशरमाध-वीयेऽप्येवम् सामगानां सिंहस्थरवावुक्तेस्तद्विषयमेवेदं, पुरोडाशचतुर्द्धाकरणवदुपसंह्रियत इति तु वह्वृ-चादिपरम् तेषां सूत्रे चान्द्रश्रावणोक्तेः सौरेपञ्चम्ययोगात् सामान्येन सौत्रविशेषस्य बाधायोगादितितु वयं पश्यामः यत्तु कालादर्शे “अध्यायानामुपा-कर्म श्रावण्यान्तैत्तिरीयकाः बह्वृचाः श्रवणे कुर्युःसिंहस्थोऽर्कोभवेद्यदि सहस्तशुक्लपञ्चम्यां तद्वद्ग्रहण-संक्रमे असिंहार्कपौष्ठपद्यां श्रवणेन व्यवस्थयेति” तन्मूला-लिखनात् सूत्रविरोघाच्च चिन्त्यम् सूत्रे हि श्रव-णेन श्रावणस्येति चान्द्रमास एवोक्तो सौरः तस्यपञ्चम्यभावात् श्रुतिलक्षणाभ्यामुभयपरत्वे वृत्तिद्वय-विरोधाच्च तेन सिंहस्थोऽर्कोभवेद्यदि तदा कर्केऽपिग्रहणसंक्रमे सति असिंहार्के शुक्लपञ्चम्यां श्रवणे वाबह्वृचाः, प्रौष्ठपद्यान्तैत्तिरीया इति व्याख्येयम् तेषांसौरमासाभावात् श्रावणे शस्यानुद्गमादौ बह्वृचपरि-शिष्टे “अवृष्ट्योषधयस्तस्मिन् मासे तु भवन्ति चेत् ।तदा भाद्रपदे मासि श्रवणेन तदिष्यत इति” “तत्रा-प्यनुद्गमे तु “कुर्यादेव तद्वार्षिकमित्याचक्षते” इति सूत्रात् ।वर्षत्तौ भवं वार्षिकम् एतच्च शुक्रास्तादाचपि कार्यम् ।“उपाकर्मोत्सर्जनं पवित्रदमनार्पणमिति” दमनारोपणेलिखितवचनात् “नित्ये नैमित्तिके जप्ये होमयज्ञ-क्रियासु उपाकर्मणि चोत्सर्गे ग्रहबेधो नविद्यते” इति प्रयोगपारिजाते हेमाद्रौ संग्रहोक्तेः ।पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभावं वक्तुमि-दम् तेन पर्वणि ग्रहणेऽपि चतुर्द्दश्यां श्रवणे कार्य-मिति हेमाद्रिः प्रथमारम्भस्तु भवति “गुरुभार्ग-वयोर्मौढ्ये बाल्ये वा वार्द्धकेऽपि वा तथाधिमाससंसर्गेमलमासादिषु द्विज! प्रथमोपाकृतिर्न स्यात्कृता कर्म-विनाशकृदिति” तत्रैव कश्योपोक्तेः अत्र प्रथमारम्भेवृद्धिश्राद्धं कुर्यादिति नारायणवृत्तौ एतच्चाधिमासे का-र्यम् “उपाकर्म्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः मास-वृद्धौ पराःकार्य्या वर्जयित्वा तु पैतृकमिति” ज्योतिःपरा-शरेक्तेः “उत्कर्षः कालवृद्धौ स्यादुपाकर्म्मादिकर्म्मणि ।अभिषेकादिवृद्धीनां तूत्कर्षो युगादिष्विति” कात्यायनोक्लेश्च यत्तु “उपाकर्म्मणि चोत्सर्गे ह्येतदिष्टं वृषादित”इति ऋष्यशृङ्गवचस्तत्सामगविषयम् तेषां सिंहार्के एवो-क्तेः एतच्चापराह्णे कार्य्यम् “उपाकर्मापराह्णेस्यादुत्सर्गःप्रातरेव त्विति” “अध्यायानामुपाकर्म्मकूर्य्यात्क लेऽपरीह्ण-के पूर्व्वाह्णे तु विसर्गः स्यादिति वेदविदो विदुरिति”हेमाद्रौ गोभिलोक्तेः वस्तुतस्तु “भवेदुपाकृतिः पौर्णमा-स्यां पूर्व्वाह्ण एव त्विति” प्रचेतोवचनात् पूर्व्ववाक्यं सामगविषयम् तेषामपराह्ले एवोक्तेरित्यनुपदं वक्ष्यते ।दोपिकापि “अस्य तु विधिः पूर्व्वाह्णकालः स्मृत” इति ।याजुषास्तु पर्वणि कुर्युः तच्चापस्तम्बैरौदयिकं ग्रा-ह्यम् अन्यैस्तु पूर्वम् “पर्वण्यौदयिके कर्यु श्रावणन्तै-त्तिरीयकाः बह्वृचाः श्रवणे कर्युर्ग्रहसंक्रान्तिवर्जिते”इति गर्गोक्तेः “संप्राप्तवान् स्तुतीर्ब्रह्मा पर्वण्यौदयिकेपुनः अतो भूतदिने तस्मिन्नोपाकरणमिष्यते” इतिकालिकापुराणात् “अथ चेद्दोषसंयुक्ते पर्वणि स्यादु-पाक्रिया दुःखशोकामयग्रस्ताराष्ट्रे तस्मिन् द्विजातयः”इति मदनरत्ने गर्गोक्तेः अत्र सिङ्गाभट्टीये विशेषः ।“श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत् तदैवौदयिकंकार्यं नान्यदौदयिकं भवेत्” पराशरमाधवीयेऽपि गार्ग्यः“श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि तदैवौदयि-की ग्राह्या नान्यदौदयिकी भवेत्” कर्मकालमाह काला-दर्शे निगमः “श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत् षण्मु-हूर्त्तकैः विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत्” ।अत्र पौर्णमासी श्रवणहस्तयोरुपलक्षणं तेन तावपि सङ्ग-वस्पृशौ ग्राह्यौ “उदये षड्घटीस्पर्शेश्रिते पर्वणि वार्कभे ।कुर्युर्नभस्युपाकर्म ऋग्यजुःसामगाः क्रमात्” इति पृथ्वी-चन्द्रः “विष्ण्वृक्षे घटिकाद्वयमिति” पूर्वोक्तविरोधात् सा-मान्यवाक्यादौदयिकी कर्म्मपर्याप्ता ग्राह्या पूर्वा स-ङ्गवानमित्तपूर्वविद्धापवादाभावात् भाद्रादौ कालान्तरेवास्तु तु निषिद्धम् हि व्रीह्यलाभे निषिद्धमा-षग्रहणं युक्तम् अतएव परेद्युः सङ्गवव्याप्तौ पूर्व-निपेषः तदभावे तु नेति मूर्खव्यवस्थाप्यपास्ता विधि-वैषम्यात् माषनिषेधे तथापत्तेश्च पूर्बविद्धावचन-सत्त्वो हि सा युज्यते एवं श्रवणेऽपि ज्ञेयम् एतच्छु-द्धाधिक्यपरं तेन यथाग्निहोत्रादौ सायं प्रातः काल-याधे सामान्यस्य जीवनावच्छिन्नकाल रनुष्ठानगु ।यथा व्रीह्यश्वशफाद्यभावे यागाक्षिप्तजंरषिद्धाकारदिव्येणतथात्र सङ्गवाभावेऽनिषिद्धावर्ज्यकर्म्मपर्याप्तौदयिके कालान्तरे वानुष्ठानं तु कदापि निषिद्धे अपवादाभावेउत्सर्गस्यैव प्राप्तेः कात्यायनादीनान्तु दिनद्वये पूर्वाह्ण-व्याप्तौ एकदेशस्पर्शे वा पूर्वैवेति हेमाद्रिः घटिका-द्वयमिति पूर्वोक्तविरोधात् तेन प्राशस्त्यमात्रपरमि-दम् यदपि “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी ।पूर्वविद्धा प्रकर्त्तव्या शिवरात्रिर्बलेर्दिनमिति” ब्रह्मवैवर्त्तम्तद्ब्रह्मपवित्रविषयमिति हेमाद्रिः मदनपारिजाते-ऽपि पूर्वविद्धायां श्रावण्यां वाजसनेयिनामुपाकर्मे-त्युक्तमू मदनरत्नेऽपि “पर्वण्यौदयिके कुर्युः श्राव-णन्तैत्तिरीयकाः” इति वह्वृचपरिशिष्टाद्बह्वृचान् प्रतिकर्म्मविधानार्थं प्रवृत्ते तत्र तैतिरीयककर्म्मविध्ययोगात्पूर्वोक्तकालिकापुराणादौ सामान्यत औदयिकपर्वप्राप्ते-स्तन्निषेधे बह्वृचानां श्रवणविधानात्तैत्तिरीयकपदम्अनुवादत्वात्तस्य प्राप्त्यधीनत्वात् प्राप्तेश्च यजुर्वेदमा-त्रपरत्वात् सर्वयजुर्वेद्युपलक्षणार्थम् अवयुत्यनुवादोवा तु विधायकम् तेन विशेषविधिना उपसं-हारः स्यात् अनुवादत्वाल्लक्षणा दोषः अन्यथौदयिकपर्वविशिष्टोपाकर्मोद्देशेन कर्त्तृविधौ कर्तृविशिष्टेवौदयिकपर्वविधौ वाक्यभेदापत्तेः तस्मात्तेत्तिरीयकपदाविवक्षया सर्वयजुर्वेदिनामौदयिकमेव पर्व्वेत्युक्तम् ।तन्न तावत्परिशिष्टे बह्वृचःन् प्रत्येव विधिः धनिष्ठाप्रतिपद्युक्तत्वात् “त्वाष्ट्रऋक्षसमन्वितमित्यादि तदुदाहृतेएव परिशिष्टे वेदान्तरधर्म्मविधीनां दर्शनात् नाप्यनुवादोऽयम् कालिकापुराणाद्बह्वृचादीनामपि तदापत्तेः कु-र्युरित्यस्य विधित्वेन तस्यैवार्थवादत्वेनैतत्प्राप्तानुवादि-त्वाच्च तैत्तिरीयकाणां गृह्ये तद्विधिरस्ति येना-नुवादः स्यात् वाक्यभेदः तैत्तिरीयकपद-मात्रस्य कर्म्ममात्रस्य वा उद्देश्यत्वायोगेन हविरार्त्तिव-दष्टवर्षं ब्राह्मणमुपनयीतेतिवच्चागत्या विशिष्टोद्देश्यत्वात् ।अन्यथोत्तरार्द्धे बह्वृचपदस्याऽप्यविवक्षापत्त्या श्रावणस्य सर्व-साघारण्यापत्तेः तस्मात् हेमाद्रिमतमेव युक्तमिति दिक् ।इदं शिष्यानध्यापथत आवसथ्येऽग्नौ अनध्यापयतो-नाधिकार इति कर्कः श्रावण्यामपि ग्रहणादिदुष्टायांकातीयभिन्नैः प्रौष्ठपद्यां कार्यं तैस्तु श्रावणपञ्चम्याम् ।“संक्रान्तिर्ग्रहणं वापि पौर्णमास्यां यदा भवेत् उपा-कृतिस्तु पञ्चम्यां कार्यावाजसनेयिभिरिति” स्मृतिमहार्णवेवाजसनेयिग्रहणादिति हेमाद्रिः इदं स्वसूत्रोक्तकालपरत्वात् बह्वृचपरमपि शाट्यायनैस्तु हस्ते कार्यम् आपस्तम्बैराथर्वणैश्च प्रौष्ठपद्याम् यत्तु बौधा-यनः “श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्येत्यूचे ।तत् प्रौष्ठपद्यामपि दोषे आषाढ्यां कार्यमित्ये वमर्थम् ।तच्छाखीयविषयं वा सामगास्तु श्रावणे हस्ते कर्युः ।“वह्वृचाः श्रावणे चैव हस्तर्क्षे सामवेदिन” इति निर्णया-मृते गोभिलोक्तेः सोऽप्युत्तरः “धनिष्ठाप्रतिपद्युक्तं त्वा-ष्ट्रऋक्षसमन्वितम् श्रावणं कर्म्म कुर्वीरनृग्यजुःसाम-पाठकाः” इति मदनरत्ने परिशिष्टोक्तेः गर्गोऽपि“सि हे रवौ तु पुष्यर्क्षे पूर्वाह्णेऽविवरे बहिः छन्देगा-मिलिताः कुर्युरुत्सर्गं स्वस्वच्छन्दसाम् शुक्लपक्षे तु हस्ते-न उपाकर्म्मापराह्णिकमिति” पुष्यर्क्षेपूर्वाह्णे उत्सगःआपराह्णिकमुपाकर्म्मत्यन्वयः अविवरे ग्रहादिदोषर-हिते अन्योविशेषः पूर्व्वमुक्तः प्रयोगपारिजाते गोभिलः“उपाकर्म्मोत्सर्जनं वनस्थानामपीष्यते धारणाध्ययनाङ्ग-त्वाद्गृहिणां ब्रह्मचारिणाम् उत्सर्जनं वेदानामुपाकरणकर्म्म अकृत्वा वेदजप्येन फलं नाप्नोतिमानवः” सर्वथा लोपे तु कृच्छ्र उपवासश्च “वेदोदितानांनित्यानामिति” मनुनाऽभोजनोक्तेः एवमुत्सर्गेऽपि ।अथ प्रसङ्गादत्रैवीत्सर्ज्जनमुच्यते तच्च पौषमासेरोहिण्यां तत्कृष्णाष्टम्यां वा कार्य्यम् “पौषमासस्य रो-हिण्यामष्टकायामथापि वा जलान्ते छन्दसां कुर्यादुत्स-र्गं विधिवद्बहिरिति” याज्ञ० उक्तेः श्रावाण्यां प्रौष्ठ-पद्यां चोपाकृतौ क्रमेण पौषशुक्लप्रतिपदि, माघशुक्लप्रति-पदि कार्य्यम् “अद्धपञ्चमासानधीयीतेति” तेनैवोक्तेः ।यत्तु हारीतः “अर्धपञ्चमान्मासानधीत्योर्ध्वमुत्सृजेत्पञ्चार्धषष्ठान्वेति” तदाषाष्ट्युपाकर्म्मविषयम् बौधायनास्तु पौष्यां माध्यां वा कुर्य्युः “पौष्यां माघ्यां वोत्-सृजेदिति” तत्सूत्रात् तैत्तिरायैस्तु तैष्यां कार्य्यं “तैष्यांपौर्णमास्यां रोहिण्यां वा विरमेदिति” तत्सूत्रात् ।बह्वृचैस्तु माघ्यां कार्य्यम् “अध्यायोत्सर्ज्जनं माघ्यांपौर्णमास्यां विधीयते” इति कारिकोक्तेः कातीयास्तुभ्राद्रपदे कुर्य्युः “उत्सर्गश्चेत्तदा तिष्यतिथ्यां प्रौष्ठपदेऽपि-वेति” कात्यायनोक्तेः सामगास्तु सिंहार्के पुष्ये कुर्य्युः ।तथा सिंहे रवौ चेति गार्ग्यवचनं पूर्व्वमुक्तम् स-र्वैरुपाकर्म्मदिने वा कार्य्यम “पुष्ये तूत्सर्ज्जनं कुर्य्यादुपाकर्मदिनेऽथवेति” हेमाद्रौ खादिर गृह्योक्तेः यदा सिंह-स्थे सूर्य्ये सति तन्मध्यस्थहस्तनक्षत्रात्प्राक् पुष्यः कर्कस्थोभवति तदा तस्मिन् पुष्ये उत्सर्गं कृत्वा तदुत्तरहस्ते उपा-कर्भ सामगाः कुर्य्युः “मासे प्रोष्ठपदे हस्तात्पुष्यः पू-र्वोभवेद्यदि तदा तु श्रावणं कुर्य्यादुत्सर्गं छन्दसांद्विजः” इति तत्रैव परिशिष्टोक्तेः अत्र द्वावपि सौरौ-मासौ ज्ञेयौ तेषां सौरस्यैवोक्तेः अत्र विशेषमाहकार्ष्णाजिनिः “उपाकर्मणि चोत्सर्गे यथाकालं समे-त्य ऋषीन्दर्भमयान् कृत्वा पूजयेत्तर्पयेत्ततः ।संप्राप्ते श्रावणस्यान्त पौर्ण्णमास्यां दिनोदवे स्नानंकुर्व्वीत मतिमान् श्रुतिस्मृतिविधानतः उपाकर्म्मादिकंप्रोक्तमृषीणाञ्चैव तर्पणम् शूद्राणां मन्त्ररहितं स्नानंदानं प्रशस्यते” “उपाकर्म्मण्युत्सर्गे त्रिरात्रं पक्षिणी-महोनात्रं वानध्याय” इति मिताक्षरायामुक्तम् अत्रनदीनां रजोदोषोनास्ति “उपाकर्म्मणि चोत्सर्गे रजोदोषो विद्यते इति” गर्गोक्तेः “उपाकर्म्मणि चोत्सर्गेप्रेतस्नाने तथैव चन्द्रसूर्य्यग्रहे चैव रजोदोषो नविद्यते” छन्दो० उक्तेश्च उपाकर्म्मणि चोत्सर्गे युगादौ मृत-वासरे निषेद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम्” स्मृतिः ।“त्रयोदश्यादितो वर्ज्यं दिनानां नवकं ध्रुवम् मङ्गल्येषसमस्तेषु ग्रहणे चन्द्रसूर्य्ययोरिति” सामान्यतो ग्रहणेदिननवकनिषेधस्तु अनियतकालीनकर्म्मपरः तु नियत-कालीनकर्म्मपरः “नित्ये नैमित्तिके जप्ये होमे यज्ञ-क्रियासु उपाकर्म्मणि चोत्सर्गे ग्रहदीषो विद्यतेइति नि० सि० स्मृत्युक्तेर्नोपाकर्म्मणि ग्रहणवेधदोषः ।आषाढ्यामपि उपाकर्म्मविधानात् आषाढीप्रयोजनकत्वात्दण्डस्याषाढनामता वेदग्रहणस्य दण्डपूर्व्वकत्वात्तथात्वमिति बोध्यम् करणे क्तिन् उपाकृतिरप्यत्रस्त्री कर्म्मकरणयोरभेदोपचारात् उपाक्रियाप्यत्र स्त्री
Burnouf
French
उपाकर्मन् उपाकर्मन्
n.
l'étude du Veda qui suit
l'investiture.
Stchoupak
French
उपाकर्मन्-
nt. commencement de la lecture du Veda.