उपस्कारं (upaskAraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“कॄ विक्षेपे”@} 2 ‘कृणन् कृणीते हिंसायाम्, विक्षेपे किरतीति शे।।’ 3 इति देवः।
4 कारकः-रिका, कारकः-रिका, 5 चिकरिषकः-षिका, 6 चेकिरकः-रिका
7 करिता-करीता-त्री, कारयिता-त्री, चिकरिषिता-त्री, चेकिरिता-त्री
8 9 किरन्-न्ती-ती, 10 उपस्किरन् 11, 12 प्रतिस्किरन् 13, कारयन्-न्ती, चिकरिषन्-न्ती
-- करिष्यन्-करीष्यन्-न्ती-ती, कारयिष्यन्-न्ती-ती, चिकरिषिष्यन्-न्ती-ती
14 व्यतिकिरमाणः, 15 अपस्किरमाणः 16, अपस्किरमाणः 17, अपस्किरमाणः 18, कारयमाणः, चेकीर्यमाणः, 19 अपचेस्कीर्यमाणः
अपस्करिष्यमाणः-अपस्करीष्यमाणः, कारयिष्यमाणः, चेकिरिष्यमाणः
20 कीः-किरौ-किरः
-- -- -- 21 कीर्णम्-कीर्णः-कीर्णवान्, कारितः, चिकरिषितः, चेकिरितः-तवान्
22 किरः, 23 विष्किरः-विकिरः, 24 विकिरम्, उत्किरः, कारः, 25 चिकरिषुः, चेकिरः
26 करितव्यम्-करीतव्यम्, कारयितव्यम्, चिकरिषितव्यम्, चेकिरितव्यम्
करणीयम्, कारणीयम्, चिकरिषणीयम्, चेकिरणीयम्
27 कार्यम्, कार्यम्, चिकरिष्यम्, चेकीर्यम्
ईषत्करः-दुष्करः-सुकरः
-- -- -- कीर्यमाणः, 28 व्यतिकीर्यमाणः, कार्यमाणः, चिकरिष्यमाणः, चेकीर्यमाणः
29 करः, 30 अवस्करः 31-अवकरः, 32 अपस्करः 33 अपकरः, 34 आकरः 35, 36 उत्कारः 37 -निकारो 38, उत्करः- निकरश्च 39, कारः, चिकरिषः, चेकिरः
40 करितुम्-करीतुम्, कारयितुम्, चिकरिषितुम्, चेकिरितुम्
41 कीर्णिः, कारणा, चिकरिषा, चेकिरा
करणम्, कारणम्, चिकरिषणम्, चेकिरणम्
42 कीर्त्वा, कारयित्वा, चिकरिषित्वा, चेकिरित्वा
विकीर्य, विकार्य, विचिकरिष्य, विचेकीर्य
कारम् २, 43 उपस्कारं कीर्त्वा २, 44 कारम् २, कारयित्वा २, चिकरिषम् २, चिकरिषित्वा २, चेकिरम् २
चेकिरित्वा २
45 कीटन् प्रत्यये रूपम्।
किरीटम् = मुकुटम्।]] किरीटम्, 46 क्युप्रत्ययेऽनादेशः।
किरणः = रश्मिः।]] किरणः, 47 नप्रत्ययान्तः।
कर्णः = श्रोत्रम्।]] कर्णः, 48 इत्युनन्प्रत्ययः।
करुणः = शोचनीयः।
करुणा = कृपा।]] करुणा, 49 अभच् प्रत्यये रूपम्।
करभः = त्रिवर्ष उष्ट्रः।
‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः।]] करभः, 50 ईरन् प्रत्यये रूपम्।
करीरम् = वृक्षः।]] करीरम्, 51 इति ईषन् प्रत्ययः।
करीषम् = गोमयबिकारः।]] करीषम्।
01 (२५७)
02 (६-तुदादिः-१४०९। सक। सेट्। पर। किरादिः।)
03 (श्लो। ३९)
04 [[३। ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति वचनात् इत्त्वं बाधित्वा वृद्धिः। ‘उरण् रपरः’ (१-१-५१) इति रपरत्वम्।]]
05 [[४। ‘इट् सनि वा’ (७-२-४१) इति प्राप्तं वैकल्पिकमिटं बाधित्वा, ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति नित्यमिट्। ‘अत्रेटो दीर्घो नेष्टः’ (वा। ७-२-७५) इति दीर्घो न। भागवृत्तिकारस्तु दीर्घविकल्पं सन्नन्तेऽपि ब्रूते--इति माधवधातु- वृत्तिः। तदानीं ‘चिकरीषकः--’ इत्यादीनि रूपाण्यपि सर्वत्र सन्नन्ते ज्ञेयानि।]]
06 [[५। ‘ॠत इद्धातोः’ (७-१-१००) इतीत्त्वम्। रपरत्वम्। द्वित्वम्। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः। ‘यस्य हलः’ (६-४-४९) इति यकारलोपः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07 [[६। ‘वृतो वा’ (७-२-३८) इति दीर्घविकल्पः। एवं तव्यदादिष्वपि बोध्यम्।]]
08 [पृष्ठम्०२५७+ २७]
09 [[१। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। इत्वं, रपरत्वम्। ‘आ- च्छीनद्योर्नुम्’ (७-१-८०) इति नुम्विकल्पः।]]
10 [[२। ‘किरतौ लवने’ (६-१-१४०) इति उपपूर्वकात् सुट्।]]
11 (श्वापदः)
12 [[३। ‘हिंसायां प्रतेश्च’ (६-१-१४१) इति प्रतिपूर्वकात् सुट्।]]
13 (श्वापदः)
14 [[४। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
15 [[५। ‘किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्’ (वा। १-३-२१) इति शानच्। ‘अपाच्चतुष्पाच्छकुनिष्वालेखने’ (६-१-१४२) इति सुट्। सुडपि ‘हर्षजीविकाकुला- यकरणेष्विति वाच्यम्’ (वा। ६-१-१४२) इति वचनात् उक्तेष्वर्थेष्वेव। यथासंख्यम् उदाहरणेषु अर्थमेदोऽनुसन्धेयः। ‘अवाच्चतुष्पात्--’ (६-१-१४२) इति दाक्षि- णात्यपाठ इति धातुरूपप्रकाशिकायां श्रीकण्ठशास्त्रिणः।]]
16 (वृषभो हृष्टः)
17 (कुक्कुटो भक्षाथीं)
18 (श्वा आश्रयाथीं)
19 [[६। ‘सुट् कात् पूर्वः’ (६-१-१३५), ‘अडभ्यासव्यवायेऽपि’ (६-१-१३६) इत्यनुवर्त- माने, ‘अपाच्चतुष्पात्--’ (६-१-१४२) इति सुट् कात् पूर्वः।]]
20 [[७। इत्वे, रपरत्वे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घे रुत्वविसर्गौ।]]
21 [[८। ‘श्र्युकः क्किति’ (७-२-११) इतीण्णिषिध्यते। इत्वे रपरत्वे च ‘हलि च’ (८-२-७७) इति दीर्घे, ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वम्। ‘रषाभ्यां नो णः--’ (८-४-१) इति णत्वम्।]]
22 [[९। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः। किरः = वराहः। ‘कोलः पोत्री किरः किटिः।’ इत्यमरः।]]
23 [[१०। ‘विष्किरः शकुनिर्विकिरो वा’ (६-१-१५०) इति विकल्पेन सुट् शकुनौ वाच्ये। यदा सुट्, तदानीं, ‘परिनिविभ्यः--’ (८-३-७०) इति षत्वम्।]]
24 [[११। ‘विष्किरः शकुनौ वा’ (६-१-१५०) इति सूत्रपाठमालम्ब्य महाभाष्ये, वाग्रहणस्य निपातनेन सम्बन्धकथनात्, ‘विकिरान्नं च वैष्णवम्।’, ‘विकिरं वैश्वदेविकम्’ इत्यादिप्रयोगा अपि साधव इति ज्ञेयम्। स्पष्टमिदं सि। कौमुद्याम्।]]
25 [[आ। ‘वने चिकरिषोर्वृक्षान् बलं जिगरिषुः कपेः।।’ भ। का। ९-५४।]]
26 [पृष्ठम्०२५८+ २६]
27 [[१। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
28 [[आ। ‘सरित्प्रवाहैर्व्यतिकीर्यमाणैः सङ्कल्पयोनेरिव शिल्पभेदैः। पश्य प्रिये त्वं परिवृत्य किञ्चिद् दिव्योपमान् जानपदान् विशेषान्।।’ यादवाभ्युदये १८-७४।]]
29 [[२। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]
30 [[३। ‘वर्चस्केऽवस्करः’ (६-१-१४८) इति सुट् वर्चस्केऽभिधेये। वर्चस्कम् = भाण्डात् काष्ठादिना आकृष्टम् अन्नमलम्। तत्सम्बन्धात् देशोऽपि तथोच्यते। अन्यत्र अवकर इत्येव। अवकरः = सम्मार्जन्या क्षिप्ता धूलिः। ‘सम्मार्जनी शोधनी स्यात्, सङ्करोऽवकरस्तया। क्षिप्ते--’ इत्यमरः।]]
31 (वर्चस्कम्)
32 [[४। ‘अपस्करो रथाङ्गम्’ (६-१-१४९) इति सुट्। रथाङ्गम् = रथावयवः, न तु चक्रम्।]]
33 [रथाङ्गम्]
34 [[५। आकीर्यन्ते धातवोऽत्रेति--आकरः = खनिः। ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति संज्ञायामधिकरणे घः।]]
35 [[B। ‘देहव्रश्चनतुण्डाग्रं तं विलोक्याशुभाकरम्। पापगोचरमात्मानमशोचन् वानरा मुहुः।।’ भ। का। ७-८०।]]
36 [[६। ‘कॄ धान्ये’ (३-३-३०) इति, भावे कर्तृभिन्ने कारके च घञ्--धान्ये वाच्ये। ‘उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ।’ इत्यमरः। ‘निकारः स्यात् परिभवे, धान्यस्योत्क्षेपणेऽपि च’ इति धरणिकोशः। धान्यभिन्नविषयके त्वर्थे उत्करः, निकरः इत्यबेव।]]
37 [[C। ‘सदोद्गारसुगन्धीनां फलानामलमाशिताः। उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः।।’ भ। का। ७-३८।]]
38 [वा धान्यस्य]
39 [पुष्पस्य]
40 [पृष्ठम्०२५९+ २२]
41 [[१। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः।]]
42 [[२। ‘श्रथुकः क्किति’ (७-२-११) इतीण्णिषेधः।]]
43 [[३। ‘किरतौ लवने’ (६-१-१४०) इति किरतिसामान्ये विहितोऽपि सुट् ‘णमुलत्र वक्तव्यः’ इति काशिकावचनात् णमुल्येव, इति पक्षमवलम्बयात्र णमुलन्तं रूपं लिखितम्।]]
44 [मद्रका लुनन्ति]
45 [[४। औणादिके [द। उ। ५-३]
46 [[५। औणादिके [द। उ। ५-२६]
47 [[६। औणादिकः [द। उ। ५-४२]
48 [[७। ‘कॄवॄतॄदारिभ्य उनन्’ [द। उ। ५-५२]
49 [[८। औणादिके [द। उ। ७-१८]
50 [[९। औणादिके [द। उ। ८-७२]
51 [[१०। ‘कॄतॄभ्यामीषन्’ [द। उ। ९-९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
