| YouTube Channel

उपसर्ज्जन (upasarjjana)

 
वाचस्पत्यम्
Sanskrit
उपसर्ज्जन
त्रि०
उप + सृज--ल्युट् दैवाद्युपद्रवे “निर्घातेमूमिचलने ज्योतिषामुपसर्ज्जने” मनुः अप्रधाने गौणे-विशेषणे “वोपसर्ज्जनस्य” “गोस्त्रियीरुसर्ज्जनस्य” पा० ।“उपसर्ज्जनं प्रधानस्य धर्मतो नोपपद्यते” मनुः “उप-सर्ज्जनमप्रधानम्” कुल्लू० “अनुपसर्ज्जनात्” “आचा-र्य्योपसर्ज्जनश्चान्तेवासी” पा० उपसृजत्यनेन करणे ल्युट् ।३ संमार्गसाधने
त्रि०
स्त्रियां ङीप् “अथैक उपसर्ज्जनी-भिरेभिः” शत० १, २, २, २, “पिष्टसमार्जनार्थासु अप्सुपिष्टसम्मार्ज्जनार्थञ्चोपसर्ग साधनानि उपसर्जन्यः” भा०“प्रथमानिर्द्दिष्टमुपसर्ज्जनम्” पा० उक्ते समासविधायकशा-स्त्रे प्रथमान्तपदनिर्द्दिष्टे “एकविभक्ति चापूर्वणिनिपाते”विग्रहवाक्ये यन्नियतविभक्तिकं तदुपसर्जनसंज्ञम् इत्यर्थकपाणिनिसूत्रोक्ते शब्दभेदे “उपसर्ज्जनं पूर्व्वम्” पा०समासे उपसर्ज्जनस्य पूर्व्वप्रयोगः यथा “द्वितीया श्रिते-त्यादि” पा० सूत्रे द्वितीयेति प्रथमान्तम् पदं तदेव प्राक्-प्रयोज्यम् यथा कष्टं श्रित इत्यादि वाक्ये कष्टश्रित इत्यादि