| YouTube Channel

उपविषं (upaviSaM)

 
शब्दकल्पद्रुमः
Sanskrit
उपविषं,
क्ली,
(उपमितं विषेण ।) कृत्रिमविषम् ।तत्पर्य्यायः चारं गरः इति हेमचन्द्रः
(पुं, पारिभाषिकविषः यथा, --“अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका ।करवीरोऽथ धुस्तूरः पञ्च चोपविषाः स्मृताः”
केषाञ्चिन्मते सप्त उपविषाः यथा, --“अर्कसेहुण्डधुस्तूरा लाङ्गली करवीरकः ।गुञ्जाहिफेनमित्येताः सप्तोपविषजातयः”
इति शार्ङ्गधरे मध्यखण्डे द्वादशाध्याये
)