| YouTube Channel

उपवासी (upavAsI)

 
शब्दकल्पद्रुमः
Sanskrit
उपवासी, [न्] त्रि, (उपवासोऽस्यास्तीति उप-वास + इनि ।) उपवासयुक्तः अहोरात्रभोजना-भावविशिष्टः
(“विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः” ।इति महाभारते मार्कण्डेयसमस्यापर्ब्बणिदानकथने १९९ ५१
“दिवोपवासी तु निशामिषाशीजटाधारः सन् कुलटाभिलाषी ।अयं कषायारुणचारुदण्डःशठाग्रणीः सर्पति विश्वभण्डः”
इति हास्यार्णवः
)