| YouTube Channel

उपवासः (upavAsaH)

 
Apte 1890
English
उपवासः 1 A fast
सोपवासस्त्र्यहं वसेत् Y. 1. 175, 3. 190
Ms. 11. 196 (a fast is a religious act and consists in abstaining from every kind of sensual gratification).
2 Kindling a sacred fire.
3 A fire-altar.
Apte Hindi
Hindi
उपवासः
पुं*
- उपवस्+घञ्
व्रत
उपवासः
पुं*
- उपवस्+घञ्
यज्ञाग्नि का प्रदीप्त करना
E Bharati Sampat
Sanskrit
(पुं) उप+वस(निवासे)+क्तः। ‘नपुंसके भावे क्तः’ ३.३.११४। १.निराहारम् २.एकादशीशिवरात्रिदिनेषु विशेषतिथिषु निराहारः। ‘दशम्यां नियताहारो मांसमैथुनवर्जितः। एकादश्यां भुञ्जीत पक्षयोरुभयोरपि ।’ ‘अमावास्या द्वादशी संक्रान्तिश्च विशेषतः। एताः प्रशस्तास्तिथयः भानुवारस्तथैव अत्र स्नानं जपो होमो देवतानां पूजनम् उपवासतथा दानमेकैकं पावनं स्मृतम् ।’ २.उप समीपे वासः।
Wordnet
Sanskrit
Synonyms:
उपवासः, अनशनम्, अनाहारः, उपोषणम्, निराहारता, निराहारत्वम्, भोजनत्यागः, उपवसनम्
noun
अन्नस्य परित्यागः।
"कदाचित् उपवासः आचरितव्यः।"
Synonyms:
उपवासः, उपवस्तम्, उपोषितम्, उपोषणम्, औपवस्तम्, अनशनम्, अनाहारः, अभोजनम्, लङ्घनम्, आक्षपणम्
noun
यस्मिन् व्रते अन्नग्रहणं वर्ज्यम्।
"एकादश्याम् तस्य उपवासः अस्ति।"
Tamil
Tamil
உபவாஸ : : விரதம், உணவு உட்கொள்ளாமல் இருப்பது, யாஹ அக்னியை எரியச்செய்தல்.
अमरकोशः
Sanskrit
Word: उपवासः
Root: उपवास
Gender: पुं
Number: all
Meaning(s):
fasting
abstinence
fire altar
kindling a sacred fire
abstinence from food in general
fast [abstinence from all sensual gratification]
Shloka(s):
2|7|38|1 औपवस्तं तूपवासो विवेकः पृथगात्मता। (ब्रह्मवर्गः)
Synonym(s):
2|7|38|1 औपवस्तम् (औपवस्त) (नपुं)
2|7|38|1 उपवासः (उपवास) (पुं) fasting, abstinence, fire altar, kindling a sacred fire, abstinence from food in general, fast [abstinence from all sensual gratification]
Related word(s):
परा_अपरासंबन्धः व्रतम्
जातिः क्रिया
शब्दकल्पद्रुमः
Sanskrit
उपवासः,
पुं,
(उप + वस + घञ् ।) अग्न्याधानम् ।इति मलमासतत्त्वम् अहोरात्रभोजनाभावः ।तत्पर्य्यायः उपवस्तम् इत्यमरः
उपोषितम् ३उपोषणम् औपवस्तम् इति तट्टीका
अस्य प्रमाणम् ।“उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।उपवासः विज्ञेयः सर्व्वभोगविवर्ज्जितः”
अस्यार्थः उपावृत्तस्य निवृत्तस्य पापेभ्यः पाप-कर्म्मभ्यः गुणाः सर्व्वभूतेषु दया क्षान्तिः अन-सूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहाच सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगी-तादिसुखरहितः वैधोपवासे भोजनचतुष्टय-निवृत्तिमाह महाभारते ।“सायमाद्यन्तयोरह्नोः सायं प्रातश्च मध्यमे ।उपवासफलं प्रेप्सोर्वर्ज्यं भक्तचतुष्टयम्”
उपवासदिने वर्ज्जनीयानि अञ्जनम् रोचनम् ।गन्धः पुष्पम् माल्यम् अलङ्कारः दन्तधाव-नम् गात्राभ्यङ्गः शिरोभ्यङ्गः ताम्बूलम् यच्चा-न्यत् बलरागकृत् दिवास्वापः अक्षक्रीडा ।मैथुनम् स्तीणां सरागसम्प्रेक्षणस्पर्शौ व्रतादिषुपुत्त्रोत्पत्तिपर्य्यन्तं ऋतौ सकृत् स्त्रीगमने दोषः
तत्पूर्व्वापरदिने वर्ज्जनीयानि कांस्यपात्रे भोज-नम् मांसभोजनम् सुरापानम् मधुपानम् ।लोभः वितथमाषणम् व्यायामः व्यवायःदिवास्वापः अञ्जनम् शिलापिष्टभक्षणम् म-सूरभक्षणम् पुनर्भोजनम् अध्वगमनम् यानम् ।आयासः द्यूतक्रीडा अभ्यङ्गः परान्नम् तैलम् ।चणकम् कोरदूषकम् शाकम् अधिकधृतम् ।अत्यम्बुपानम् इति एकादशीतत्त्वम्
उपवासा-सामर्थ्ये प्रतिनिधिः स्कन्दपुराणम्
“पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।एषामभाव एवान्यं ब्राह्मणं विनियोजयेत्” इति ।“भार्य्या भर्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा ।असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गो जायते”
इति गरुडपुराणम्
तदनुकल्पः ।“नक्तं हविष्यान्नमनोदनञ्चफलं तिलाः क्षीरमथाम्बु चाज्यम् ।यत्पञ्चगव्यं यदि वाथ वायुःप्रशस्तमत्रोत्तरमुत्तरञ्च”
इति वायुपुराणम्
“उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत् ।तावद्धनानि वा दद्याद्यद्भक्ताद्द्विगुणं भवेत्
सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान् ।कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः”
इति ब्रह्मवैवर्त्तपुराणम्
“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।हविर्ब्राह्मणकाम्या गुरोर्वचनमौषधम्”
इति बौधायनः
कृदन्तरूपमाला
Sanskrit
1 {@“वस निवासे”@} 2 ‘वस्यति स्तम्भने वस्ते, छादने वसयेत्, वसेत्।।
निवासे वासयेत् स्नेहे, वासयत्युपसेवने।’ 3 इति देवः।
‘अयं धातुः उभयपदी’ इति कातन्त्रशाकटायनादयः।
वासकः-सिका, वासकः-सिका, 4 विवत्सकः-त्सिका, वावसकः-सिका
5 वस्ता-त्री, वासयिता-त्री, विवत्सिता-त्री, वावसिता-त्री
वसन्-न्ती, वासयन्-न्ती, विवत्सन्-न्ती
-- निवत्स्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवत्सिष्यन्-न्ती-ती
-- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः
6 अध्युषितम्- 7 8, प्रोषितः, 9 अनुषितो 10, गुरुः शिष्येण, तः-तवान्, वासितः, विवत्सितः, वावसितः-तवान्
वसः, 11 प्रवासी, जलवासी, सुवासी, नगरवासी, 12 ग्रामेवासी-ग्रामवासी, 13 अवासी, होतुरन्तेवासी, 14 पितुरन्तेवासी, 15 अध्यूषुषः 16 ऊषिवान् 17, वासः, वासनः, 18 वास्तव्यः, 19 विवत्सुः, वावसः
वस्तव्यम्, वासयितव्यम्, विवत्सितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवत्सनीयम्, वावसनीयम्
20 वास्यम्, 21 अमावास्या 22 -अमावस्या, वास्यम्, विवत्स्यम्, वावस्यम्, उष्यमाणः, वास्यमानः, विवत्स्यमानः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुर्वसः
-- -- निवासः, 23 आवासः 24, लिप्तवासः, वनेवासः, 25 वनवासः, ग्रामेवासः, 26 उदवासः, उदकवासः, उद्वासः, उपवासः, प्रावासः, वासः, विवत्सः, वावसः
वस्तुम्, वासयितुम्, विवत्सितुम्, वावसितुम्
27 उष्टिः, 28 वासिः, वासना, विवत्सा, वावसा
वसनम्, वासनम्, विवत्सनम्, वावसनम्
29 उषित्वा 30, वासयित्वा, विवत्सित्वा, वावसित्वा
31 प्रोष्य, प्रवास्य, प्रविवत्स्य, प्रवावस्य
वासम् २, उषित्वा २, वासम् २, वासयित्वा २, विवत्सम् २, विवत्सित्वा २, वावसम्
वावसित्वा
32 33 वसतिः, 34 वासिः, 35 वसिः, 36 वस्तिः, 37 वसु, 38 वस्तु, 39 वास्तु, 40 आवसथः, 41 वत्सरः, 42 वासरः, 43 वसिष्ठः, 44 वस्नम्, 45 वसन्तः, 46 वस्त्रम्।
प्रासङ्गिक्यः
01
=>
(१५७६)
02
=>
(१-भ्वादिः-१००५। अक। अनि। पर।)
03
=>
(श्लो। १८७-८)
04
=>
[[५। सन्नन्तात् ण्वुलि, धातुसकारस्य ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे रूपमेवम्। एवं स्यप्रत्यये, सन्नन्तेषु सर्वत्रापि ज्ञेयम्।]]
05
=>
[पृष्ठम्१२१२+ २८]
06
=>
[[१। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इत्यादिना कर्तृकर्मणोः क्तः। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति इडागमः। सम्प्रसारणम्। पूर्वरूपादिकम्। ‘शासिवसिघसीनां च’ (८-३-६०) इति षत्वम्।]]
07
=>
[[आ। ‘बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम्।।’ भ। का। ९। ३९]]
08
=>
[अनेन]
09
=>
[[B। ‘आहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः।।’ भ। का। ९। ६८]]
10
=>
[गुरुं शिष्यः]
11
=>
[[२। ताच्छीलिकः ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।]]
12
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये ‘शयवासवासिषु अकालात्’ (६-३-१८) इति सप्तम्या अलुक्। एवम् अन्तेवासी इत्यत्रापि ज्ञेयम्।]]
13
=>
[[४। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् (ग। सू। ३-१-१३४) इति वसेः ग्रह्यादिपाठात् णिनिप्रत्ययः।]]
14
=>
[[C। ‘रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्।।’ शि। व। ३। ५५]]
15
=>
[[ड्। ‘अध्यूषुषो यामभजञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः।।’ शि। व। ३-५९]]
16
=>
[[५। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। सम्प्रसारणपूर्वरूपादिकम्। अभ्यासस्य उत्तरखण्डस्य सवर्णदीर्घः। ‘शासिवसि--’ (८-३-६०) इति षत्वम्।]]
17
=>
[[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं जनौघजन्यम्।’ भ। का। ३-२७]]
18
=>
[[६। ‘वसेस्तव्यत् कर्तरि णिच्च’ (वा। ३-१-९६) इति वचनात् कर्तरि तव्यत्प्रत्ययः। णिद्वद्भावेनोपधावृद्धिः। वसतीति वास्तव्यः।]]
19
=>
[[F। ‘प्रसूनकॢप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः।।’ शि। व। १-६६]]
20
=>
[पृष्ठम्१२१३+ २६]
21
=>
[[१। अमा = सह वसतः सूर्याचन्द्रमसौ इत्यर्थे ‘अमावस्यद् अन्यतरस्याम्’ (३-१-१२२) इति ण्यत्प्रत्ययान्तो निपात्यते। पक्षे वृद्ध्यभावश्च निपातनादेव। तेन अमावास्या अमावस्या इति रूपद्वयम्।]]
22
=>
[[आ। ‘स तामूचेऽथ कच्चित्त्वममावास्यासमन्वये।’ भ। का। ६-६४]]
23
=>
[[२। ‘हलश्च’ (३-३-१२१) इति घञ्। ‘शयवास--’ (६-३-१८) इति सप्तम्या अलुक्।]]
24
=>
[[B। ‘आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता।’ भ। का। ५-९०]]
25
=>
[[C। ‘रक्षन् वनेवासकृताद् भयात् तान् प्रातश्छलेनापजगाम रामः।।’ भ। का। ३-१६।]]
26
=>
[[३। ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति सूत्रेण वासशब्द उत्तरपदे उदकशब्दस्य उदादेशः। उदवासः उदकस्य वास इत्यर्थः।]]
27
=>
[[४। स्त्रियां क्तिनि सम्प्रसारणषत्वष्टुत्वादिकेषु रूपमेवम्। वसतिः इति तु औणादिकं रूपमिति ज्ञेयम्।]]
28
=>
[[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्प्रत्यये रूपम्। यद्यपि भाव एवायं प्रत्ययः, तथापि यथासम्भवं कर्तर्यपि भवति। वासिः = तक्ष्ण आयुधविशेषः।]]
29
=>
[[६। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति क्त्वायामिडागमः। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधं बाधित्वा ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति कित्त्वम्। तेन सम्प्रसारणादिकं भवतीति ज्ञेयम्।]]
30
=>
[[ड्। ‘ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते।’ भ। का। ३-४५।]]
31
=>
[[E। ‘क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तात्…।’ शि। व। ११-६५]]
32
=>
[पृष्ठम्१२१४+ ३०]
33
=>
[[१। ‘वहिवस्यर्तिभ्यश्चित्’ (द। उ। १-२९) इत्यतिप्रत्ययः। वसतिः = आलयः।]]
34
=>
[[२। ‘वसिवपि--’ (द। उ। १-५३) इति इञ्प्रत्ययः। वासिः = तक्षकारभाण्डम्।]]
35
=>
[[३। औणादिकः (द। उ। १-६८) इप्रत्ययः। वसिः शय्या, रात्रिर्वा।]]
36
=>
[[४। ‘वसेस्तिः’ (द। उ। १-७४) इति तिप्रत्ययः। वसत्यस्मिन् नानौषधियुक्तः स्नेह इति वस्तिः-अधःकायप्रदेशः, चर्ममयः पुटश्च। बस्तिः इति गौडीयाः।]]
37
=>
[[५। औणादिके (द। उ। १-९५) उप्रत्यये रूपमेवम्। वसु = धनम्।]]
38
=>
[[६। ‘वसेस्तुन्’ (द। उ। १-१२८) इति तुन्प्रत्ययः। वस्तु = द्रव्यम्।]]
39
=>
[[७। ‘अगारे णिच्च’ (द। उ। १-१२९) इति तुन्प्रत्ययः, तस्य णिद्वद्भावेनोपधावृद्धिः। वास्तु = गृहादिकम्।]]
40
=>
[[८। ‘आङि वसः’ (द। उ। ६-३९) इति आङ्युपपदे धातोरथप्रत्यये रूपमेवम्। आवसथः = गृहादिकम्।]]
41
=>
[[९। ‘वसेश्च’ (द। उ। ८-५१) इति सरन्प्रत्यये ‘सः स्यार्द्धधातुके’ (७-४-४९) इति तकारादेशे रूपम्। वसन्त्यस्मिन् ग्रहनक्षत्रर्तुदेवता इति वत्सरः = अब्दः। ‘संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत्समाः’ इत्यमरः।]]
42
=>
[[१०। णिजन्तात् औणादिके (द। उ। ८-१००) अरप्रत्यये रूपमेवम्। ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः।]]
43
=>
[[११। अतिशयेन वसुमान् वसिष्ठः। वसुमच्छब्दात् इष्ठन्प्रत्यये मतुब्लुकि टिलोपे रूपमेवम्।]]
44
=>
[[१२। ‘धापॄवस्यज्यतिभ्यो नः’ (द। उ। ५-३९) इति नः। “वस्नम् मूल्यम्” इति धातुवृत्तिः।]]
45
=>
[[१३। ‘तॄभूवहिवसि--’ (द। उ। ६-१९) इति झच्प्रत्ययः। ‘झोऽन्तः’ (७-१-३) इति अन्तादेशे वसन्तः इति रूपम्। ऋतुविशेषः।]]
46
=>
[[१४। औणादिके (द। उ। ८-७९) ष्ट्रन्प्रत्यये रूपमेवम्। केचित्तु ‘वस आच्छादने’ इत्यस्मात् व्युत्पादयन्ति, तदेव न्याय्यम्।]]