उपवास (upavAsa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishउपवास - upavAsa - - fast [ abstinence from all sensual gratification ]
उपवास - upavAsa - - abstinence
उपवास - upavAsa - - fasting
उपवास - upavAsa - - abstinence from food in general
उपवास - upavAsa - - kindling a sacred fire
उपवास - upavAsa - - fire altar
Wilson
EnglishApte
Englishउपवास [upavāsa], Staying near
तेषूपवासान्विबुधानुपोष्य * 3.118.14.
सः A fast
सोपवासस्त्र्यहं वसेत् 1.175, 3.19
11.196 (a fast is a religious act and consists in abstaining from every kind of sensual gratification).
Kindling a sacred fire.
A fire-altar.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiउपवासः
- उपवस्+घञ्
व्रत
उपवासः
- उपवस्+घञ्
यज्ञाग्नि का प्रदीप्त करना
Shabdartha Kaustubha
Kannadaउपवास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಊಟಮಾಡದಿರುವುದು
निष्पत्तिः - > उप + वस (निवासे) - "घञ्" (३-३-१८)
प्रयोगाः - > "समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम्"
उल्लेखाः - > किरा० ३-२८
उपवास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಮೀಪದಲ್ಲಿ ವಾಸ ಮಾಡುವಿಕೆ
व्युत्पत्तिः - > उप समीपे वासः
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritऔपवस्त्रं तूपवासः कृच्छ्रं सांतपनादिकम् ॥ ८४२ ॥
औपवस्त्र (क्ली), उपवास (पुं), कृच्छ्र (क्ली)
पुराणम्
Englishउपवास / UPAVĀSA. upavāsa means going back from sin and leading a good life. (Upā (varta) = go back and Vāsa = A life). All actions which are not good, must be relinquished. Those who observe upavāsa should abstain from using flesh, Masūra (pulse), caṇaka (a kind of gram), Varaku (a kind of grain), green leaves prepared), honey, rice etc. and from contact with women. He should not wear flowers, ornaments, or fashionable dress
should not inhale fragrant smoke, and fragrance of any sort. Cleaning the teeth and using collyrium also are prohibited. Instead of cleaning the teeth in the morning Pañcagavya (Milk, curd, ghee, urine and dung of cow) should be taken in. Drinking water several times, using betel leaves, sleeping in the day time and sexual act also should be avoided. (agni purāṇa, Chapter 175).
अमरकोशः
SanskritWord: उपवासः
Root: उपवास
Gender: पुं
Number: all
Meaning(s):
⇒ fasting
⇒ abstinence
⇒ fire altar
⇒ kindling a sacred fire
⇒ abstinence from food in general
⇒ fast [abstinence from all sensual gratification]
Shloka(s):
2|7|38|1 ► औपवस्तं तूपवासो विवेकः पृथगात्मता। (ब्रह्मवर्गः)
Synonym(s):
➠ 2|7|38|1 ⇢ औपवस्तम् (औपवस्त) (नपुं)
➠ 2|7|38|1 ⇢ उपवासः (उपवास) (पुं) ⇒ fasting, abstinence, fire altar, kindling a sacred fire, abstinence from food in general, fast [abstinence from all sensual gratification]
Related word(s):
परा_अपरासंबन्धः ➡ व्रतम्
जातिः ➡ क्रिया
शब्दकल्पद्रुमः
Sanskritउपवासः, (उप + वस + घञ् ।) अग्न्याधानम् ।इति मलमासतत्त्वम् । अहोरात्रभोजनाभावः ।तत्पर्य्यायः । उपवस्तम् २ । इत्यमरः ॥
उपोषितम् ३उपोषणम् ४ औपवस्तम् ५ । इति तट्टीका ॥
अस्य प्रमाणम् ।“उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।उपवासः स विज्ञेयः सर्व्वभोगविवर्ज्जितः” ॥
अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पाप-कर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अन-सूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहाच । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगी-तादिसुखरहितः । वैधोपवासे भोजनचतुष्टय-निवृत्तिमाह महाभारते ।“सायमाद्यन्तयोरह्नोः सायं प्रातश्च मध्यमे ।उपवासफलं प्रेप्सोर्वर्ज्यं भक्तचतुष्टयम्” ॥
उपवासदिने वर्ज्जनीयानि । अञ्जनम् । रोचनम् ।गन्धः । पुष्पम् । माल्यम् । अलङ्कारः । दन्तधाव-नम् । गात्राभ्यङ्गः । शिरोभ्यङ्गः । ताम्बूलम् । यच्चा-न्यत् बलरागकृत् । दिवास्वापः । अक्षक्रीडा ।मैथुनम् । स्तीणां सरागसम्प्रेक्षणस्पर्शौ । व्रतादिषुपुत्त्रोत्पत्तिपर्य्यन्तं ऋतौ सकृत् स्त्रीगमने न दोषः ॥
तत्पूर्व्वापरदिने वर्ज्जनीयानि । कांस्यपात्रे भोज-नम् । मांसभोजनम् । सुरापानम् । मधुपानम् ।लोभः । वितथमाषणम् । व्यायामः । व्यवायःदिवास्वापः । अञ्जनम् । शिलापिष्टभक्षणम् । म-सूरभक्षणम् । पुनर्भोजनम् । अध्वगमनम् । यानम् ।आयासः । द्यूतक्रीडा । अभ्यङ्गः । परान्नम् । तैलम् ।चणकम् । कोरदूषकम् । शाकम् । अधिकधृतम् ।अत्यम्बुपानम् । इति एकादशीतत्त्वम् ॥
उपवासा-सामर्थ्ये प्रतिनिधिः । स्कन्दपुराणम् ॥
“पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।एषामभाव एवान्यं ब्राह्मणं विनियोजयेत्” । इति ।“भार्य्या भर्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा ।असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गो न जायते” ॥
इति गरुडपुराणम् ॥
तदनुकल्पः ।“नक्तं हविष्यान्नमनोदनञ्चफलं तिलाः क्षीरमथाम्बु चाज्यम् ।यत्पञ्चगव्यं यदि वाथ वायुःप्रशस्तमत्रोत्तरमुत्तरञ्च” ॥
इति वायुपुराणम् ॥
“उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत् ।तावद्धनानि वा दद्याद्यद्भक्ताद्द्विगुणं भवेत् ॥
सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान् ।कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः” ॥
इति ब्रह्मवैवर्त्तपुराणम् ॥
“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” ॥
इति बौधायनः ॥
वाचस्पत्यम्
Sanskritउपवास उप + वस--घञ् । भोजनाभावे भोजननिवृत्तौस च वैधः अवैधश्चेति भेदात् द्विविधः । तत्र वैधस्य व्रत-रूपत्वम् । तस्य संकल्परूपत्वं निरस्य एका० त० संकल्प-जन्यत्वमुक्तम् यथा “दीर्घकालानुपालनीयः सङ्कल्पोर्व्रत-मिति नारायणोपध्यायानां स्वरसः । स्वकर्त्तव्यविषयो-नियतः सङ्कल्पोब्रतमिति श्रीदत्तहरिनाथवर्द्धमानप्रभृ-तयः । सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव, निषेधे नकर्त्तव्यमिति ज्ञानविशेषः अतएव मङ्कल्पः कर्म्ममानस-मित्याभिधानिकाः । वस्तुतस्तु पूर्व्वोक्तवराहपुराणवचने-नैकादश्युपवासस्य व्रतत्वाभिधानात् “एकभक्तेन नक्तेनतथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्र उदा-हृतः” इत्यादियाज्ञवल्क्याद्युक्तेषु एकभक्तनक्ताया-चितभोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्च न स-सङ्कल्पोव्रतं किन्तु सङ्कल्पषिषयतत्तत्कर्म्मैव व्रतमिति ।अतएवंव्रतानां सङ्कल्पसम्भवत्वमाह मनुः “सङ्कल्पपूलःकामोवै यज्ञाः चङ्कल्पसम्भवाः । ब्रतनियमधर्म्माश्च सर्व्वेसङ्कल्पजाः स्मृताः” । अनेन कर्म्मणा इद मिष्टं फलंसाध्यते इत्येवंविषया वुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतया अवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नंकुर्व्वीत इत्येवं यज्ञा सङ्कल्पसम्भवाः । ब्रतनियमरूपाध-र्म्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्व्वे इत्यनेन अन्येऽपिशास्त्रार्थाः सङ्कल्पादेव जायन्तैति कुल्लूकभट्टः । सङ्क-ल्पमाह वराहपुराणम् । “प्रातःसङ्कल्पयेद्विद्वानुपवासब्रता-दिकम् । नापराह्णे न मध्याह्ने पित्र्यौ कालौ हि तौस्मृतौ” अत्र संकल्पोव्रतारम्भः” । तत्र भोजनाभावश्च अहो-रात्रकालावच्छिन्नः । यथोक्तं स्मृतौ “तपनोदयमारभ्ययामाष्टकमभोजनम् । उपवासः सविज्ञेयः प्रायश्चित्तेविधीयते” प्रायश्चित्ते इत्युपलक्षणम् । प्राजापत्यादौत्रिरात्राद्युपोषणमस्यैवावृत्त्या बोध्यम् । उपवासश-ब्दस्य निरुक्त्यन्तरं भवि० दर्शितं यथा “उपा-वृत्तस्य पापेभ्योयश्च वासोगुणैः सह । उपवासः स विज्ञे-यः सर्वभोगविवर्जितः” वैधोपवासस्य यथा निवृत्तिरूप यत्नपरतया भावरूपत्वं तथा एका० त० समर्थितम् यथाएवञ्च सङ्कल्पविषयस्य अनन्तं पूजयेद्धरिमित्यादौ भावत्वं, नेक्षेतोद्यन्तमादित्यमित्यदौ चाभावरूपत्वम् । ननु तर्हि व-त्रस्य क्वचिदप्यभावरूपत्वात् “निषेधः कालमात्रके” इत्यस्यैवविषयत्व स्यादिति चेन्न तस्य केवलनिषेधविषयकत्वात् अस्यतु सङ्कल्पादीतिकर्त्तव्यतायोगित्वेन भावघटितत्वात् “तत्र पूज्यविधेर्वृत्तिः” इत्यस्यैव विषयत्वमिति । जोमूतवाहनेनापि“एकादश्यां भोजने दोषं दर्शयन्नुपवासं नियमयति । न-चायं निषेधः इतिकर्त्तव्यताविधानात् निषेधे चेतिकर्त्तव्यता-विर हाद्व्रतपदाप्रयोगाच्च” इत्युक्तम् । यत्तु निषेधप्रकरण-स्थदेवलवचने “म शङ्खेन पिबेत्तोयं न खादेत् कूर्म्म-शूकरौ । एकदश्यां न भुञ्चीत पक्षयोरुभयोरपि” इत्यत्रनञोनिषेधे मुख्यत्वाद्भोजनाभावः प्रतीयते नत्वभोज-नसङ्कल्परूपं व्रतं लक्षणाप्रसङ्गात् । मत्स्यपुराणे“दशम्यां नियताहारो मांसमैथुनवर्ज्जितः । एकादश्यांन भुञ्जीत पक्षयोरुभयोरपि” इति दशमीनियमपूर्बकंव्रतमभिधाय “रटन्तीह पुराणानि भूयोभूयोवरानने! ।न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे” इत्यादिविधे-रनन्यगतिकतया निषेधकत्वमवश्यं वाच्यम् । तथाच नि-षिद्धे भोजने दोषश्रवणं निषेधातिक्रमजन्यतयैवोपपद्यमानंन फलश्रुत्या काम्यतया निरूढस्य व्रतस्य नित्यत्वे प्रमाण-मिति तच्चिन्त्यं न खलु “न शङ्खेन पिवत्तोयमित्यादिभिः”प्रतिपन्ननिषेधभावैः साहचर्य्येणैकादशीभोजननिषेधकमात्र-मुत्तरार्द्धं किन्तु “एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।वनस्थयतिधर्म्मोऽयं शुक्लामेव सदा गृही” इति गोभिल-वचने धर्म्मशब्दसममिव्याहारेणैकादश्यामुपवसेदित्यनेनैक-वाक्यतया चोपवासविधायकमपि नहि निषिद्धानां ब्रह्म-हत्यादीनां त्यागेन कश्चिद्धर्म्मोजायते किन्तु भावरूपाङ्गानु-गृहीतोनिषिद्धोधर्म्मोभवेदिति, वैधोपवासे च “उपावृत्तस्यपापेभ्योयश्च वासोगुणैः सह । उपवासः स विज्ञेयःसर्वभोगविवर्ज्जितः” इति भविष्यपुराणवचनेन भोग-मात्रस्यैव वर्जने प्राप्ते वचनान्तरादहोरात्राभोजनस्यैवपापनिवृत्तगुणवासयुक्तस्य प्राधान्यमन्यभोगवर्जनस्याङ्गत्वम् ।तथाच “सूतके मृतके चैव प्रणम्य मनसा हरिम् । एका-दश्यां न भुञ्जीत व्रतमेतद्धि वैष्णवम्” । अत्र एकादश्या-मुपवासमात्रस्य व्रतत्वमुक्तम् एकादश्यां न भुञ्जीतेत्यस्य व्रत-परत्वेन नाभोजनपरता तस्याश्च पूर्बं दूषितत्वात् । ततश्चयथा एकादश्यां न भुञ्जीत इत्यत्र वचनान्तरादुपवासरूप-व्रतपरत्वं तथा न भोक्तव्यमित्यत्रापि । वस्तुतस्तु वराह-पुराणे एकादशीव्रतसन्दंशमध्ये “न शङ्खेन पिबेत्तोयमिति”न भोक्तंव्यं न भोक्तव्यमिति वचनद्वयमभिधाय व्रत्ताकरणेप्रत्यवाय उक्तः । नच पौनरुक्त्यभिया तस्य निषेधकत्व-मिति वाच्यम् तथात्वे एतद्वचन एव न भोक्तव्यमितिपुनरुपादानं व्यर्थं स्यात् किन्तु वीप्सया तस्यैव व्रतस्यनित्थत्वख्यापनमिति । अन्यथा “निषेधः कालमात्रकः”इत्यनेनैव एकादशीक्षण एव भोजननिषेधः स्यात्” ।“एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः” इति भवि-ष्यपुराणे उपवासपदान्निराहारपदं नैकादशीकालमा-त्राभोजनपरम् किन्तु तद्युक्ताहोरात्राभोजनपरम् ।तत्रैवोपवासपदव्यवहारात् । नच वैपरीत्यम् उपवास-पदस्याहाराभावमात्रपरत्वे लक्षणाप्रसङ्गात् । निराहार-पदस्योपवासपरत्वे तु न लक्षणा सामान्यशास्त्रस्य विशेष-तात्पर्य्यकत्वात् । तथाच कात्यायनः “नित्योपवासीयोमर्त्यः सायं प्रातर्भुजिक्रियाम् । सन्त्यजेन्मतिमान्विप्रः संप्राप्ते हरिवासरे” । सायं प्रातरिति रात्रिदिवो-पलक्षणम् “मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्यवासिनांनित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः”इति छन्दोगपरिशिष्टैकवाक्यत्वात् । प्रतएव खण्डतिथेर-प्यहोरात्रत्वकीर्त्तनम् अहोरात्रसाध्यकर्म्माङ्गत्वार्थम् । तथाचविष्णुधर्मोत्तरे । “सा तिथिस्तदहोरात्रं यस्यामभ्युदितो-रविः । तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ।सा तिथिस्तदहोरात्रं यस्यामस्तमितोरविः । तया कर्माणिकुर्वीत ह्रासवृद्धी न कारणम् । शुक्लपक्षे तिथिर्ग्राह्यायस्यामभ्युदितोरविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्त-मितोरविः” । तच्च तिथ्यन्तरसहायभावं विना प्रायोनसम्भवति अतएव गृह्यपरिशिष्टे युग्माग्नीत्याद्यभिधाय “ति-थ्योर्युग्मं महाफलम्” इत्युक्तं अस्य प्रयोजनन्तु तिथेः खण्ड-विशेषनियमनम्, स्वतिथ्या क्रर्मानिर्वाहे सहायभावेनान्य-तिथ्यनुप्रवेशेनाहोरात्रसाध्योपवासाद्याचरणञ्च । एवञ्चप्रातःकाले तत्तिथ्यलाभे तिथ्यन्तरेऽप्युऽपवाससङ्कल्पः अहो-रात्राभोजनरूपस्य तस्य प्रातरारम्भार्हत्वात् । संवत्सर-प्रदीपेऽपि “प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध आच-रेत्” इत्युक्तम् । अत्र च कर्म्मणस्तावदपूर्व्वजनकत्वेन वि-धियत्वेन प्राधान्यम् तिथ्यादेर्गुणत्वेन क्वचिदुपलक्षणत्वमाहगर्गः । “तिथिनक्षत्रवारादि साधनं पुण्यपापयोः । प्र-धानगुणभावेन स्वातन्त्र्येण न ते क्षमाः” इति प्रधानम्यकर्म्मणोगुणभावेनाङ्गत्वेन । एवञ्च निराहारपदस्योपवास-परत्वे न कलञ्चाधिकरणन्यायान्नैकादशीक्षणमतिवाह्य भो-जनम् । किन्त्वेकादश्यामिति विहितैकादशीयुक्ताहोरा-त्रपरम् । अथ कलञ्जाधिकरणम् । तत्र श्रुतिः “नकलञ्जंभक्षयेत्” इति कलञ्जभक्षणाभावविषयकं कार्य्य-मित्यर्थः । तत्र कालविशेषानुपादानान्निषिध्यमानक्रिया-यां प्रवृत्तिमतोनिषेधविधावघिकाराद्यावत्कालमेव तस्यांतस्य निवृत्तिः । न हि कलञ्जभक्षणाद्यतः कुतश्चित् का-रणान्निवृत्तस्य निषेधानुपालनं सकृद्वृत्तमिति कलञ्ज-भक्षणनिषेधो न पुनस्तं निवर्त्तयति किन्तु भक्षणप्र-आवृत्तिमत्तामात्रमधिकारिविशेषणं यदा यदा भवति तदतदा एव निषेधविधिरपि तं निवर्त्तयति । न हि कल-ञ्जस्यभक्षणमुपक्रम्य यावत्कालं तद्भक्षयति । अतस्त-दितरकाले निवृत्तिः सिद्धैवेति भवति विफलोविधिः ।ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः, सत्यंप्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभावएव प्रवृत्ति-निराकरणात् साध्यमानोनिवृत्तिरुच्यते न तु प्रवृत्ति-रपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव नि-षेधविधावधिकारः । यत्तु “मनसा तु प्रवृत्तस्य भूतचेष्टा-वतोऽपि वा । यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनम्” इतितत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतत्रेष्टावतइति । “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषू-चिते । प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना” इतिमेदिन्युक्तेः भूते प्राप्ते निषेध्ये चेष्टावत इत्यर्थः । त-तश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोप-दिश्यते । प्रागभावश्चानादिसंसर्गाभावमात्रपरः सचाप्रवृ-त्तस्य भक्षणकारणमननुतिष्ठतः सिध्यत्येव । तस्मात् स-कृत्क्रियापर्य्यवसायित्वे विफलोविधिः कादाचित्का-करणस्य निषेधमन्तरेणापि प्राप्तेः । न च स्वर्गकामादिवत्साध्यतया प्रवृत्तिमत्कर्त्तृकत्वमप्यङ्गं विषयमात्राननुष्ठाना-धीनसिद्धत्तत्वान्निषेधनियोगानामितिकर्त्तव्यताऽऽकाङ्क्षावि-रहात् अतएव शुचित्वमपि तत्र नाङ्गम् । तस्मान्निषे-धविधिषु काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेना-धिकारिविशेषणीभूतायाः प्रवृत्तेर्यावत्कालमनुवृत्तिस्तावत्कालमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृ-दनुष्ठानेनैव शास्त्रार्थसिद्धिः” । गदाधरस्तु विघिस्वरूपेउपवासादिव्रतादेर्निषेधविधिवोध्यतवा वैधत्वं कलञ्जभक्षणादेश्च निषेधविषयतया निषिद्धत्वमङ्गीचकार । तस्या-यमाशयः । विधिप्रत्ययार्थस्येष्टसाधनत्वादेर्धात्वर्थे एवान्वयव्युत्पत्तेः एकादश्यापुपवसेदित्यादिवाक्येन उपवासे लि-ङाद्यर्थेष्टसाधनत्वस्यान्वयबोधनात् भोजनाभावरूपोपवासस्यनिषेधरूपतया तत्र च विध्यर्थान्वयात् निषेधविधित्वम् तदेकवाक्यतया च एकादश्यां न भुञ्जीतेत्यादौ भुजधातोरुप-षासपरत्वकल्पनं नञ् तु तत्र तादृशलक्षणाग्राहकः एवञ्चतत्र निषेधरूपभोजनाभावे इष्टसाधनत्वबीधनान्निषेधवि-धित्वम् । प्रकृत्यर्थे एव प्रत्ययार्थान्वयनियमेन तथान्वयस्यैवौचित्यम् । न कलञ्जं भक्षयेदित्यादौ तु णञा कलञ्जभक्षणएव विध्यर्थेष्टसाधनत्वस्याभावबोधनात् निषेधरूपत्वम् । नञ-समभिव्याहृतस्थले यत्र यस्यान्ययः तत्सममिव्याहारे तु तत्रतस्याभावान्वयनियमात् मैत्रः पचतीत्यादौ मैत्रे पाचकर्त्तृ-त्वान्वयेन मैत्रो न पचतीत्यादौ तत्रैव कर्त्तृत्वाभावान्वयदर्श-नात् । ननु एकादश्यां न भुञ्जीतेत्यत्रापि कुतो न तथान्वयइति चेत् तत्र तथान्वयसम्भवेऽपि एकादश्यामुपवसेत् इ-त्यादौ तथान्वयासम्भवात् तत्र धातुनैव भोजनाभावस्यो-पस्थापनात् तत्रैव विध्यर्थान्वयौचित्यात् न च तत्र स्या-तन्त्र्येणाभावबोधकपदमस्ति येन विध्यर्थान्वयस्तत्र स्यात् ।तदेकवाक्यतया च न भुञ्जीतेत्यादौ उक्तनिबेय विधि-त्वमुचितमिति । निषेधविधेश्च इष्टसाधमताज्ञानजननद्वाराप्रवर्त्तकत्वम् निषेधस्य तु उदीच्यानिष्टसाधनत्वज्ञारोपजन-नात् निवर्त्तकत्वमिति भेदः विस्तरस्तु विधिस्वरूपे दृश्यः ।प्रागुक्त भवि० वाक्यव्याख्यायाम् एका० त० रघु०“उपावृत्तस्य निवृत्तस्य पापेभ्यः पापकर्म्मभ्यः । मैथि-लास्तु दोषेभ्य इति पठित्वा दोषेभ्योरागद्वेषमात्-सर्य्यादिनिषिद्ध्वात्मधर्म्मेभ्यैत्यर्थमाहुः । गुणानाह गोत-मः । “दया सर्व्वभूतेषु क्षान्तिरनसूया शौचमनाया-सोमङ्गलमकार्पण्यमस्पृहा चेति” । दयादिलक्षणान्याहवृहस्पतिः । “परे वा बन्धवर्गे वा मित्रे द्वेष्टरि वा सदा ।आत्मवद्वर्त्तितव्यंहि दयैवैषा प्रकीर्त्तिता” । परे उदासीने ।आत्मवदित्यत्र आपत्सु रक्षितव्यमितिकल्पतरौ पाठः ।व्यक्तमाह दक्षः । “यथैवात्मां परस्तद्वद्द्रष्टव्यः सुखमि-च्छता । सुखदुःखानि तुल्यानि यथात्मनि तथा परे” । वृह-स्पतिः । “बाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् ।न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता । न गुणान्गुणिनोहन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमतेसाऽनसूया प्रकीर्त्तिता । अभक्ष्यपरिहारस्तु संसर्गश्चाप्य-निन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्ति-तम् । शरीरं पीड्यते येन सुशुभेनापि कर्मणा । अत्यन्तंतन्न कुर्वीत अनायासः स उच्यते । प्रशस्ताचरणं नित्य-मप्नशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वद-र्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना । अ-हन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम् । यथोत्-पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना । परस्याचिन्तयि-त्वार्थं साऽस्पृहा परिकीर्त्तिता” । देवीपुराणम । “व-द्ध्यानं तज्जपः स्नानंतत्कथाश्रवणादिकम् । उपवास-कृतो ह्येते गुणाः प्रोक्ता मनोषिभिः” सर्वभोगविवर्जतःशास्त्राम नुमतनृत्यगीतादिसुखरहितः” अत्र दन्तधावनेमैथिलमतमुत्थाप्य दूषितं तत्रैव । “अत्र र्मतिलाः वृद्ध-शातातपोभोगविशेषान् प्रतिप्रसूते । “गन्धालङ्कारवस्तूनिपुष्पमाल्यानुलेपनम् । उपवासे न दुष्येत दन्तधावनमञ्ज-नम्” । गौडीयस्मृतिः “उपवासे तथा श्राद्धे न स्वादेद्दन्त-धावनम् । दन्तानां काष्ठसंयोगोदहत्यासप्तमं कुलम्” तत्रयोगीश्वरः “तस्मात् सर्वप्रयत्नेन भक्षयेद्दन्तधावनम्” इत्यभि-धाय दन्तकाष्ठसंयोगं निषिध्य मृल्लोष्टादिना दन्तधावनमितिविरोधं परिजहारेति वदन्तोनञर्थं व्याचक्रुः तन्न वृद्धशा-तातपेन “मुखे पर्य्युषिते नित्यं भवत्यप्रयतोनरः । तस्मात्सर्वप्रयत्रेन भक्षयेद्दन्तधावनम्” इत्यभिधाय तद्वचना-भिधानेम दन्तधावने दोषएवोक्तः । अन्यथा पौनरुक्त्या-पत्तेः “अञ्जनं रोचनञ्चापि गन्धान् सुमनसस्तथा । पुण्यकेचोपवासे च नियमेव विवर्जयेत्” इति हरिवंशात् मिता-क्षरायाम् । “गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुले-पनम् । व्रतस्थोवर्जयेत् सर्वं यच्चान्यद्बलरागकृत्” इत्य-नेनानुलेपनरागकृन्निषेधाच्च । अतएव प्रायश्चित्तविवेक-कृद्भिः सुष्ठूक्तमुपवासेन हेतुनेति” ।जीमूतवाहनेनापि उपवासे चेति पठित्वा चकारादनु-क्तादिष्वपीति व्याख्यातम् । तस्माद्गन्धेत्यादि सर्व्वभोगस्यैवपृदर्शकं तेन विलासार्थगन्धादिवर्ज्जनं कार्य्यम् । देव-लः “उपवासः प्रणश्येत दिवास्वापाक्षमैथुनैः । अत्य-ये चाम्बुपाने च नोपवासः प्रणश्यति” । उपवासोऽपिनश्येतेति कल्पतरुपाठे अपिनान्यद्व्रतं समुच्चीयत इतिविशेषः । अक्षैर्द्यूतैः । अत्यये नाशे सम्भाव्यमाने ।मैथुने विशेषमाह देवलः । “उपवासे तथा यौनं हन्तिदृप्तकुलानि वै । स्त्रीणां संप्रेक्षणात् स्पर्शात्तामिः सङ्क-थनादपि । ब्रह्मचर्य्यं विपद्येत न दारेष्वृतुसङ्गमात्”संप्रेक्षणात् संकथनादित्यत्र सरागत्वं संशब्दस्यार्थः साहचर्य्यात् स्पर्शोऽपि तथेति प्रायश्चित्तविवेकः । कात्याय-नोऽपि “रेतःसेकात्मकं भोगमृतेऽप्यत्र क्षयः स्मृतः ।तथाच दक्षः । “स्मरणं कीर्त्तनं केलिः प्रैक्षणं गुह्य-भाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । अनुरागात् कृतञ्चैवब्रह्मचर्य्यविरोधकम्” ।अनुकल्पपक्षप्रधानपक्षयोर्यथायोगम् अन्थान्यपिवर्ज्यानि कालमा० उक्तानि यथा “कांस्यं मांसं मसूरांश्चचणकान् कोरदूषकान् । शाकंमधु परान्नञ्च त्यजेदुपवसन्स्त्रियम्” कूर्म्मपु० । “असकृज्जलपानञ्च दिवास्वापञ्चमैथुनम् । ताम्बूलचर्वणं मांसं वर्ज्जयेद्ब्रतवासरे” विष्णुध० । “पतितपाषण्डिनास्तिकसम्भाषणमनृताश्लीला-दिकमुपवासादिषु वर्ज्जयेत्” हारीतः । “बहिर्ग्रामान्त्य-जान् सूतिं पतितं च रजस्वलाम् । न स्पृशेन्नाभिभाषेतनेक्षेत व्रतवासरे” कूर्म्म “स्मृत्यालोकनगन्धादिसेवनं परिकीर्त्तनम् । अन्नस्य वर्जयेत् सर्व्वं ग्रासानाञ्चाभिकाङ्क्षणम् ।गात्रात्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुनेपनम् । व्रतस्थो-वर्ज्जवेत् सर्व्वं यच्चान्यत्र निराकृतम्” विष्णुर० । तत्रै-कादस्युश्चुपवासे “यानि कानि च पापानि व्रह्महत्यादि-कानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे, इतिभवि० अन्नमात्रस्य निषेधेऽपि माषमसूरादिनिषोधोऽ-नुकल्पपक्षेऽधिकदोषाय । अतएव “अन्नं तु धान्यसंमूतं गिरिजे! भुवि जायते । धान्यानि विविधानीह-जगत्यां शृणु यत्नतः । श्याममाषमसूराश्च धान्यकोद्रवसर्षपाः यवगोधूममुद्गाश्च तिलकल्ककुलत्थकाः” इत्यादीन्य-ष्टादश धान्यान्युक्त्वा “एतैरेव समुद्भूतमन्नं भवति शोभने! ।अन्नत्थागे ब्रते भक्ष्येष्वेतान्येव विवर्ज्जयेदिति” शाम्बोत्तरखण्डे धान्यमात्रसंभूतान्नस्य निषेधात् । अतएव नक्तं हवि-ष्यान्नमनोदनं वेत्यनेन अनोदनपदेन सिद्धान्नमात्रभिन्न-स्यानुकल्पतोक्ता ।एकादश्युवासेऽधिकारिण एकादशीशब्दे वक्ष्यते । सभ-र्तृकायान्तु भर्त्रनुमतिं विनोपवासे नाधिकारः । “नास्तिस्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् । पतिं शुश्रूषतेयत्तु तेन स्वर्गे महीयते” मनूक्तेः सावित्रीव्रतादौ विशेष-विधानात् भर्त्रनुज्ञयाऽधिकारः । अतएव शङ्खेन सामान्यतउक्तम् “कामं मर्त्रनुज्ञया ब्रतोववासनियमेज्यादीनामभ्यासः स्त्रीधर्म्मः” “पत्यौ जीवति या नारी उपोष्य ब्रत-साचरेत् । आयुः संहरते पत्युः सा नारी नरकं व्रजेत्”इति विष्णुवाक्यन्तु अनुमत्यभावविषषयकम् ।स च उपवासः नित्यः काम्यः नैमित्तिकश्चेति त्रिधा तत्रै-काशीशिवरात्र्याद्युपवासोनित्यः । एकादशीशब्देशिवरा-त्र्यादि शब्दे च तत्प्रमाणं दृश्यम् । काम्यस्तु “अमावस्याद्वादशी च संक्रान्तिश्च विशेषतः । एताः प्रशस्तास्तिथयोमानुवारस्तथैव च । अत्र स्नानं जपोहो मोदेवतानाञ्च पूज-नम् । उपवासस्तथा दानमेकैकं पावनं स्मृतम्” संव० “सप्तवारानुपोष्यैव सप्तधा संयतेन्द्रियः । सप्तजन्मकृतं पापं तत्-क्षणादेव नाशयेत्” सं० प्रदी० “नित्यं द्वयोरयनयोर्नित्यंविषुवतोर्द्वयोः । चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्वसु ।अहोरात्रोषितः स्नानं दानं होमं तथा जपम् । यःकरोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत्” ब्रह्मपु० इत्यादौविहितः तत्रायनविषवत्सुनित्य इति भेदः । नैमित्तिकःप्रायश्चित्तरूपः “त्र्यहं प्रातस्त्यहं सायं त्र्यहमद्याद-याचितम् । त्र्यहं परञ्च नाश्नीयात् प्राजापत्यं चरन्द्विजः” मन्वादिविहितः एवमन्यान्यपि प्रायश्चित्तविधाय-कानि वाक्यानि स्मृतितोज्ञेयानितत्र काम्ये सर्व्वशक्तिमानधिकारी भवतीत्युक्तेः सर्व्वाङ्गोपेतस्यैवाधिकारः । नित्ये तु यथाकथञ्चिदनुष्ठानमितिसमर्थितम् एका० त० “एवञ्चैकादशीव्रतस्य नित्यत्वात्किञ्चिदङ्गवैकल्येऽपि प्रधानोपवासादेराचरणं यावज्जीवा-धिकरणत्यायात् । स च न्यायोयथा “यावज्जीवमग्निहोत्रजुहुयादिति श्रूयते तत्र किं सर्वाङ्गोपसंहारेणैवाधिकारःउत यावज्जीवपदेन यावन्ति शक्नोतीत्युपसंरर्त्तुं यदा तदातावद्भिरङ्गैरुपेतं प्रधानं कुर्वन्नधिकरोतीति संशयः ।तत्राद्ये सर्वाङ्गोपेतस्य प्रधानस्य फलसाधसत्वादङ्गवैकल्येफलानुदयात् सर्वाङ्गोपसंहार इति पूर्वपक्षः तत्र सिद्धान्तः“सायं प्रातर्जुहोतीति” श्रुतेः सायं प्रातःकालावच्छित्रंजीवनमग्निहोत्रस्य निमित्ततया श्रूयते नत्वङ्गानां, सतिनिमित्ते नैमित्तिकमवश्यंभावि अन्यथा निमित्तत्वासम्भवात् ।अतोऽशक्याङ्गपरित्यागेन प्रधानं कर्त्तव्यम् तावतैवशास्त्रवशात् फलसिद्धिरिति अतएव नैमित्तिकाधिकारेश्रीधरस्वामिधृता श्रुतिः “यथा शक्नुयात्तथा कुर्य्या-दिति” । गौधायनोऽपि स्मरति । “यथा कथञ्चिन्नित्यानि शक्यवस्तुनिरूपतः । येन केनापि कार्य्याणि नैवनित्यानि लोपयेत्” ।असमर्थस्यानुकल्पेनाप्यचरणम् अनुकल्पश्च कर्त्तृद्रव्यादिषुप्रतिनिधिरूपः तत्राह मनुः । “विश्वैश्च देवैः साध्यैश्चब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद्भीतैर्विधिः प्रति-निधिः कृतः । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते ।म साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्” । अत्रापत्-प्रतिनिध्यनुकल्पानांपर्यायता । कालविवेकधृतवराहपुराणे“उपवासासमर्थस्तु किञ्चिद्भक्ष्यं प्रयोजयेत्” तथा एकाद-शीमधिकृत्य स्मृतिः “एकभक्तेन नक्तेन भक्षन् वृद्वातुरःक्षिपेत्” नारदीये “अनुकल्पोनृणां प्रोक्तः क्षीणानां वर-वर्णिनि! । मूलं फलं पयस्तोयमुपभोग्यं भवेच्छुभम् । नत्वेव”भोजनं कैश्चिदेकादश्यां प्रकीर्त्तितम्” । एवमनुकल्पासामर्थ्येब्रह्मवैवर्त्तः । “उपबासासमर्थश्चेदेकं विप्रन्तु भोजयेत ।तावद्धनानि वा दद्यात् यद्भक्ताद्द्विगुणं भवेत् । सहस्र-सम्मितां देवीं जपेद्वा प्राणसंयमान् । कुर्य्याद्द्वादशसंख्या-कान् यथाशक्ति व्रते नरः” । देवीं गायत्रीम् । वायुपुराणे“उपवासनिषेधे तु किञ्चिद्भक्ष्यं प्रकल्पयेत् । न दुष्यत्यु-पवासेन उपवासफलं भवेत् । नक्तं हविष्यान्नमनोदनंवा फलं तिलाः क्षीरमथाम्बु वाज्यम् । यत् पञ्चगव्यं यदिवाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च” । उपवासनिषेघेतुअसामर्थ्यैव हविष्यादिरनुकल्पः । तानि च “अष्टौतान्यव्रतघ्नानि ह्यापोमूलं फलं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” वौधायनः । एकादश्य-तिरिक्तोपवासे अनुकल्पपक्षे विशेषः नि० सि० । “नित्य-स्नायी मिताहारो गुरुदेवद्विजार्चकः । क्षारं क्षौरञ्च लव-णम् मधुमांसानि वर्जयेत्” पृथ्वीच० अग्निपु० । क्षाराश्चतत्रैवीक्ताः “तिलमुद्गादृते शिम्ब्यः शस्ये गोधूमकोद्रवौ ।धन्याकं देवधान्यञ्च शमीधान्यं तथैव च । स्विन्नधान्यंतथा पण्यं मूलं क्षारगणाः स्मृताः” गोधूमस्य क्षारत्वे-ऽपि उपवासानुकल्पे प्रतिप्रसवस्तत्रैव “व्रीहिषष्टिकमुद्गाश्चकलायः सतिलं पयः । श्यासाकश्चैव नीवारा गोधूमाद्याव्रते हिताः” । कुष्माण्डालावुवार्त्तकुपालङ्गीज्योत्स्निका-स्त्यजेत् । चतुर्भैक्षं सक्तुकणाः शाकं दधि घृतं मधु ।श्यामाकशालिनीवारा यावकं मूलतत् फलम् । हविष्यंव्रतनक्तादावग्निकार्यादिके हितम् । मधुमांसं विहा-यान्यव्रते वा हितमीरितम्” । “चतुर्भैक्षं सक्तुकणाया-वकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रश-स्तानि” मिता० गौत० । निर्णया० संग्र० । स्तेनहिंसकयोःसख्यम् कृत्वा स्तैन्यञ्च हिंसनम् । प्रायश्चित्तं व्रती कुर्यात्जपन्नामशतत्रयम् । मिथ्यावादे दिवास्वापे बहुशोऽम्बु-निषेवणे । अष्टाक्षरं व्रती जप्त्वा शतमष्टोत्तरं शुचिः” ।अतएव समर्थस्य किञ्चिद्भक्षणमपि भङ्ग्या निषिद्धम् । “उप-वासो यदा राम! श्राद्धं नैमित्तिकं भवेत् । उपवासं तदाकुर्य्यादाघ्राय पितृसेवित मिति” कात्या० ।अथ कर्त्तृप्रतिनिधिः स्वयमशक्तौ प्रतिनिधिनाऽपिउपवासादिव्रतं कार्य्यमित्याह स्कन्दपु० । “पुत्रञ्च विनयोपेतंभगिनीं भ्रातरन्तथा । एषामभाव एवान्यं ब्राह्मणं विनि-योजयेत्” गरुडपुरा० । “भार्या भर्त्तुर्व्रतं कुर्याद्भार्यायाश्चपतिस्तथा । असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गोन जायते” ।वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम् ।अदृष्टार्थमुपोष्यैव स्वयञ्च फलभाग्भवेत्” ।अत्र नि० सि० त्रिकाण्डमण्डने विशेषः “काम्ये प्रतिनिधि-र्नास्ति नित्ये नैमित्तिके च सः । काम्येऽप्युपक्रमादूर्द्ध्वंकेचित् प्रतिनिधिं विदुः । न स्यात् प्रतिनिधिर्मन्त्रस्वामि-देवाग्निकर्म्मसु । स देशकालयोर्नास्ति नारणेरग्निरेव सा ।नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित्” । ततश्चशक्तौ उपोषणादिकमनुकम्पादिना कार्य्यं पूजादिकं तुस्वयमसामार्थ्ये अन्येन कारयेदिति एका० त० रघु० ।नित्यकाम्ययोरुपवासयोरय मेदः “उपवासफलं प्रेप्सुस्त्य-जेत् भक्तचतुष्टयमिति” कालमा० भारतम् “जह्याद्भक्तद्वयंनिये काम्ये भक्तचतुष्टयम् । सायमाद्यन्तयोर्भक्तमेकैकंमध्यमे द्वयम्” एका० त० स्मृति । अत्र सायमित्यस्यएकमोजनमात्रपरत्वम् तेन दैवात् पूर्व्वदिने दिववाऽ-भोजने रात्रिभोजनेऽपि न फलाप्राप्तिः “अह्नोराद्य-न्तयोरुक्तमेकैकं मध्यतो द्वयम् । उपवासफलप्रेप्सोर्वर्ज्यंभक्तचतुष्टयमिति” वाराहात् ।उपवास व्रतस्य वैधतया तत्तत्तिथेः पूज्यखण्डएव कर्त्तव्यतातन्निरूपणाय प्रतिपदमारभ्य खण्डविशेषनियमनंकालमा० दर्शितं तत्रादौ प्रतिपत्प्रकरणे यथोक्तं तदुच्यतेततो “मार्गशिरे मासि प्रतिपद्यपरेऽहनि । इष्ट्वा गुरुञ्चोपव-सेन्महादेवं स्मरन्मुहुरिति” । ननु पूर्वविद्धायां शुक्ल-प्रतिपदि योऽयदुपवासौ विहितस्तस्य संकल्पः किं प्रातःकार्यः किं वा परत्र, नाद्यः प्रातस्तदभावेन संकल्पायोगा-त् । अतएव बौधायनः “योयस्य विहितः कालः कर्मण-स्तमुपक्रमे । तिथिर्याऽभिमता सा तु कार्या नोपक्रमोज्झि-तेति” स्कन्दपुराणेऽपि “योयस्य विहितः कालः कर्मणस्त-दुपक्रमे । विद्यमानो भवेदङ्गं नोज्झितोपक्रमेण तु” (सन्धि-रार्षः) । न द्वितीयः प्रातःकालस्यैव संकल्पाङ्गत्वात् तथा चस्मर्यते “प्रातः संकल्पयेद्विद्वानुपवासव्रतादिकमिति” । तथा“प्रातरारभ्यमतिमान् कुर्यान्नक्तव्रतादिकम् । नापराह्णेनमध्याह्णे पित्र्यौ कालौ हि तौ स्मृताविति” । अत्रोच्यतेयथोक्तवचनबलात् प्रातरेव संकल्पः कार्यः तदानीं ज्योतिः-शास्त्रप्रसिद्धप्रतिपदभावेऽपि स्मृतिभिरापादितायाः प्रतिपदःसत्त्वात् अतएव देवलः “यान्तिथिं समनुप्राप्य अस्तं यातिदिवाकरः । तिथिः सा सकला ज्ञेया दानाध्ययनकर्मस्विति”अत्र दानाध्ययनयोरुपवासादिनिखिलदैवोपलक्षणार्थत्ववि-वक्षया कर्म्मस्विति बहुवचनं निर्दिष्टम् । अत्रास्तमयात् पूर्व्वंमुहूर्त्तत्रयव्यापिनीं तिथिं समनुप्राप्येति व्याख्येयम् ।न तु ततोऽल्पव्याप्तिर्विवक्षिता तथा सति पूर्वोत्तरवे-धाभावेनोत्तरतिथेरेव ग्राह्यत्वप्रसङ्गात् तथा च त्रिमुहूर्त्तव्याप्तिः स्वन्दपुराणे दर्शिता । “यान्तिथिं समनुप्राप्य-यात्यस्तं पद्मिनीप्रियः । सा तिथिस्तद्दिने प्रोक्ता त्रिमु-हूर्त्ता यदा भवेदिति” । शिवरहस्यसौरपुराणयोरपि“यां प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात्त्रिमुहूर्त्तिका । धर्म्म-कृत्येषु सर्वेषु संपूर्णां तां विदुर्बुधाः” इति । वृहद्वशि-ष्ठोऽपि “यस्यान्तिथावस्तमियात् सूर्य्यस्तु त्निमुहूर्त्तकैः ।यागदानजपादिभ्यस्तामेवोपक्रमेत् तिथिमिति” । ननुसातन्तनत्रिमुहूर्त्तशुक्लप्रतिपदुपेतायां तिथौ प्रातरेवसंकल्प्य प्रतिपदुपवासः कार्य इति युग्मादिवचनमाश्रि-त्य निर्णीतं तत्तिथिक्षये तथाऽस्तु ह्रासवृद्ध्योस्तु खर्वादिवाक्यात्परेद्युरुपवासः प्रोप्नोतीति चेत् भैवं स्वर्वादिवाक्यस्यैकोद्दिष्टादिविषयत्वात् तथा च व्यासः “द्वितीयादिकयुग्मानां पूज्यता नियमादिषु । एकोदिष्टादि वृद्ध्यादौ ह्रासवृद्ध्यादि नोदनेति” नियमादिष्वित्यादिशब्देन पित्र्य-कर्मव्यतिरिक्तव्रतोपवासादिसकलकर्मणोग्रहणम्, एकोदि-ष्टादीत्यादिशब्देन विवाहादिमङ्गलाङ्गभूतश्राद्धव्यतिरिक्त-पार्वणश्राद्धस्य, वृद्ध्यादावित्यादिशब्देन माङ्गलिकश्राद्धस्य, ह्रासवृद्ध्यादीत्यादिशब्देन ययास्तमित्यादिशास्त्रस्य” ।पूर्वाह्णवाक्यस्य सामान्यरूपत्वेन परविद्धोपवासविषय-तया संकोचनीयत्वादिति तत्रोक्ते र्न पूर्वाह्णांदिशास्त्रवैवर्थ्यम् । एतदेवाभिप्रेत्य निगमे श्रूयते । “पूर्ववि-द्धासु तिथिषु भेषु च श्रवणं विना । उपोष्य विधिवत् कुर्य्यात्तदन्ते चैव पारणमिति” । भेषु नक्षत्रेशु स्क-न्दपुराणेऽपि । “तिथीनामेव सर्वासामुपवासव्रतादिषु । ति-थ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम्” । अत्रोपवासव्रतादिष्वित्यादिशब्द नैकभक्तानक्तयाचितानि गृह्यन्ते । या-न्तिथिमुद्दिश्यैतानि पूर्वेद्युर्विहितानि परेद्युस्तत्तिथिभागेसमाप्ते पश्चाद्भोजनं कार्यम् अन्यथा पूर्व्वदिनानुष्ठितै-कभक्तादिव्रतानां वैकल्यं स्यादित्यभिप्रायः । अस्य च ति-थिभान्तपाणस्यापवादः क्वचित् स्मर्यते । “तिथ्यन्ते चैवभान्ते च पारणं यत्र नोद्यते । यामत्रयोर्द्धगामिन्यां प्रात-रेव हि पारणमिति” । तदलाभे उदयगामिन्याः पूज्यतायथाह तत्रैव देवलः । “यान्तिथिं समनुप्राप्य उदयं यातिभास्करः । सा तिथिः सकला ज्ञेया स्नानदानजपादिष्विति”व्यासोऽपि “उदयन्नेव सविता यां तिथिं प्रतिपद्यते । सातिथिः सकला ज्ञेया दानाध्ययनकर्म्मस्विति” । भविष्यो-त्तरपुराणेऽपि । “व्रतोपवासनियमे घटिकैका यदोदये ।सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकीति” । पद्म-पुराणेऽपि “व्रतोपवासनियमे घटिकैका यदा भवेत् । उदयेसा तिथिस्तत्र विपरीता तु पैतृके” इति । स्कन्दपुराणेऽपि“व्रतोपवासस्नानादौ घटिकैका यदा भवेत् । उदये सा-तिथिर्ग्राह्या विपरीता तु पैतृक” इति । विष्णुधर्मोत्तरेऽपिव्रतोपयासस्नानादौ घटिकैका यदा भवेत् । उदये सातिथिर्ग्राह्या श्राद्धादावस्तगामिनी” । बौधायनोऽपि“आदित्योदयवेलायां याऽल्पापि च तिथिर्भवेत् पूर्ण्णा इत्येवसा ज्ञेया प्रभूता नोदयं विनोत” अत्रमा० । “नन्वस्त्वेवंकृत्स्नदिवसाभ्यनुज्ञा । तथाप्युत्तरविद्वायास्तिथेर्ग्रहणे कि-यत्परिमाणमुदयेऽपेक्षणीयमिति विवेचनोयम् । तत्रबौधायनेनाल्पापीत्यभिधानात् निमेषमात्र प्रतिभाति ।तथा व्यासवाक्येऽपि प्रतिभाति उदयन्नेवेत्यभिधानात् ।भविष्यत्पुराणादिवचनेषु षटिकामात्रं प्रतीयते ।वचनान्तरे तु विष्णधर्म्मोत्तरबौधायनप्रोक्तं घटिकाचतु-ष्टयं प्रतिभासते । तथा च पठ्यते । “उदिते दैवतं भानौपित्र्यं चास्तमितेरवौ” द्विमुहूर्त्ता त्रिमुहूर्त्ता सा तिथिर्हव्य-कव्ययोरिति” । अस्यार्थः । भानावुदिते सत्युत्तरकालेऽऽह्नो मुहूर्त्तद्वयं दैवत्यं तस्मिंश्चास्तमिते ततः पूर्वकालीन-मह्नोमहूत्तत्रयं पितृदैवत्यम् अतस्तावत्कालव्यापिनी या-तिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या भवतीति” ।तत्रैवान्यत्र “पौर्बह्णिकादिवचनेन दैवे पूर्वाह्णव्या-प्तायास्त्रिमूहूर्त्तपरिमितायास्तिथेर्ग्रहणं त्रिमूहूर्त्तन्यूना-यास्तिथेः पूर्बाह्णव्याप्त्यभावात् पूर्बाह्णस्य पञ्चधा विभक्तस्य मुख्यत्वादुदिते भानौ त्रिमूर्त्ता तिथिर्ग्रहीतव्या । यत्तुदक्षेणोक्तं “त्रिमूहूर्त्ताऽपि नोकार्य्या यातिथ्युदयगामिनीति”न तत् त्रिमूहूर्त्तव्याप्तेर्बाधकं प्रत्युतोपोद्वलकमेव । तथा हिप्रतिषेधः सर्वत्र प्रसक्तिपूर्बकः प्रसक्तिश्च यथोक्तरीत्यापौर्बाह्णिकवाक्याद्वा त्रिमुहूर्त्तवेधविधायिपैठोनसिवाक्याद्वाभवति तच्च प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ वाधका-भावात्तथैव व्यवतिष्ठते तिथिक्षये त्वधिकव्याप्तिविवक्ष-या प्रतिषिध्यते । अतश्च तत्र चतुर्थमुहूर्त्तस्पर्शिनीतिथिर्ग्राह्या तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्त्तत्रयमेवमुख्यं मुहूर्त्तद्वयं त्वनुकल्पः । एतदेव सूचयितुं त्रिभू-हुर्त्तापीत्यपिशब्दः पठ्यते” । तत्रैव स्थलान्तरे स्मृत्यन्तरे“एकादशी तथा षष्ठी अमावास्या चतुर्थिका । उपोष्याःपरसंयुक्ताः पराः पूर्वेण संयुताः” । शिवगीतायाम् वृह-द्वशिष्ठः “द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी । चतु-र्द्दशी चोपवावे हन्युः पूर्वोत्तरे तिथी” द्वितीयादयः स्ववेधेनपूर्वामुत्तराञ्च हन्युरित्याह । तेन प्रतिपद् द्वितीयायुक्ताउपवासे निषिद्धा । “प्रतिपत् सद्वितीया स्याद्--द्वितीयाप्रतिपद्युतेति” आपस्तम्बवाक्यं कृष्णप्रतिपद्विषयम् उपवासा-तिरिक्तदैवकर्मपरं चेति माधवः । उपवासस्याहोरात्रसाध्यत्वेन स्वण्डतिथौ संपूर्णकालव्याप्त्यसम्भवेन व्याप्तिबाहुल्यं पूर्वविद्धायामेव सम्भवति अह्नोऽपरभागे सकल-रात्रौ च तद्वाप्तेः । “उदये सा तिथिर्ग्राह्येति सामान्यशास्त्रस्य विशेषशास्त्राद्दुर्वलत्वम् ततश्च अप्रराह्णद्वित्रिमुहूर्त्तव्यापिन्येव पूर्वविद्धा उपोष्येति माधवमते स्थितम् ।रघुनन्दनभते तु “पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।प्रतिपन्नवमी चैव कर्त्तव्या साम्मुखी तिथिः” । पैठी० उक्तेः“साम्मुख्यं नाम सायाह्नव्यापिनी दृश्यते यदा” इतिस्कन्द-पुराणोक्तसाम्मुख्ययुक्तायाः प्रतिपदोग्राह्यता सायाह्नव्या-प्तिश्च मुहूर्त्तान्यूनत्वेन ग्राह्यमिति । उभयदिने तत्प्राप्तौत्रिसन्ध्यव्यापिचे तु परैवोपोष्या “त्रिसन्ध्यव्यापिनी यातु सैव पूज्या सदा तिथिः । न तत्र युग्मादरणमन्यत्र हरि-वासरादिति” पराशरवाक्येन तदपवादः एतच्च ज-यन्तीशिवरात्र्यादि विशेषेतरपरमिति ति० त० तेनोक्तम् ।अत्र प्रागुक्तबिशेषवचनानुसारिमाधवमतमेव ज्यायः ।गौडादृतमपि रघुनन्दनमतन्तु सामान्यशास्त्रानुसारित्वाद्दुर्बलमिति सुधीभिरपक्षपातिभिर्विवेच्यम् ।अन्यासु तिथिषु व्यवस्था तु तत एवावगन्तव्या दिङ्-मात्रमिह दर्शितम् तिथिशब्दे विवृतिः । उपवासे दीयतेकार्यं वा व्युष्टा० अण् । औपवास तत्र देये तत्र कार्योचत्रि० । तस्मै प्रभवति विमुक्ता० ठञ् । औपवासिक तस्मैपर्याप्ते ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
