| YouTube Channel

उपराग (uparAga)

 
शब्दसागरः
English
उपराग
m.
(-गः)
1. An eclipse of the sun or moon.
2. Rahu or the
ascending node.
3. Calamity, affliction.
4. Misbehaviour, ill con-
duct.
5. Reproach, abuse.
E.
उप, रञ्ज् to colour, घञ्
aff.
Capeller Eng
English
उपराग
m.
colour, darkness.
Yates
English
उप-राग (गः) 1.
m.
An eclipse of the
sun or moon
calamity, &c.
Spoken Sanskrit
English
उपराग - uparAga -
m.
- affecting
उपराग - uparAga -
m.
- rAhu
उपराग - uparAga -
m.
- act of dyeing or colouring
उपराग - uparAga -
m.
- misbehaviour
उपराग - uparAga -
m.
- colour
उपराग - uparAga -
m.
- ill-conduct
उपराग - uparAga -
m.
- darkening
उपराग - uparAga -
m.
- reproach
उपराग - uparAga -
m.
- influence
उपराग - uparAga -
m.
- abuse
उपराग - uparAga -
m.
- eclipse
उपराग uparAga
m.
ill-conduct
दुश्चरित duzcarita
n.
ill-conduct
दुराचार durAcAra
m.
ill conduct
दौर्व्रत्य daurvratya
n.
ill conduct
दौश्चर्य dauzcarya
n.
ill conduct
कुनीति kunIti
f.
ill conduct
दुष्प्रणीत duSpraNIta
n.
ill-conduct or behaviour
दुर्नीत durnIta
adj.
ill-conducted
शीलवर्जित zIlavarjita
adj.
ill-conducted
वृत्तहीन vRttahIna
adj.
ill-conducted
पापाचार pApAcAra
adj.
ill-conducted
दुर्विनीत durvinIta
adj.
ill-conducted
दुष्टचरित्र duSTacaritra
adj.
ill-conducted
दुराचार durAcAra
adj.
ill-conducted
सुदुराचार sudurAcAra
adj.
very ill-conducted
लघुवृत्ति laghuvRtti
adj.
ill-conducted or conditioned
Wilson
English
उपराग
m.
(-गः)
1 An eclipse of the sun or moon.
2 Rāhu or the ascending node.
3 Calamity, affliction.
4 Misbehaviour, ill conduct.
5 Reproach, abuse.
E.
उप, रञ्ज to colour, घञ्
aff.
Apte
English
उपरागः [uparāgḥ], 1 An eclipse of the sun or moon
उपरागान्ते शशिनः समुपगता रोहिणी योगम्
Ś.*
7.22
Śi.*
2.45.
Hence, Rāhu or the ascending node.
Redness, red colour, colour
कोपोपरागजनिताम्
Ratn.*
3.14
Mk.*
4
कलहकोप˚
Māl.
9.
A calamity, affliction, injury
blighting influence
मृणालिनी हैममिवोपरागम्
R.*
16.7.
Misbehaviour, ill-conduct.
Reproach, blame, abuse.
Apte 1890
English
उपरागः 1 An eclipse of the sun or moon
उपरागांते शशिनः समुपगता रोहिणी योगं Ś. 7. 22
Śi. 20. 45.
2 Hence, Rāhu or the ascending node.
3 Redness, red colour, colour
कोपोपरागजनितां Ratn. 3. 14
Mk. 4
कलहकोप° Māl. 3.
4 A calamity, affliction, injury
blighting influence
मृणालिनी हैममिवोपरागं R. 16. 7.
5 Misbehaviour, ill conduct.
6 Reproach, blame, abuse.
Monier Williams Cologne
English
उप-राग
m.
the act of dyeing or colouring, colour,
Ragh.
Kathās.
&c.
darkening, eclipse (of sun and moon, caused by Rāhu),
Śak.
186 b
MBh.
VarBṛS.
influence, affecting,
Sarvad.
Kap.
Prab.
&c.
misbehaviour, ill-conduct,
L.
reproach, abuse,
L.
Rāhu,
L.
Monier Williams 1872
English
उप-राग, अस्, m. colour
darkening, an eclipse of
the sun or moon
Rāhu or the ascending node
an
inauspicious event, calamity, affliction
misbehaviour,
ill conduct
reproach, abuse.
Macdonell
English
उपराग upa-rāga,
m.
coloration
eclipse, 🞄darkness
influence
-vat,
a.
eclipsed (by 🞄Rāhu).
Benfey
English
उपराग उपराग, i. e. उप-रञ्ज् + अ,
m.
1. Painting, Śāk. d. 80, v. r.
2.
An eclipse, MBh. 3, 13476.
3. Calamity,
Ragh. 16, 7.
--
Comp.
निर्विषयोपराग,
i. e.
निस्-विषय-,
adj.
,
f.
गा, unharmed
by objects of the senses, Prab. 48, 13.
Apte Hindi
Hindi
उपरागः
पुं*
- उप+रञ्ज्+घञ्
"सूर्य ग्रहण, चन्द्र ग्रहण"
उपरागः
पुं*
- उप+रञ्ज्+घञ्
राहु या शिरोबिंदु की ओर चढ़ने वाला
उपरागः
पुं*
- उप+रञ्ज्+घञ्
"लाली, लाल रंग, रंग"
उपरागः
पुं*
- उप+रञ्ज्+घञ्
"संकट, कष्ट, आघात"
उपरागः
पुं*
- उप+रञ्ज्+घञ्
"झिड़की, निन्दा, दुर्वचन"
Shabdartha Kaustubha
Kannada
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸೂರ್ಯಚಂದ್ರರ ಗ್ರಹಣ /ರಾಹುವು ಸೂರ್ಯ ಚಂದ್ರರನ್ನು ಆಕ್ರಮಿಸುವುದು
निष्पत्तिः - > उप + रञ्ज (रागे) - "घञ्" (३-३-१८)
प्रयोगाः - > "चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि" "उपरागान्ते शशिनः समुपगता रोहिणी योगम्"
उल्लेखाः - > मुद्रा० १, शाकु०म्७-२२
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆರುಣ್ಯ /ಕೆಂಪು
प्रयोगाः - > "कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात्"
उल्लेखाः - > रत्ना० ३-१४
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾಹು
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅವಿನಯ /ಅವಿಧೇಯತೆ
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಿಂದೆ /ದೂಷಣೆ /ಬೈಗುಳು
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವ್ಯಸನ /ದುಃಖ
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉಪದ್ರವ /ತೊಂದರೆ
प्रयोगाः - > "बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम्"
उल्लेखाः - > रघु० १६-७
विस्तारः - > "उपरागस्तु पुंसि स्यात् राहुग्रासेऽर्कचन्द्रयोः दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते" - मेदि०
उपराग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ವಸ್ತುವಿನ ಗುಣವು ಅದರ ಹತ್ತಿರವಿರುವ ವಸ್ತುವಿನಲ್ಲಿ ಸೇರುವುದು
L R Vaidya
English
uparAga {% m. %} 1. Colour
2. an eclipse of the sun or moon, उपरागांते शशिनः समुपगता रोहिणू योगम् Sak.vii.
3. calamity, affliction, injury, मृणालिनी हैममिवोपरागम् R.xvi.7
4. reproach, blame, abuse.
Sanskrit Tibetan
Tibetan
nye bar chags pa
उपराग / ग्रहण
अभिधानचिन्तामणिः
Sanskrit
--source--
राहुग्रासोऽर्केन्द्वोर्ग्रह उपराग उपप्लवः
-wordlist-
राहुग्रास (पुं), उपराग (पुं), उपप्लव (पुं)
अभिधानचिन्तामणिपरिशिष्टम्
Sanskrit
--source--
शुक्रे भृगुः शनौ पङ्गुः श्रुतकर्मा महाग्रहः १४
श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः
क्रूरात्मा चाथ राहौ स्यादुपराग उपप्लवः १५
-wordlist-
भृगु (पुं), पङ्गु (पुं), श्रुतकर्मन् (पुं), महाग्रह (पुं), श्रुतश्रवस् (पुं), अनुज (पुं), काल (पुं), ब्रह्मण्य (पुं), यम (पुं), स्थिर (पुं), क्रूरात्मन् (पुं), उपराग (पुं), उपप्लव (पुं)
अभिधानरत्नमाला
Sanskrit
राहुसंस्पर्श
राहुसंस्पर्श, उपराग, उपप्लव
उच्यते राहुसंस्पर्श उपराग उपप्लवः ४१
verse 1.1.1.41
page 0006
वैजयन्तीकोषः
Sanskrit
Word: उपरागः
Root: उपराग
Gender: पुं
Number: all
अर्थः रविचन्द्रयोः ग्रहणम्
Meaning(s):
Eclipse
Shloka(s):
2|1|30|1 परिग्रहोपरक्तौ तु ग्रस्तार्केन्द्वोरथ ग्रहे (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|30|2 उपप्लवोपरागौ द्वौ तु सन्निहितो रवेः (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|30|1 ग्रहः (ग्रह) (पुं) Eclipse रविचन्द्रयोः ग्रहणम्
2|1|30|2 उपप्लवः (उपप्लव) (पुं) Eclipse रविचन्द्रयोः ग्रहणम्
2|1|30|2 उपरागः (उपराग) (पुं) Eclipse रविचन्द्रयोः ग्रहणम्
Related word(s):
धर्म-धर्मी-भावः सूर्याचन्द्रमसौ
जातिः कालः
परा_अपरासंबन्धः गजच्छाया
शब्दकल्पद्रुमः
Sanskrit
उपरागः,
पुं,
(उप + रञ्ज + घञ् ।) राहुग्रस्तश्चन्द्रः ।सूर्य्यश्च इत्यमरः
(“उपरागान्ते शशिनः समु-पगता रोहिणीयोगम्” इति शाकुन्तले निकट-स्थितित्वात् निजगुणादेरन्यत्रारोपणम् यथास्फटिकस्तम्भे रक्तपुष्पाणां रक्तिमारोपः ।) राहुः ।विगानम् परीवादः इति हेमचन्द्रः
दुर्नयः ।ग्रहकल्लोलः व्यसनम् इति मेदिनी
(यथारघौ १६ “बिभर्षि चाकारमनिर्वृतानांमृणालिनी हैममिवोपरागम्”
)
वाचस्पत्यम्
Sanskrit
उपराग
पु०
उप + रन्ज--घञ् समीपस्थित्या स्वनि-ष्ठगुणादेरन्यत्रारोपे, यथा स्फटिकस्यान्तिकस्थितजवादिगतलौहित्यं स्फटिके आरोप्यते” चारोप उपाधि-कृतत्वादौपाधिकः अमुमुपरागमाश्रित्यैव सांख्यादयः वेदा-न्तिनश्च बुद्धिगतकर्त्तृत्वादेः पुरुषे, पुरुषगतचैतन्यस्य चबुद्धौ औपाधिकत्वं कल्पयन्ति “उपरागात् कर्त्तृत्वं चित्-सान्निध्यात्” सां० सू० “पुरुषस्य यत् कर्त्तृत्वं तद्बु-द्ध्युपरागात् बुद्धेश्च या चित्ता सा पुरुषसान्निध्यात् एत-दुभयं वास्तवं यथाऽग्न्ययसोः परस्परसंयोगविशे-षात् परस्परधर्मव्यवहार औपाधिकः यथा जलसूर्य्य-योः संयोगात् परस्परधर्मारोपस्तथैव बुद्धिपुरुषयोः” प्र०भा० “तद्गुणसारत्वात्” शा० सू० “बुद्धेर्शुणैनैव आत्म-नोगुणवत्त्वारोप इति समर्थितम्” वौद्धा अपि बाह्योपरागात् ज्ञानस्य तत्तदाकारता भवतीति मन्यन्ते तत्सर्वं तत्त-न्मतापसरे वक्ष्यते अनेनैवोपरागेण बाह्यान्तरयोरुपरञ्ज्योपरञ्जकभावः सतोगुणान्तराधानरूपे वासनारूपेसंस्कारे “नानादिविषयोपरागनिमित्ततोऽप्यस्य” सां० सू०“अस्यात्मनः प्रवाहरूपेणानादिर्या विषयवासना ततोबन्धः”प्र० भा० रविचन्द्रयोर्ग्रहणे तत्रापि छादकसान्निध्यात्चन्द्रार्कयोस्तद्रूपारोप एवेति तस्य तथात्वम् ग्रहणञ्चराह्वघिष्ठितभूमिच्छायया चन्द्रस्य, तदधिष्ठितचन्द्रम-ण्डलेन रवेर्मण्डलस्य च्छादनमिति सिद्धान्ते स्थितम् ।तत्र सि० शि० ग्रहणं कथं? भवेदित्येतन्निरूपितं यथा“पश्चाद्भागाज्जलदवदधः संस्थितोऽभ्येत्य चन्द्रो भानोर्बिम्बंस्फुरदसितया छादयत्यात्ममूर्त्या पश्चात् स्पर्शो हरि-दिशि ततो मुक्तिर्स्यात एव क्वापि च्छम्नः क्वचिदपिहितीनैष कक्षान्तरत्वात्” शि० “अर्कादधश्चन्द्रकक्षा यथामेघोऽधःस्थः पश्चाद्भागादागत्यरवि छादयति एवं चन्द्रो-ऽपि शीघ्रत्वात् पश्चाद्भागादागत्य रविं छादयति ततःपश्चात् स्पर्शः निःसरति चन्द्रे पूर्व्वतो मोक्षो रवेः ।अत एव कक्षाभेदात् क्वचिदर्कश्छन्नो दृश्यते क्वचिदेष नछन्नः यथाधःस्थे मेधे कैश्चिद्रविर्न दृश्यते केश्चिद्दृश्यतेप्रदेशान्तरस्थैः इदानीं नतिलम्बयोः कारणमाह” प्रमि० ।“पर्वान्तेऽर्कं नतमुडुपतिच्छन्नमेव प्रपश्येत् मूमध्यस्थो तुवसुमतीपृष्ठनिष्ठस्तदानीम् तद्दृक्सूत्राद्धिमरुचिरधोल-म्बितोऽर्कग्रहेऽतः कक्षाभेदादिह खलु नतिर्लम्बनं चोप-पन्नम् समकलकाले भूभा लगति मृगाङ्गे नतस्तयाम्लानम् सर्वे पश्यन्ति समं अमकक्षत्वान्न लम्बनावनती ।पूर्वाभिमुखो गच्छन् कुच्छ्वायान्तर्यतः शशी विशति तेनप्राक् प्रग्रहणं पश्चान्मोक्षोऽस्य निःसरतः भानोर्बिम्ब-पृथुत्वादपृथुपृथिव्याः प्रभा हि सूच्यग्रा दीर्घतया श-शिकक्षामतीत्य दूरं बहिर्याता अनुपातात् तद्दैर्घ्यं श-शिकक्षायां तद्बिम्बम् भूमेन्द्वोरन्यदिशि व्यस्तः क्षेपःशशिग्रहे तस्मात्” शि० “दर्शान्तकाले रविं पूर्वतः पश्चिमतोवा नतं चन्द्रेण च्छन्नमेव पश्यति मूमध्यस्थो द्रष्टा, यतोदर्शान्ते समौ भवतः यो भूपृष्ठस्थो द्रष्टा तदार्कं छन्नन पश्यति यतस्तद्द ष्टिसूत्राच्चन्द्रोऽधो लम्बितो भवति ।अतः कक्षाभेदाल्लम्बनं नतिश्चोपपद्यते चन्द्रग्रहे तु ल-म्बननत्योरभावः यतः समकलकाले भूभा चन्द्रे लगति ।तया छन्नं सर्वे विदेशान्तरस्था अपि नतमपि तं चन्द्रंसमं पश्यन्ति यतस्तत्र छाद्यच्छादकयोरेकैव कक्षायाता तथा मूभा तावत् पूर्व्वाभिमुखमर्कगत्या गच्छति ।चन्द्रश्च स्वगत्या शीघ्रत्वात् पूर्व्वाभिसुखो गच्छन् मू-मां प्रविशति तेन तत्र प्राक् स्पर्शः भूभाया निःस-रतः पश्चान्मुक्तिः भानोर्विम्बं विपुलं पृथ्वी लघुः ।अतो भूभ सूच्यग्रा भवति दीर्घत्वेन चन्द्रकक्षामतीत्यदूरं गता तद्दैर्घ्यमनुपातात् साध्यते चन्द्रकक्षाप्रदेशेभूभा चन्द्रबिम्बं चेति सर्वं ग्रहणे प्रतिपादितमेव ।(अग्रे ग्रन्थोदर्शयिष्यते) इदानीं छादकनिर्णय-माह” प्रमि० “छादकः पृथुतरस्ततो विधोरर्द्व-खण्डिततनोर्विषाणयोः कुण्ठता महती स्थितिर्यतोलक्ष्यते हरिणलक्षणग्रहे अर्घखण्डिततनोर्विषाणयो-स्तीक्ष्णता भवति तीक्ष्णदीधितः स्यात् स्थितिर्लघुरतोलघुः पृथक् छादको दिनकृतोऽवगभ्यते दिग्देशकाला-वरणादिभेदान्न च्छादको राहुरिति ब्रुवन्ति यन्मानिनःकेवलगोलविद्यास्तत् संहितावेदपुराणबाह्यम् राहुःकुभामण्डलगः शशाङ्गं, शशाङ्कगश्छादयतीनबिम्बम् त-मोमयः शम्भुवरप्रदानात् सर्वागमानाभविरुद्धमेतत्” शि० ।“अर्कच्छादकाच्चन्द्रच्छादकः पृथुतरोऽवगम्यते कुतः य-तोऽर्धखण्डितस्येन्दोर्विषाणयोः कुण्ठता दृश्यते स्थितिश्चमहती अर्कस्थ पुनरर्धखण्डितस्य तीक्ष्णता विषाणयोः ।स्थितिश्च लघ्वी एतत्कारणद्वयान्यथानुपप्रत्त्यार्कस्य छादकोऽल्पः लघुकालः एवं रवीन्द्वोर्न छादको राहु-रिति वदन्ति कुतः दिग्देशकालावरणादिभेदात् ।एकस्य प्राक् स्पर्शः इतरस्य पश्चात्, रवेः क्वापि ग्रह-णमस्ति क्वापि नास्ति क्वापि दर्शान्तादग्रतः क्वापिपृष्ठतः अतो राहुकृतं ग्रहणम् नहि बहवोराहवः एवं केचन वदन्ति केवलगोलविद्यास्तदभिमानि-नश्च इदं संहितावेदपुराणबाह्यम् यतः संहितासु“राहुरष्टमो ग्रहः” “स्वर्भानुर्ह वा असुरः सूर्य्याचन्द्रमसौविव्याधेति” माध्यन्दिनी श्रुतिः “सर्वं गङ्गासमं तोयंसर्वे ब्रह्मसमा द्विजाः सर्वं भूमिसमं दानं राहुग्रस्तेदिवाकरे” इत्यादिपुराणवाक्यानि अतोऽविरुद्धमुच्यते ।राहुरनियतगतिस्तमोमयो ब्रह्मवरप्रदानाद्भूभां प्रविश्यचन्द्रं, चन्द्रं प्रविश्य रविं, छादयतीति सर्वागमानामविरु-द्धम्” प्रमि० अत्र लल्लः “ग्रहणे कमलासनानुभावा-द्धुतदत्तांशभुजोऽस्य सन्निधानम् यदतः स्मृतिवेदसंहि-तासु ग्रहणं राहुकृतं गतं प्रसिद्धिम्” श्रीपतिः“भूच्छायायां प्रविष्टः स्थगयति शशिनं शुक्लपक्षावसानेराहुर्ब्रह्मप्रसादात् समधिगततरस्तत्तमोव्यासतुल्यः ।ऊर्द्ध्वस्थं भानुविम्बं सलिलमयतनोरप्यधोवर्ति विम्बं सं-सृत्यैवं मासव्युपरतिसमये स्वस्य साहित्यहेतोः” ।ग्रहणप्रकारस्तज्ज्ञानोपायश्च सू० सि० रङ्गनाथेनदर्शितो यथा “सार्धानि षट्सहस्राणि ६५०० योजनानिविवस्वतः विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुःशती४८० स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृत्तौ स्फुटौ रवेःस्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः” सू० सि० “सूर्यस्यमण्डलस्य गोलरूपविम्बस्य विष्कम्भोव्यासः ६५०० यो-जनानि, चन्द्रस्य गोलाकारविम्बस्य ४८० योजनानिव्यासः” “व्यासस्यैव गणिते विम्बत्वव्यवहार” र० ना०“शशाङ्ककक्षागुणितो भाजितो वार्ककक्षया विष्क-म्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिकाः” सू० सि० ।“सूर्यस्य विष्कम्भः ६५०० प्रागुक्तः स्पष्टो व्यासः स्वभगणैःसूर्यभगणैरुक्तैर्गुणितश्चन्द्रमगणैर्भक्तो वाथवा चन्द्रकक्षयावक्ष्यमाणया गुणितः सूर्यकक्षया वक्ष्यमाणया भक्तश्चन्द्र-कक्षायां चन्द्राधिष्ठिताकाशगोले सूर्यव्यासः स्पष्टो भ-वति ततो व्यासयोजनसङ्ख्या पञ्चदशभक्ता सूर्यचन्द्रयो-र्विम्बव्यासप्रमाणकला भवन्ति अत्रोपपत्तिः यदा चक्र-कलाभिश्चन्द्रकक्षायोजनानि तदैककलया कानीति चन्द्रक-क्षास्थितैककलायां पञ्चदश योजनानि अतश्चन्द्रस्यस्व-कक्षायां स्थितत्वात् स्पष्टचन्द्रबिम्बव्यासयोजनानि पञ्च-दशभक्तानि चन्द्रबिम्बव्यासकला भवन्ति एवं सूर्यक-क्षायामेका कला सार्धशतद्वययोजनैरिति स्पष्टसूर्यव्या-सस्तैर्भक्तो व्यासकला भवन्ति तत्र सूर्यस्य लोकैर्दू-रान्तराच्चन्द्राकाश इव दर्शनात् प्रत्यक्षतो विविक्तान्तरेणदर्शनाभावाच्च चन्द्रकक्षाप्रमाणेन सूर्यबिम्बव्यासः यदि सूर्यकक्षयाऽयं तदा चन्द्रकक्षया कः? इत्यनुपातेन गणितार्थ-मवस्तुभूतः साधितः तु वस्तुतश्चन्द्रकक्षायां सूर्यम-ण्डलावस्थानं सूर्यग्रहणे चन्द्रस्य छादकत्वानुक्तिप्रसङ्गात्अथ सूर्यस्पष्टव्यासश्चन्द्रभगणभक्तस्वकक्षारूपचन्द्रकक्षयाभक्त इति स्वकक्षारूपगुणहरयोर्नाशात् सूर्यभगणगु-णितश्चन्द्रभगणभक्त इति पूर्वं कक्षयोरनुक्तेरयं प्रकारोमुख्यत्वात् प्रथममुक्तस्ततश्चन्द्रकक्षासिद्धसूर्यविम्बव्यासःपञ्चदशभक्तः सूर्यविम्बव्यासकलाः सिद्धा इत्युपपन्नम्” रङ्ग०“स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता लब्धं सूचीमहीव्यासस्फुटार्कश्रवणान्तरम् मध्येन्दुव्यासगुणितंमध्यार्कव्यासभाजितम् विशोध्य लब्धं सूच्यां तुतमोलिप्तास्तु पूर्ववत्” सू० सि० ।“स्पष्टा चन्द्रस्य गतिर्भूव्यासेन गुणिता मध्यया चन्द्र-गत्या भक्ता फलं सूचीसंज्ञं स्यात् भूव्यासस्पष्टसूर्य-बिम्बव्यासयोरन्तरं मध्येन चन्द्रबिम्बव्यासेन ४८०योजनेन गुणितं मध्येन सूर्यबिम्बव्यासेन ६५००योजनेन भक्तं फलं सूच्यां प्राक्सिद्धायांन्यूनीकृत्य तुकाराच्छेषं तमः भूच्छायारूपं योज-नात्मकं भाभावस्तम इति छायायास्तमस्त्वात् अस्यकलात्मकं मानमाह लिप्ता इति पूर्ववत् तिथ्या-प्ता मानलिप्तिका इति पूर्वोक्तेन भूच्छायायाः कलाःकार्याः अत्रोपपत्तिः “मूव्यासहीनं रविबिम्बमिन्दुक-र्णाहतं भास्करकर्णभक्तम् भूविस्तृतिर्लब्धफलेन हीनाभवेत् कुभाविस्तृतिरिन्दु मार्गे” इति सि० शि० उक्ता तत्र४९०० मूव्यासोनस्य रविबिम्बस्य ६५०० स्वल्पान्तराङ्गीका-रेण स्पष्टगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूप-स्पष्टेन्दुयोजनकर्णो गुणः तादृशसूर्यकर्णो हरः ।तत्रैतत्खण्डस्य कलाकरणार्थं त्रिज्यागुणश्चन्द्रकर्णस्तादृशोहर इति चन्द्रस्पष्टमध्यगत्योस्तुल्यगुणहरत्वेन नाशात्त्रिज्यामध्येन्दुयोजनकर्णयोस्त्रिज्यापवर्तनेन हरः पञ्चदशपृथयुक्तः अग्रेऽवशिष्टौ भूव्यासहीनमध्यार्कबिम्बयो-जनानां रविस्पष्टगतिमध्यमगतौ गुणहरौ चन्द्रसूर्ययोजनकर्णावपि क्रमेण गुणहरौ तत्र कर्णस्थाने ला-घवात् तयोर्बिम्बयोजनानि गृहीतानि यद्यपि सूर्य-चन्द्रयीर्मध्ययोजनकर्णानुसारित्वाभावाद्बिम्बयोजनग्रहण-मनुचितं तथाप्यल्पान्तराङ्गीकारेण तददोषः इन्दुव्यासार्कव्यासयोर्भूगोलाध्यायोक्तकक्षामूकर्णगुणिता महीमण्ड-लभाजिता तत्कर्ण इति तत्कक्षाव्यासार्धत्वे तु सुत-राम् तत्रापि स्पष्टार्कबिम्बयोजनग्त्रहणे मध्यार्कयो-जनबिम्बं सूर्यस्पष्टगतिगुणितं सूर्यमध्यगतिभक्तमितिसिद्धम चोक्तरीत्या सूर्यस्पष्टमध्यगती गुणहरौ भू-व्यासमध्यार्कविम्बयोजनान्तरस्योत्पन्नौ केवलं बिम्बस्येतिभूव्यासस्तादृशो महीव्यास इत्यनेन कथं सिद्ध इति वा-च्यम् भगवता स्वल्पान्तरेण महीव्यासस्य यथास्थितस्यैवाङ्गीकारात् महीव्यासस्फुटार्वश्रवणान्तरमित्युक्त्यामध्यस्फुटपदस्योभयत्रान्वयेनार्कश्रवणसन्निधानेन सूर्य-विम्बस्फुटरीत्यैव महीव्यासस्य स्फुटत्वसिद्धेश्च अथैतत्-खण्डसिद्धं फलं भूव्यासाद्धीनं भूभायोजनानि तत्रकलाकरणार्थं भूव्यासस्यापरखण्डस्य त्रिज्या गुणः स्पष्ट-चन्द्रगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूपस्पष्टयोजनकर्णो हरः तत्र त्रिज्यामध्ययीजनकर्णौ गुणहरौगुणेनापवर्त्य हरस्याने पञ्चदश चन्द्रस्पष्टमध्यगती गुणह-राविति सूच्युक्तोपपन्ना भूभायाः सूच्यनुकारत्वात्प्रथमखण्डं द्वितीयखण्डे हीनं भूभायोजनात्मिका सापञ्चदशभक्ता कलादिकेत्युक्तमुपपन्नम् यदि तु भूव्यासहीनं रविबिम्बमित्यादौ मध्यबिम्बानुक्तेः प्रथममेव स्प-ष्टार्कबिम्बग्रहणं तदा महीव्यासस्य स्पष्टत्वाप्रसिद्ध्या म-हीव्यासस्फुटार्कश्रवणान्तरमित्येव यथाश्रुतं सम्यक् ।परन्तु तदा भूव्यासोनार्कविम्बस्य सूर्यमध्यस्पष्टगती हर-गुणाववशिष्टौ वाच्यावपि भगवता स्वल्पान्तरत्वादनुक्तौ ।न चानुपाते सूर्यचन्द्रयोर्मध्ययोजनकर्णावेव गृहीतौ नस्फुटाविति मध्यस्फुटगती हरगुणावनुत्पन्नौ नोक्तावितिवाच्यम् चन्द्रस्पष्टयोजनकर्णस्वरूपग्रहणेनोत्पन्नसूच्याअनुक्तत्वापत्तेः चन्द्रकर्णस्य मध्यत्वेन गृहीतेबह्वन्तरमतः स्पष्टत्वेन तस्य ग्रहे सूच्युपपन्ना सूर्यक-र्णस्य मध्यत्वेन गृहीतेत्यल्पान्तरमिति वाच्यम् मध्या-र्कविम्बयोजनग्रहणेन स्फुटार्कश्रवणानुपपत्तेः चो-भयत्रागृहीते प्रत्येकमल्पान्तरमपि बह्नन्तरमत एकत्रसूर्यगतिग्रहणमुचितमिति वाच्यम् विनिगमनाविरहात्पूर्वं सूर्यविम्बस्यैव सूर्यस्पष्टगती गुणहरौ महीव्यासस्यप्रान्त्ये तूमयोरिति स्थूलसूक्ष्मविनिगमके तु प्रान्त्ये सूर्य्य-गतिग्रहणस्यौचित्याच्च अथ महीव्यासस्य प्रथमखण्डस्यचन्द्रगतिग्रहणेन सूच्युक्तावेव द्वितीयस्वण्डस्य भूव्यासो-नस्फुटरविबिम्बस्यार्थात् सूर्यगतिग्रहणं सूचितमिति नक्षतिरिति चेन्न व्याख्याप्रसद्भे सूर्यगतिग्रहणे मानाभा-वात् उपपत्तेरप्रसङ्गाच्च अन्यथात्रापि चन्द्रगतिग्रहणा-पत्तेरिति एतेन यदा चन्द्रमध्यगत्या भूव्यासस्तदा चन्द्र-स्पष्टगत्या क? इति भूव्यासरूपं खण्डं स्पष्टं सूचीसञ्ज्ञंयदा सूर्यबिम्बप्रमाणेनापरं भूव्यासोनस्फुटरविबिम्बखण्डंतदा चन्द्रबिम्बप्रमाणेन किमिति स्पष्टं द्वितीयं खण्डंतयोः, स्पष्टयोरन्तरं स्पष्टा भूभेति सर्वमुपपन्नमिति निर-स्तम उक्तानुपाताभ्यां तयोः स्पष्टत्वसिद्धौ मानाभावात् स्पष्ट-त्वस्याप्रसङ्खाच्च चन्द्रसूर्ययोर्मध्यबिम्बानुपपत्तेश्च” र० ना० ।अथ चन्द्रार्कग्रकुणद्वयसम्भवमाह ।“भानोर्भार्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा श-शाङ्कपाते ग्रहणं कियद्भागाधिकोनके” सू० सि० ।“सूर्यात् सकाशात् षड्भान्तरे भूच्छाया सूर्यापरदिक्त्वा ।तत्तुल्ये सषड्भार्करूपच्छायाक्षेत्रादिना समे चन्द्रपाते अपिवाऽथवा सूर्य्यतुल्ये चन्द्रपाते सूर्यचन्द्रयोः प्रत्येकं ग्रह-णम् ननु समत्वाभावेऽपि ग्रहणमिष्यत एवेत्यत आहकियद्भागेत्यादि सषड्भार्कादर्काद्वा कतिपयैर्भागैरधिकेऊनेऽपि चन्द्रपाते ग्रहणम् तथा क्षतिः भा-गाश्चन्द्रग्रहणे द्वादश, सूर्यग्रहणे तु नतांशषडंशसंस्कारात्सप्तेत्यापाततः अत्रीपपत्तिः सषड्भार्ककेवलार्कान्यतर-तुल्ये चन्द्रपाते शराभावश्चन्द्रस्य तत्तुल्यत्वात् तदा चन्द्रोभूच्छायायां भवतीति ग्रहणम् एवं शरसत्त्वेऽपि मानै-क्यखण्डादल्पे भूच्छायायां मण्डलैकदेशस्य सत्त्वेन ग्रह-णम् एवं शराभावे मानैक्यखण्डान्न्यूनशरे चन्द्र-मण्डलं सूर्यमण्डलस्याच्छादकं भवति परन्तु तत्र शरो नति-संस्कृतोऽतः सम्यगुक्तमुपपन्नम्” र० ना० तत्र ग्रहणकालः“तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालिकौ” ।सूर्य्येन्दू पौर्ण्णमास्यन्ते भार्द्धे भागादिकैः समौ” सू० सि० ।“अमावास्यान्तकालोत्पन्नौ सूर्यचन्द्रौ राश्याद्यवयवैःसमौ भवतः पौर्णमास्यन्ते भागादिकैः तुल्यौ सूर्य-चन्द्रौ षड्भान्तरे स्याताम् तथा चामान्ते सूर्यचन्द्रयो-रेकत्रोर्ध्वाधरान्तरेण सत्त्वात् सूर्यग्रहणम् पौर्णमा-स्यन्ते चन्द्रमूभयोरेकत्रावस्थनाच्चन्द्रग्रहणम् एतेन पूर्व-श्लोके शशाङ्कपातैत्यत्र चन्द्रचन्द्रपातौ द्वौ ग्राह्या-विति सूचितम् एतच्छ्लोकस्य वैयर्थ्यापत्तेः अत्रोप-पत्तिः अमान्ते सूर्यचन्द्रयोः पूर्वापरान्तरामावेनयोगात् तुल्यौ सूर्यचन्द्रौ, पूर्णिमान्ते भचक्रार्धान्तरत्वात्षड्राश्यन्तरौ भागादिसमाविति” र० ना० ।“गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ समलिप्तौ भ-वेतां तौ पातस्तात्कालिकोऽन्यथा” सू० सि० ।अथ पर्वान्ते सूर्यचन्द्रचन्द्रपातानां साधनमाह ।“तौ सूर्यचन्द्रौ गतैष्यपर्वनाडीनां यत्कालिकौ सूर्यचन्द्रौतत्कालाद्गता एष्या वा दर्शान्तपूर्णिमान्तान्यतरघटिका-स्तासां स्वफलेन स्वगतिसम्बन्धेन यत् फलम् “इष्टनाडी-गुणा भुक्तिः षष्ट्या भक्ता कलादिकम्” इति मध्याघिका-रोक्तेनानीतम् तेन गतैष्यक्रमेणोनयुतौ तत्र समकलौस्तः यद्यपि समांशाविति वक्तुं युक्तं तथाप्यन्यतिथ्य-न्तीयसाधितौ समकलाविति द्योतनार्थं समकलावित्युक्तम् ।पातः स्वगत्युत्पन्नफलेनान्यथा गतैष्यक्रमेण युतीनस्तात्का-लिकः पर्वान्तकालिकः स्यात्” र० ना० ।अथ प्रागुक्तानां बिम्बानां प्रयोजनमाह “छादकोभा-स्करस्येन्दुरधःस्थो धनवद्भवेत् मूच्छायां प्राङ्मुखश्चन्द्रो वि-शत्यस्य भवेदसौ” सू० सि० “सूर्य्यमण्डलस्याच्छादकश्चन्द्रःस्यात् नन्वाकाशेद्वयोः सत्त्वेन सूर्य्य एव चन्द्रस्य छादकःकथं? स्यादित्यत आह अधःस्थ इति वक्ष्यमाणकक्षा-ध्याये सूर्य्यकक्षतोऽधःकक्षास्थत्वाच्चन्द्रस्यैवाच्छादकत्वम् नह्यूर्द्ध्वस्थश्छादको येन सूर्य्यश्चन्द्रस्य छादकः ननु विनैकत्रायस्थानं छादनं भवत्यत आह घनवदिति यथा-ऽधःस्थो मेघः सूर्य्यस्याच्छादको भवति तथा चन्द्रो भवती-त्यर्थः प्राङ्मुखः पूर्व्वाभिमुखो गच्छश्चन्द्रो भूच्छायांप्रति प्रविशति अतः कारणादस्य चन्द्रस्यासौ भूभा च्छा-दिका भवेत् तथा सूर्य्यग्रहणं सूर्य्यचन्द्रविम्बयोःप्रयोजनं चन्द्रग्रहणे चन्द्रभूभाबिम्बयोः प्रयोजनमितिभावः अत्रोपपत्तिः चन्द्रो दर्शान्ते सूर्य्यादधो भव-तीति चन्द्रः सूर्य्यस्याच्छादकः बुधशुक्रयोस्तु मण्डला-ल्पत्वान्नाच्छादकत्वम् चन्द्रस्याधो ग्रहाभावात् षड्भा-न्तरे भूम्या प्रतिबद्धाः सूर्य्यकिरणाश्चन्द्रगीले पतन्ति ।अतो निष्प्रभस्य चन्द्रस्थ भूभायां प्रवेश इति चन्द्रस्य भूभा-च्छादिका” र० ना० अथ ग्रासानयनमाह “तात्कालिकेन्दु-विक्षेपं छाद्यच्छादकमानयोः योगार्धात् प्रोज्झ्य यच्छेषंतावच्छन्नं तदुच्यते” सू० सि० “यश्छाद्यते छाद्यः सूर्य-ग्रहणे सूर्यश्चन्द्रग्रहणे चन्द्रः यश्छादयति छादकः ।सूर्य्यचन्द्र, ग्रहणयोः क्रमेण चन्द्रभूभे तयोः पूर्व्वानीत-मानकलयोरैक्यस्यार्धात् तात्कालिकचन्द्रात् पूर्व्वोक्त प्र-कारेण साधितं विक्षेपं कलादिकं विशोध्य यदवशिष्टं तत्-प्रमाणकम् छन्नं छादकेन छाद्यस्य यावान्मण्डलप्रदेशआच्छादितस्तावत्प्रदेशात्मकं ग्रासरूपं ग्रहणतत्त्वज्ञैःकथ्यते अत्रोपपत्तिः छाद्यच्छादकमण्डलनेमियोगेग्रहणाद्यन्तरूपे लण्डलकेन्द्रयोरन्तरं स्वविम्बखण्डयोग-रूपम् विम्बस्य व्यासमानात्मकत्वात् तत् तु समत्वाल्लाघ-वाच्च योगार्द्धरूपं धृतम् ततो यथा प्रवेशस्तथा ग्रासोभवतीति पर्वान्ते छाद्यच्छादकयोर्विक्षेपान्तरितत्वात् तदूनेविक्षेपे मण्डलयोगस्तदन्तरमितः एव ग्रासः” र० ना०अथ सम्पूर्णन्यूनग्रहणज्ञानं ग्रहणाभावज्ञानं चाह“यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा योगार्द्धा-दधिके स्याद्विक्षेपे ग्राससम्भवः” सू० सि० ।“तस्मिन् छन्नमानेऽधिके ग्राह्यमानाधिके यद्यस्मात् कार-णाद्ग्राह्यमानमस्ति अतः कारणात् सकलं सम्पूर्णं ग्रहणंभवति अन्यथा ग्राह्यमानान्न्यूने ग्रासे न्यूनं ग्राह्य-मानान्तर्गतं ग्रहणं स्यात् मानैक्यखण्डाद्विक्षेपेऽधिकेसति ग्राससम्भवः ग्रहणं स्यात् अत्रोपपत्तिः ।ग्राह्यमानादधिके ग्रासे सम्पूर्णग्रहणं न्यूने न्यूनंमानैक्यखण्डादधिके विक्षपे मण्डलस्पर्शासम्भवाद्ग्रह-णाभावः” र० ना० ।अथ स्थित्यर्धविमर्दार्धे आह ंग्राह्यग्राहकसंयोग-वियोगौ दलितौ पृथक् विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्या-मुभे पदे षष्ट्या सङ्गुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते ।स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः” सू० सि० ।“ग्राह्यग्राहकमानयोर्योगान्तरे अर्धिते पृथक स्था-नान्तरे स्थाप्ये अग्रिमक्रियायां कदाचिदशुद्धत्वसम्भवपुनः क्रियार्थमेतयोरावश्यकत्वात् तद्वर्गाभ्यां योगार्द्धा-न्तरार्धयोर्वर्गाभ्यां विक्षेपवर्गेण वर्जिताभ्यामुभे द्वे मूलेषष्ट्या गुणयित्वा सूर्यचन्द्रयोर्गत्यन्तरकलाभिर्भक्ते तयो-र्योगवियोगयोः स्थाने घष्ट्यादिभक्ते क्रमेण स्थित्यर्धविम-र्दार्धे भवतः अत्रोपपत्तिः ग्रहणारम्भाद्ग्रहणान्तपर्यन्तः यः कालः स्थितिसञ्ज्ञः तस्य द्वे खण्डे, एकंग्रहणारम्भान्मध्यग्रहणपर्यन्त, मपरं मध्यग्रहणाद्ग्रहणान्तप-र्यन्तम् तत्र बिम्बनेमिस्पर्शकाले मानैक्यखण्डं कर्णःस्पशमोक्षकालिकशरो भुजः स्पर्शमोक्षान्यतरकालिकशरा-ग्रमध्यकालिकशराग्रयोरन्तरं पूर्वापरं कोटिरिति तत्ख-ण्डसाधकं क्षेत्रम् एवं सम्पूर्णग्रहणे सम्मीलनोन्मी-लनकालयोरन्तरकालोविमर्दस्तत्र मध्यग्रहणात् सम्मीलनो-न्मीलनकालावधिखण्डे तत्साधक छाद्यच्छादकमण्डल-केन्द्रयोरन्तरं विक्षेपवृत्ते पूर्वापरं कोटिरिति क्षेत्रम् ।सम्मीलनं छाद्यमण्डलस्याच्छादनसमाप्तिः उन्मीलनंतु छादकमण्डलादाच्छादितसम्पर्णच्छाद्यमण्डलस्य निःसरणारम्भः तत्र स्पर्शमोक्षसमीलनोन्मीलनकालानामज्ञा-नान्मध्यकालिकविक्षेपग्रहणम् भुजकर्णवर्गान्तरपदं को-टिरिति पूर्वश्लोकोक्तमुपपन्नम् छाद्यच्छादकमण्डलके-न्द्रयोः पूर्वापरान्तराभावे मध्यग्रहणसम्भवाच्छाद्यच्छादकयुतिर्गत्यन्तरकलाभिर्यदि षष्टिघटिकास्तदानीतकोटिकलाभिःका इत्यनुपातेन स्थिति विमर्दखण्डे तत्र चन्द्रग्रहणेभूभागतेः सूर्यगत्यनुरोधात् सूर्यगतित्वमित्य पपन्नं द्वि-तीयश्लोकोक्तम्” र० ना० ।अथ स्थित्यर्धविमर्दार्धे असकृत् साध्ये इत्याह “स्थित्य-र्धनाडिकाभ्यस्ता गतयः षष्टिभाजिताः लिप्तादिप्रग्रहे शोध्यं मोक्षे देय पुनः पुनः तद्विक्षेपैःस्थितिदलं विमर्दार्धं तथाऽसकृत् संसाध्यमन्यथा पातेतल्लिप्तादि फलं स्वकम्” सू० सि० ।“सूर्यचन्द्रपातानां गतयः स्थित्यर्धघटीभिगुणिताः षष्ट्याभक्ताः फलं कलादि प्रग्रहे स्पर्शस्थित्यर्द्धनिमित्तं सूर्यच-न्द्रयोर्हीनं मोक्षे मोक्षस्थित्यर्द्धनिमित्तं सूर्यचन्द्रयो-र्देयं योज्यम् चन्द्रपाते तल्लिप्तादि फलं स्थित्यर्धघट्यानीतंकलादिपूर्व फलं स्वकं स्वगत्युत्पन्नमन्यथा विपरीतं प्रग्रह-स्थित्यर्धनिमित्तं योज्यं मोक्षस्थित्यर्धनिमित्तं हीनमि-त्यर्थः तद्विक्षेपैस्तात्कालिकचन्द्रपाताभ्यामानीतशरक-लाभिः कलानां बहुत्वाद्विक्षेपैरिति बहुवचनम् ।विक्षेपाभ्यामित्यर्थः पुनः पुनः स्थितिदलं कार्य्यम्अत्रैकं पुनः पदं स्पर्शस्थित्यर्धसम्बद्धं, द्वितीयं मोक्षस्थित्य-र्धसम्बद्धं पुनः पदम् तेन स्पर्शस्थित्यर्धार्थसाधितचन्द्रपाताभ्यामानीतशरेण प्रागुक्तप्रकारेण स्पर्शस्थित्यर्धं संसा-ध्यम् मोक्षस्थित्यर्धार्थसाधितचन्द्रपाताभ्यामानीतशरेणपूर्वोक्तरीत्या मोक्षस्थित्यर्धं साध्यमित्यर्थः तच्चोभयमस-कृद्वारंवारं स्पर्शस्थित्यर्धानीतचालनेन मध्यकालिकौचन्द्रपातावुक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या स्पर्श-स्थित्यर्धमस्मादप्युक्तरीत्या स्पर्शस्थित्यर्धमेवं यावदविशेषः ।एवं मोक्षस्थित्यर्धानीतचालनेन मध्यकालिकौ चन्द्रपाता-वुक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्ध-मस्मादप्युक्तरीत्या मोक्षस्थित्यर्धमेवं यावदविशेष इत्यर्थः ।ननु स्थित्यर्धविमर्दार्धयोरेकरीत्युक्तेः कथं विमर्दार्धमस-कृत् साध्यमिति नोक्तमित्यत आह विमर्दार्घमिति तथाच स्पर्शमोक्षस्थित्यर्धसाधनरीत्याऽसकृद्यावदविशेषस्तावत्स्पर्शमर्दार्धं मोक्षमर्दार्धं संसाध्यम् तथा हि स्थि-त्यर्धनाद्धिकाभ्यस्ता इत्यत्र विमर्दार्धनाडिकाग्रहात् स्पर्श-मर्दार्धमोक्षमर्दार्धे साध्ये आभ्यां प्रत्येकमसकृत् स्पर्शम-र्दार्धमोक्षमर्दार्धे स्फुटे स्तः अत्रोपपत्तिः प्रागुक्तं क्षेत्रंस्पर्शमोक्षसम्मीलनोन्मीनकालिकशरवशादिति तदज्ञानान्म-ध्यकालिशरग्रहणेन स्थूलं स्थित्यर्धं मर्दार्धं चातो मध्यका-लात् तदन्तरेण पूर्वाग्रिमकालिकयोस्तेषां सम्भवात् तत्का-लचालितचन्द्रपाताभ्यां विक्षेपस्तात्कालिको भवति परंस्थूलः स्थूलस्थित्यर्धाद्यानीतत्वात् अतोऽस्मादानीतंस्थित्यर्धादि पूर्वापेक्षया सूक्ष्ममपि स्थूलमित्यसकृत् सूक्ष्म-मिति तत्र सम्मीलनोन्मीलनकालयोराकाशस्पर्शमोक्ष-सम्भवात् स्पर्शमोक्षमर्दार्धमिति ध्येयम्” र० ना० ।अथ मध्यग्रहणस्पर्शमोक्षकालानाह “स्फुटतिथ्यव-साने तु मध्यग्रहणमादिशेत् स्थित्यर्धनाडिकाहीनेग्रासो मोक्षस्तु संयुते” सू० सि० ।“स्पष्टतिथ्यन्तकाले तुकारात् तत्पूर्वापरकालनिरासः ।मध्यग्रहणं गासोपचयसमाप्तिं कथयेत् मध्यग्रहणसम्ब-न्धेन मध्यसूर्य्यचन्द्र नीतमध्यतिथ्यन्ते तत्सम्भव इति कस्य-चिद्भ्रमस्तद्वारणार्थं स्फुटेति स्थित्यर्धघटिकाभिरूने तिथ्यन्तकाले ग्रासः स्पर्शः संयुते स्थित्यर्धघटीभिर्युते तिथ्यन्तकालेमोक्षः तुकारः स्पर्शमोक्षस्थित्यर्धाभ्यां स्पर्शमोक्षकाला-विति विषयव्यवस्थार्थकः अत्रोपपत्तिः तिथ्यन्तकालेछाद्यच्छादकयोः पूर्वापरान्तराभावाद्योगे मण्डलस्पर्शोयावान् भवति ततः पूर्वाग्रिमकालयोर्न्यून एवातोऽत्रमध्यग्रहणकालः मध्यग्रहणकालात् पूर्वं स्पर्शस्थित्यर्ध-घटीभिः स्पर्शः अग्रिमकाले मोक्षस्थित्यर्धघटीभिर्मोक्षः ।स्थित्यर्धयोस्तदन्तररूपत्वेन सिद्धेः” र० ना० ।अथ समूर्णग्रहणे निमीलनोन्मीलनकालावप्याह“तद्वदेव विमर्दार्धनाडिकाहीनसंयुते निमीलनो-न्मीलनाख्ये भवेतां सकलग्रहे” सू० सि० ।“सम्पूर्णग्रहणे तद्वत् यथा स्थित्यर्धोनाधिके ति-थ्यन्ते स्पर्शमोक्षौ तथेत्यर्थः एवकारात् तद्भिन्नरीतिव्युदासः स्पर्शविमर्दार्धमोक्षविमर्दार्धघटीभ्यां क्रमेणोनयुते तिथ्यन्ते क्रमेण निमीलनोन्मीलनसञ्ज्ञे स्याताम् ।अत्रोपपत्तिः मर्दार्धस्य मध्यकालात् तदन्तररूपत्वेनतदूनाधिके तस्मिन् क्रमेण निमीलनोन्मीलने सम्पूर्ण-ग्रहण एव भवतः न्यूनग्रहणे तत्स्वरूपव्याघातात्तदभावः” र० ना० ।अथेष्टकाले इष्टग्रासज्ञानार्थं कीटिकलानयनमाह ।“इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः भुक्त्य-न्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः” सू० सि० ।“सूर्यचन्द्रयोर्गत्यन्तरं कलात्मकं ग्रहणारम्भाद्या इष्ट-घटिकाः स्पर्शस्थित्यर्धघट्यनधिकास्ताभिरूनेन स्पर्शस्थित्य-र्धेन गुणयेत् अस्मात् षष्टिविभक्तप्राप्ताः कोटिकलाभवन्ति अत्रोपपत्तिः इष्टकाले छाद्यच्छादकमण्डल-केन्द्रयोरन्तरं विक्षेपवृत्ते कोटिरिति क्षेत्रे इष्टघट्यून-स्पर्शस्थित्यर्धघटिकानां कलाः कोटिः सिद्धाः पूर्वं स्प-र्शकालिककोट्याः स्थित्यर्धटिकानां सिद्धत्वात्” र० ना० ।“भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसङ्गुणाः स्फु-टस्थित्यर्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृताः” सू० सि० ।“अथात्र सूर्यग्रहणे विशेषमाह सूर्यस्य ग्रहणेउक्तपकारेण याः कोटिकलाः सूर्यग्रहणोक्तस्प ष्टस्थित्य-र्धानीतस्थित्यर्धेन सङ्गुणिताः स्फुटस्थित्यर्धेन सूर्यग्रह-णाधिकारोक्तेन भक्ताः सत्यः स्पष्टाः कोटिकलाः सूर्य-ग्रहणतत्त्वज्ञैरुक्ताः अत्रोपपत्तिः सूर्यग्रहणे स्पर्श-मोक्षान्यतरमध्यकालयोरन्तरस्य स्थित्यर्धत्वात् तस्य स्प-ष्टशरोद्भूतस्थित्यर्धलम्बनान्तरैक्यसंस्कारमितत्वात् स्पष्ट-स्थित्यर्धानुरुद्धा उक्तरीत्यानीताः कोटिकलाः अपेक्षिताश्चस्पष्टशरोद्भूतस्थित्यर्धानुरुद्धाः एतत् कोटिसम्बद्धं क्षेत्रम्स्थित्यर्धक्षेत्रान्तर्गतत्वात् स्पष्टस्थित्यर्धस्य लम्बनान्तरैक्यसं-स्कारानुक्तिपसङ्गः अतः स्पष्टस्थित्यर्धेनैता आगताः को-टिकलास्तदा स्पष्टशरोद्भूतक्षेत्रजमध्यमरूपस्थितर्धेन का?इति स्फुटाः कलाः सिद्धाः र० ना० “क्षेपो भुजस्त-योर्वर्गयुतेर्मूलं श्रवस्तु तत् मानयोगार्धतः प्रोज्झ्यग्रासस्तात्कालिको भवेत्” सू० सि०“अथेष्टग्रासानयनमाह क्षेपो विक्षेपो भुजः को-टिभुजयोः कर्णसापेक्षत्वादाह तयोरिति कर्णस्तु तयोःकटिभुजयोर्वर्गयोगान्मूलं सिद्ध एव तत् कर्णवर्गात्मकंमूलं ग्राह्यग्राहकमानैक्यार्धाद्विशोध्य शेषं तात्कालिकःकल्पितेष्टकालसम्बन्धी ग्रासोऽवान्तरग्रासः स्यात् अत्री-पपत्तिः क्षेत्रं पूर्वं प्रतिपादितम् स्पर्शकाले मानैक्य-खण्डस्य कर्णत्वात् क्षेत्रयोरुभयोर्मध्यकालावघित्वादिष्टकर्णोनंमानैक्यखण्डमिष्टग्रास एव” र० ना० “मध्यग्रहणतश्चोर्ध्व-मिष्टनाडीर्विशोधयेत् स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्व-च्छेषं तु मौक्षिके” सू० सि० “अथ मध्यग्रहणानन्तरमिष्टग्रा-सानयनमाह “मध्यग्रहणकालादूर्ध्वमनन्तरम् चकारोविशेषार्थस्तुकारपरः इष्टघटिकाः कर्म मौक्षिकान्मो-क्षकालसम्बद्धात् स्थित्यर्धात् स्पर्शस्थित्यर्धात् विशोधयेत्गणक इति कर्त्राक्षेपः शेषं कोटिलिप्तादिग्रासानय-नान्तं गणितकर्म प्राग्वद्भुक्यन्तरं समाहन्यादित्युक्तप्र-कारेण कुर्यात् मौक्षिके मोक्षस्थित्यर्धान्तर्गतेष्टकालेतुर्विशेषे ग्रासः शेषमुर्वरितो ग्रासोऽवान्तरग्रासो भ-वति पूर्ववद्गतः अत्रोपपत्तिः मध्यग्रहणात्पूर्वमिष्टकालस्य ग्रहणारम्भावधिकस्य स्पर्शस्थित्यर्धसम्बद्व-त्वादागतो ग्रास उपचयात्मकः नावशिष्टः अवशिष्ट-मण्डलस्य शुद्धत्वेन ग्रस्तत्वासम्भवात् एवं मध्यग्रह-णानन्तरमिष्टकालस्य मोक्षस्थित्यर्धान्तर्गतत्वादुक्तरीत्यानीतोग्रासोऽपचयात्मकः शुद्धबिम्बदर्शनात्मकः ग्रस्तत्वा-भावात्” रङ्ग० “ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छ-न्नलिप्तिकाः तद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिपदम् कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः ।मध्येन लिप्तास्तन्नाड्यः ऐतिवद्ग्रासनाडिकाः” सू० सि० ।“अथाभीष्टग्रासादिष्टकालानयनमाह छाद्यच्छादकमानैक्य-खण्डादभीष्टग्रासकलाः शोध्याः शेषस्य वर्गादभीष्टग्रास-कालिकविक्षेपस्य वर्गं विशोध्य शेषस्य मूलं कोटिकलाः ।सूर्यग्रहणे विशेषमाह रवेरिति सूर्यस्य ग्रहणे इति शेषःभानोर्ग्रह इति पूर्वमुक्तेः उक्तप्रकारेण याः कलास्तामध्यग्रहणकालस्पर्शमोक्षान्यतरकालयोरन्तररूपेण स्पष्ट-स्थित्यर्धेन गुण्याः स्पष्टशरोत्पन्नस्थित्यर्धेन मध्यमेन मक्ताःफलं कोटिकला भवन्ति स्थितिवत् स्थित्यर्धसाधनरीत्या ।“षष्ट्या सङ्गुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिताः” इत्युक्तेनतासां कोटिकलानां घटिका यास्ता अभीष्टग्राससम्ब-न्धिघटिकाः स्पर्शमोक्षान्यतरस्थित्यर्धान्तर्गताः क्रमेणमध्यग्रहणाच्छेषा गता वा भवन्ति अत्रोपपत्तिः पूर्वो-क्तव्यत्यासात् सुगमतरा परन्तु स्वाभीष्टग्रासकालिकश-रज्ञाने सूक्ष्मम् तच्छराज्ञाने मध्यकालिकशरग्रहणेनस्थूलम् अतएव भास्कराचार्यैः “कालसाधने तत्काल-वाणेन मुहुः स्फुट इत्युक्तमिति” रङ्ग० ।अथ वक्ष्यमाणग्रहणपरिलेखोपयुक्तवलनानयनमाह ।“नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ।वलनांशाः सौम्ययाम्याः पूर्वापरकपालयोः राशि-त्रययुताद्ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युताः भेदेऽन्तराज्-ज्या वलना सप्तत्यङ्गुलभाजिता” सू० सि० ।“यत्कालिकं वलनं कर्तुमिष्टं तात्कालिकं नतं, च-न्द्रग्रहणे चन्द्रस्य, सूर्यग्रहणे सूर्यस्य साध्यम् तद्यथास्वोदयात् स्वास्ताद्गतशेषघटिकाः स्वदिनार्धान्तर्गताःस्वदिनार्धादूनाः क्रमेण पूर्वापरनतघटिका भवन्ति त-न्नतं नवतिगुणं स्वदिनार्धभक्तं नतांशास्तेषां ज्या नत-ज्येत्यर्थः स्वदेशाक्षांशज्यया गुणिता त्रिज्यया भक्ताफलं धनुः कलात्मकं षष्टिभक्तं पूर्वापरकपालयोः पू-र्वापरनतयोः क्रमेणोत्तरदक्षिणा वलनांशा भवन्ति ।यत्कालिकं वलनं तात्कालिकाद्ग्राह्याद्राशित्रययुतात्सायनांशाद्ये क्रान्त्यंशास्तैर्दिक्तुल्यैर्युतास्तेषां ज्या, भेदेभिन्नदिक्त्वेऽन्तरात् क्रान्त्यंशवलनांशयोरन्तराज्ज्या सप्त-त्यङ्गुलैर्भक्ता शेषदिक्का अङ्गुलात्मकत्वेन हरस्योद्देशाद-ङ्गुलादिका वलना भवति अत्रोपपत्तिः समवृत्त-पूर्वापरादिदिग्भ्यः क्रान्तिवृत्तपूर्वापरादिदिशो यावता-न्तरेण वलिता उत्तरस्यां दक्षिणस्यां वा वलनांशाः ।तदानयनार्थं प्रथमतः समवृत्तानुरुद्धदिग्भ्यो विषुवद्-वृत्तदिशी यावतान्तरेण वलिता दक्ष्णोत्तरयोस्तदा-क्षवलनम् तथा हि समप्रोतचलवृत्तं ग्रहचिह्नस्थं स-मविषुवद्वृत्तयोर्यत्र लग्नं तत्प्रदेशान्नवत्यंशान्तरे प्राच्यो-रन्तरं वलनं तत्तुल्यमेवेतरदिशामन्तरं पूर्वकपालस्थ-ग्रहे समवृत्तप्राचीतो विषुवद्वृत्तप्राच्या उत्तरादुत्तरम् ।पश्चिमकपालस्थे तु समवृत्तप्राचीतो विषुवद्वृत्तप्राच्यादक्षिणत्वाद्दक्षिणम् तत्र क्षितिजस्थे ग्रहे तदन्तरमक्षां-शतुल्यम् याम्योत्तरवृत्तस्थे ग्रहे तदन्तराभावः अतोयदि त्रिज्यातुल्यया नतकालज्ययाऽक्षज्यातुल्याक्षवलनज्यातदेष्टनतज्यया केत्यनुपातागताक्षज्याया धनुराक्षं वलनमु-क्तमुपपन्नम् द्वितीयं तु विषुवद्वृत्तदिग्भ्यः क्रान्ति-वृत्तदिशो यावतान्तरेण वलिता दक्षिणोत्तरयोस्तदायनंवलनम् तथा हि ध्रुवप्रोतवृत्तं ग्रहचिह्नस्थं विषुवद्वृत्तेयत्रासन्नं लगति तत्स्थानाच्चतुर्थांशान्तरे यत् स्थानतद्विषुवत्प्राची तस्या ग्रहचिह्नात् त्रिभान्तरितक्रान्तिवृत्त-प्राची यदन्तरेण तदायनं वलनम् तत्तुल्यमेचेतरदि-शामन्तरम् उत्तरायणस्थे ग्रहे उत्तर, दक्षिणाय-नस्थे ग्रहे दक्षिणम् तत्तु अयनसन्धावभावात्मकम्गोलसन्धौ परमक्रान्तितुल्यमतः त्रिभक्रान्तितुल्यंसत्रिभग्रहगोलदिक्कमित्युपपन्नं राशित्रययुताद्ग्राह्यात्क्रान्त्यंशैरिति द्वयोर्वलनयोरेकदिक्त्वे समवृत्तप्राचीतःक्रान्तिवृत्तप्राची तद्योगरूपस्फुटवलनान्तरेण वलनदिशिभवति भिन्नदिक्त्वे तु वलनान्तररूपस्फुटवलनान्तरेणशेषदिशि भवति तज्ज्या स्फुटवलनज्या त्रिज्यावृत्तेअग्रे परिलेख एकोनपञ्चाशन्मितव्यासार्धवृत्ते दानार्थत्रिज्यावृत्ते यदीयम्, तदैकोनपञ्चाशन्मितज्या केत्यनुपातेप्रमाणेच्छयोरिच्छापवर्तनाद्धरस्थानेऽधोऽवयवत्यागात् सप्त-तिः अतो दिक्समैर्युता इत्याद्युपपन्नम्” रङ्ग० ।अथ कलात्मकविम्बविक्षेपादीनामङ्गुलीकरणमाह ।“सोन्नतं दिनमध्यर्धं दिनार्धाप्तं फलेन तु छिन्द्याद्वि-क्षेपमानानि तान्येषामङ्गुलानि तु” सू० सि० ।“दिनमानमर्द्धेनाधिकम् इत्यध्यर्धं स्व र्धयुक्तमित्यर्थः ।अभीष्टकालिकोन्नतघटीभिः सहितं दिनार्द्धेन भक्तं फ-लेन तुकारो यद्ग्रहणं तस्य दिनमानोन्नते ग्राह्येइत्यर्थकः विक्षेपग्राह्यग्राहकविम्बमानानि तानिपूर्वोक्तानि कलात्मकानि ग्रासादिकमपि ध्येयम् ।भजेत् तुकारात् फलमेषां कलात्मकानामङ्गुलानिभवन्ति अत्रोपपत्तिः उदयास्तकाले विम्बकिरणानांभूमिगोलावरुद्धत्वेनाल्पोर्द्ध्वस्थकिरणानां नयनप्रतिहनना-नर्हत्वाद्विम्बं व्यक्तत्वान्महद्भासते तत्राङ्गुलात्मकं विम्बंकलात्रयात्मैककाङ्गुलप्रमाणेन भवति खमध्यस्थे ग्रहेतु विम्बस्य सर्वकिरणानवरुद्धत्वान्नयनप्रतिघाताच्च सूक्ष्मंविम्बं भासते तत्राङ्गुलात्मकं विम्बं कलाचतुष्टया-त्मकैकाङ्गुलप्रमाणेन भवति तत्रोदयास्तकाले शङ्कोर-भावात् खमध्यस्थे तस्य त्रिज्यातुल्यत्वात् त्रिज्यातुल्यश-ङ्कावुदयकालिकैकाङ्गुलमानस्य कलात्रयस्यैकाङ्गुलमुपचयोलभ्यते तदेष्टशङ्कौ क? इत्यनुपातेनामोष्टकाले फलंत्रयमेकाङ्गुलस्य कलात्मकं मानं भवति अत एवभास्कराचार्यैरुदवास्तकाले सार्द्धद्वयं कलाङ्गलमानम-ङ्गोकृत्य “त्रिज्योद्धृतस्तत्ससयोत्यशङ्कुः सार्द्धद्वियुक्तो-ऽङ्गुललिप्तिकाः स्युः” इत्युक्तम् तत्र भनवता लोका-नुकम्पया स्वल्पान्तरत्वाच्च मध्याह्नेऽपि कलाचतुष्टयात्मका-ङ्गुलमङ्गीकृत्य दिनार्द्धतुल्यपरमोन्नतकाल एवोपचयस्तदे-ष्टोन्नतकाले इत्यनुपातागतफलमुक्तं त्रयं कला एका-ङ्गुलमानमभीष्टकाले तत्र दिनार्द्धभक्तोन्नतकालस्य फल-स्वरूपत्वात् त्रयाणां समच्छेदतया योजने त्रिगुणितंदिनार्द्धं सार्द्धैकगुणदिनमानरूपमुन्नतकालयुक्तं दिनार्द्ध-भक्तमिति सिद्धम् तत एतत्कलाभिरेकाङ्गुलं यदा तदे-ष्टककलाभिः किमित्यनुपातेन कलात्मकानामङ्गुलीकरणमु-क्तमुपपन्नम्” रङ्ग० इति चन्द्रग्रहणाधिकारःअथ सूर्य्यग्रहणाधिकारस्तत्र विशेषः ।“मध्यलग्नसमे भानौ हरिजस्य सम्भवः अक्षोदङ्म-ध्यभक्रान्तिसाम्ये नावनतेरपि” सू० सि० “सूर्येऽमावास्या-न्तकालिके मध्यलग्नसमे सति दिनमध्यस्थाने ऊर्द्ध्वयाम्यो-त्तरवृत्ते लग्नः क्रान्तिवृत्तप्रदेशो मध्यलग्नं त्रिप्रश्नाधि-कारोक्तम् तत्तुल्ये सति मध्याह्न इति फलितम् ।हरिजस्य लम्बनस्य भूपृष्ठक्षितिजवशाल्लम्बनोत्पत्तेर्लम्बनस्यापिक्षितिजवाचकहरिजशब्देनाभिधानात् सम्भव उत्पत्तिर्न ।तत्र लम्बनाभावः इत्यर्थः लग्नयोरुदयक्षितिजास्तक्षिति-जप्रदेशयोः संलग्नक्रान्तिवृत्तप्रदेशयोर्मध्यम् ऊर्द्ध्वमध्य-प्रदेशयोस्त्रिभोनलग्नमित्यर्थः प्रयोगस्तु मध्याह्न इतिवत् ।तत्तुल्येऽर्के लम्बनस्याभाव इति नत्यभावस्थानमाह ।अक्षेत्यादि अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्नस्यक्रान्त्यंशाः अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोन-लग्नं वा ग्राह्यमुभयपक्षेऽप्यदोषः अनयोस्तुल्यत्वेऽवन-नेर्नतेः अपिशब्दात् सम्भाः नाभाव इत्यर्थः नत्वपिशब्दाल्लम्बनस्यापि तत्राभावः उत्तरक्रान्त्यक्षयो-स्तुल्यत्वे मध्यलग्नतुल्यार्कत्वाभावेऽपि तदभावापत्तेः ।अत्रोपपत्तिः अमावास्यान्तकाले समौ सूर्य्यचन्द्रौ ।तत्र चन्द्रशराभावे मूगर्भान्नीयमानं सूत्रमर्कस्थाना-वधि चन्द्रं स्पृशत्येवेति भूगर्भे छादकत्वं चन्द्रस्य सूर्य्यस्यछाद्यत्वं सम्भवति तत्र मनुष्याणामसत्त्वाद्भूपृष्ठे तेषांसत्त्वाच्च भूपृष्ठान्नीयमानमर्कोपरि सूत्रं चन्द्रे लगत्येव ।किन्तु चन्द्राधिष्टानगोले चन्द्रचिह्नादूर्द्ध्वं लगति तत्रयदा चन्द्र आयाति तदा भूपृष्ठे सूर्य्यस्य चन्द्रश्छादकोभवति यदा तु खमध्ये सूर्य्यस्तदा मूगर्भसूत्रं भूपृष्ठ-सूत्रं सूर्य्योपरिगमेकमेव चन्द्रे लगतीति भूपृष्ठेऽ-मान्तकाले चन्द्रश्छादको भवति अत एव भूगभपृष्ठ-सूत्रान्तरं लम्बनम् भूपृष्ठसूत्रात् सूर्य्योपरिगाच्चन्द्राधि-ष्ठानाकाशगोले चन्द्रस्य शरसत्त्वे चन्द्रचिनस्य वा लम्बित-त्वात् अत एव भास्कराचार्य्यैरुक्तम् “दृग्गर्भसूत्रयो-रैक्यात् खमध्ये नास्ति लम्बनम्” इति अथ चन्द्रा-धिष्टानगोले भूपृष्ठसूत्रमर्कोपरिगतं चन्द्रचिह्नादूर्द्ध्वंचन्द्रदिग्वृत्ते यदंशैर्लगति तल्लम्बनं दृग्वृत्ताकारक्रान्ति-वृत्ते भवति यदा तु दृग्वृत्ताद्भिन्नं क्रान्तिवृत्तं तदाभूपृष्ठसूत्रं चन्द्राधिष्ठानगोले चन्द्रदृग्वृत्ते चन्द्रादूर्द्धं यत्रलग्नं तत्र चन्द्रगोलस्थक्रान्तिवृत्तयाम्योत्तररूपकदम्बप्रो-तवृत्तमानीय चन्द्रगोलस्थक्रान्तिवृत्ते यत्र लग्नं तच्छन्द्रचि-ह्नयोरन्तरं क्रान्तिवृत्ते पूर्वापरं स्फुटलम्बनकलाः कोटिचन्द्रस्य क्रान्तिवृत्तानुसारेण गमनात् प्रोतवृत्ते क्रान्ति-वृत्तदृग्वृत्तयोरन्तरं याम्योत्तरं कलात्मकं नतिर्भुजः ।मूगर्भपृष्ठसूत्रान्तरं दृगवृत्ते कलात्मकं दृग्लम्बनं कर्णः ।दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे क्रान्तिवृत्ते तयोरन्तरा-भावाल्लम्बनाभावः याम्योत्तरमन्तरं दृग्लम्बनं नतिरे-वोत्पन्ना दृग्वृत्ताकारक्रान्तिवृत्ते तु दृगलम्बनमेव क्रा-न्तिवृत्ते तयोरन्तरमिति लम्बनमुत्पन्नं नत्यभावश्च ।तथा दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्न-स्थानेऽर्को भवति तद्वृत्तस्य क्रान्तिवृत्तयाम्योत्तरत्वेनो-दयास्तलग्नमध्यवर्त्तित्वेन लग्नस्थानात् त्रिभान्तरित-त्वात् हि क्रान्तिवृत्ताद्याम्योत्तरान्तरज्ञानार्थं सम-प्रोतवृत्तमङ्गीकार्य्यम् येन दशमभावतुल्यार्के लम्बना-भाव उपपन्नः स्यात् क्रान्तिवृत्तस्य गोलवृत्तत्वेन सम-प्रोतवृतस्य देशवृत्तत्वेन सम्बन्धाभावात् अत एव भग-वता सर्वज्ञेन नतिसाधनार्थमग्रे दृक्क्षेपः कदम्बप्रोत-वृत्ते त्रिभोनलग्नस्यैव साधितः दृक्क्षेपाभावे त्रिभो-नलग्नस्य खमध्यस्थत्वेन तदा तस्य दशमभावतुल्यत्वेन द-शमभावनतांशाभावाद्दृक्क्षेपाभावः तदा त्रिभोनलग्नस्यनतांशाभावश्च नतांशाभावस्त्वक्षांशतुल्योत्तरक्रान्तौ सुखार्थंस्थूलाङ्खोकारे तु दशमभावस्यैव नतांशोन्नततज्ज्ये दृक्क्षेप-दृग्गती नतिलम्बयोः साधनार्थं समनन्तरमेव भगवतोक्ते नतु वस्तुरूपे आयासेन दृक्क्षेपसाधनस्योक्तस्य वैयर्थ्या-पत्तेः” रङ्ग० ।“देशकालविशेषेण यथावनतिसम्भवः लम्बनस्यापिपूर्वान्यदिग्वशाच्च तथोच्यते” सू० सि० “देशविशेषेण काल-विशेषेणावनतिसम्भवो नतिकालोत्पत्तिर्गोलस्थित्या यथाभवति लम्बनस्यापिः समुच्चये त्रिभोनलग्नस्थानात् पू-र्बापरदिगनुरोधात् चकारात् सम्भवो देशकालविशे-शेषेण यथा भवतीर्थः तथा तत्तुल्येन नतिलम्बनेआनयनद्वारा मया कथ्येते” रङ्ग० तत्रोपयुक्तामु-दयाभिघामाह “लग्नं पर्वविनाडीनां कुर्य्यात् स्वैरु-दयासुभिः तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदया-भिधा” सू० सि० “स्वैः स्वदेशीयैरुदयासुभी राश्यु-दयासुभिः पर्वघटिकानां लग्नं गणकः कुर्य्यात् पर्वान्त-कालिकं लग्नं साध्यमित्यर्थः यद्यपि पूर्व्वं लग्न-साधनं स्वेदयैरेवोक्तमिति स्वैरुदयासुभिरिति व्यर्थंतथापि समनन्तरमेव दशमभावसाधनोक्त्या कस्यचिल्लग्नंव्यक्षोकयैरेवात्र साध्यमिति भ्रमस्थ वारणाय पुनरुक्तिः ।तस्य लग्नस्यायनांशसंस्कृतस्य ज्या भुजज्या परमक्रान्ति-गुण्या स्वदेशीयलम्बज्यया भक्ता फलमुदयसञ्ज्ञं स्यात् ।अत्रोपपत्तिः लग्नक्रान्तिज्यासाधनार्थं लग्नभुजज्यायाःपरमक्रान्तिज्या गुणस्त्रिज्या हरस्ततो लम्बज्या कोटी त्रि-ज्या कर्णस्तदा लग्नक्रान्तिज्याकोटौ कः कर्ण इत्यनुपातेत्रिज्ययोर्नाशाल्लग्नभुजज्या परमक्रान्तिज्या गुणलम्बज्ययाभक्ता फलं लग्नस्याग्रा इयं भगवतोदयसञ्ज्ञोक्ता लग्न-स्योदयसञ्ज्ञत्वात् उदयसम्बन्धाच्चेत्युक्तमुपपन्नम्” रङ्ग० ।“तदा लङ्कोदयैर्लग्नं मध्यसञ्ज्ञं यथोदितम् तत्क्रा-न्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा शेषं नतंशस्त-न्मौर्वी मध्यज्या साभिधीयत” सू० सि० “अत्रोपयुक्तांमध्यज्यामाह तदा पर्वान्तकाले लङ्कोदयैर्व्यक्षदेशीयरा-श्युदयैर्यथोदितं पूर्वोक्तप्रकारेण जातकपद्धत्युक्तनतघटी-भिर्धनमृणं यथायोग्यं मध्यसञ्ज्ञं लग्नं दशमभावात्मकंसाध्यम् अत्र लग्नसम्बन्धेन स्वदेशराश्युदयासुग्रहण-शङ्कावारणाय लङ्कोदयैरिव्युक्तम् तस्य दशमभावस्या-यनांशसंस्कृतस्य क्रान्तिः स्वदेशाक्षांशाः अनयोर्योगएकदिक्त्वे कार्यः अन्यथा भिन्नदिक्त्वेऽन्तरं तयोरेव शेषंसंस्कारदिक्का नतांशास्तेषां ज्या कार्या सा मध्य्ल-ग्ननतांशज्या मध्यज्योच्यते तत्सम्बन्धात्” रङ्ग० “अथा-स्यामुपयुक्तं दृक्क्षेपं लम्बनोपयुक्तां दृग्गतिंचाह ।“मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ।मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् तत्त्रिज्याव-र्गविश्लेषान्मूलं शङ्कुः दृग्गतिः” सू० सि० ।“पूर्वोक्तमध्यज्या पूर्वानीतोदयाभिधयोदयज्यया अस्याज्यारूपत्वाज्येयुक्तम् गुणिता त्रिज्यया भक्ता फलंवर्गितं वर्गः सञ्जातो यस्य तत् फलस्य वर्गः कार्यइत्यर्थः मध्यज्याया वर्गे विश्लिष्टं हीनं वर्गितं फलंकार्यम् शेषान्मूलं दृक्क्षेपः स्यात् दृक्क्षेपत्रिज्य-योर्यौ वर्गो तयोरन्तरान्मूलं शङ्कुः आनीतःशङ्कुदृंग्गतिसञ्ज्ञो भवति तु शङ्कुमात्रम् अत्रोप-पत्तिः त्रिभोनलग्नस्य दृग्ज्यानयनाथं क्षेत्रम् म-ध्यलग्नदृग्ज्याकर्णस्त्रिभोनलग्नस्य याम्योत्तरवृत्तात् प्रा-गपरस्थितत्वेन तत्खस्वस्तिकान्तरस्थिततदीयदृग्वृत्तप्रदेशां-शज्या कोटिः मध्यलग्नत्रिभोनलग्नान्तरांशज्या क्रान्ति-वृत्तस्थो भुजः अत्र भुजानयनं चोदयलग्नस्थक्रा-न्तिवृत्तप्रदेशः प्राक्स्वस्तिकात् तदग्रान्तरेणोत्तरदक्षि-णो भवति एवमस्तलग्नप्रदेशः परस्वस्तिकाद्दक्षिणो-त्तरः तदनुरोधेन त्रिभोनलग्नप्रदेशक्रान्तिवृत्तीय-याम्योत्तरवृत्तरूपतद्दृग्वृत्तं क्षितिजे याम्योत्तरवृत्तक्षि-तिजलम्पातात् तदाग्रान्तरेण लग्नमवश्यं भवति अत-स्त्रिज्यातुल्यमध्यलग्नदृग्ज्यया लग्नाग्रातुल्यो भुजस्तदा-भीष्टतद्दृग्ज्यया इत्यनुपातेन फलसञ्ज्ञः त-द्वर्गोनान्मध्यलग्नदृग्ज्यावर्गान्मूलं त्रिभोनलग्नस्य दृग्ज्यादृक्क्षेपाख्या एतद्वर्गोनात् त्रिज्यावर्गान्मूलं त्रिभोन-लग्नशङ्कुर्दृग्गतिसञ्ज्ञः अत्रेदमवधेयम् त्रिप्रश्ना-धिकारोक्तप्रकारेण त्रिभोनलग्नस्य शङ्कुदृग्ज्ये दृग्ग-तिदृक्क्षेपतुल्ये भवतः किन्तु दृग्गतिदृक्क्षेपाभ्यांक्रमेण भ्यूनाधिके भवतः सर्वदा धूलीकर्मणानुभवात् ।अत आनीतोऽयं दृक्क्षेपस्त्रिनोनलग्नदृङ्मण्डलस्थितो-ऽपि त्रिज्यानुरुद्धः किन्तु फलवर्गोनत्रिज्यावर्ग-पदरूपविलक्षणवृत्तव्यासार्द्धप्रमाणेन सिद्ध इति गम्यते ।अतो दृग्ज्यायास्त्रिज्यानुरुद्धत्वेन त्रिज्यावृत्तपरिणतो-दृक्क्षेपस्त्रिभोनलग्नस्य दृग्ज्या स्फुटदृक्क्षेपरूपा ।अस्यास्तत्त्रिज्यावर्गेत्यादिना दृग्गतिः स्फुटा त्रिभोनल-ग्नशङ्कुरूपा एतदुक्तिः स्वल्पान्तरत्वाद्गणितसुखार्थंकृपालुना कृता त्रिप्रश्नक्रियागौरवभियैतन्मार्गान्तरंलाघवादुक्तमिति” रङ्ग० ।अथ लाघवादृक्क्षेपदृग्गती गणितसुखार्थमाह ।“नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती” सू० सि० ।“दशमभावनतांशानां भुजकोट्योर्नतांशतदूननवतिरू-पयोरनयोर्ज्ये क्रमेण दृक्क्षेपदृग्गती अस्फुटे स्थूले ।यद्वा स्फुटे प्रागुक्ते दृक्क्षेपदृग्गती विहाय गणितलाघ-वार्थं दशमभावनतांशभुजकोट्योर्ज्ये तत्स्थानापन्ने ग्राह्ये ।अत्रोपपत्तिः त्रिभोनलग्नस्य दशमभावासन्नत्वेनदशमभावस्य याम्योत्तरवृत्तस्थत्वेन लाघवार्थं दशमभाव-मेव त्रिभोनलग्नं प्रकल्प्य तन्नतांशज्या मध्यज्यारूपात्रिभोनलग्नदृक्क्षेपः उन्नतज्याशङ्कुर्दृग्गतिः इद-मतिस्थूलम् यैस्तु भगवतोक्तं मध्यलग्नं दशमभावपर-तया व्याख्यातं तेषां मत एतदुक्तमिति प्रयास-साधितदृक्क्षेपदृग्गती प्रागुक्ते सूक्ष्मे अप्यतिस्थूलेइति ध्येयम् भास्कराचार्यैस्तु “त्रिभोनलग्नस्य दिना-र्धजाते नतोन्नतज्ये यदि वा सुखार्थम्” इति यदुक्तंतदस्मात् सूक्ष्ममिति ध्येयम्” रङ्ग० ।अथ लम्बनोपयुक्तच्छेदकथनपूर्वकं लम्बनानयनमाह ।“एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया मध्य-लग्नार्कविश्लेषज्या छेदेन विभाजिता रवीन्द्वोर्लम्बनं ज्ञेयंप्राक् पश्चाद्घटिकादिकम्” सू० सि० ।“एकराशिज्याया वर्गात् दृग्गतिजीवया प्रागुक्तदृग्गत्यादृग्गतेस्त्रिशङ्कुरूपत्वेन ज्यारूपत्वाज्जीवयेति स्वरूपप्रति-पादनम् भागहरणेन लब्धं छेदसञ्ज्ञं स्यात् अथमध्यलग्नम् त्रिभोनलग्नं दर्शान्तकालिकं नतु दशमभावःतात्कालिकः सूर्यः अनयोरन्तरस्य त्रिभानधिकस्य ज्याछेदेन प्राक्ञ्चाधितेन भक्ता फलं घटिकादिकं प्राक्पश्चात् त्रिभोनलग्नरूपमध्यलग्नस्थानात् पूर्वापरविभागयोःसूर्यचन्द्रयोस्तुल्यं लम्बनं ज्ञेयम् अत्रोपपत्तिः “त्रि-भोनलग्नार्कविशेषशिञ्जिनी कृताहता व्यासदलेन भाजिता ।हतात् फलाद्वित्रिभलग्नशङ्कुना त्रिजीवयाप्तं घटिकादिलम्बनम्” सि० शि० सूक्ष्मं लम्बनानयनमुक्तम् ।मध्यलग्नस्य त्रिमोनपरत्वेम व्याख्यानान्मध्यलग्नार्कवि-श्लेषज्या त्रिभोनलग्नार्कविश्लेषशिञ्जिनीरूपा जाता ।इयं चतुर्गुणा त्रिभोनलग्नशङ्कुरूपदृगगत्या गुण्या त्रि-ज्यावर्गेण भाज्येति लम्बनानयनप्रकारेण सिद्धम् तत्रचतुस्त्रिज्यावर्गयोर्गुणहरयोर्गुणापवर्तनेन हरस्थान एक-राशिज्यावर्गः सिद्धः अत्रापि दृग्गत्येकराशिज्यावर्गौगुणहरौ गुणेनापवर्त्य हरस्थान एकज्यावर्ग इत्यादिनाछेद उपपन्नः हरस्य छेदाभिधानात् अतो मध्य-लग्नार्केत्याद्युक्तमुपपन्नम् लम्बनघटीभिरुभयोश्चालनंवक्ष्यमाणगणित आवश्यकमिति सूचनार्थं रवीन्द्वोर्लम्बन-मित्युक्तम् अन्यया दर्शान्तकाले सूर्यगतभूपृष्ठसूत्रा-च्चन्द्रकक्षायां चन्द्रचिह्नस्य तद्घटीभिर्लम्बितत्वादद्वयोरु-क्त्यनुपपत्तिः त्रिभोनलग्नसमेऽर्के लम्बनाभावात् पूर्वा-परविभागे सूर्ये सति लम्बनं भवतीति प्राक् पश्चादि-त्युक्तम् अत्रेदमवधेयम् लम्बनानयने मध्यलग्नस्यत्रिभोनलग्नस्येत्यर्थे छेदः पूर्वसाधितसूक्ष्मदृग्गत्या सूक्ष्मोनतांशेत्यादिगृहीतस्थूलदृग्गत्या स्थूल इति एवं मध्य-लग्नेत्यस्य दशमभावार्थे तु विपरीतमिति” रङ्ग० ।अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बनसंस्कारंतदसकृत् साध्यमिति ।“मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् धन-मूनेऽसकृत् कर्म यावत् सर्वं स्थिरोभवेत्” सू० सि० ।“सूर्ये मध्यलग्नं त्रिभोनलग्नं तस्मादधिके सति तिथ्य-न्ताद्दर्शतिथ्यन्तकालादागतं लम्बनं शोधयेत् सूर्ये त्रि-भोनलग्नादूने सति तिथ्यन्तकाले लम्बनं धनं युतंकार्यम् एवं कर्म गणितमसकृन्मुहुः कार्यम् अ-यमर्थः तिथ्यन्तकालिकः सूर्य्यो लम्बनघटीभिः क्रमेणपूर्वाग्रिमकाले चाल्पो लम्बनसंस्कृततिथ्यन्तेऽर्के भवतितस्माल्लम्बनसंस्कृततिथ्यन्तकाले लग्नदशमभावौ प्रसाध्यपूर्वोक्तरीत्या लम्बनं साध्यम् इदमपि केवलति-थ्यन्ते संस्कार्योक्तरीत्या लम्बनं केवलं तिथ्यन्तेसंस्कार्यम् अस्मादपि लम्बनं तिथ्यन्ते संस्कार्यमि-सकृदिति गणितावधिमाह यावदिति सर्वं गणितंलम्बनादि यावद्यत्परिवर्तावधि स्थिरोभवेत् अविलक्ष-णं यावदविशेष इत्यर्थः अत्रोपपत्तिः दर्शान्तकाले-रविगतमूपृष्ठसूत्राच्चन्द्रस्याधो लम्बितत्वेन त्रिभोनलग्नादूनेरवौ क्रान्तिवृत्ते पूर्वापरान्तराभावेनैकसूत्रस्थितत्वरूपयुति-र्दशान्तकालाल्लम्बनकालेनाग्रे भवति शीघ्रगचन्द्रस्य म-न्दगरवितः पृष्ठे स्थितत्वात् अधिके रवौ चन्द्रस्य पुरःस्थितत्वेन दर्शान्तकालःल्लम्बनकालेन पूर्बं युतिर्भवति अतोदर्शान्तकालो लम्बनसंक्स्कृतो मध्यग्रहणकालः स्यात् ।युतिकालस्य मध्यग्रहणकालत्वात् परन्तु तावता लम्बन-कालेन सूर्यस्यापि क्रान्तिवृत्ते चलनाल्लम्बनसंस्कृतदर्शान्त-काले रविगतभूपृष्ठसूत्राच्चन्द्रस्य लम्बितत्वं स्यादेवेति मध्य-ग्रहणकाल्स्तसिद्धः हि सूर्यो धनलम्बन ऋणलम्बनेचन्द्रश्च लम्बनकाले स्थिरो येन तयोर्युतिः सङ्गता स्यात् ।अतस्तादृशकालात् पुनस्तात्कालिकं लम्बनं प्रसाध्य दर्शा-न्ते पुनः संस्कार्यम् मध्यकालः स्यात् एवं तादृश-लम्बनसंस्कृतदर्शान्तेऽपि तयोर्भूपृष्ठसूत्रस्यत्वाभावात् पुन-र्लम्बनं साध्यम् तत्संस्कृतो दर्शान्तो मध्यग्रह इत्य-सकृद्विधिना यदा लम्बनं पूर्बलम्बनतुल्यं सिध्यति तदावश्यंतादृशलम्बनसंस्कृतदर्शान्तरूपमध्यग्रहणकाले भूपृष्ठसूत्रेतयोः सन्निवेशः यतस्तदा सूर्यगतभूपृष्ठसूत्रचन्द्रयोरन्तरा-भावेन पूर्बागतलम्बनतुल्यलम्बनस्य पुनः सिद्धिः अन्यथातुल्यलम्बनानुपपत्तेः तस्मान्मध्यकालोऽसकृद्यावदविशेषःसाध्य इत्युपपन्नं मध्यलग्नेत्यादि” रङ्ग० ।अथ नितिसाधनम् “दृक्क्षेपः शीततिग्मांश्वीर्मध्यभु-क्त्यन्तराहतः तिथिघ्नत्रिज्यया भक्तो लब्धं साऽवनतिर्भ-वेत्” सू० सि० “दृक्क्षेपः प्रागानीतः शीततिग्मांश्वोश्चन्द्रार्कयोर्मध्यगतीः कलात्मिके तयोरन्तरेण गुणितयात्रिज्यया भक्तः फलं सा देशकालविशेषाभ्यां या गोलेसिद्धा भवति सैवात्र गणिते नतिर्भवेत् अत्रोपपत्तिःयदा क्रान्तिवृत्तं दृग्वृत्ताकारं तदा नत्यभाव इतिप्रागुक्तम् तत्र त्रिभोनलग्नस्य खमध्यस्थत्वेन दृक्क्षेपा-भावः यत्र षष्ट्यक्षांशास्तत्र देशे त्रिभ्नलग्नस्य क्षिति-स्थत्वेन परमा नतिः परमास्तु नतिकला मूगर्भ-क्षितिजाद्भूपृष्ठक्षितिजस्य मूव्यासार्द्धान्तरेणोच्छ्रितत्वात्, गति-योजनैर्यदि गत्यन्तरकला लभ्यन्ते तदा मूव्यासार्धयो-जनैः का इत्यनुपातेन तत्र मध्यगतियोजनानां मूव्या-सार्धस्य नियतत्वाद्भूव्यासार्द्धेनापवर्त्तः कृतः तेन मध्य-गत्यन्तरकलानां स्वल्पान्तरेण पञ्चदशांशः परमा नति-कलाः अतएव षष्टिघटिकानां पञ्चदशांशो घटिकाच-तुष्टयं परमं लम्बनं सिद्धम् आभिस्त्रिज्यातुल्यदृक्-क्षेपे सूर्यगतमूपृष्ठसूत्राच्चन्द्रस्य दक्षिणोत्तरेणावलम्बनंभवति अतस्त्रिज्यातुल्यदृक्क्षेपेण यदि मध्यगत्यन्तरप-ञ्चदशांशो नतिस्तदेष्टदृक्क्षेपेण केत्यनुपातेन गत्यन्तरगुणोदृक्क्षेपो हरघातेन पञ्चदशगुणितत्रिज्यात्मकेन भक्तोनतिकला इत्युपपन्नम्” रङ्ग० ।अथ प्रकारान्तराभ्यां नतिसाधनं लाघवादाह ।“दृक्क्षेपात् सप्ततिहृताद्भवेद्वाऽवनतिः फलम् अथवात्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात्” सू० सि० ।“सप्तत्या भक्ताद्दृक्क्षेपात् फलं कलादिका नतिः प्र-कारान्तरेण भवेत्! अथवा प्रकारान्तरेण सप्तसप्तकसङ्गु-णात् सप्तानां सप्तकं सप्तवारमावृत्तिर्वर्ग एकोनपञ्चाश-दित्यर्थः तेन गुणिताद्दृक्क्षेपात् त्रिज्यया भक्ता कला-दिका नतिः अत्रोपपत्तिः दृक्क्षेपस्य गत्यन्तरकला-मित ७३ २७ गुणकपञ्चदशगुणितत्रिज्यामितहरौ ५१५७० प्रथमप्रकारे गत्यन्तरापवर्त्तितौ हरस्थाने सप्ततिः ।द्वितीयप्रकारे पञ्चदशभिरपवर्त्य गुणस्थाने स्वल्पान्तरादे-कोनपञ्चाशद्धरस्थाने त्रिज्येत्युपपन्नम्” रङ्ग० ।अथ नतेर्दिग्ज्ञानं स्पष्टविक्षेपं चाह ।“सध्यज्या दिग्वशात् सा विज्ञेया दक्षिणोत्तरा ।सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषिताऽन्यथा” सू० सि० ।“साऽवनतिर्मध्यज्याया दिगनुरोधाद्दक्षिणोत्तरा म-ध्यज्या चेद्दक्षिणा तदा नतिरपि दक्षिणा चेदुत्तरातदोत्तरा ज्ञेया चः समुच्चये तेन मध्यज्या नतांश-दिक्केति सा दक्षिणोत्तरा नतिश्चन्द्रविक्षेपदिक्समत्वेतयोरेकदिक्त्वे इत्यर्थः युक्ता विक्षेपेण युतेत्यर्थः अ-न्यथा तथोर्भिन्नदिक्त्वे विक्षेपेणान्तरिता शेषदिक्वा वि-क्षेपसंस्कृता नतिः स्पष्टशररूपा स्यात् चन्द्रविक्षेपो-मध्यग्रहणकालिक इति ध्येयम् अत्रोपपत्तिः नतांशदि-क्कमध्यज्यावशाद्दृक्क्षेपस्योत्पन्नत्वात् तदुत्पन्ननतेस्तद्दिक्त्वंयुक्तमेव अथ रविगतमूपृष्ठसूत्राच्चन्द्राकाशगोले क्रान्तिवृ-त्तावधियाम्योत्तरान्तरस्य नतित्वात् क्रान्तिमण्डलाच्चन्द्र-विम्बावधि विक्षेपत्वाद्रविगतभूपृष्ठसूत्राच्चन्द्रविम्बावधियाम्योत्तरान्तरस्य सूर्यग्रहणोपयुक्तनतिसंस्कृतविक्षेपरू-पस्पष्टविक्षेपत्वाद्द्वयोरेकदिशि योगोभिन्नदिश्यन्तरमित्यु-पपन्नम्” रङ्ग० ।अत्र चन्द्रग्रहातिदेशः “तया स्थितिविमर्दार्द्धग्रासाद्यंतु यथोदितम् प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत्”सू० सि० “अथ चन्द्रग्रहणाधिकारोक्तया विक्षेपसंस्कृतयानत्या स्पष्टविक्षेपरूपयेत्यर्थः स्थित्यर्धविमर्दार्धग्रासाः आ-द्यशब्दात् स्पर्शमोक्षसम्मीलनोन्मीलनं यथोदितं चन्द्रग्र-हणे यथोक्तं तथा तुकारस्तदतिरिक्तरीतिव्यवच्छेदार्थकैव-कारपरः प्रमाणं मतमित्यर्थः अवशिष्टमप्याहवलनेत्यादि वलनाभीष्टग्रासौ आदिशब्दादिष्टग्रा-सादिष्टकालानयनम् हिमरश्मिवत् चन्द्रग्रहणोक्त-रीत्या कार्यमित्यर्थः अत्रोपपत्तिरविशेष एव” रङ्ग० ।अथ स्थित्यर्धे विमर्दार्धे विशेषः ।“स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः ।ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम् प्राक्वपा-लेऽधिकं मध्याद्भवेत् प्राग् ग्रहणं यदि मौक्षिकं ल-म्बनं हीनं पश्चार्धे तु विपर्ययः तदा मोक्षस्थिति-दले देयं प्रग्रहणे तथा हरिजान्तरकं शोध्यं यत्रै-तत् स्याद्विपर्ययः एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता ।स्वे स्वे स्थितिदले योज्या विमर्दार्धेऽपि चोक्तवत्” सू० सि० ।“चन्द्रग्रहणाधिकारोक्तप्रकारेणसकृत् साधितं स्पर्श-स्थित्यर्धं मोक्षस्थित्यर्धं तद्यथा मध्यग्रहणकालिकस्पष्ट-शरादुक्तरीत्या स्थित्यर्धघटिकास्ताभिस्तिथ्यन्तकालिकग्रहाः ।स्पर्शस्थित्यर्धनिमित्तं पूर्वं चाल्याः मोक्षस्थित्यर्द्धनि-मित्तमग्रे चाल्याः तत्कालयोः प्रत्येकं नतिशरौ प्र-साध्य स्पष्टशरः साध्यः ततः प्रथमकालिकस्पष्टशरात्स्थित्यर्धमनेन पूर्वं तिथ्यन्तकालिकग्रहान् प्रचाल्यो-क्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्धं साध्यम् एवमस-कृत् स्पर्शस्थित्यर्धम् एवमेव द्वितीयकालिकस्पष्टशरात्स्थित्यर्धमनेनाग्रे तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्यास्पष्टशरं प्रसाध्य स्थित्यर्धं साध्यम् एवमसकृन्मो-क्षस्थित्यर्धमिति अथाभ्यां स्पर्शमोक्षस्थित्यर्धाभ्यां क्रमेणहीनयुताद्दर्शान्तकालात् प्राग्वदुक्तरीत्या लम्बनं पुनरस-कृद्ग्रासमोक्षीद्भवं स्पर्शमोक्षकालिकं कार्यम् तथाहिस्पर्शस्थित्यर्धहीनात् तिथ्यन्तात् तात्कालिकसूर्याल्लग्नद-शमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम् तेन स्पर्श-स्थित्यर्धोनतिथ्यन्तं संस्कृत्यास्माल्लम्बनमनेनापि स्पर्शस्थि-त्यर्धोनतिथ्यन्तं संस्कृत्यास्माल्लम्बनमेवमसकृत् स्पर्शकालिकंलम्बनम् एवमेव मोक्षस्थित्यर्धयुतात् तात्कालिकसूर्या-ल्लग्नदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम् ।तेन मोक्षस्थित्यर्धयुततिथ्यन्तं संस्कृत्यास्माल्लम्बनमनेनापिमोक्षस्थित्यर्धयुततिथ्यन्तं संस्कृत्यास्मालम्बनमेवमसकृन्मोक्ष-कालिकं लम्बनमिति प्राक्कपाले त्रिबोनलग्नात् पूर्व-भागे त्रिभोनलग्नाधिके रवौ मध्यान्मध्यकालिकात् ।अग्रोक्तलम्बनस्य विभक्तिविपरिणामादन्वयेन लम्बनात् प्राग्-ग्रहणं प्रग्रहणं स्पर्शः स्पर्शकालिकम् अत्रापि लम्बन-मित्यस्यान्वयः लम्बनं चेदधिकं स्यात् मौक्षिकं मो-क्षकालसम्बन्धि लम्बनं न्यूनं स्यात् पश्चार्धे त्रिभोनल-ग्नात् पश्चिमभागे त्रिभोनलग्नाद्धीने रवौ तुकारःममुच्चयार्थचकारपरः विपर्यय उक्तवैपरीत्यम् मध्य-कालिकलम्बनात् स्पर्शकालिकं लम्बनं न्यूनं मोक्षका-लिकं लम्बनमधिकमित्यर्थः तदा तहि तन्मध्यहरिजान्तरम् तयोः स्पर्शमोक्षकालिकलम्बनेन प्रत्येकमन्तरं मोक्षस्थित्यर्थे योज्यम् प्राग्ग्रहणे स्पर्शस्थित्यर्धे तथा देयम् ।मोक्षमध्यकालिकलम्बनयोरन्तरं मोक्षस्थित्यर्द्धे योज्यम् ।स्पर्शमध्यकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे योज्यमित्यर्थः ।यत्र यस्मिन् काले विपर्यय उक्तवैपरीत्यं प्राक्कपाले मध्य-कालिकलम्बनात् स्पर्शकालिकलम्बनं न्यूनं मोक्षकालिकल-म्बनमधिकं पश्चिमकपाले तु मध्यकालिकलम्बनात् स्पर्श-कालिकलम्बनमधिकं मोक्षकालिकलम्बनं न्यूनं भवती-त्यर्थः तत्रैतन्मोक्षस्पर्शमध्यकालिकं हरिजान्तरकं ल-म्बनान्तरं मोक्षस्थित्यर्द्धे, मध्यमोक्षकालिकलम्बनयोरन्तरंस्पर्शस्थित्यर्द्धे मध्यस्पर्शकालिकलम्बनयोरन्तरमित्यर्थः ।शोध्यं हीनं कुर्य्यात् एतल्लम्बनान्तरं योज्यं शोध्यं वाकपालैक्ये द्वयोः स्पर्शमध्ययोर्मध्यमोक्षयोर्वैककपालेस्वस्वकालिकत्रिभोनलग्नात् स्वस्वकालिकसूर्य्य उभयत्राधिकेन्यूने वेत्यर्थः उक्तं कथितम् तद्भेदे तयोः स्पर्श-मध्ययोर्मध्यमोक्षयोश्च भेदे कपालभेदे स्पर्शकालिक-त्रिभोनलग्नात् तात्कालिकसूर्य्यस्याधिक्ये मध्य-कालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्वे मध्य-कालिकत्रिभोनलग्नात् तात्कालिकार्कस्याधिकत्वे मोक्ष-कालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्वेइत्यर्थः लम्बनैकता लम्बनैक्यम् स्पर्शमध्ययोर्भेदेतात्कालिकलम्बनयोर्योगः मध्यमोक्षयोर्भेदात् तात्कालिकलम्बनयोर्योग इत्यर्थः स्वकीये स्वकीये स्थित्यर्धे संयुताकार्या स्पर्शस्थित्यर्द्धे स्पर्शमध्यकालिकलम्बनयोर्योगोयोज्यः मोक्षस्थित्यर्द्धे मोक्षमध्यकालिकलम्बनयोर्योगोयोज्य इत्यर्थः स्पर्शस्थित्यर्धं मोक्षस्थित्यर्धं स्फुटंभवति आभ्यां चन्द्रग्रहणोक्तदिशा मध्यग्रहणका-लात् पूर्वमपरत्र क्रमेण स्पर्शमोक्षकालौ स्त इत्यर्थसि-द्धम् अथोक्तरीत्या विमर्दार्धेऽपि स्पष्टत्वमतिदिशति ।विसर्दार्ध इति स्पर्शमर्दार्धमोक्षमर्दार्धे चन्द्रग्रहणाधि-कारोक्तरीत्या स्पष्टशरेण सकृत् साधिते उक्तवत् “स्थित्य-र्धोनाधिकात् पाग्वत् तिथ्यन्ताल्लम्बनं पुनः” इत्याद्यु-क्तरीत्या स्थित्यर्धस्थानेमर्दार्धग्रहणेन ग्रासमोक्षोद्भवमित्यत्रसम्मीलनोन्मीलनोद्भवमिति ग्रहणेन प्राग्ग्रहणमित्यत्रसम्मीलनग्रहणेन मौक्षिकमित्यत्नोन्मीलनग्रहणेन स्फुटेसाध्ये अपिः समुच्चये चकारात् ताभ्यां सम्मीलनो-न्मीलनकालौ मध्यग्रहणकालात् पूर्ववत् साध्यावित्यर्थः ।अत्रोपपत्तिः स्थित्यर्धोनयुतो मध्यग्रहणकालः स्पर्शमोक्षकालः मध्यकालिकलम्बनसंस्कारात् स्पर्शमोक्षका-लिकलम्बनसंस्कारस्यापेक्षितत्वाच्च हि यः कालीलम्बनसंस्कृतः स्फुटः स्वभिन्नकालिकलम्बनसंस्कृतः स्फुटःस्यात् सम्बन्धाभावात् पूर्वं स्पर्शमोक्षकालयोरज्ञानात्तात्कालिकलग्वनज्ञानाभावाच्च अतो मध्यकालज्ञानार्थंयथा तिथ्यन्तादसकृल्लम्बन प्रसाध्य तिथ्यन्ते संस्कृत्यमध्यकालस्तथा स्पर्शमोक्षस्थित्यर्धहीनयुक्ततिथ्यन्त-कालाभ्यां स्पर्शमोक्षतिथ्यन्तरूपाभ्यां प्रत्येकं लम्बन-मसकृत् प्रसाध्य स्वस्वतिथ्यन्ते संस्कृत्य स्पर्शमोक्षकालौस्फुटौ तन्मघ्यकालयोरन्तरं स्फुटं स्थित्यर्धम् तत्र-र्णलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ यदा मध्यलम्बनाद-धिकं स्पर्शलम्बनं मोक्षलम्बनं न्यूनं तदा स्पर्शस्थित्य-र्धोनतिथ्यन्तस्याधिकलम्बनोनितस्य स्पर्शकालत्वान्न्यूनलम्बनो-नितस्य तिथ्यन्तस्य मध्यकालत्वात् तयोरन्तरे तिथेः स-मत्वेन नाशात् स्पर्शस्थित्यर्धं स्पर्शकालिकलम्बनेन युतंमध्यकालिकलम्बनेन हीनमिति लम्बनयोरन्तरं तत्र धनंयोज्यम् एवं मोक्षस्थित्यर्धयुततिथ्यन्तस्य न्यूनलम्बनो-नितस्य मोक्षकालत्वान्मध्यमोक्षकालयोरन्तरे पूर्वरीत्यामध्यमोक्षकालिकयोर्लम्बनयोरन्तरं धनं मोक्षस्थित्यर्धे यो-ज्यम् यदा तु मध्यलम्बनाद्धीनं स्पर्शलम्बनं मोक्षल-म्बनं चाधिक तदा न्यूनलम्बनहीनस्य स्पर्शकालत्वादधिकंलम्बनम् हीनस्य मध्यकालत्वादुक्तरीत्या तदन्तरे स्पर्श-स्थित्यर्धे लम्बनान्तरं हीनम् एवमधिकलम्बनहीनस्यमोक्षकालत्वान्मध्यमोक्षयोरन्तरे मोक्षस्थित्यर्धे लम्बनान्तरंहीनम् धनलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ तु यदा मध्य-लम्बनान्न्यूनं स्पर्शलम्बनं मोक्षलम्बनं चाधिकं तदा स्पर्शस्थि-त्यर्धोनतिथ्यन्तस्य न्यूनलम्बनाधिकस्य स्पर्शकालत्वादधिक-लम्बनाधिकस्य तिथ्यन्तस्य मध्यकालत्वात् तयोरन्तरे लम्बनान्तरं स्पर्शस्थित्यर्धे योज्यम् एवं मोक्षस्थित्यर्धयुत-तिथ्यन्तस्याधिकलम्बनाधिकस्य मीक्षकालत्वान्मध्यमोक्षयो-रन्तरं मोक्षस्थित्यर्धे पूर्व्वरीत्या योज्यम् यदा तु मध्य-लम्बनादधिकं स्पर्शलम्बनं मोक्षलम्बनं न्यूनं तदाऽधि-कलम्बनाधिकस्य स्पर्शकालत्वाद्धीनलम्बनाधिकस्य मध्य-कालत्वात् तयोरन्तरे उक्तरीत्या स्पर्शस्थित्यर्द्धे लम्बनान्तरंहीनम् एवं न्यूनलम्बनाधिकस्य मोक्षकालत्वात् त-न्मध्यकालान्तरे मोक्षस्थित्यर्द्धे लम्बनान्तरं हीनमितिसिद्धम् नन्वयं लम्बनान्तरहीनपक्षो सङ्गतः बा-धात् तथाहि ऋणलम्बनस्य क्रमेणापचयात् स्पर्शमो-क्षकालानां यथोत्तरं सम्भवाच्च मध्यकालिकलम्बनात्स्पर्शमोक्षकालिकलम्बनयोः क्रमेण न्यूनाधिकत्वमसिद्धम्एवं धनलम्बनस्य क्रमेणोपचयान्मध्यलम्बनात् स्पर्शमोक्ष-कालिकलम्बनयोः क्रमेणाधिकन्यूनत्वमसिद्धम् हिकदाचिन्मध्यकालात् स्पर्शमोक्षकालौ क्रमेणाग्रिमपूर्वका-लयोः सम्भवतो येनोक्तं युक्तम् बाधात् तथा लम्बन-नान्तरं योज्यमित्यस्यैवोपपन्नत्वे महतैतावता प्रपञ्चेन“हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्ययः” इति सर्व-ज्ञभगवदुक्तं कथं निर्वहतीति चेत् मैवम् लम्बनसं-स्कृतस्पर्शमोक्षकालयोः स्फुटयोरवस्तुमूतयोः सर्वदा म-ध्यकालात् क्रमेण पूर्वोत्तरावश्यंभावित्वेऽपि लम्बना-संस्कृतयोः स्थित्यर्द्धोनयुतथ्यन्तरूपस्पर्शमोक्षकालयोःपारिभाषिकत्वेनावास्तवयोः कदाचिन्मध्यकालर्णधनलम्ब-नाभ्यां स्पर्शस्थित्यर्द्धमोक्षस्थित्यर्द्धयोः क्रमेण न्यूनत्वे म-ध्यकालादग्रिमपूर्वकालयोः क्रमेण सम्भवात् स्फुटोनिर्वाहः परन्त्वृणलम्बने धनलम्बने मध्यलम्ब-नात् क्रमेण मोक्षस्पर्शलम्बनयोरधिकत्वासम्भवः मध्य-कालात् पूर्वाग्रिमकालयोर्मोक्षस्पर्शयोः पारिभाषिकयोःक्रमेणासम्भवात् अतः साक्षात् कण्टोक्तेरभावाद्विपर्य्ययइत्यनेन विपर्ययविशेषस्यैव विवक्षतत्वन् पूर्व्वं तु साधा-रण्याच्छब्दस्य साधारण्येन व्याख्यानं कृतमित्यदोषः” ।“वस्तुतस्तु सूर्योदयाद्यत्र प्राक् स्पर्शोऽनन्तरं मध्यकाल-स्तदा मध्यलम्बनात् स्पर्शलम्बनं सत्रिभलग्नचतुर्थभावसा-धितं कदाचिन्न्यूनं भवति यत्र चोदयात् पूर्वं मध्यःपरतो मोक्षस्तत्र कदाचित् सत्रिभलग्नचतुर्भावानीतम-ध्यकाललम्बनान्मोक्षकाललम्बनमधिकं भवति यत्र चा-स्तात् पूर्वं स्पर्शः परतो मध्यस्तदा मध्यकाललम्बना-द्रात्रिसम्बन्धात् स्पर्शकाललम्बनं कदाचिदध्निकं भवति ।यत्र चास्तात् पूर्वं मध्यकालः परतो मोक्षस्तदापिमध्यकाललम्बनान्मोक्षकाललम्बनं रात्रिसम्बद्धं न्यूनं नभवति कदाचिदिति ग्रस्तोदयग्रस्तास्तयोः कदाद्वि-पर्य्ययसम्भवाद्धरिजान्तरकं शोध्यमित्यस्य नाप्रसिद्धिःविमर्दार्द्धेऽप्युक्तरीतिस्तुल्येति सर्वमुपपन्नम् भास्कराचा-र्य्यैस्तु “तिथ्यन्ताद्गणितागतात् स्थितिदलेनोनाधिका-ल्लम्बनं तत्कालोत्थनतीषुसं संस्कृतिभवस्थित्यर्द्धहीनाधिके ।दर्शान्ते गणितागते धनमृणं यद्वा विधायासकृत् ज्ञेयौप्रग्रहमोक्षसंज्ञसमयावेवं क्रमात् प्रस्फुटौ तन्मध्य-कालान्तरयोः समाने स्पष्टे भवेतां स्थितिखण्डके ।दर्शान्ततो मर्ददलोनयुक्तात् सम्मीलनोन्मीलनकाल एवम्”इत्यनेन भगवदुक्तादतिसूख्ष्ममुक्तभित्यलं पल्लवितेन”रङ्ग० इतः परं परिलेखवलनाद्यानयनं तच्च शि०ग्रन्धेणाविशिष्टं तच्चाग्रे वक्ष्यते इतीह तन्नोक्तम् ।सिद्धान्तशिरमणौ ग्रहणसम्भवनिर्णयार्थमाह यथा “कले-र्गताब्दा रवि १२ भिर्विनिघ्नाश्चैत्रादिमासैः सहिताः पृ-थक्स्थाः द्विघ्नाः स्वनागाङ्कगजांश ८९८ हीनाः प-ञ्चाङ्ग ६५ भक्ताः प्रथमान्विताः स्युः मासाः पृथक्ते द्विगुणास्त्रिपूर्णवाणाऽ ५०३ धिकाः स्वाङ्कनृपांश १६९युक्ताः त्रिभि र्विभक्ताः फलमंशपूवं मासौघतुल्यैश्चगृहैर्युतं स्यात् सपातसूर्योऽस्य भुजांशका यदा मनू१४ नकाः स्याद्ग्रहणस्य सम्भवः” शि० “कलिमुखादे-रारभ्य गताव्दा द्वादशगुणाश्चैत्रादिगतमासयुताः पृथ-क्स्था द्विघ्नाः स्वकीयेन गजाङ्काष्ट ८९८ भागेनोनाःपञ्चषाष्ट्या ६५ भक्ताः फलमधिमासाः तैः पृथक्स्थायुताश्चान्द्रा मासा भवन्ति अत्रीपपत्तिस्त्रैराशिकेन ।यदि युगरविमासै ५१८४०००० र्युगाधिमासा १५९३-३०० लभ्यन्ते तदैभिः कलिगतैः किमिति अत्राधि-सासानामर्धेनानेन ७९६६५० गुणकभाजकावपवर्त्तितौःजातं गुणकस्थाने द्वयम् भागहारस्थाने पञ्चषष्टिःकिञ्चिदभ्यधिका ६५ २१ अतः पञ्चषष्टिगुणानाम-धिमासानां १०३५६४५०० द्विगुणानां रविमासानां च१०३६८०००० यदन्तरं ११५५०० तेन द्विगुणा रवि-मासा भक्ता लब्धमष्टाङ्कगजाः ८९८ तैर्द्विगुणाः कलि-गतमासा भाज्याः यल्लभ्यते तेन तान् वर्जितान् कृत्वापञ्चषष्ट्या ६५ भागे हृतेऽधिभासा लभ्यन्त इत्यु पपन्नम् ।तैरधिभासैः पृथक्स्था युताश्चान्द्रमासाः स्युः ते चान्द्र-मासाः पृथग्द्विनिघ्नास्त्रिपूर्णबाणैः ५०३ सहिताः स्वकी-येनाङ्कनृपांशेन १६९ युक्तास्त्रिभिर्भाज्याः फलमंशाद्यंग्राह्यम् तानंशास्त्रिंशता ३० विभज्य फलं राशय-स्तदुपरि स्थाप्याः राशिस्थाने मासौघतुल्या राशयश्चक्षेप्याः एवमसौ सपातसूर्यो भवति तस्य भुजांशायदि चतुर्दशभ्य १४ ऊना भवन्ति तदा चन्द्रगहणस्यसम्भवो वेदितव्यः अत्रोपपत्तिः ग्रहणं हि मानैक्यार्धा-दूने विक्षेपे भवति चन्द्रग्रहे मध्यमं मानैक्यार्द्धं षट्पञ्चा-शत् कलाः ६५ सूर्यग्रहे द्वात्रिंशत् ३२ षट्पञ्चाशत् कलाःशरो द्वादशभिर्भुजभागैर्भवति (चन्द्रग्रहे) द्वात्रिंश-न्मिताः सप्तभिर्भुजभागैर्भवति (रविग्रहे) अतः विक्षेपःसपातेन्दोः साध्यते दर्शान्ते यावान् विधुस्तावानेवरविर्भवति पौणैमास्यन्ते तु षड्भाधिकस्यापि भुजस्तुल्यएव अतः सपातार्काद्विक्षेपः कृतः अतः सपातसूर्य-साधनेऽनुपातः तत्रार्कपातयोः कल्पभगणानामैक्यंद्वादशभिः १२ सङ्गुण्य राश्यात्मकं कार्यम् यदि कल्प-चान्द्रमासैरेभिः ५३४३३३०००० रेते राशयो ५४६२-७७३४०१६ लभन्ते तदैकेन किमिति लब्धमेको राशिः १शेषं त्रिंशता ३० सङ्गुण्य तेनैव हारेण भागे ह्रियमाणेलब्धं पूर्णम्० शेषं भागांशा अधश्छेदश्च ३५८३३०२०४८० / ५३४३३३०००० छेदत्र्यंशेन १७८१११००००छेदेऽपवर्तिते जातं त्रयम् तेनैव छेदत्र्यंशेन भाज्य-राशावपर्तिते जातं द्वयम् शेषार्धेन शेषे ३१०८२०४८० ऽपवर्त्तिते जातं द्वयम् पूर्वच्छेदस्य त्र्यंशे चशेषार्धेनापवर्तिते जाता अङ्कनृपाः १६९ अतो द्विगु-णान्मासगणात् स्वाङ्कनृपां, १६९ शाधिकात् त्रिभिर्विभ-क्तात् फलं भागादि मासगणतुल्या राशयश्च तत्र क्षेप्याःएवं सपातसूर्यो भवतीत्युपपन्नम् यदुक्तं त्रिपूर्णवाणा५०३ धिका इति अयं कलियुगादौ पातस्य क्षेप-स्तथा सपातसूर्यमासार्धक्षेपश्चात्र योजितः तथात्रमध्यमः सूर्यः सपात आगच्छति तेन स्फुटेन भवि-तव्यम् स्फुटमध्ययोरन्तरं स्थूलं किल भागद्वयम् ।अत उक्तं मनूनका इति अन्यथा द्वादशभिरेव भुजभा-गैर्मानैक्यार्द्धतुल्यः शर उत्पद्यते तथा गूढक्रियया फ-लमानीय सपातसूर्य इति नामनिर्देशः कृतः तेन तयो-वीर्जकर्म सूचितम् तदप्यत्र सपातार्के कार्यम्” प्रमि० ।अथ सूर्यग्रहार्थं विशेषः “गृहार्धयुक्तस्य सपातभा-स्वतो भुजांशकान् गोलदिशोऽवगम्य ज्ञेयोऽर्को-रविसंक्रमाद्गतदिनैर्दर्शान्तनाडीनताद्वेदां शेन गृहादिनो-नसहितः प्राक् पश्चिमेऽस्यापमः अक्षांशैः खलु संस्कृतोरसलवेनास्याथ ते संस्कृताः पाताढ्यार्कभुजांशका यदिनगो नाः स्युस्तदार्कग्रहः रूपं वियत्० पूर्णकृतान्४० सपादान् १५ क्षिप्त्वा सपाते प्रतिमासमर्के तत्सम्भवंप्रागवलोक्य धीमान् ग्रहान् ग्रहार्थं विदधीत तत्र” शि० ।अत्रोक्तवद् यः सपातसूर्यो ज्ञातः असौ पञ्चदशभि१५ र्भागैरधिकः कार्यः यदि सूर्यग्रहणसम्भवो ज्ञा-तब्यः ततस्तस्य भुजांशा यदि सपातः सूर्य उत्तरगोलेतदोत्तरा यदि दक्षिणे तदा दक्षिणाः, तद्दिक्चिह्निताअनष्टाः स्थाप्याः रविसंक्रमात् सूर्यो ज्ञेयः रवि-संक्रमाद्यावन्तो दिवसा गतास्तावन्तो भागा कल्प्याः ।गतसंक्रान्तितुल्या राशयश्च ततोऽमावास्यान्तकालस्यस्थूलस्य नतघटिकाः कार्याः तासां चतुर्भि र्भागेहृते यल्लभ्यते तद्राश्यादिकं फलं ग्राह्यम् तेन रा-श्यादिना फलेन पूर्वाह्णे रविरूनः कार्योऽपराह्णे युतःतस्य सायनांशस्य व्रान्तिः साध्या कान्त्यक्षांशानां चतुल्यदिशां योगोऽन्यदिशामन्तरमेवं ते नतांशा भवन्ति ।तेषांरसांशेन तेऽनष्टाः स्थापिता भागाः संस्कृता कार्याः ।समदिशां योगोभिन्नदिशामन्तरमित्यर्थः एवं ते भागायदि सप्तभ्य ऊना भवन्ति तदा सूर्यग्रहणसम्भवो वे-दितव्यः अथ सपातसूर्यस्य प्रतिमासक्षेपः यदितस्मिन् मासे नार्कग्रहस्तदा सपातसूर्ये राशिस्थानेरूपम् भागस्थाने पूर्णम्० सपादाश्चत्वारिंशत् क-लाश्च ४० १५ प्रतिमासं प्रक्षिप्य सम्भवो ज्ञेयः ।ज्ञाते सम्भवे स्फुटार्थं तत्र ग्रहाः कार्याः अत्रोपपत्तिः ।ये सपातसूर्यस्य भुजांशास्ते शरार्थं पृथक् स्थापिताः ।अथ सूर्यग्रहे शरो नत्या संस्कृतः कार्यः तदर्थंदर्शान्ते या नतघटिकास्तालम्बनेनोनाधिकाः कार्य्याःनतघटीनां चतुर्थांशः स्थूलं लम्बनम् पञ्चभिःपञ्चभिर्घटिकाभिरेकैकः किल राशिः याः किलनतघटिकास्ताश्चतुर्थांशेन लम्बनेनाधिकाः कार्याः ।ततः पञ्चभिर्भाज्याः एवं कृते पूर्वघटिकाश्चतुर्भिर्भक्ताभवन्ति अतस्तेन राश्यादिनोनो रविः पूर्वाह्णे वित्रि-भासन्नो भवति पश्चिमकपाले तु युतः सन् यतस्तत्रा-र्कादग्रतो वित्रिभं वर्तते एवं वित्रिभलग्नस्य क्रान्ति-रक्षांशैः संस्कृता नतांशा जाताः ते यदा नतांशाःपञ्चचत्वारिंशद् ४५ भवन्ति तदा यदि त्रिज्यया परमा-वनति ४८ ४६ र्लभ्यते तदा पञ्च्चत्वारिंशदंशानांज्यया २४३१ किमिति फलं नतिः सार्धाश्चतुस्त्रिं-शत् कलाः ३४ ३० एतावांश्छरो यैर्भुजभागैरुत्पद्यतेते ज्ञेयाः यदि सप्तत्या कलानां पञ्चदश १५ भागालभ्यन्ते तदाभिर्नतिकलाभिः ३४ ३० किमिति लब्धा अंशाःमप्त७, २४ चतुर्विंशति कलाश्च एते तु नतलवानां षडं-शेनोत्पद्यन्ते अत उक्तं रसलवेनास्याथ ते संस्कृताइत्युपपन्नम्” प्रमि० ।एवं सिद्धान्तोक्ते ग्रहणसम्भवनियमे स्थिते” ज्यो० त० ।“भत्रिपादान्तरे राहोः केतोर्वा संस्थितो रविः चतुष्पादा-न्तरे चन्द्रस्तदा सम्भाव्यते ग्रहः यस्मिन्नृक्षे रविस्तस्माच्च-तुर्द्दशगतः शशी पूर्ण्णिमाप्रतिपत्सन्धौ राहुणा ग्रस्यतेशशी कृष्णपक्षे तृतीयायां मासर्क्षं यदि जायते तत-स्त्रयोदशे सूर्य्ये राहुणा ग्रस्यते रविः” इत्युक्तिर्निर्मूला, समूलत्वे अतिस्थूलदृष्ट्या तथोक्तिः कथञ्चित्समर्थनीया ।सिद्धान्तंशिरमणौ ग्रासाद्यानयने विशेष उक्तो यथा“समगृहांशकलाविकलौ स्फुटौ रविविधू विदधीत रवि-ग्रहम् समलवावयवौ तु विधुग्रहं समवगन्तुमगुं त-दोक्तवत्” शि० “सति संभवे रविग्रहं ज्ञातुममावास्यायांरविविधू तमश्च स्फुटं कृत्वा ततोऽर्केन्दू देशान्तरादिस्म-ष्टीकरणैः स्फुटौ विधाय तिथिं कृत्वा यथोक्तं नतकर्मच तथा कृते सति तिथ्यन्तकालिकौ तौ कार्य्यौ तमश्चएवं चन्द्रग्रहणं ज्ञातुं पौणैमास्यां यतस्ततो ग्रहण-क्रिया” वमि० ।इदानीनर्केन्द्वोः कक्षाव्यासार्द्धे आह “नगन-गाग्निनवाष्टरसा ६८९३७७ रवे रसरसेषुमहीषु ५१५६६मिता विधोः निगदिताऽवनिमध्यत उच्छ्रितिः श्रुतिरियंकिल योजनसंख्यया” शि० “स्पष्टार्थम् अत्रो-पपत्तिः कक्षाध्याये चन्द्रार्कयोः किल (४३३१४९७, ३०रवेः, ३२४००० इन्द्रोः, ) कक्षे कथिते किन्तु व्यासौ नकथितौ ताविदानीं त्रैराशिकेन यदि भनन्दाग्नि-मित ३९२७ परियेः खवाणसूर्य्यै १२५० र्मितो व्यास-स्तदा सार्धाद्रिगोमनुसुराब्धिमिता ४३३१४९७ ३०ऽर्ककक्षायास्तथा सहस्रगुणितजिनरामसंख्याया ३२४०००श्चन्द्रकक्षायाः इति फलं क्रमेण तयोः (१३७८७५४र० १०३१३२ च०) व्यासौ तयोरर्धे एते (श्लोकोक्ते)श्रुती इयं भूमध्यात् कक्षाया उच्छ्रितिः” प्रमि० ।इदानीमस्य योजनात्मककर्णस्य स्फुटीकरणार्थमाह ।“मन्दश्रुतिर्द्राक्श्रुतिवत् प्रसाध्या तया त्रिभज्या द्विगुणाविहीना त्रिज्याकृतिः शेषहृता स्फुटा स्याल्लिप्ता श्रुति-स्तिग्मरुचेर्विधोश्च” शि० “यथा ग्रहस्य शीघ्रकर्म्मणि कर्णःसाधितस्तथार्कस्य विधोश्च पृथक् पृथक् मन्दकर्णः साध्यः ।तं कर्णं द्विगुणायास्त्रिज्याया विशोघ्य शेषेण त्रिज्या-कृतिर्भाज्या फलं स्फुटः कलाकर्णो भवति एवं विधो-श्च अत्रोपपत्तिः इह स्पष्टीकरणे ये मन्दनीचोच्चवृत्तपरिधिभागाः पठितास्ते त्रिज्यातुल्ये कक्षाव्यासार्धेयदा ग्रहस्य कर्ण उत्पन्नस्तदा कर्णो व्यासार्धं ग्रहकक्षा-याः अतस्त्रैराशिकेन तत्परिणतास्ते कार्याः यदित्रिज्याव्यासार्धे एते मन्दपरिधिभागास्तदा कर्णव्यासार्धेक इति एवं परिधेः स्फुटत्वं विधायासकृत् कर्णःकार्य्यः कलाकर्णः स्फुटी भवति एतदसकृत्कर्मोप-संहृत्य सकृत्कर्मणा कर्णस्य स्फुटत्वं कृतम् प्रथमं यःकर्ण आगतस्तमेव त्रिज्यारूपं प्रकल्या स्फटः कर्णोऽत्रसाध्यते यदा किल कर्णस्त्रिज्यातो न्यूनो भवति या-वता न्यूनसात् त्रिज्यया संयोज्य वद्यधिको वर्तते या-वताधिकस्तत् त्रिज्याया विशोघ्य शेषेणानपातः यद्य-नेन त्रिज्या लभ्यते तदा त्रिज्यया किमिति अने-नानुपातेन स्फुटः कर्णः सकृद्भवति अत्र धूलीकर्मणाप्रत्यक्षप्रतीतिः” प्रमि० ।“इदानीं योजनात्मककर्णस्य स्फुटत्वमाह “लिप्ता-श्रुतिघ्नस्त्रिगुणेन भक्तः स्पष्टो भवेद्योजनकर्ण एवम्” शि० ।“स्पष्टार्थम् अत्रोपपत्तिस्त्रैराशिकेन यदि त्रिज्याव्या-सार्धे एतावात् स्फुटः कर्णस्तदा योजनात्मकव्यासार्धेकिमिति फलं भूमध्याद्ग्रहोच्छ्रितियोजनानि” प्रमि० ।इदानीं योजनविम्बान्याह “विम्बं रवेर्द्विद्विशरती६५२२ संख्यानीन्दोः खनागाम्बुधि ४८० योजनानि ।भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम् ।भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे” शि० ।“रवेर्योजनात्मकं विम्बं मध्यमं द्वियमवाणषट्कतुल्यानि९५२२ योजनानि (सौरागमे ६५०० मितविम्बोक्तिः किञ्चिद-धिकपरत्वपरतया सङ्गमनीया) इन्दीस्तु शून्यवसुवेद ४८०मितानि अथ राहोरुच्यते रविविम्बं मूव्यासेन हीनं४९४१ कृत्वेन्दुकर्णेन स्फुटेन योजनात्मकेन संगुण्य स्फुटेनरविकर्णेन भजेत् फलेन भूव्यासो वर्जितश्चन्द्रकक्षा-यां भूभाव्यासो भवति एतानि योजनविम्बानि अ-त्रोपपत्तिः यस्मिन् दिनेऽर्कस्य मध्यतुल्यैव स्फुटा गतिःस्यात् तस्मिन् दिने उदयकाले चक्रकलाव्यासार्घमितेनयष्टिद्वितयेन सूलमिलितेन तत्रस्थदृष्ट्या तदग्राभ्यां विम्ब-प्रान्तौ विध्येत् या यष्ट्र्यग्रयोरन्तरकलास्ता रविविम्बकलाभवन्ति मध्यमाः ताश्च द्वात्रिंशत् किंचिदधिकैकत्रिंश-द्विकलाधिकाः ३२ ३१ ३३ एवं विधोरपि पौर्ण-मास्यां यदा मध्यैव गतिः स्पष्टा तदा विध्येत् तस्यैवंद्वात्रिंशत् कलाः ३१ उत्पद्यन्ते विम्ब-कलानां योजनीकरणायानुपातः यदि त्रिज्याव्यासार्द्धेएतावत्प्रमाणं विम्बं तदा पठितश्रुतियोजनैः किमित्येव-मुत्पद्यन्ते द्विद्विशरर्तु ६५२२ संख्यानि योजनानि वि-धोस्तु खनागाम्बुधि ४८० मितानीति अथ भूभा-विम्बस्योपपत्तिरुच्यते अर्कविम्बव्यासाद्भूव्यासो यतोऽऽल्पोऽतो मूभा सूच्यग्रा भवति दीर्घतया चन्द्रकक्षामतीत्यदूरं बहिर्गच्छति अतो भूविस्तृतेः कियत्यपचये जातेचन्द्रकक्षायां भूभाविस्तृतिर्मवतीति ज्ञानायानुपातः यदिरविकर्णेन सूर्य्यविम्बभूव्यासान्तरयोजनानि ४९४१ लभ्यन्तेतदा चन्द्रकर्णेन किमिति फलं भूव्यासस्यापचययोजनानि भवन्ति अतस्तैर्भूव्यास ऊनीकृतश्चन्द्रकक्षायां भूभाव्यासो भवतीत्युपपन्नम्” प्रमि० ।इदानीं योजनानां कलाकरणार्थमाह “सूर्य्येन्दु-मूभातनुयोजनानि त्रिज्याहतान्यर्कशशाङ्ककर्णैः ।भक्तानि तत्कार्मुकलिप्तिकास्तास्तेषां क्रमान्मानकलाभवन्ति” शि० स्पष्टार्थम् अत्रोपपत्तिस्त्रैराशिकेनयदि योजनात्मकव्यासार्धे एतावन्ति विम्बमानानि तदात्रिज्याव्यासार्धे कियन्तीति फलानां चापानि लघुज्याभिप्रायेणोक्तानि” प्रमि० ।इदानीं प्रकारान्तरेण विम्बकलानयनमाह “भानो-र्गतिः खदश १० भागयुतार्धिता वा विम्बं विधोस्त्रि३ गुणिता युगशैल ७४ भक्ता तिथ्यद्रि ७१५ हीन-शशिभुक्तिरिषुद्वि २५ भक्ता नन्दाक्षि २९ युग् भ-वति वा विधुविम्बमेवम्” शि० “रवेर्गतिः स्वदशांशेन१० युताऽ-र्धिता रवेः कलाविम्बं भवति अथ चन्द्रगतिस्त्रिगुणिता युगशैल७ भक्ता तद्विधुविम्बं भवति अथ बाचन्द्रभुक्तिस्तिथ्यद्रिभि ७१५ र्हीना पञ्चविंशत्या २५ भक्ताफलमेकोनत्रिंशता २९ युतं चन्द्रविम्बं भवति अत्रोपपत्तिःत्रिज्यातो महति कर्णे ग्रहविम्बं लघु भवति तथा गतिश्चलघ्वी भूमध्याद्दूरगतत्वाद्ग्रहस्य अथाल्पे कर्णे विम्बंपृथु गतिश्च महती तत्रासन्नत्वात् विम्बगत्योरुपचया-पचययोस्तुल्यकालत्वाद्गतेरपि विम्बं साधयितुमुचितंभवति तद्यथा तत्र त्रैराशिकम् यदि योजनात्मिकयागत्या पादोनगोऽक्षधृतिभूमितया ११८५९ ४५ द्विद्विशर्तु ६-५२२ संख्यं विम्बंलभ्यते तदा कलागत्या किमिति अत्रगुणकस्य द्विद्विशरर्तुसंख्यस्यैकादशभागेन ५९२ ५५गुणकभाजकावपवर्तितौ जाता गुणकस्थान एकादश ११ ।भाजके विंशतिः २० अतो रविगतिः सुखार्थं दश-गुणा विंशत्या ह्रियते तानदर्धिता भवति यत एकाकश-भिर्गुण्यातो दशांशेनाधिका कृतेत्युपपन्नम् एवं चन्द्रस्यखनागाम्बुधि ४८० मितो गुणो भागहारो योजनगति-रेव ११८४९ ४५ एतौ खनृपै १६० रपवर्तितौ जातगुणकस्थाने त्रयं भागहारस्थाने चतुःसप्ततिः ७४ अत्रपरमं विकलात्रितयं यदन्तरं तत् सुखार्थमङ्गीकृतम् ।अथ चन्द्रविम्बानयने क्रियोपसंहारः सुखोपायार्थं कृतः ।तत्र तिथ्यद्रि ७१५ तुल्यस्य गतिखण्डस्यैकोनत्रिंश २९न्मितं विम्बखण्डं लभ्यते गतिशेषस्य पञ्चविंशत्या२५ भागे हृते विम्बशेषं कलात्रयं लभ्यते अतस्त-दैक्ये द्वात्रिंश ३२ न्मध्यमं चन्द्रविम्वम् गतेरुपच-यापचयवशात् स्फुटत्वे विम्बखापि स्फुटत्वमुपपन्नम्” प्रमि० ।इदानीं राहोः प्रकारान्तरेण कलाविम्बमाह “भानो-र्गतिः शर हृता रविभि १२ र्विभक्ता चन्द्रस्य लोचन गुणातिथि १५ भाजिता लब्धान्तरं भवति वाऽवनिभाप्रमाणंभूभा विधुं, विधुरिनं ग्रहणे पिधत्ते” शि० “रविगतिःपञ्चगुणा द्वादशभक्ता फलं कलात्मकमनष्टं स्थाप्यम् अथशशिगतिर्द्विगुणिता पञ्चदशभाजिता इदमपि कलात्मकंफलम् अनयोः फलयोरन्तरं भूमाविम्बप्रमाणं भवति ।इदानीं ग्रहणे छाद्यच्छादकमुच्यते भूभा विधुग्रहणे विधुंछादयति रविग्रहणे तु रविं विधुश्छादयति अत्रोप-पत्तिः अत्र क्कर्कव्यासान्तरमितानां योजनानां रवि-कक्षायां कलाकरणायानुपातः यदि गतियोजनै ११८५९ र्गतिकला लभ्यन्ते तदा क्वर्कव्यासान्तरयोजनैः ४९४१किमिति अत्र रविगतेः क्वर्कव्यासान्तर गुणः ४९४१ ।गतियोजनानि हरः एतौ वसुवसुनवभि ९८८ रपवर्तितौजाता गुणस्थाने पञ्च हरस्थाने द्वादश १२ फलंरविगतिसम्बन्धिन्योऽपचयलिप्ताः अथ भूव्यासस्यवन्द्रकक्षायां लिप्ताकरणार्थमनुपातः यदि गतियोजनै११८५९ श्चन्द्रगतिकला लभ्यन्ते तदा भूव्यासयोजनैः १५८१ किमिति अत्र गुणकार्धेन गुणकभाजकावपवतितौजातं गुणकस्याने द्वयम् भागहारस्थाने पञ्चदश १५ ।फलं भूव्यासकलाः एताभ्यः पूर्वकलाः शोध्याः यतउपर्युपरि गच्छन्त्या सूभाया विस्तृतिरपचयिनो भवति” प्र० ।इदानीं चन्द्रविक्षेपानयनमाह “सपाततात्कालिक-चन्द्रदोर्ज्या खभै २७० र्हता व्यासदलेन भक्ता सपा-तशीतद्युतिगोलदिक् स्याद्विक्षेप इन्दोः वाणसंज्ञः”शि० “यस्मित् काले विक्षेपः साध्यस्तस्तिन् कालेतात्कालिकयोश्चन्द्रपातयोर्योगः कर्त्तव्य इति साधरण्ये-नोक्तम् इह चन्द्रग्रहणावगमे समकलस्य चन्द्रस्यतात्कालिककपातस्य योगः कर्त्तव्यः तस्य दोर्ज्याखभै २७० र्गुण्या त्रिज्यया भाज्या फलं कला-त्मकश्चन्द्रविक्षेपः वाणसंज्ञः यदि षड्भा-दूनः सपातचन्द्रस्तदोत्तरो ज्ञेयो यदा षड्भाधिक-स्तदा दक्षिणो ज्ञेयः अत्रोपपत्तिः चन्द्रो हि वि-मण्डले भ्रमति क्रान्तिमण्डलस्य विमण्डलस्य यःसंपातस्तस्य पातसंज्ञा पातो मीनान्ताद्विलोमंगच्छति तस्मात् पातादग्रतस्त्रिभेऽन्तरे तद्विमण्डलंसार्द्धैश्चतुर्भि ४, ३० र्भागैः क्रान्तिवृत्तादुत्तरतो भवति ।पातात् पृष्ठतस्त्रिभेऽन्तरे तैरेव भागै ४, २० र्दक्षिणतोभवति अथ विमण्डलगतस्य चन्द्रस्य क्रान्तिमण्डलेनसह यदन्तरं याम्योत्तरो विक्षेपः तज्ज्ञानार्थं चन्द्र-पातयोरन्तरं ज्ञेयम् तच्च चन्द्रपातयोर्योगे कृते भवतिपातस्य विलोमगत्वात् तस्य सपातचन्द्रस्य दोर्ज्ययानु-पातः यदि त्रिज्यातुल्यया दोर्ज्यया परमः खमुनि-यम २७० कलातुल्यो विक्षेपस्तदानया कियानिति ।फलमिन्दुविक्षेपः यतः पातादग्रतः षड्भं क्रान्ति-वृत्तादुत्तरतोऽन्यद्दक्षिणतोऽतः सपातशीतद्युतिगोलदिक्कइत्युपपन्नम्” प्रमि० इदानीं ग्रहणे ग्रासप्रमाणमाह ।“यच्छाद्यसंछादकमण्डलैक्यखण्डं शरोनं स्थगितप्रमाणम् ।तच्छाद्यविम्बादधिकं यदा स्याज्ज्ञेयं सर्वग्रहणं तदा-नीम्” शि० “स्पष्टार्थम् अत्रोपपत्तिः रवेरग्रतो भार्धा-न्तरे क्रान्तिवृत्ते भूभा भ्रमति अतः पौर्णमास्यन्ते भूभा-चन्द्रौ समौ भवतः किन्तु याम्योत्तरमन्तरं विक्षेपतुल्यंभवति विक्षेपश्चाद्यच्छादकविम्बमध्ययोरन्तरम् तद्यदाविम्बार्धैक्यसमं तदा विम्बप्रान्तयोर्योगमात्रं स्यात् यदायावता मानैक्यार्द्धादूनं तावच्छाद्यविम्बे छादकविम्बंप्रविशति अत उक्तं तत्स्थगितप्रमाणमिति तत्स्थगितं छाद्यविम्वादधिकं यदा भवति तदा सर्वग्रहण-मित्यपि सुगमम्” प्रमिताक्षरा ।इदानीं स्थितिमर्दार्धयोरानयनमाह “मानार्धयो-गान्तरयोः कृतिभ्यां शरस्य वर्गेण विवर्जिताभ्याम् ।मूले खषट् ६० संगुणिते विभक्ते भुक्त्यन्तरेण स्थिति-मर्द्दखण्डे” शि० स्पष्टार्थम् “अत्रोपपत्तिः स्पर्श-काले तु विम्बगर्भयोरन्तरं मानैक्यार्धम् तच्च कर्णरूपंभवति तत्र यः शरः सा कोटिः कर्णकोट्योर्वर्गान्त-रपदं भुजः तच्च ग्राहकमार्गखण्डम् तत्क्रमण-कालायानुपातः तच्चन्द्रार्कयोः प्राग्गसनात् भुक्त्यन्तरेणयदि भुक्तन्तरतुल्यकलाभिः षष्टि ६० घटीरर्केन्दू क्रा-मतस्तदा लब्धाभिर्भुजकलाभिः कियत्य इति फलं स्थि-त्यर्धघटिकाः परं स्पर्शकालशराज्ञानान्मध्यग्रहणशरे-णैतत् कर्म कृतमतः स्थूलं स्थित्यर्धं जातम् अथ म-र्दार्ध मुच्यते यदा छादकेन छाद्ये समये छन्ने संमी-लनमानं तदा विम्बगर्भयोरन्तरे विम्बार्धान्तरतुल्याः कलाभवन्ति ताश्च कर्णरूपाः तस्मिन् काले यावान् विलेपस्तावती कोटिस्तयोर्वर्गान्तरपदं ग्राहकवर्त्मखण्ड भव-ति तत्रापि पूर्व्ववदनुपातेन घटिकात्मकः कालो मर्द-स्वण्डं भवति सोऽपि स्थूलः” प्रमिताक्षरा ।इदानीं घटीकरणमाह “स्थित्यर्धनाडीगुणितास्वभुक्तिः षष्ट्या ६० हृता तद्रहितौ युतौ कृत्वे-न्दुपातावसकृच्छराभ्यां स्थित्यर्धमाद्यं स्फुटमन्तिमं च” ।“स्पष्टार्थम् अत्र स्पर्शकालभवशरेण कोटिरूपेण कर्मकार्य्यम् एवं स्थित्यर्द्धमसकृत् स्फुटं भवतीति सुगमावासना” प्रमिताक्षरा ।“इदानीमेवं विमर्दार्धमपीत्यतिदिशति “एवं विम-र्दार्द्धफलोनयुक्तसपातचन्द्रोद्भवसायकाभ्याम् पृथक् पृथक्पूर्ववदेव सिद्धे स्फुटे स्त आद्यान्त्यविमर्दखण्डे” शि०स्पष्टार्थम् इदानीमिष्टकाले भुजानयनमाह ।“स्पर्शाग्रतः स्पार्शिकमिष्टमुक्तं प्राङ्मोक्षतो मौक्षिकमत्रपूर्वौ वीष्टेन निघ्नाः स्थितिखण्डकेन भुक्त्यन्तरांशा भुजइष्टकाले एवं विमर्दार्द्धहताः पृथक् ते संमीलनोन्मीलन-योर्भुजौ स्तः” शि० पूर्वार्द्धं स्पष्टार्थम् इष्टोनेन स्थिति-खण्डेन गुणिता भुक्त्यन्तरभागाः कलात्मको भुजो भवति ।एवं एव भुक्त्यन्तरांशाः प्रथमविमर्दार्द्धगुणाः संमी-लनभुजो भवति द्वितीयगुणास्तदोन्मीलनम् अत्रो-पपत्तिः इष्टकाले यत्र ग्राहकविम्बमध्यचिह्नं यत्रच मध्यशराग्रचिह्नुं तयोरन्तरं ग्राहकमार्गखण्डं भुजइहोच्यते तस्यानयनं त्रैराशिकेन यदि घटीषष्ट्याभुक्त्यन्तरकला लभ्यन्ते तदेष्टोनस्थितिदलेन किमिति ।अत्र गुणकभाजकयोः षष्ट्यापवर्त्तने कृते जाता भुक्त्य-न्तरांशा गुणकस्थाने हरस्थाने रूपम् एवं विमर्दा-र्धाभ्यां विमर्दभुजौ” प्रमि०इदानीं कर्णार्थमाह “कोटिश्च तत्कालशरोऽथकोटीदोर्वर्गयोगस्य पदं श्रुतिः स्यात् मानैक्यखण्डंश्रुतिवर्जितं सद्ग्रासप्रमाणं भवतीष्टकाले” शि० ।“इष्टकाले यावान् शरः सा तत्र कोटिः कोटिभुजवर्ग-योगपदं कर्णः कर्णोनं मानैक्यार्धमिष्टकाले ग्रासप्रमाणंभवति अत्रोपपत्तिः भुजोऽत्र क्रान्तिवृत्ते प्राच्यपरस्त-स्माद्याम्योत्तरः शरोऽतः कोटिः तद्वर्गयोगपदं कर्णइत्युचितम् कर्णो नाम विम्बमध्ययोरन्तरम् या-वता मानैक्यार्धादूनो भवति तावद्ग्राहकविम्बं ग्राह्येप्रविष्टम् अतस्तावानिष्टकाले ग्रास इत्युपपन्नम्” प्रमि० ।इदानीं ग्रासात् तत्कालज्ञानमाह “ग्रासोनमानैववद-लस्य वर्गाद्विक्षेपकृत्या रहितात् पदं यत् गत्यन्तरांशैर्वि-हृतं फलोनं स्थित्यर्धकं स्वं भवतीष्टकालः तत्कालवाणेनमुहुः स्फुटोऽग्रे वक्ष्येऽन्यथा वा परिलेखतोऽमुम्” शि० ।इष्टग्रासेनोनस्य मानैक्यार्धस्य वर्गात् तत्कालविक्षेपवर्गेणो-नान्मूलं गत्यन्तरांर्शौर्वभजेत् फलेन स्पर्शस्थित्यर्धं हीनं यदिस्पार्शिको ग्रासः यदि मौक्षिकस्तदा मौक्षिकं हीनम् ।शेषमिष्टकालो भवति स्थूलः अथ तत्कालश-रेण आनीयते सूक्ष्मासन्नः एवमसकृत् स्फुटःस्यात् अमुमिष्टकालमग्रे परिलेखादेव वक्ष्ये ।अत्रोपपत्तिर्विलोमगणितेन, ग्रासोनमानैक्यार्द्धं कर्णस्तत्का-लशरः कोटिस्तद्वर्गान्तरपदं भुजः गत्यन्तरांशैर्विहृतःफलमिष्टकालस्य मध्यग्रहस्य सावनान्तरमतः स्वस्थित्य-र्द्धाच्छोधितमित्युपपन्नम्” प्रमि० ।इदानीं स्पर्शादिव्यवस्थितिमाह “मध्यग्रहःपर्वविरामकाले प्राक् प्रग्रहोऽस्मात् परतश्च मुक्तिः ।स्थित्यर्द्धनाडीष्वथ मर्दजासु संमीलनोन्मीलनके तथैव”शि० स्पष्टार्थम् इदानीं वलनानयनमाह ।“खाङ्का ९० हतं स्वद्युदलेन भक्तं स्पर्शादिकालोत्थनतंलवाः स्युः तेषां क्रमज्या पलशिञ्चिनीघ्नी भक्ता द्यु-मौर्व्या यदवाप्तचापम् प्रजायते प्रागपरे नते क्रमादुदग्-यमाशं वलनं पलोद्भवम्” शि० “यस्मिन् काले वलनं साध्यंतस्मिन् काले या नतघटिकास्ताः खाङ्का ९० हताश्चन्द्रग्रहेरात्र्यर्द्धेन भक्ता अर्कग्रहे दिनार्द्धेन, फलमंशाः स्युः ।तेषां क्रमज्याऽक्षज्यया गुण्या द्युजीवया भक्ता लब्धस्यचापं पलोद्भवं वलनं जायते प्राङ्नते सौम्यं, पश्चिमतते याम्यम् वलनानयनमुत्क्रमज्यया कैश्चित् कृतंतन्निरासार्थमत्र क्रमज्येति विशेषणम् पुनरेतद्विशेष-णबलादन्यत्र सर्वत्रोत्क्रमज्याः प्राप्नुवन्ति” प्रमि० ।इदानीमायनं वलनमाह “युतायनांशोडुप-कोटिशिञ्जिनी जिनांशमौर्व्या १३९७ गुणिता विभा-जिता द्युजीवया लब्धफलस्य कार्मुकं भवेच्छशाङ्गाया-नदिक्कमायनम्” शि० “ग्रहस्य सायनांशस्य कोटिज्याजिनांशज्यया १३९७ गुण्या दुज्यया भक्ता फलस्य चाप-मायनं वलनं भवति तच्च यस्मिन्नयने ग्रहो वर्त्ततेतद्दिक् भवति अत्रोपपत्तिर्गोले” प्रमि० ।इदानीं स्फुटवलनार्थमाह “तयोः पलोत्थायनयोःसमाशयोर्युतेर्वियुक्तेस्तु विभिन्नकाष्ठयोः या शिञ्जिनीमानदलैक्यनिन्नी त्रिज्योद्धृता तद्वलनं स्फुटं स्यात् ।यैरुत्क्रमज्याविधिनैतदुक्तं सम्यङ्ग ते गोलगतिं विदन्ति” शि० ।“तयोः पलोद्भवायनयोर्वलनचापयोः समाशयोर्योगो भि-न्नाशयोरन्तरं तस्य ज्या मानैक्यार्द्धगुणा त्रिज्यया भक्ताफलं स्फुटा वलनज्या भवति यैरिदं वलनद्वयमुत्क्रम-ज्याविधिनोक्तं सम्यङ्न ते गोलगतिं विदन्तीति गोलंपरिम्राम्य दिशां वलनस्योत्क्रमज्ययोपचयः क्रमज्ययावेति तैः सम्यक् क्वापि नावलोकितमित्यर्थः अत्रोपप-त्तिर्गोले सविस्तरा इह सममण्डलं द्रष्टुः प्राचीसममण्डलादिष्टे नते काले विषुवन्मण्डपाची यावता यत-श्चलिता तावत् तद्दिक् पलोद्भवं वलनं ज्ञेयम् अथविषुवन्मण्डलात् क्रान्तिवृत्तप्राची यावता यंतश्चलितातदायनं तद्दिक् ज्ञेयम् तयोर्योगवियोगात् स्फुटमिति ।सममण्डलात् क्रान्तिमण्डलप्राची यावता यतश्चलितातत् स्फुटमित्यर्थः एवं त्रिज्यापरिणतं तदत्रानुपातेनमानैक्यार्द्धपरिणतं कृतम् यतोऽत्र मानैक्यार्द्धवृत्तेवलनं देयम्” प्रमि० इदानीमङ्गुललिप्तार्थमाह ।“त्रिज्योद्धृतस्तत्समयोत्थशङ्कुः सार्द्धद्वि २, ३० युक्तोऽङ्गुल-लिप्तिकाः स्युः स्थूलाः सुखार्थं द्युदलेन भक्तं समुन्नतंसार्धयमा २, ३० न्वितं वा” शि० “मध्यग्रहणकाले ग्रहस्यत्रिप्रश्नोक्त्या शङ्कुः साध्यः शङ्कुस्त्रिज्यया भक्तः ।फलं सार्धद्वियुक्तमङ्गुललिप्तिका भवन्ति अथवोन्नतघटिकाग्रहस्य दिनार्द्धघटीभिर्भक्ताः फलं सार्धद्वियुक्तं सुखार्थंस्थूला अङ्गुललिप्तिका भवन्ति अत्रोपपत्तिः गगन-मध्यस्थं यद्ग्रहविम्बं तस्य निखिलकरनिकरपिहितप-रिधित्वात् किञ्चित् सूक्ष्मं दृश्यते अथोदये क्षितिजस्थंभूव्यवहिततत्करनिकरविशालमिव प्रतिभाति तत् सूक्ष्मत्वंविशालत्वं चोपलब्ध्या बुद्धिमद्भिः कल्पितम् तच्च गग-नमध्ये सार्धत्रिकलं ३, ३० उदये सार्द्धद्विकलं २, ३०अङ्गुलं कल्पितम् अवान्तरेऽनुपातेन यदि त्रिज्या-तुल्ये शङ्कावङ्गुललिप्तान्तरं रूपं लभ्यते तदेष्टेन किमितिफलं सार्धद्वियुक्तमङ्गुललिप्तिकाः स्युरित्युपपन्नम् अथवास्थूलोऽनुपातः यदा दिनार्धतुल्याभिरुन्नतघटिकाभीरूपं लभ्यते तदेष्टाभिः किमिति” प्रमि० ।इदानीं पलनादीनामङ्गुलीकरणमाह “आभिर्विभक्तावलनेषुबिम्बदोश्छन्नलिप्ताः स्युरथाङ्गुलानि शरा यथाशाग्रहणे खरांशोश्चन्द्रग्रहे व्यस्तदिशस्तु येद्याः” शि० ।आभिरङ्गुलकलाभिर्वलनविक्षेपविम्बच्छन्नभुजकोटिकर्णा भा-ज्याः फलान्यङ्गुलानि भवन्ति इह रविग्रहणे शरायथागतदिश यव चन्द्रग्रहणे तु व्यस्तदिशो ज्ञातव्याः ।अत्रोपपत्तिः अङ्गुलकरणे तु कथितैव शराग्रे हि चन्द्रः, शरमूले भूमाऽतश्चन्द्रविक्षेपादन्यदिशि भूमा वर्त्तते तत्-स्थानज्ञानार्थं चन्द्रग्रहणे व्यस्तदिशः शरा वेद्या इत्युप-पन्नम्” प्रमि० इदानीं परिलेखमाह ।“ग्राह्यार्धसूत्रेण विधाय वृत्तं मानैक्यखण्डेन साधि-ताशम् बाह्येऽत्र वृत्ते वलनं ज्यकावत् प्राक्चिह्नतः स्पर्श-भवं हिमांशोः सव्यापसव्यं खलु याम्यसौम्यं मौक्षतथा पश्चिमतश्च देयम् परिग्रहे पश्चिमपूर्व्वतस्ते विक्षे-पदिक्चिह्नित एव साध्यम् सूत्राणि केन्द्राद्वलनाग्रसक्ता-न्यङ्क्यान्यतः स्पर्शविमुक्तिवाणौ ज्यावन्निजाभ्यां बलनाग्र-काभ्या देयौ यथाशावथ मध्यवाणः केन्द्रात् प्रदेयो वल-नस्य सूत्रे तेभ्यः पृथग्ग्राहकखण्डकेन वृत्तैः कृतैःस्पर्शविमुक्तिमध्यग्रासाः क्रमणैवमिहावगम्याः” शि० “स-सायामवनौ ग्राह्यार्धप्रमाणेन सूत्रेणेष्टस्थानकल्पितविन्दोर्वृत्तंलिखित्वा तस्मादेव विन्दोर्मानैक्यखण्डप्रमाणेन सूत्रेणान्य-द्वृत्तं कृत्वा तस्य विन्दोरुपरि प्राच्यपरं याम्योत्तरं सूत्रंखटिकाया रजसोच्छाद्य रेखे कार्य्ये अथ मानैक्यार्धवृत्तेवलनं देयम् तत्र चन्द्रस्य स्पार्शिकं प्राचीचिह्नतो-भौक्षिकं प्रतीचीचिह्नतः रवेस्तु स्पार्शिकं प्रतीचीचि-ह्नतोमौक्षिकं प्राचीचिह्नतः अथ मध्यवलनं यदि विक्षेपोदक्षिणतो देयस्तदा दक्षिणचिह्नाद्यदोत्तरस्तदोत्तरचि-ह्नात् तत् कथं देयमित्याह सव्यापसव्यं याम्यसौम्य-मिति यदि याम्यवलनं तदा सव्यक्रमेण प्राचीचिह्ना-द्याम्यं, दक्षिणचिह्नात् पश्चिमं, पश्चिमचिह्नादुत्तरमुत्तरचि-ह्नात् पूर्व्वमिति सव्यम् इतोऽन्यथापसव्यम् तच्च वलनंज्यावद्देयं धनुर्वत् एवं वलनानि दत्त्वा केन्द्राद्वलना-ग्रगतानि सूत्राण्यङ्क्यानि अथ स्पर्शवलनाग्रात् स्पार्शि-को मोक्षवलनाग्रान्मौक्षिको विक्षेपो देयः ज्यावत् ।अथ सव्ये विक्षेपः केन्द्राद्ववलनसूत्रे देयः तेभ्यः शरा-ग्रचिह्नेभ्यो ग्राहकार्धप्रमाणेन सूत्रेण वृत्तान्युत्पाद्यस्पर्शमुक्तिमध्यग्रासाः वेदितव्याः अत्र वासना मानै-क्यार्धवृत्ते ग्राहकवृत्तस्य मध्यं यदा भवति तदा ग्राह्य-ग्राहकयोर्बिम्बप्रान्तौ संलग्नौ भवतोऽतो मानैक्यार्धवृत्तंबहिर्लिखितं तच्च दिगङ्कितं तत्र या प्राची सा सममण्ड-लप्राची ततस्तस्या वलने दत्ते या केन्द्राद्वलनाग्रगा रेखासा क्रान्तिवृत्तप्राची एवं सर्वदिशां वलनम् अथवलनसूत्राज्ज्यावद्विक्षेपः यतः क्रान्तिवृत्तप्राच्या वि-क्षेपो याम्योत्तरः एवं स्पर्शमोक्षयोः किल अथमध्यशरः केन्द्राद्वलनसूत्रेऽतो दत्तो यतो मध्यवलनंनाम तत्कालक्रान्तिवृत्तप्राच्या याम्योत्तरा दिक् वि-क्षेपाग्रे ग्राहकवृत्तमध्यमतस्तत्र कृतैर्वृत्तैः स्पर्शमोक्षमध्याभवन्तीत्युपपन्नम्” प्रमि० ।इदार्ना निमीलनोन्मीलनेष्टग्रासपरिलेखमाह ।“केन्द्राद्भुजं स्वे वलनस्य सूत्रे शरं भुजाग्राच्छ्रवणं चकेन्द्रात् प्रसार्य्य कोटिश्रुतियोगचिह्नाद्वृत्ते कृते ग्रा-हकखण्डकेन संमीलनोन्मीलनकेष्टकालग्रासाश्च वेद्यायदि वान्यथाऽमी” शि० “संमीलनकाले वलनमानीय तत्प्राकचिह्नतः प्राग्वद्दत्त्वा केन्द्राद्वलनाग्रगां रेखां कृत्वातस्यां रेखायां केन्द्रात् पूर्वतो भुजो देयः भुजाग्रात्तत्कालशरप्रमाणां शलाकां तथा केन्द्रात् कर्णमितां चप्रसार्य शलाकाग्रयोर्युतिचिह्नाद्ग्राहकार्द्धेन वृत्तं विलिख्यसंमीलनस्थानं ज्ञेयम् एवमुन्मीलनवलनं पश्चिमतोदत्त्वोन्मीलनस्थानं ज्ञेयम् एवमेव तत्कालवलनमिष्टवशेनप्राक् पश्चिमतो वा दत्त्वोक्तवदिष्टग्रासो ज्ञेयः यदिवान्यथामी इत्यस्याग्रे सम्बन्धः अत्रोपपत्तिः भुजो हिग्राहकमार्गखण्डम् तत्र शरः कोटिस्तद्वर्गयोगपदं कर्णः ।कर्णाद्ग्राहकविम्बै लिखिते संमीलनादिकं भवतीति युक्त-मुक्तम् ननु ग्राह्यविम्बमध्याद्वलनसूत्रे भुजो दत्तस्तत्कथं भुजो ग्राहकमार्गखण्डमित्युच्यते सत्यम् यत्रकुत्रचिद्भुजकोटिकर्णैस्त्र्यस्रमुत्पद्यते तदवश्यमायतचतुर-स्रार्द्धं स्यात् तदत्र भुजाग्राद्विक्षेपः कोटिः एवं भुज-मूलादपि विक्षेपमूलयोरन्तरे यावान् भुजस्तावान् विक्षे-पाग्रयोरपि अतोग्राहकमार्गखण्डं भुज इत्युच्यतेतददुष्टम्” प्रमि० ।इदानीमन्यथा सम्मीलनादिपरिलेखमाह “ये स्पर्श-मुक्त्योर्विशिखाग्रचिह्ने ताभ्यां पृथङ्मध्यशराग्रयाते रेखेकिल प्रग्रहमोक्षमार्गौ तयोश्च माने विगणय्य वेद्ये ।विम्बान्तरार्द्धेन विधाय वृत्तं केन्द्रेऽथ तन्मार्गयुतिद्वयेऽपि ।भूभार्द्धसूत्रेण विधाय वृत्ते संमीलनोन्मीनके नेद्ये”शि० स्पर्शशराग्रान्मध्यशराग्रयाता रेखा कार्य्या ।स प्रग्रहमार्गो ज्ञेयः अथ मध्यशराग्रान्मुक्तिशरा-ग्रगा पृथगन्या रेखा कार्या मुक्तिमार्गो ज्ञेयः ।तयोर्मार्गयोः प्रमाणे अङ्गुलशलाकया मित्वा पृथगनष्टेस्थाप्ये अथ विम्बान्तरार्धप्रमाणेन सूत्रेण केन्द्रे वृत्त-मुत्पाद्य तस्य वृ त्तस्य मार्गद्वयेन यौ योगौ तस्माद्योगद्वय-चिह्नात् भूभार्धसूत्रेण वृत्ते विधाय संमीलनोन्मीलनेज्ञातव्ये अत्रोपपत्तिः स्वमार्गेणागच्छतो ग्राहक-मध्यस्य यत्र मानान्तरार्धतुल्यः कर्णो भवति तत्रस्थे त-स्मिन् ग्राहके संमीलनमुन्मीलनं यत उत्पद्यते तोविम्बान्तरार्धेन वृत्तं विलिख्य ते स्थाने ज्ञातव्ये” प्रमि० ।इदानीमिष्टग्रासार्थमाह “मार्ग्राङ्गुलध्नं स्थितिखण्डभक्त-मिष्टं स्युरिष्टाङ्गुलसंज्ञकानि इष्टाङ्गुलानीष्टवशात् स्व-मार्गे दत्त्वात्र ग्राहकखण्डवृत्तम् कृत्वेष्टखण्डं यदिवाऽवगम्यं स्थूलः सुखार्थं परिलेख एवम्” शि० “इष्ट-मितीष्टकालो घटिकादिरनष्टस्थापितैर्मार्गाङ्गुलैर्गुण्यः स्व-स्थित्यर्द्धघटीभिर्भाज्यः फलमिष्टाङ्गुलानि भवन्ति ।तानीष्टाङ्गुलानि स्वमार्गेदत्त्वा कथमिति चेत् इष्ट-वशात् यदि स्पर्शादग्रत इष्टं कल्पितं तदा स्पर्शशराग्रादग्रत इष्टाङ्गुलानि देयानि यदि मध्यात् पूर्वत इष्टंतदा मध्यशराग्रात् पूर्वतो देयानि एवं मुक्तिमार्गेऽ-पीष्टवशादिष्टाङ्गुलाग्रे ग्राहकविम्बार्द्धेन वृत्तं विलिख्ये-ष्टग्रासो ज्ञेयः एवं वा स्थूलः सुखार्थं परिलेखः ।अत्रोपपत्तिस्त्रैराशिकेन यदि स्थित्यर्द्ध्वघटीभिर्मार्गाङ्गु-लानि लभ्यन्ते तदेष्टघटीभिः किमिति फलमिष्टाङ्गु-लानि तदग्रे ग्राहकविम्बमध्यमित्यर्थः तत्र ग्राहका-र्द्धेन वृत्ते कृते इष्टग्रासो भवतीति किं चित्रम्” प्रमि० ।इदानीं ग्रासात् कालानयनं परिलेखेनैवाह
“ग्रासो-नमानैक्यदलेन केन्द्रे वृत्तात् कृतान्मार्गदले बहिर्य्ये ।ते संगुणे स्वस्थितिखण्डकेन मार्गाङ्गुलाप्ते पृथगिष्टकालौ”शि० “मानैक्यार्द्धेन ग्रासोनेन केन्द्रे वृत्तं लिखेत् ।तस्माद्वृत्ताद्बहिर्य्ये मार्गखण्डे भवतस्ते स्वस्थितिखण्डकेनगुणिते स्वमार्गाङ्गुलैर्भाज्ये फलं स्पर्शादग्रत इष्ट-कालो भवति मोक्षात् पृष्ठतश्च अत्रोपपत्तिः ग्रा-सोनमानैक्यदलमिष्टकाले ग्राह्यग्राहकविम्बमध्ययोरन्तरंकर्ण इत्यर्थः इदं पूर्ब्धमेव कथितम् तेन कर्णेन केन्द्रेवृत्तात् कृताद्ये मार्गस्वण्डे वहिर्भवतस्ताभ्यामिहानु-पातः यदि मार्गाङ्गुलैः स्थित्यर्द्धघटिका लभ्यन्ते तदाबहिर्भूतखण्डाङ्गुलैः किमिति फलमिष्टकाल इति” प्रमि० ।इदानीं ग्रहणे वर्णमाह “स्वल्पे छन्ने धूम्रवर्णःसुधांशोरर्द्धे कृष्णः कृष्णरक्तोऽधिकेऽर्धात् सर्वछन्ने वर्णउक्तः पिशङ्गो भानोश्छन्ने सर्वदा कृष्ण एव” शि० ।इदानीमादेश्यानादेश्यानाह ।“इन्दोर्भागःषोडशः खण्डितोऽपि तेजःपुञ्जच्छन्नभावान्नलक्ष्यः तेजस्तैक्ष्ण्यात् तीक्ष्णगोर्द्वादशांशो नादेश्योऽतोऽल्पोग्रहो बुद्धिमद्भिः” शि० स्पष्टार्थम् इति चन्द्रग्रहणाधिकारः ।अथ सूर्य्यग्रहणाधिकार तत्रादौ नतिप्रयोजनोक्तिः ।“दर्शान्तकालेऽपि समौ रवीन्दूद्रष्टा नतौ येन विभिन्नकक्षौ ।क्वर्धोच्छ्रितः पश्यति नैकसूत्रे तल्लम्बनं तेन नतिं वचिम्” शि० ।“अमावास्यान्तकाले समकलावपि चन्द्रार्कौ नतौ खार्धा-दन्यत्र यतस्ततोऽपि वा स्थितौ भूम्यर्द्धेनोच्छ्रितौ द्रष्टैक-सूत्रे पश्यति येन कारणेन तौ विभिन्नकक्षौ ।चन्द्रस्य कक्षा लघ्वी अर्कस्य महती यथा चन्द्रग्रहणे यैवचन्द्रस्य कक्षा सैव भूभाया अपि तत्र तिथ्यन्ते समौ भू-भेन्दू नतावपि क्कर्द्धोच्छ्रितोऽपि द्रष्टैकसूत्रे पश्यति तथार्क-ग्रहणेऽर्केन्दू पश्यति भिन्नकक्षत्वात् तेन कारणेनतल्लम्बनाख्यमन्तरं नत्वाख्यं वच्मि” प्रमि० ।इदानीं लम्बनस्य भावाभावं धनर्णत्वं कथयति ।“दर्शान्तलग्नं प्रथमं विधाय लम्बनं वित्रिभलग्नतुल्ये ।रवौ तदूनेऽभ्यधिके तत् स्यादेवं धनर्णं क्रमतश्च वेद्यम्” शि०“अत्र लम्बनं ज्ञातुं दर्शान्तकाले लग्नं विधाय तत् त्रि-भोनं कार्य्यम् तेन त्रिभोनेन लग्नेन समे रवौ लम्बनंनास्ति ऊनेऽभ्यधिके स्यादिति वेदितव्यम् तथावित्रिभलग्मादूने रवौ यल्लम्बनमुत्पद्यते तद्धनसंज्ञं वेदि-तव्यम् तिथ्यन्तघटिकासु योज्यमित्यर्थः यदधिकेतदृणं तिथ्यन्तघटिकाभ्यः शोध्यमित्यर्थः अथ लम्बन-स्योपपत्तिस्तावदुच्यगे इह किल सममण्डलयाम्योत्तर-कोणवृत्तानामर्द्धच्छेदेन परिकरवद्यद्वृत्तं निबध्यते तत्क्षितिजम् तत्रस्थं ग्रहं भूगर्भस्थो द्रष्टा पश्यति भू-पृष्ठगस्तु भूच्छन्नं तत् क्षितिजमपि पश्यति किन्तुभूम्यर्द्धयोजनैस्तस्मात् क्षितिजादुपरि समग्रादन्यत् क्षिति-जं मन्यते यतस्तस्मादूर्ध्वं पश्यति तदधःक्षितिजं दृक्सूत्राल्लम्बितं पश्यति अतो ग्रहकक्षायांदृङ्मण्डले तेषां योजनानां संबन्धिन्योया लिप्तास्ताःकुच्छन्नलिप्तास्ता एव परमलम्बनलिप्ताः परमावनतिलिप्ताश्च ।तास्तु ग्रहभुक्तिपञ्चदशांशतुल्या भवन्ति यतो गति-योजनानां पञ्चदशांशो भूव्यासार्द्धम् यदा किलक्षितिजस्थस्तदा कुच्छन्नलिप्ताभिर्नतत्वं गतः अथ यदाखमध्यस्थो रविस्तदा तं भूगर्भस्थो द्रष्टा भूपृष्टस्थोऽपिखमध्यस्थमेव पश्यति कुतोऽपि नतमतस्तत्र लम्बना-भावः क्षितिजे तु कुच्छन्नलिप्तातुल्यं परमं लम्बन-म् अतो ज्ञातं खार्धान्नते ग्रहे लम्बनदुत्पद्यते एवंचन्द्रस्यापि दर्शान्ते चन्द्रलम्बनलिप्ताभ्योऽर्कलम्बनलि-प्तासु शुद्धासु शेषं रविदृक्सूत्राधश्चन्द्रस्य परमा लम्ब-लिप्ताः अथ यदा दृङ्मण्डलाकारं क्रान्तिवृत्तं भवतितदा परमलम्बनलिप्तानां घटीकरणायानुपातः यदि ग-त्यन्तरकलाभिर्घटीषष्टिर्लभ्यते तदा गत्यन्यरपञ्चदशांश-तुल्याभिः किमिति फलं घटिकाचतुष्टय परमं लम्ब-नम् अतो घटिकाचतुष्टयानुपातेन लम्बनं साध-यितुं युज्यते परं यदि दृङ्मण्डाकारं क्रान्तिवृत्तम् ।यदा तदपि तिरश्चीनं तदानुपातद्वयेन लम्बनं हिदृङ्सण्डलसूत्रेणोत्पद्यते तच्च मध्यमं लम्बनम् तत्किल कर्णरूपम् तत् क्रान्तिवृत्तप्राचीपरिणतं कोटि-रूपं स्फुटं भवति यदा दृङ्मण्डलमेव क्रान्तिवृत्तंतदा तदेव स्फुटम् यतः क्रान्तिवृत्तप्राच्यपरयालम्बनस्य स्फुटत्वम् अतः क्रान्तिवृत्तस्य परमनीचस्थानेलम्बनस्य परमत्वम् परमोच्चस्थाने लम्बनाभावः तच्चतस्य परमोच्चत्वं वित्रिभलग्ने भवति यदा वित्रिभं ख-मध्ये भवति तदा तच्छङ्कुस्त्रिज्यातुल्यः स्यात् तदा म-ध्यममेव स्फुटं लम्बनम् यदा तद्वित्रिभं खमध्या-न्नतं भवति तदा तच्छङ्कुस्त्रिज्यातो न्यूनो भवति तदामध्यमलम्बनात् स्फुटं लम्बनं कोटिरूपकरणेन तदल्पतांयाति अतो वित्रिभलग्नशङ्कोरपचयवशेन लम्बनस्याप-चयः अतो वित्रिभलग्नशङ्कुना मध्यमलम्बनस्य स्फुट-त्वकरणेऽनुपातः कर्त्तुं युज्यते” प्र० मि० ।अमुमेवार्थं संप्रधार्यानुपातद्वयेन लम्बनमाह “त्रिमोन-लग्नं तरणिं प्रकल्प्य तल्लग्नयोर्य्यः समयोऽन्तरेऽसौ त्रि-भोनलग्नस्य भवेद्द्युयातः शङ्क्वाद्यतस्तस्य चरान्तकाद्यैः ।त्रिभोनलग्नार्कविशेषशिञ्जिनी कृताहता व्यासदलेन भा-जिता हतात् फलाद्वित्रिभलग्नशङ्कुना त्रिजीवयाप्तंघटिकादि लम्बनम्” सि० शि० “दर्शाग्नकाले लग्नंविधाय तदनष्टं वित्रिभं कृत्वा तयोर्वित्रिभस्य भोग्यंलग्नस्य भुक्तमन्तरोदययुतं वित्रिभस्योदितः कालो भव-ति तेन कालेन वित्रिभलग्नजनितकुज्याद्युज्या-न्त्यादिभिश्च त्रिप्रश्लोक्त्या शङ्कुः साध्यः शङ्कोश्च दृग्-ज्या तच्छायाकर्णश्च साध्यः अथ त्रिभोनलग्नार्द्धयो-रन्तरस्य ज्या साध्या अथ तथा लम्बनार्थमनुपातः ।यदि त्रिज्यातुल्यया वित्रिभलग्नार्कान्तरज्यया चतखोघटिका लम्बनं तदानयाभीष्टया किमिति फलं मध्य-मलम्बनम् अतस्तत्स्फुटीकरणार्थं द्वितीयोऽनुपातः ।यदि त्रिज्यातुल्यवित्रिभलग्नशङ्कावेतावल्लम्बनं लभ्यते तदाऽस्मिन्ननन्तरानीते किमित्येवं लम्बनं स्फुटं मवति” प्रमि० ।इदानीं प्रकारान्तरेण स्फुटीकरणमाह “फला-द्रवि १२ घ्नात् त्रिभहीनलग्नकर्णेन लब्धं खलु लम्बनंवा” सि० शि० “मध्यलम्बनात् द्वादशगुणाद्वित्रि-भलग्नसंभूतच्छायाकर्णेन भक्ताद्यल्लब्धं तद्बा स्फुटं लम्बनंभवति अत्रीपपत्तिस्त्रैराशिकेन तत्र वित्रि-भलग्नशङ्कोद्वांदशांशेन वित्रिभलग्नशङ्कुस्त्रिज्या चाप-वर्जिता जाता गुणकस्थाने द्वादश १२ हरस्थाने वित्रि-भलग्नकर्ण इत्युपपन्नम्” प्रमि० ।इदानीं प्रकारान्तरेण लम्बनभाह “त्रिभोनलग्नस्यरवेश्च शङ्क्वोर्वा दृग्ज्ययोर्वर्गवियोगमूलम् स्याद्दृ-ङ्नतिर्वेद गुणा त्रिमौर्व्या भक्ताथवा लम्बननाडिकाःस्युः” सि० शि० “त्रिभोनलग्नस्य यः शङ्कुः साधित-स्तथा दर्शान्तकासे रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यतेतावनष्टौ स्थापयित्वा तयोः दृग्ज्ये साध्ये अथ तयोःशङ्कोर्यद्वर्गान्तरपदं तद्दृङ्नतिसंज्ञं भवति प्रथमप्र-कारोऽयम् अथ दृङ्नतेर्द्वितीयः प्रकारः तयोर्दृग्-ज्ययोर्वर्गान्तरपदं दृङ्नतिमंज्ञं भवति अथ दृङ्नते-र्लम्बनमुच्यते दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता फलंलम्बननाडिकाः स्युःअत्रोपपत्तिः सैव यदा वित्रिभलग्नंखमध्ये भवति तदा दृङ्मण्डलमेव क्रान्तिवृत्तम् त्रिभो-नलग्नार्कयोर्यान्तरज्या सैव तदार्कस्य दृग्ज्या सा चतु-र्गुणा त्रिज्ययाप्ता मध्यमं किल लम्बनं भवति तदेवस्फुटम् ऊर्ध्वंस्थितत्वात् क्रान्तिवृत्तस्य अथ यदावित्रिभलग्नं खार्धान्नतम् तिर्यक्स्थितत्वात् क्रान्तिवृत्तस्यतदा तत् प्राच्यपरया स्फुटं लम्बनं कोटिरूपं भवति ।तच्च वित्रिभलग्नशङ्कनुपातेन तथा स्फुटं कोटिरूपं कृ-तम् तत् कथमिति चेत् तदर्थमुच्यते मध्यलम्बनान-यने त्रिज्यैव वित्रिभलग्नशङ्कुः ततः स्फुटत्वार्थं यःसाधितो वित्रिभलग्नशङ्कुः दृक्क्षेपमण्डले स्फुटस्तद्दृग्-ज्या भुजस्त्रिज्या कर्णः वित्रिभलग्नस्य यद्दृङ्मण्डल-मिति गोले कथितम् अतस्त्रिज्यापरिणतया नतज्ययायदानीतं तज्जातं कर्णरूपं तत् कोटिरूपस्य वित्रिभ-लग्नशङ्कोरनुपातेन कोटित्वं नीतमित्युपपन्नम् यदेवस्फुटलम्बनस्य कोटिरूपत्वमुपपन्नं तदेव प्रकारान्तरेणोप-पादिनस् रवेर्दृङमण्डले दृग्ज्या सा कर्णरूपिणी ।वित्रिभलग्नस्य या दृग्ज्या एव दृक्क्षेपः भुज-रूपः यतः क्रान्तिमण्डलप्राच्याः सम्यग्दक्षिणोत्तरंखार्द्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलम् तत्रवित्रिभलग्नस्य या दृग्ज्या दृक्क्षेपः तज्जनिता न-तिकलाश्चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरं सर्वत्र तुल्यमेब द्रष्टापश्यति यथोक्तं गोले “कक्षयोरन्तरं यत् स्याद्वि-त्रिभे सर्वतोऽपि तत् नतिलिप्ता भुजः कर्णो दृग्लम्बन-कलास्तयोः कृत्यन्तरपदं कोटिः स्फुटलम्बनलिप्तिकाः”शि० यत् इदं लम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्य-योर्वर्गान्तरपदतुल्या दृङ्नतिर्भवितुमर्हति परं यथास्थिते गोले क्षेत्रोपरीयं दृश्यते यतो वित्रि भल-ग्नार्कयोरन्तरज्या वित्रिभलग्नशङ्कुव्यासार्द्धपरिणता सतीदृङ्नतिर्भवति अत एवानेनापि प्रकारेण क्षितिजस्थे-ऽर्के परमा दृङ्नतिर्वित्रिभलग्नशङ्कुतुल्या भवति ।अतोऽयमपि प्रकारः पूर्वतुल्य एव किन्तु दृक्क्षेपार्क-दृग्ज्ययोस्तुल्ये शलाके भुजकर्णरूपे समायां भूमौ वि-न्यस्य तदन्तरे कोटिरूपां दृङ्नतिं दर्शयेत् एवमनेकविधान्युपपत्त्यनुसारेण क्षेत्राणि परिकल्प्य धूलीकर्मो-पसंहारमार्याः कुर्वते अथ प्रस्तुतमुच्यते अत्र किलवित्रिभलग्नस्य रवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छ-ङ्क्वोरपि भवति तत् कथमिति चेत् तदुच्यते अत्रस्वस्वशङ्कुवर्गेणोनौ त्रिज्यावर्गौ दृग्ज्यावर्गौ भवतः ।तयोरन्तरे कृते त्रिज्यावगेयोस्तुल्यत्वाद्गतयोःशङ्कुवर्गा-न्तरमेवावशिष्यते एवं यत्र कुत्रचिद्व्यासार्द्धेऽपि भुज-ज्ययोर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति ।अत उक्तं त्रिभोनलग्नस्य रवेश्च शङ्कोर्वा दृग्ज्ययो-रिति” दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीक-रणम्” प्रमि० ।इदानीं प्रकारान्तरेण लम्बनमाह “शङ्क्वोस्तयोर्दृग्गुण-योस्तयोर्वा त्रिज्याचतुर्थांशविभक्तयोः स्यात् यद्वर्गविश्ले-षपदं द्विधैवं विलम्बनं तद्घटिकादिकं वा” सि० शि० ।“तयोरनन्तरकथितयोर्वित्रिभलग्नार्कशङ्क्वोस्त्रिज्याचतु-र्थांशेनापवर्त्तितयोर्यद्वर्गान्तरपदं तल्लम्बनं वा भवति ।अथ तयोः शङ्क्वोर्य्ये दृग्ज्ये तयोस्त्रिज्याचतुर्थांशभक्त-र्वर्गान्तरपदं वा लम्बनं भवति अत्रोपपत्तिः ।अत्र निष्पन्नाया दृङ्नतेः कोटिरूपाया घटीचतुष्टयेनत्रिज्यया चानुपातः तदुपकरणभूतयोः शङ्क्वो-स्तद्दृग्ज्ययोर्वा क्रियालाघवार्थं यदि क्रियते तदा घ-टिकात्मिकैव दृङ्नतिरुत्पद्यते तदेव लम्बनम् ।अतस्तथा कृते जातमन्यत् प्रकारद्वयम्” प्रमि० ।लम्बनप्रयोजनमाह “तत्संस्कृतः पर्वविराम एवं स्फु-टोऽसकृत् ग्रहमध्यकालः” सि० शि० “एवं यद्दर्शा-न्तकःले लम्बनमुत्पन्नं तद्वित्रिभलग्नादूनेऽर्के धनमतोदर्शान्तघटिकासु क्षेप्यम् यदि वित्रिभादधिकेऽर्के जातंतदृणं दर्शान्तघटीभ्यः शोध्यम् एवमसकृल्लम्बनसंस्कृता-द्दर्शान्तकालाल्लग्नमानीय वित्रिभं कृत्वोक्तप्रकारेण लम्बनंसाध्यम् तेन गणितागतो दर्शान्तः पुनः संस्कार्य्यः ।एवं मुहुर्यावदविशेषः एवं संस्कृतो दर्शान्तो ग्रहण-सध्यकालो भवति अत्रोपपत्तिः अत्र चन्द्रकक्षायाआसन्नत्वाद्रविकक्षाया दूरत्वात् क्वर्धोच्छ्रिताद्द्रष्टू रवि-मण्डलगामि यत् सूत्रं तस्मादधश्चन्द्रोऽवलम्बितो दृश्यतेतल्लम्बनम् क्रान्तिवृत्ते परमोच्चस्थाने किल वित्रिभम् ।तस्मादूनो यदा रविस्तदार्कादवलम्बितश्चन्द्रः पृष्ठतो भव-ति चन्द्रो हि शीघ्रगतिः शीघ्रे पृष्ठगते युतिरेष्या ।अतो लम्बनं तिथौ धनम् यदा वित्रिभलग्नादधिको-ऽर्कस्तदा चन्द्रोऽवलम्बितोऽर्कादग्रतो भवति शीघ्रेऽग्रगेयुतिर्जाता लम्बनतुल्येन कालेनातस्तस्य लम्बनमृणम् ।एवं लम्बनसंस्कृतो दर्शान्तो ग्रहणमध्यकालः स्यादि-त्युपपन्नम् यदि त्रिज्यातुल्ययार्कदृग्ज्यया परमा भु-क्त्यस्तरपञ्चदशांशतुल्या लम्बनलिप्ता ४८ ४६ लभ्यन्तेतदेष्टयार्कडग्ज्यया किमिति फलं दृग्लम्बनकलाः ।एवमनेनैवानुपातेन दृक्क्षेपाद्या लम्बनलिप्ताउत्पद्यन्ते ताअवनतिलिप्ताः ता भुजरूपाः दृग्लम्बनकलाः कर्णःतयोर्वर्गान्तरपदं स्फुटलम्बनलिप्ताः यतो दृङ्नत्यानय-नेऽर्कदृग्ज्या कर्णो दृक्क्षेपो भुजः अतो दृक्क्षेपाज्जनि-ताऽवनतिर्भुजः स्फुटलम्बनलिप्ताः कोटिः इदमखिलंगोले लम्बनोपपत्तौ कथितम् तद्यथा “यतः क्वर्धो-च्छ्रितो द्रष्टा चन्द्रं पश्यति लम्बितम् साध्यते कुदले-नातो लम्बनं नतिस्तथा इष्टापवर्तितां पृथ्वीं कक्षे चशशिसूर्य्ययोः भित्तौ विलिख्य तन्मध्ये तिर्यग्रेस्वां त-थोर्ध्वगाम् तिर्य्यग्रेस्वायुतौ कल्प्यं कक्षायां क्षितिजंतथा ऊर्ध्वरेखायुतौ खार्धं दृग्ज्याचापांशकैर्नतौ ।कृत्वार्केन्दूसमुत्पत्तिं लम्बनस्य प्रदर्शयेत् एकं भूमधातःसूत्रं नयेच्चण्डाशुमण्डलम् द्रष्टुर्भूपृष्ठगादम्यद्दृष्टिसूत्रंतदुच्यते कक्षायां सूत्रयोर्मध्ये यास्ता लम्बनलिप्तिकाः ।गर्भसूत्रे सदा स्यातां चन्द्रार्कौ समलिप्तिकौ दृक्सूत्रा-लम्बितश्चन्द्रस्तेन तल्लम्बनं स्मृतम् दृग्गर्भसूत्रयोरैक्यात्खमध्ये नास्ति लम्बनम् अथ याम्योतरायां तु भित्तौपूर्वोक्तमालिखेत् ये कक्षे मण्डले ते तु ज्ञेये विक्षेपम-ण्डले त्रिभोनलग्नदृग्ज्या या दृक्क्षेपो द्वयीरपि ।तच्चापांशैर्नतौ विन्द्र कृत्वा वित्रिभसंज्ञकौ प्राग्वद्दृक्सूत्र-तश्चन्द्रवित्रिभस्य नतिर्नतिः कक्षयोरन्तरं यत् स्याद्वि-त्रिभे सर्वतोऽपि तत् याम्योत्तरं नतिः साऽत्रदृक्क्षेपात्साध्यते ततः यत्र तत्र नतादर्कादधश्चन्द्रावलम्बनम् त-द्दृग्वृत्तेऽन्तरं चन्द्रभान्वीः पूर्व्वापरं तु तत् पूर्व्वापरंच याम्योदग्जातं तेनान्तरद्वयम् अत्रापमण्डलं प्राचीतत्तिर्य्यग्द्क्षिणोत्तरा यत् पूर्व्वापरभावेन लम्बनाख्यंतदन्तरम् यद्याम्योत्तरभावेन नतिसंज्ञं तदुच्यते न-तिलिप्ता भुजः कर्णो दिग्लम्बनकलास्तयोः कृत्यन्तरपदंकोटिः स्फुटलम्बनलिप्तिकाः परलम्बनलिप्ता ४८/४६ घ्नीत्रिज्या ३४३८ प्ता रविदृग्ज्यका दृग्लम्बनकलास्ताःस्युरेवं दृक्क्षेपयोर्नतिः गत्यन्तरस्य ७३१/२७ तिथ्यंशः४८/४६ परलम्बनलिप्तिकाः गतियोजन ११८५९/४५तिथ्यंश ७९०/३५ कुदलस्य यतो मितिः स्युर्लम्बनकला-नाड्यो गत्यन्तरलवोद्धृताः प्रागग्रतो रवेश्चन्द्रः पश्चात्पृष्ठेऽवलम्बितः शीघ्रेऽग्रगे युतिर्जाता गम्या पृष्ठगतेयतः प्रागृणं तद्धनं पश्चात् क्रियते लम्बनं तिथौ ।याम्योत्तरं शरस्तावदन्तरं शशिसूर्य्ययोः नतिस्तथा तयातस्मात् संस्कृतः स्यात् स्फुटः शरः” प्रमि० ।इदानीं सकृत्प्रकारेण लम्बनमाह “त्रिभोनलग्नस्य नर-स्त्रिभू १३ घ्नो दन्तै ३२ र्विभक्तः परसंज्ञकः स्यात् ।लग्नार्कयोरन्तरकोटिदोर्ज्ये विधाय दोर्ज्यापरयोर्वि-योगात् स्वघ्नाद्युतात् कोटिगुणस्य कृत्या मूलं श्रुतिःकोटिगुणात् परघ्नात् श्रुत्या हृताल्लब्धधनुःकलायास्त्रवाऽसवो लम्बनजाः सकृत् स्युः” सि० शि०! “त्रिभो-नलग्नस्य यः शङ्कुः त्रयोदशगुणो द्वात्रिंशद्भक्तःफलं परसंज्ञं भवति दर्शान्तकाले यल्लग्नं तस्मादर्को-नाद्भुजकोटिज्ये साध्ये तत्र दोर्ज्याया अनन्तरानीतस्यच परस्य यो वियोगस्तस्माद्वर्गीकृतात् कोटिज्यावर्गेण यु-ताद्यत् पदं कर्णः कोटिज्यापरयोर्घातात् तेन कर्णेनभक्ताद्यत् फलं तस्य चापे यावत्थः कलास्तावन्तो लम्बना-सवः सकृदेव भवेयुः अत्रोपपत्तिः यदि त्रिज्यातुल्ये१२० वित्रिभलग्नशङ्कोः परमलम्बनज्यातुल्यगुणकेन त्रि-ज्या हरस्तदा त्रयोदशगुणकेन कः फलं द्वात्रिंशत् ।तस्य परसंज्ञा कृता अधोऽधःस्थयोरपि चन्द्राऽर्कयोःक्रियोपसंहारार्थमन्यथा कल्पितं लम्बनक्षेत्रम् तत्रतावत् परमं लम्बनमुच्यते चतखो घटिकाः किल परमंलम्बनम् तत् तु त्रिज्यातृल्येवित्रिभोनलग्नशङ्कौ तासां-घटीनां यावन्तोऽसवस्तावत्य एव चतुर्विंशतिभागानां कलाभवन्ति अतस्त्रिज्यासंभूतकान्तेः कलानां तुल्यास्तदापरमलम्बनासवो भवन्ति यदा पुनर्पित्रिभलग्नशङ्कुस्त्रि-ज्यातोऽल्पो भवति तदा तज्जनितक्रान्तेः कलानां तुल्याभवन्ति अतो वित्रिमलग्नशङ्कुजनिता व्रान्तिज्या तदापरमलम्बनासूनां ज्या भवतीत्यपगन्तव्यम् अथ पूर्वापरा-यताया मित्तेरुत्तरपार्श्वे त्रिज्यामिताङ्गुलकर्कटेन वृत्त-मालिख्य तन्मध्ये तिर्यग्रेखामूर्ध्वरेखां कुर्यात् तत्किल थन्द्रकक्षावृत्तं कल्प्यम् तन्मध्यादुपरि परमलम्ब-नासुज्यान्तरे भूसंज्ञितं विन्दुं कृत्वा तत्र तेनैव कर्कटेना-न्यद्वृत्तं विलिखेत् तन्यध्येऽप्यन्या तिर्यग्रेखा कार्या ।ऊर्ध्वरेखा सर्वोपरितो नेया तत् किलार्ककक्षावृत्तम् ।ते वृत्ते चक्रांशैर्घटिकाषष्ट्या चाङ्क्ये ऊर्ध्वरेखायुतौद्वषोरपि वित्रिभलग्नसंज्ञौ विन्दू कार्यौ ततो वित्रिभल-ग्नार्कान्तरभागै रविकक्षायां वित्रिभलग्नान्नतं रविसंज्ञकंविन्दुं कुर्यात् एवं चन्द्रवित्रिभाच्चन्द्रकजायां तैरेवभार्गेर्नतं चन्द्रविन्दुं ततो भूविन्दोः सकाशाच्चन्द्र-बिन्दुपरिगतं सूत्रं प्रसार्यम् तत् सूत्रं रविकक्षायांलगति तत्सूर्यबिन्दोरन्तरे यावत्यो घटिकास्तावत्यस्तस्मिन्काले लावनघटिका ज्ञेयाः एवंविधे क्षेत्रेऽस्य लम्बनस्यसाधनोपपत्तिर्ग्रहशीघ्रफलवदुत्पद्यते तत्र रविकक्षांकक्षामण्डलं, चन्द्रकक्षां प्रतिमण्डलं, परमलम्बनासुज्याम-न्त्यफलज्यां वित्रिभलग्नं सषड्भं शीघ्रोच्चं प्रकल्प्य शेषाक्रियोह्या एतदानयनं किञ्चित् स्थूलम्” प्रमि० ।अथ नत्यर्थमर्केन्द्वोर्दृक्क्षेपावाह “दृग्ज्यैव या वित्रि-भलग्नशङ्कोः एव दृक्क्षेप इनस्य तावत् सौम्येऽपमेवित्रिभजेऽधिकेऽक्षात् सोम्योऽन्यथा दक्षिणएव वेद्यः चा-पीकृतस्यास्य तु संस्कृतस्य त्रिभोनलग्नोथशरेण जीवा” यि० ।“पूर्वार्द्धं सुगमं प्रागेव व्याख्यातम् सोऽर्कदृक्येपः सौन्योयाम्यो वेति ज्ञानायोच्यते तत्र वित्रिभलग्नखापमे सोम्ये-ऽक्षांशेभ्योऽधिके सति सौम्यो ज्ञेयः इतोऽन्यथा याम्यः ।अथ तस्य दृक्क्षेपस्य धनुः कार्यम् वित्रिभलग्नं चन्द्रंप्रकल्प्य सपाततात्कालिकचन्द्रदोर्ज्येत्येवं विक्षेपः साध्यः ।तेन वित्रिभलग्नविक्षेपेण तद्दृक्क्षेपधनुः संस्कार्य्यम् ए-कदिशोर्योगो मिन्नदिशोरन्तरमित्यर्थः संस्कृतिवशा-च्चन्द्रदृक्क्षेपस्य दिक् तस्य जीवा दृक्क्षेप इन्दोरिव्यग्रेसम्बन्धः अत्रोपपत्तिः वित्रिभलग्नं क्रान्तिवृत्ते तद्भ्र-मवशात् कटाचिद्दक्षिणोत्तरवृत्तात् पर्व्यतः कदाचित् प-श्चिमतो भवति यद्युदयलग्नमुत्तरगेलेतद पूर्व्वतो भवति ।तदन्यथा पश्चिमत इत्यर्थः खार्धाद्वित्रिभलग्नोपरिगतंदृक्क्षेपमण्डल यत्र वित्रिभे लगति तत्खार्द्धान्तरेऽर्क-दृक्क्षेपचापांशाः यत्न विमण्डले लगति तत्खार्धा-न्तरे चन्द्रदृक्क्षेपचापांशाः तज्ज्ये तयोर्दृक्क्षेपौ” ।“यदा कक्षामण्डलं खमध्ये भवति तदा तस्य दृङ्-मण्डलाकारत्वाद्यत्र कुत्र स्थितोऽपि ग्रहो लम्बितोऽपिकक्षामण्डलं त्यजति अतोऽत्रावनतेरभावः यदाखार्धान्नतं वित्रिभलग्नं दक्षिणतः तदा तिरश्ची-नत्वात् क्रान्तिवृत्तस्य तत्रस्थो रविर्दृङ मण्डलगत्या-वलम्बितः क्रान्तिवृत्ताद्दक्षिणतो यावतान्तरेण दृश्यते ताव-ती तस्य नतिः एवं वित्रिभलग्नं यदि खार्धान्नतमुत्त-रतस्तदोत्तरा नतिः एवं चन्द्रस्यापि नतिः किन्तुचन्द्रकक्षामण्डलं विमण्डलमेव कल्प्यस् यमश्चन्द्रो वि-मण्डले भ्रमति अतः स्वार्धाद्विमण्डलं यावता नतंतादृच्चन्द्रदृक्क्षेपस्य चापम् तज्ज्या तद्दृक्क्षेपः एवंदृक्क्षेयवशात् तिरश्चीने स्थिते विमण्डले सति डङ्मण्ड-लगत्याऽयलम्बितस्य चन्द्रस्य विमण्डलेन सह यदकरं द-क्षिणोत्तरं सा चन्द्रनतिस्तस्य दृक्क्षेपादागच्छति” प्रमि० ।“दृक्क्षेपान्नतिसाधनमाह “दृक्क्षेप इन्दोर्निज-मध्यभुक्तितिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ नतो रवीन्द्वोःसमभिन्नदिक्त्वे तदन्तरैक्यं तु नतिः स्फुटाऽत्र” शि० ।“तौ चन्द्रार्कयोर्दृक्क्षेपौ स्वस्वमध्यभुक्तिपञ्चदशांशेन गु-णितौ त्रिज्याभक्तौ फले तयोर्नती भवतः तयोर्नत्योःसमदिशोरन्तरं भिन्नदिशोर्योगो रविग्रहे स्फुटा बतिर्भ-वति अत्रोपपत्तिस्त्रैराशिकेन यदि त्रिज्यातुल्येनदृक्क्षेपेण परमा भुक्तिपञ्चदशांशतुल्या नतिर्लभ्यते तदे-ष्टेन किम् फलं नतिकलाः अथ तयोर्नत्योर्योगवि-योगकारणमुच्यते यस्यां दिशि चन्द्रो नतस्तस्यां दिशियदि रविस्तदा नत्योरन्तरेण चन्द्रार्कयोरन्तरं ज्ञातंभवति यदा भितदिशौ नतौ तदा तयोर्योगेन चन्द्रार्सयो-रन्तरमुच्यते” प्रमि० इदानीं स्फुटनतेरेवासयनभाह ।“दृकक्षेप इन्द्रोर्द्विगुणो विभक्तः क्विन्द्रैः १४१ स्फुटै-वावनतिर्भवेद्वा लघुज्यकोत्थो द्विगुणोऽक्षभक्तः षष्ट्यंश-युक्तोऽवनतिः स्फुटा वा” शि० “चन्द्रस्य दृक्क्षेपो द्विगुणोमूशक्रै १४१ र्भाजितः फलं स्फुटैवावनतिः यदि लघु-ज्यकोत्यो विधुदृक्क्षेपस्तदा द्विगुणः पञ्चभक्तः इति फलंखषष्ट्यंशयुक्तं स्फुटैवावनतिर्भवेत् अत्रोपषत्तिः तत्रस्वल्पान्तरत्वाच्छशिदृक्क्षेपतुल्यमर्कदृक्क्षेपं परिकल्प्यभुक्त्यन्तरपञ्चदशांशेनानुपातः यदि त्रिज्यातुल्ये दृक्-क्षेपे भुक्त्यन्तरपञ्चदशांशमिता स्फुटा नतिर्लभ्यते तदाऽभी-ष्टेऽस्मिन् किमिति अत्र भुक्त्यन्तरपञ्चदशांशो गुणस्त्रि-ज्या हरः गुणकहरौ गुणकार्द्धेनापवर्तितौ जातंगुणकस्थाने द्वयं हरस्थाने क्विन्द्राः १४१ एवंवृहज्ज्यकाभिः लघुज्यकाभिस्तु गुणकस्थाने द्वयं २हरस्थाने किंचिन्न्यूनाः पञ्च ५५ ते सुखार्थंपञ्च कृताः अतस्तत् फलं स्वषष्ट्यंशयुतं कृतम्” प्रमि०इदानीं स्थूले लम्बनावनती सुखार्थमाह “त्रिभो-नलग्नस्य दिनार्धजाते नतोन्नतज्ये यदि वा सुखार्थम् ।दृक्क्षेपशङ्कू परिकल्प्य साध्यं स्वल्पान्तरं लम्बनकंनतिश्च” शि० “त्रिभोनलग्नं चन्द्रं प्रकल्प्य तस्य क्रान्तिःशरश्च साध्यः तेन शरेण क्रान्तिः संस्कार्य्या सा तस्यस्फुटा क्रान्तिः पलावलम्बावपमेन संस्कृतावित्यादिनानतांशा उन्नतांशाश्च कार्य्याः तज्ज्ये वित्रिभलग्नस्य दि-नार्धजाते नतोन्नतज्ये अत्रोन्नतज्यां वित्रिभलग्नशङ्कुंनतजद्रां चन्द्रदृक्क्षेपं परिकल्प्योक्तवल्लम्बनं स्वल्पान्त-रमवनतिश्च सुखार्थं साध्या अत्रोपपत्तिः वित्रिभलग्न-शङ्कोरासन्न एव दिनार्धशङ्कुस्तद्दृग्ज्यासन्नो दृक्क्षेपः” प्रमि० ।इदानीं नतेः प्रयोजनमाह ।“स्पष्टोऽत्र वाणो नतिसंस्कृतोऽस्मात् प्राग्वत् प्रसाध्येस्थितिमर्दखण्डे” शि० “अत्र सूर्यग्रहणे यः पूर्बवच्छरआगच्छति असौ नत्या संस्कृतः सन् स्फुटो भवति ।अत्रैतदुक्तं भवति गणितागतो दर्शान्तकालो लम्बने-नासकृत् स्फुटीकृतः किल ग्रहमध्यकालः तत्र तात्-कालिकं सपातं चन्द्रं कृत्वा विक्षेपः साध्यः अथस्थिरलम्बनकाले यद्वित्रिभलग्नं तस्मादवनतिः साध्या ।तया विक्षेपः संस्कृतः मध्यग्रहणविक्षेपः स्फुटोभवतीत्यवगन्तव्यम् ततो “मानार्धवोगान्तरयोः कृतिभ्याम्”इत्यादिना स्थितिमर्दखण्डे साध्ये अत्रोपपत्तिः ।चन्द्रस्थाने क्रान्तिमण्डलविमण्डलयोन्तरालं विक्षेपः ।चन्द्रो विमण्डले, रविः क्रान्तिमण्डलेऽतस्तयोर्विक्षेपो याम्यो-त्तरमन्तरम् परं यदि भूगर्भस्थो द्रष्टा यदा तु क्वर्धेनो-च्छ्रितो भूपृष्ठस्थस्तदा रविकक्षामण्डलाच्चन्द्रकक्षामण्डल-मधो दृक्क्षेपवशाल्लम्बितं भवति तद्याम्योत्तरभाव्रेन या-वता लम्बितं तावती नतिस्तदग्राच्छंरोऽतस्तया शरे संस्कृतेस्फुटमर्केन्द्वोरन्तरं भवति एव स्फुटशरः यथोक्तं गोले“याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः नतिस्तथातया तस्मात् संस्कृतः स्यात् स्फुटः शरः” शि० ।इदानीं स्पर्शमुक्तिसम्मीलनादिकालार्थमाह “तिथ्यन्ताद्ग-णितागतात् स्थितिदलेनोनाधिकालम्बनं तत्कालीकोत्थनतीषु-संस्कृतिभवस्थित्यर्धहीनाधिके दर्शान्ते गणितागते धनमृणंवा तद्विधायासकृज्ज्ञेयौ प्रग्रहमोक्षसंज्ञसमयावेवं क्रमात्प्रस्फुटौ तन्मध्यकालान्तरयोः समाने स्पष्टेभवेतां स्थिति-खण्डके दर्शान्ततो मर्ददलोनयुक्तात् सम्मीलनोन्मीलन-कालः एवम् सकृत्प्रकारेण विलम्बनं चेत् सकृत् स्फुटो प्र-ग्रहमोक्षकालौ किंत्वत्र वाणावनती पुनश्च तात्कालिका-भ्यां विधुवित्रिभाभ्याम्” शि० “प्रथमं यो गणितागतस्ति-थ्यन्तस्तस्मात् स्थितिदलेनोनाधिकाल्लम्बनं साध्यम् स्पर्शे-स्थितिदलेनोनात्, मोक्षेऽधिकादित्यर्थः अत्र किल स्पर्श-कालः साध्यते तत्र गणितागततिध्यन्तात् स्थित्यर्द्धोनात्प्राग्वल्लम्बनमानीय तदनष्टं स्थापयित्वा तद्गणितागते तिथ्य-न्ते स्थितिदलेनोने धनमृणं वा कार्य्यम् स्थूलःस्पर्शकालः तन्मध्यकालयोरन्तरं स्थूलं स्थित्यर्द्धम् ।तज्जनितफलोनात् समकलेन्दोः शरस्तत्कालवित्रिभकाल-जनितया नत्या संस्क्रतः स्यात् स्फुटविक्षेपात् पुनःस्थित्यर्धम् तेन स्थित्यर्धेन गणितागते दर्शान्ते ऊनेतल्लम्बनं धनमृणं वा कार्य्यम् एवं कृते सति यावान्कालस्तावान् स्पर्शकालः एवममकृदिति स्पर्शमध्य-ग्रहकालयोरन्तरं स्पार्शिकं स्थित्यर्धं ज्ञेयम् स्पर्श-कालात् पुनर्लम्बनमानीयानष्टं स्थाप्यम् अथ स्पार्शिक-स्थित्यर्धघटीफलेन चन्द्रसूनीकृत्य शरः साध्यः
अ-नन्तरातीतवित्रभलग्नान्नतश्च तया स्फुटीकृताच्छरात्पुनः स्थित्यर्द्धम् तेनोनिते गणितागते दर्शान्ते त-ल्लम्बनं धनमृणं वा कार्य्यम् एवं स्फुटः स्पर्शकालः ।असकृदिति यावदविशेषः मौक्षिकार्थं मध्यग्रहकालो-त्थस्थितिः समकालोत्थतिथ्यन्ते योज्या तत्रासकृल्ल-म्बनान्तशरमवस्थित्या गणितागततिथ्यन्तो युतः सा मोक्ष-स्थितिरस्पष्टा तल्लम्बनान्तरशरोत्थस्थित्या वारं वारंपूर्व्वदर्शान्तोयोज्यः एवं स्थिरलम्बनान्तरशरोत्थस्थिति-र्मोक्षस्थितिर्ज्ञेया सैव मौक्षिकम् एवं स्थितिदले-नाढ्याद्गणितागतान्मोक्षकालोऽपि तत्र चन्द्रपाततात्का-लिकीकरणे फलं धनम् एवं मोक्षमध्यग्रहकालयो-रन्तरं मौक्षिकं स्थित्यर्द्धम् एवं मर्ददलेनोनाद्गणि-तागतात् सम्मीलनकालः मर्ददलेन युक्तादुन्मीलन-कालः सम्मीलनमध्यग्रहकालयोरन्तरं प्रथमं स्फुटंमर्दार्द्धम् उन्मीलनमध्यग्रहकालयोरन्तरं द्वितीयम् ।यद्यसकृद्विधिना लम्बनं क्रियते तदैवम् यदा पुनःसकृद्विधिना लम्बनं तदा स्पर्शकालो मोक्षकालोऽपि स-कृदेव स्फुटो भवति किन्तु तत्रायं विशेषः स्पर्श-काले मोक्षकाले वा पुनर्वित्रिभलग्नं कृत्वा तस्मान्नतिःसाध्या तया तत्कालभवो विक्षेपः संस्कृतः सन् स्फुटःस्पार्शिकः मौक्षिको वा स्फुटो भवति नचेदेवं तदास्थूलः अत्रोपपत्तिः स्थिंत्यर्धानयने पूर्वो-क्तैव तत्स्फुटीकरणे प्रोच्यते गणितागतो हि दर्शा-न्तकालो मध्यग्रहकालो भवितुमर्हति चन्द्रार्कयो-स्तत्र तुल्यत्वात् स्थित्यर्द्धेनोनो दर्शान्तकालः स्पर्शकालोभवात युतो मोक्षकालः अथ द्रष्टुः क्वर्धोच्छ्रित-त्वाल्लम्बनमुत्पन्नम् अतस्तेन संस्कृतो दर्शान्तो मध्यग्रह-कालः स्फुटो भवति एवं स्पर्शकालोऽपि तत्काल-जनितलम्बनेन संस्कृतः स्फुटो भवितुमर्हति या युक्ति-र्मध्यग्रहणकालस्य लम्बनसंस्कारे सैव स्पर्शमोक्षसम्मील-नोन्मीलनकालानां, किन्तु स्पर्शमोक्षकालस्य लम्बनसंस्कारेक्रियमाणे कालान्यत्वाच्छरः किञ्चिदन्यथा भवति ।नतिश्च किङ्किदन्यादृशी तत्संस्कृतिभवं स्थित्यर्द्धमपिकिञ्चिदन्यादृशम् अतस्तेनोने गणितागते दर्शान्ते तल्ल-म्बनं धनमृणं वा कर्त्तुं युज्यते अत उक्तं तत्का-लोत्थनतीषुसंस्कृतिभवस्थित्यर्द्धहीगाधिक इत्यादि यद्य-सकृद्विधिना लम्बनं तदा पुनः पुनर्लम्बनं नतिश्च तयातत्कालशरः स्फुटः स्थित्यर्धार्थं किल क्रियते तदास्थित्यर्धं स्फुटं भवति तदा तत्कालशरोऽपि स्फुटोभवति एव स्पार्शिकः शर इति वेदितव्यम् यदापुनः सकृद्विधिना लम्बनं तदा पुनःपुनः शरस्य नतेश्चा-करणात् स्पार्शिकः शरः पुनः कर्त्तुं युज्यते अतउक्तं किन्त्वत्र वाणावनती पुनश्च तात्कालिकाभ्यां विधु-वित्रिभाभ्यामिति” प्रमिताक्षरा ।इदानीं विशेषमाह ।“शेषं शशाङ्कग्रहणोक्तमत्र स्फुटेषुजेन स्थितिखण्ड-केन हतोऽथ तेनैव हृतः स्फुटेन बाहुः स्फुटः स्याद्-ग्रहणेऽत्र भानोः ग्रासाच्च कालानयने फलं यत् स्फु-टेन निघ्नं स्थितिखण्डकेन स्फुटेषुजेनासकृदुद्धृतं तत्स्थित्यर्द्धशुद्धं भवतीष्टकालः” इति शिद्धान्तशिरोमणिः ।“अत्र रविग्रहणे विम्बवलनभुजकोट्यादीनामानयनंश-शाङ्गग्रहणोक्तवत् वेदितव्यम् किं त्वत्र भुजसाधने विशेषःअत्र पूर्वानयनेन यो भुज आगच्छति असौ तत्कालस्फु-टशरजनितेन स्थित्यर्धेन गुण्यः स्फुटेन स्थितिखण्डकेनभाज्यः स्पर्शमध्यकालयोरन्तरेण भाज्यः इत्यर्थः फलंस्पटो भुजो भवति” “ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृत्यारहितात् पदं यत् गत्यन्तरांशैर्विहृतमिति” यत् फलंलभ्यते तस्य स्फुटीकरणम् तत् फलं स्फुटेन स्थित्य-र्धेन स्पर्शमध्यकालयोरन्तरेण गुणितं तत्कालस्फुटशरजनितेन स्थित्यर्धेन भक्तं स्फुटं भवति तत् स्वस्थित्यद्धच्छुद्धमिष्टकालो भवति स्पर्शादग्रतो मोक्षात् पृष्ठतः तस्मिन् काले नतिसंस्कृतं शरं पुनः कृत्वा ग्रासोनमानैक्यदलस्य वर्गाद्विक्षेपकृत्येत्यादिना फलं साध्यम्तत् फलं पुनः स्फुटं कर्त्तव्यम् एवं यावदिष्टकालः-स्फुटो भवति तावदसकृत्कर्म अत्रोपपत्तिः भुजा-नयने पूर्वोक्तैव तत्स्थुटीकरणे प्रोच्यते यथा चन्द्र-ग्रहणे स्थित्यर्धं शरमानैक्यार्द्धयोर्वर्गान्तरादुद्भूतं तथेहा-प्यानीतम् तदस्फुटम् लम्बनसंस्कारे कृते स्पर्शमध्यग्र-हकालयोरन्तरं तत् स्फुटं स्थित्यर्द्धम् लम्बनान्तरसंस्कृ-तमित्यर्थः भुजो हि स्थित्यर्द्धसम्बन्धेनागच्छति ययाचन्द्रग्रहे मध्यममेव स्थित्यर्द्धम् तत्सम्बन्धेन यादृशोभुजस्तत्रागच्छति तादृशेतेहापि भवितव्यम् वासनाया-स्तुल्यत्वात् अथ “वीष्टेन निघ्नाः स्थितिखण्डकेनेत्येबम्”यदानीयते तदा स्फुटस्थित्यर्धं वीष्टं कृत्वा गुणक आनीयतेतदा स्फुटस्थित्यर्धसम्बन्धी भुजः स्यात् असावसम्यक् ।अतस्तस्य तत्कालस्फुटशरजनितस्थित्यर्द्धसम्बन्धीकरणायानु-पातः यदि स्फुटस्थित्यर्धेनैतावान् भुजस्तदा तत्कालज-नितस्फुटशरभवस्थित्यर्द्धेन किमिति फलं स्फुटो भुजोभवति एतदेव विपरीतं कर्म ग्रासात् कालानयने ।“ग्रासोनमानैक्यदलस्य वर्गात्” इत्यादिना यत् फलमाग-च्छति तन्मध्यमं स्थित्यर्धं वीष्टम् तत् स्फुटस्थित्यर्धा-द्यावद्विशोध्यते तावदसम्यागष्टं भवति अतस्तस्य फलस्यस्फुटस्थित्यर्द्धपरिणामायानुमातः यदि मध्यमस्थित्यर्धे-नैतावत् फल तदा स्फुटस्थित्यर्द्धेन कियदिति अत्र यल्लभ्यते स्फुटं फलं तस्मिन् स्फुटस्थित्यर्धाच्छोधिते स्फुटमिष्ट-मवशिष्यतः” इति प्रमिताक्षरा ।वृहत्संहितायांग्रासप्रकारस्तद्भेदास्तत्फलानि चोक्तानि यथा“अमृतास्वादविशेषाच्छिन्नमपि शिरः किलासुर-स्येदम् प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ।इन्द्वर्कमण्डलाकृतिरसितत्वात् किल दृश्यते गगने ।अत्यत्र पर्वकालाद् वरप्रदानात् कमलयोनेः मुखपुच्छ-विभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्ये कथयन्त्यमूर्त्त-मपरे तमोमयं सैंहिकेयाख्यम् यदि मूर्त्तो भविचारीशिरोऽथवा भवति मण्डली राहुः भगणार्धमन्तरितोगृह्णाति कथं नियतचारः अनियतचारः खलु चेद्उपलब्धिः सङ्ख्यया कथं तस्य पुच्छाननाभिधानीऽन्त-रेण कस्मान्न गृह्णाति अथ तु भुजगेन्द्ररूपः पुच्छेनमुखेन वा गृह्णाति मुखपुच्छान्तरसंस्थं स्थगयतिकस्मान्न भगणस्यार्द्धम् राहुद्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथवोदिते चन्द्रे तत्समगतिनान्येन ग्रस्तः सूर्योऽपिदृश्येत भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः ।प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्घात् वृक्षस्यस्वच्छाया यथैकपार्श्वेन भवति दीर्घा निशि निशितद्वद् भूमेरावरणवशाद्दिनेशस्य सूर्य्यात् सप्तमराशौ यदिचोदग्दक्षिणेन नातिगतः चन्द्रः पूर्वाभिमुखश्छाया-मौर्वीं तदा विशति चन्द्रोऽधःस्थ स्थगयति रविमम्बु-दवत् समागतः पश्चात् प्रतिदेशमतश्चित्रं दृष्टिवशाद्भा-स्करग्र हणम् आवरणं महदिन्दोः, कुण्ठविषाणस्ततो-ऽर्द्धसंछन्नः स्वल्पं रवेर्यतोऽतस्तीक्ष्णविषाणो रविर्भवति ।एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिराचार्य्यैः राहु-रकारणमस्मिन्नित्यक्तः शास्त्रसद्भावः योऽसावमुरो राहु-स्तस्य वरो ब्रह्मणायमाज्ञप्तः आप्यायनमुपरागे दत्त-हुतांशेन ते भविता तस्मिन् काले सान्निध्यमस्य तेनो-पचर्य्यते राहुः याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्य्यतेतेन कथञ्चिदपि निमित्तैर्ग्रहणं विज्ञायते विना-तैस्तु अन्यस्मिन्नपि काले भवन्त्यथोत्पातरूपाणि पञ्चग्रहसंयोगान्न किल ग्रहणस्य सम्भवो भवति तैर्न चविनाऽष्टम्यां विचिन्त्यमिदं विपश्चिद्भिः अवनत्यार्केग्रासो दिग्ज्ञेया वलनयावनत्या च” अथ वेलाभेदे फलम् ।“तिथ्य वसानाद्वेला करणे कथितानि तानि मयाः सण्मा-सोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः ब्रह्मशशीन्द्र-कुबेरा वरुणाग्नियमाश्च विज्ञेयाः ब्राह्मे द्विजपशुवृद्धि-क्षेमा रोग्याणि शस्यसम्पच्च तद्वत् सौम्ये तस्मिन् पीडाविदुषामवृष्टिश्च ऐन्द्रे भूपविरोधः शारदशस्यक्षयो चक्षेमम् कौबेरेऽर्थपतीनामर्थविनाशः सुगिक्षं ।वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम आग्नकंमित्राख्यं सस्यारोग्याभयाम्बुकरम् याम्यं करोत्यवृष्टिंदुर्भिक्षं सङ्क्षयं सस्यानाम् यदत परं तदशुभं क्षुन्मारावृष्टिदं पर्त वेलाहोने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च ।अतिवेले कुमुमफलक्षयो भयंसस्यनाशश्च हीनातिरिक्तकालेफलमुक्तं पूर्वशास्त्रदुष्टत्वात्” ।अथ एकमासे ग्रासद्भयस्य ग्रासभेदस्य फलम् ।“स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवति ।यद्येकस्मिन् मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः ।स्वबलक्षोभैः सङ्क्षयमायान्त्यतिशस्त्रकोपैश्च ग्रस्ता-वुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ सर्वग्रस्तौदुर्भिक्षमरकदौ पापसंदृष्टौ” अथ दिनाद्यंशभेदे ग्रासफलम् ।“अर्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च ।अग्न्युपजीविगुणाधिपविप्राश्रमिणोऽयुगाभ्युदितः कर्ष-कपाषण्डिवणिक्क्षत्रियबलनायकान् द्वितीयेऽंशे कारुक-शूद्रम्लेच्छान् खतृतीयांशे समन्त्रिजनान् मध्याह्नेनरपतिमध्यदेशहा शोभनश्च धान्यार्घः तृणभुगमात्या-न्तःपुरवैश्यध्नः पञ्चमे खांशे स्त्रीशूद्रान् षष्ठेऽंशेद-स्युप्रत्यन्तहाऽस्तमयकाले यस्मिन् खांशे मोक्षस्तत्प्रोक्ता-नां शिवं भनति” ।अथायनादिभेदे फलम् “द्विजतृपतीनुदगयने विट्छूद्रान्दक्षिणायने हन्ति राहुरुदगादिदृष्टः प्रदक्षिणं हन्तिविप्रादीन् म्लेच्छान् विदिक्स्थितोध्वयायिनश्च हन्या-द्धुताशसक्तांश्च सलिलचरदन्तिघातो याम्येनोदग्गवाम-शुभः पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः ।पश्चात्कर्षकसेवकवीजविनाशाय निर्द्दिष्टः पाञ्चाल-कलिङ्गशूरसेनाः काम्बोजोड्रकिरातशस्त्रवार्त्ताः”अथ मेषादिराशौ ग्रासफलम् “जीवन्ति चयेहुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थे गोपाःपशवोऽथ गोमिनो मनुजा ये महत्त्वमागताः ।पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽथवा वृषे मिथुनेप्रवराङ्गना नृपा नृपमात्रा बलिनः कलाविदः यमुनातटजाः सवाह्लिका झषगाः सुह्मजनैः समन्विताः ।आभीराञ्छवरान् सपह्लवान् सह मल्लांन् मत्स्यकरूञ्छ-कानपि पाञ्चालान्विकलांश्च पीडयत्यन्नं चापि निहन्तिकंर्कटे सिंहे पुलिंन्दगणमेकलसत्वयुक्तान् राजोपमान्नरप-तीन् वनगोचरांश्च षष्ठे तु सस्यकविलेखकगेयसक्तान्हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् तुलाधरेऽवन्त्यपरा-न्तसाधून् बणिगदशार्णान मरुकच्छपांश्च अलिन्यथोदुम्ब-रमद्रचांलान द्रमान् सयौधेयविषायुधीयान् धन्विन्यमा-त्यवरवाजिविदेहमल्लान् पाञ्चालवैद्यबणिजो विषमायुध-ज्ञान् हन्यान्मृगे तु झषमन्त्रिकलानि नीचान् मन्त्रौष-धिषु कशलान् स्थविरायुधीयान् कुम्भोऽन्तर्गिरिजाग् सपश्चिमजनाम् भारोडहांस्तस्करान् आभोरान्दरदार्णसिंह-पुरकान्हन्यात्तथा बर्ब्बरान् मीने सागरकूलसागरज-लद्रव्याणि मान्यात् जनान् प्राज्ञान् वार्य्युपजीविनश्च भफलंकूर्म्मोपदेशाद्वदेत्” ताराफलं कूर्म्मविभागशब्दे वक्ष्यते ।अथ ग्रासभेदनामतत्फले “सव्यापसव्यलेहग्रसन-निरोधावमर्दनारोहाः आघ्रातं मध्यतमस्तमोऽन्त्य इतिते दश ग्रासाः सव्यगते तमसि जगज्जलप्लुतंभवति मुदितमभयं अपसर्व्ये नरपतितस्कराव-मर्दैः प्रजानाशः जिह्वेव लेढि परितस्तिमिरनुदोमण्डलं यदि लेहः प्रमुदितसमस्तभूता प्रभूततोयाच तत्र मही ग्रसनमिति यदा त्र्यंशः पादो वागृह्यतेऽथवाप्यर्द्धम् स्फीतनृपवित्तहानिः पीडा चस्फीतदेशानाम् पर्य्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतंतमस्तिष्ठेत् निरोधो विज्ञेयः प्रमोदकृत् सर्व्वभूता-नाम् अवमर्दनमिति निःशेषमेव सञ्छाद्य यदि चिरंतिष्ठेत् हन्यात् प्रधानदेशान् प्रधानभूपांश्च तिमिरमयः ।वृत्ते ग्रहे यदि तमस्तत्क्षणमावृत्य दृश्यते भूयः आरोहणमित्यन्योऽन्यमर्दनैर्भयकरं राज्ञाम् दर्पण इवैक-देशे सवाष्यनिःश्वासमारुतोपहतः दृश्येताघ्रातं तत् सु-वृष्टिवृद्ध्यावहं जगतः मध्ये तमः प्रविष्टं वितमस्कं म-ण्डलं यदि परितः तन्मध्यदेशनाशं करोति कुक्ष्या-मयभयं पर्य्यन्तेष्वतिबहुल स्वल्प मध्ये तमस्तमोऽन्त्या-ख्यम् सस्यानामीतिभयं भयमस्मिंस्तस्कराणां च” ।अथौत्पातिकराहुवण्णैभेदे फलम् “श्वेते क्षेमसुभिक्षंब्राह्मणपीडां निर्दिशेद्राहौ अग्निभयमनलवर्णेपीडा हुताशवृत्तीनाम् हरिते रोषोल्वणतासस्यानामीतिभिश्च विध्वंसः कपिले शीघ्रगसत्वम्लेच्छ-ध्वंसोऽथ दुर्भिक्षम् अरुणकिरणानुरूपे दुर्भिक्षावृष्टयोविहगपीडा आधूम्रे क्षेमसुभिक्षमादिशेन्मन्दवृष्टिं ।कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् कापोतःशूद्राणां व्याधिवरः कृष्णपर्णश्च विमलकमणिपीताभोवैश्यघ्वंसी भवेत् सुभिक्षाय सार्चिष्मत्यग्निभयं गौरिकरूपेतु युद्धानि दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशे-न्मरकम् अशनिभयसम्प्रदायी पाटलकुसुमोपमो-राहुः पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च ।बालरविकमलसुरचापरूपभृच्छस्त्रकोपाय शिरोमण्युक्तोग्रासभेदे ग्रासवर्णभेदस्तु स्वाभाविक इन्दविरोधः ।अथ ग्रहभेदैर्दर्शने फलभेदः “पश्यन् ग्रस्तंसौम्यो घृतमधुतैलक्षयाय राज्ञां भौमः सम-रविमर्दं शिखिकोपं तस्करभयं शुकः सस्य-विमर्दं नानाक्लेशांश्च जनयति धरित्र्याम् रविजकरोत्यवृष्टिं दुभिक्षं तस्करभयं यदशुभमवलोकना-भिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा सुरपति-गुरुणावलोककृकं तच्छुममुपयाति जलैरिवाग्निरिद्धः” ।अय ग्रासोत्तरषण्मासाभ्यन्तरे पुनर्ग्रासे भूकम्पादौ स-पातेन्दुना सूर्यस्येव भौमादिपञ्चकस्याप्याच्छादसम्भवेन त-थात्वे ओत्पातिकं ग्रहणं तेष्वनिष्टफलानि चोक्तानि यथा“ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषटकपरिवृद्ध्यापवनोल्कपातरजःक्षितिकम्पतमोऽशनिनिपातैः आवन्तिकाजनपदाः कावेरीनर्मदातटाश्रयिणः दृप्ताश्च मनुजपतयःपीड्यन्ते क्षितिसुते ग्रस्ते अन्तर्वेदीं सरयूं नेपालं पूर्व्व-सागरं शोणम् स्त्रीनृपयोधकुमारान् सह विद्वद्भि-र्बुधो हन्ति ग्रहणोपगते जीवे विद्वन्नृपमन्त्रिगजहय-ध्वंसः सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां ।भृगुतनये राहुगते दसेरकाः सेकैकयाः सयौधेयाः आ-र्य्यावर्त्ताः शिवयः स्त्रीसचिवगणाश्च पीड्यन्ते सौरे मरुभव-पुष्करसौराष्ट्रा धाबतोऽर्वुदान्त्यजनाः गोमन्तपारियात्राश्रिताश्च नाशं व्रजन्त्याशु” ।अथ मासभेदे ग्रासफलम् “कार्त्तिक्यामनलोपजीविम-गधान् प्राच्याधिपान् कोशलान् कल्माषानथ सूरसेनस-हितान् काशीं न्तापयेत् हन्याच्चाशु कलिङ्गदेशनृ-पतिं सामात्यभृत्यं तमो दृष्टं क्षत्रियतापदं जनयति क्षेमंसुभिक्षान्वितम् काश्मीरकान् कोशलकान् सपुण्ड्रान्मृगांश्च हन्यादपरान्तकाश्च ये सोमपास्तांश्च निहन्तिसौमे (मार्गे) सुवृष्टिकृत् क्षेमसुभिक्षकृच्च पौषे द्विजक्षत्र-जनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः ध्वंसंव्रजन्त्यत्र मन्दवृष्टिं भयं विन्द्यादसुभिक्षयुक्तम् ।माघे तु मातृपितृभक्तवसिष्ठगोत्रान् साध्यायधर्मनिरतान्करिणस्तुरङ्गान् वङ्गाङ्गकाशिमनुजांश्च दुनोति राहुर्वृष्टिंच कर्षकजनानुमतां करोति पीडाकरं फाल्गुनमासि पर्ववङ्गाश्मकावन्तकमेकलानाम् नृत्यज्ञसस्यप्रवराङ्गनानां धनुष्करक्षत्रतप्रस्विनां चैत्रे तु चित्रकरलेखकगेयस-क्तान् रूपोपजीविनिगमज्ञहिरगयपगयान् पौण्डोड्रकैकयजनानथ चाश्मकांश्च ताप स्पृशत्थमरपोऽत्र वित्रित्र-वर्षी वैशाखमासि ग्रहणे विनाशमायान्ति कर्पासतिलाःसमुद्गाः इज्ञ्वाकुयोधेयशकाः कलिङ्गाः सोपद्रवाः किन्तुसुभिक्षमस्मिन् ज्यैष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानिवृष्टिश्च महागणाश्च प्रध्वंसमायान्ति नराश्च सौम्याःसाल्वैः समेताश्च निषादसङ्घाः आषाढपर्वण्युदप्रानव-प्रनदीप्रवाहान् फलमूलवार्त्तान् गान्धारकाश्मीरपुलि-न्दचीनान् हतान् वदेन्मण्डलवर्षमत्यिन् काश्मी-रान् सपुलिन्दचीनयवनान् हन्यात् कुरुक्षेत्रकान्गान्धारानपि मध्यदेशसहितान् दृष्टो ग्रहः श्रावणे ।काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तानिमान्अन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करत्यावृताम् कलिङ्ग-वङ्गान् मगधान् सुराष्ट्रान् म्लेच्छान् सुवीरान् वरदाञ्छ-कांश्च स्त्रीणां गर्भानसुरो निहन्ति सुभिक्षकृद्भाद्रपदेऽ-भ्युपेतः काम्बोजचीनयवनान् सह शल्यहृद्भिर्वाह्लीक-सिन्धुतटवासिजनांश्च हन्यात् आनर्त्तपौण्ड्रभिषजश्च तथाकिरातान् दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृच्च” ।अथ मोक्षभेदनामतत्फलानि “हनुकुक्षिपायुभेदाद्विर्द्विःसञ्छर्दनं जरणं मध्यान्तयोश्च विदरणमिति दशशशिसूर्य्ययोर्मोक्षाः आग्नेय्यामपगमनं दक्षिणहनुभेद-संज्ञितं शशिनः सस्यविमर्दो मुखरुग् नृपपीडा स्यात्सुवृष्टिश्च पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी ।मुखरोगं शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षञ्च दक्षि-णकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन्मोक्षः पीडानृपपुत्राणामभियोज्या दक्षिणा रिपवः वामस्तु कुक्षि-भेदो यद्युत्तरमार्गसंस्थितो राहुः स्त्रीणां गर्भविपत्तिःसस्यानि तत्र भध्यानि नैरृतवायव्यस्थौ दक्षिणवामौतु पायुभेदौ द्वौ गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयोवामे पूर्व्वेण ग्रहणं कृत्वा प्रागेव चापसर्पेत स-ञ्छर्दनमिति तत् क्षेमसस्यहार्दिप्रदं जगतः प्राक्प्रग्र-हणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् क्षुच्छस्त्र-भयोद्विग्नाः क्व शरणमुपयान्ति तत्र जनाः मध्येयदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम अन्तःको-पकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् पर्य्यन्तेषु वि-मलताबहुलं मध्ये तमोऽन्तदरणाख्यम् मध्याख्यदेश-नाशः शारदसस्यक्षयश्चास्मिन् एते सर्वे मोक्षा वक्तव्याभास्करेऽपि किन्त्वत्र पूर्वा दिक्शशिनि यथा तथारवौ पश्चिमा कल्प्या” ।अथ ग्रासोत्तरं सप्तदिनमध्ये पांशुपातादौ फलम् ।“मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नसंक्षयं कुरुते ।नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ।उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम् ।स्तनितं गर्भविनाशं विद्युन्नृपदंडिपरिपीडाम् परि-वेषो रुक्पीडां दिग्दाहो नृपभयं साग्निभयम् ।रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते निर्घातः सुर-चापं दण्डश्च क्षुद्भयं सपरचक्रम् ग्रहयुद्धं नृपयुद्धं केतुश्चतदेव संदृष्टः अविकृतसलिलनिपाते सप्ताहान्तःसुभिक्षमादेश्यम् यच्चाशुभं ग्रहणजं तत् सर्वं नाश-मुपयाति सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहो-ऽर्कस्य तत्रानयः प्रजानां दम्पत्योर्वैरमन्योऽन्यम् ।अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः ।नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव” वृ० स० ।ज्यो० त० “रविभौमनवांशे तु निरभ्रं ग्रासमादिशेत्बुधसौरिनवांशे तु मलिनं क्षुद्रवर्षणम् गुरोरंशकमा-साद्य दृश्यते सवलाहकः शशिशुकनवांशे तु प्रावृढ्-काले महज्जलम् अन्यत्राव्यक्तभूतौ तौ दृश्येते छादि-ताम्बरौ” “अन्यत्र वर्षेतरत्र तौ चन्द्रार्कौ ।एवं ग्रहणस्य कालभेदेन शुभाशुभसूचकत्वे सामान्यतः स्थितेइदानीं व्यक्तिभेदेन जन्मादिराशिभेदेन ग्रहणस्य दर्शननिषेध-स्तत्फलञ्चोच्यते राजमा० “सप्ताष्टजन्मशेषेषु (१२) चतुर्थेदशमे तथा नवमे तथा चन्द्रे कुर्य्याद्राहुदर्शनम् ।श्रीपतिव्यवहारनिर्णये वशिष्ठः “जन्मभे जन्मराशौ षष्ठा-ष्टमगते तयोः चतुर्थे द्वादशे चन्द्रे कुर्य्याद्राहुदर्शनम् ।ग्रासदर्शनमात्रेण चार्थहानिर्महद्भयम् जायते नात्रसन्देहस्तस्मात्तत्परिवर्जयेत्” “जन्मनंक्षत्रापेक्षया षष्ठेसप्तमे अर्थात् निधन तारायाम्” ज्यो० रघु० “जन्मसप्ता-ष्टरिप्फाङ्कदशमस्थे निशाकरे दृष्टोरिष्टप्रदोराहु-र्जन्मर्क्षे निधनेऽपि च” “वैनाशिक ऋक्षे दृष्टं ग्रहणंसुधांशुभास्करयोः जनयति रोगं बहुधा क्लेशं वित्त-क्षयं चाशु” वराहः तच्छान्तिरप्युक्ता ज्यो० त० तत्रैव“जन्माष्टजायान्त्यखधर्मसंस्थे निशाकरे जन्मसु तार-कासु दृष्ट्वा तमश्चन्द्रमसं प्रयत्नादभ्यर्च्च्य दद्यात्कनकं द्विजाय” चन्द्रमसमित्युपलक्षणं चन्द्रग्रहेचन्द्रं सूर्य्यग्रहे सूर्य्यमभ्यर्च्च्योत्यर्थः” ज्यो० रघुनन्दनः ।ग्रहणं स्वराशेः स्थानभेदेन शुभादिसूचकं यथाह ज्यो-तिषे “त्रिषड्दशायोपगतं नराणां शुभप्रदं स्याद्ग्रहणंरवीन्द्वोः द्विसप्तनन्देषुषु मध्यमं स्याच्छेषेष्वनिष्टं कथितंमुनीन्द्रैरिति” पृथ्वीचन्द्रोदये विष्णुधर्म्मे “यन्नक्षत्रगतो-राहुर्ग्रसते शशिभास्करौ तज्जातानां भवेत्पीडा ये नराःशान्तिवर्ज्जिताः” तत्रैव पुरा० “सूर्य्यस्य संक्रमोवापिग्रहणं चन्द्रसूर्य्ययोः यस्य त्रिजन्मनक्षत्रे तस्य रीगो-ऽथवा मृतिः तस्य दानं होमं देवार्चनजपौतथा उपरागाभिषेकं कुर्याच्छान्तिर्भविष्यति ।स्वर्णेन वाथ पिष्टेन कृत्वा सर्पस्य चाकृतिम् ब्राह्मणायददेत्तस्य रोगादिश्च तत्कृतः” त्रिजन्मनक्षत्रम्जन्मदशमैकोनविंपति तारा इति सर्पस्य तदाकारस्य राहो-रित्यर्थः अद्भुतसागरे भार्गवः “यस्य राज्यस्य नक्षत्रेस्वर्भानुरुपरज्यते राज्यभङ्गं सुहृन्नाशं मरणं वात्रनिर्द्दिशेत्” तच्छान्तिश्च निर्णयसिन्धौ दर्शिता तत एवावगग्याचन्द्रार्कयोर्ग्रहणे यस्य पुंसोदर्शनं पर्य्युदस्तं तस्यैवश्राद्धाद्यधिकार इति ति० त० रघुनन्दनेन समर्थितं यथा“ननु ज्योतिःशास्त्राद्युक्त निषेधो हिंसावद्यादृच्छिकपरो-ऽस्तु तु वैधपरः मैवम् “राहुदर्शनसंक्रान्तिविवाहात्यय-वृद्धिषु स्नानदानादिकं कुर्युर्निशि काम्यव्रतेषु च”इति देवलवचने दर्शनपदश्रवणाद्दर्शने सति स्नानादेर्म-हाभ्युदयहेतुत्वाद्दर्शनमपि विधेयम् तथा संवत्-सरप्रदीपे मार्कण्डेयः “एकरात्रमुपोष्यैव राहुं दृष्ट्वाऽक्षयं नरः पुण्यमाप्नोति कृत्वा दानं श्राद्धं विधा-नतः” ततश्च तस्यैव प्रकृतत्वेनोपस्थितस्य वैधदर्शनस्यपर्युदासो तु रागप्राप्तदर्शनस्य निषेधोऽप्रकृतत्वेनानुप-स्थितेः एवञ्च पदार्थान्तर साकाङ्क्तविशेषविधिमपहायतंदितरत्र सामान्यमन्वेतीति सर्वत्र पदाहवनीयादौ सामा-न्यस्य विशेषेतरपरत्वे वीजम् यथा “अहरहर्दद्यात्” इति“दीक्षितो ददातीति” प्रतिषेधात् दीक्षितेतरपरं राग-प्राप्तनिषेधकम् तदुक्तं “त्रिधैव ज्ञायते कर्त्ता विशेषेणप्रतिक्रियम् योग्यत्वं प्रतिषिद्धत्वं विशेषणप्रदान्वयैः”“यजमानः पठतीति श्रुत्या तद्योग्योविद्वान्, दीक्षितो नददातीति प्रतिषधाद्दीक्षितेतरः, “स्वर्गकामोऽग्निष्टोमेनयजेत” इत्यत्र विशेषणात् स्वर्गकामः कर्त्तेति तेनसप्तमचन्द्रादीतरो राहुं दृष्ट्वा स्नायादिति लभ्यते ।एवं वैघदर्शनपर्युदासेऽपि निन्दाप्रायश्चिचयोः श्रवणाद्रा-गप्राप्तदर्शनस्य प्रसज्यप्रतिषेषः ऋत्वभिगमननियमे पर्वणःपर्युदस्तत्वेऽपि तत्र रागप्राप्तगमनस्व प्रसज्यप्रतिषेधवदिति”तदेतन्निर्ण्णयसिन्धुकृता निराकृतं यथा “केचिद्बौद्ध-तुल्या राहुग्रहणस्य निमित्तत्वेन तन्निश्चयस्य प्रयो-जकत्वात् ज्योतिःशास्त्रादिना जातस्य ज्ञानस्य निमि-त्तत्वे प्राप्तेऽपि “स्नानं दानं तपः श्राद्धमनन्तं रा-हुदर्शने चन्द्रसूर्योपरागे तु यावद्दर्शनगोचर इति जा-बाल्यादिवचनेषु दृशिप्रयोगाच्चाक्षुवज्ञानस्यैवोपसंहारन्या-येन निमित्तत्वम् अन्यथा दृशौ लक्षणा स्यात् तेनमेघाच्छादने ऽन्धादीनां, जन्मसप्ताष्टेत्यादिनिषिद्धदर्श-नानां स्नानश्राद्धादौ नाधिकार” इति कल्पतरुर-प्याह “दर्शनशब्देन चाक्षुषज्ञानं गृह्यते ज्ञान-मात्रम् अज्ञातस्य निमित्तत्वासम्भवान्निमित्तमहिम्नैव ज्ञा-नलाभेन दशनपदवैयर्थ्यापत्तेः तेन चाक्षुषधीयोग्यःकालः पुण्यः योग्यत्वं प्रयत्नानपनेयचाक्षुषज्ञान-प्रतिबन्धकराहित्यं तेन मेघच्छन्ने योग्यताभावान्न स्नाना-दीति” निर्णयामृतेऽप्येवम् तदेतत्तुच्छम् यदि चाक्षु-षज्ञानं निमित्तं स्यात्तदा “सूर्यग्रहो यदा रात्रौ दिवाचन्द्रग्रहस्तथा तत्र स्नानं कुर्वीत दद्याद्दानं क्वचि-दिति” वाक्यं व्यर्थं स्यात् चाक्षुषज्ञानाभावेन प्राप्त्यभावात् तत्पूर्वकत्वाच्च निषेधस्य चेदं ग्रस्तास्तपरम्रविचन्द्रयोरस्तानन्तरं रात्रिदिवाग्रहत्वादिति वाच्यम्तत्रपदस्य ग्रहपरत्वेऽधिकरणत्वायोगान्निमित्तपरत्वे चतद्ग्रहनिमित्तकस्नानादेरस्तात्प्रागप्यभावापत्तेः अथतत्रेति रात्रिदिने उच्येते वैश्वदेवीतिवद्गुणभूतेअपि तन्न तादृशमन्त्रलिङ्गाभावात् तयोर्निमित्त-त्वेऽधिकरणत्वे वाऽन्यप्रयुक्तस्नानाद्यभावापत्तेश्च किञ्च“नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन नोपरक्तंन वारिस्थम्भमध्यंनभसोगतमिति” मनुवचनं बाध्येत“दृष्टोऽरिष्टप्रदो राहुरित्यादि” चात्र विहिते द-र्शने निषेषाप्रवृत्तिवत्पर्युदसनीयतापि युक्तेति वाच्य-म् दर्शनस्यानुवादेन विधेयत्वाभावात् एतच्चाग्रे व-क्ष्यामः तत्त्वे वा विरुद्धत्रिकद्वयापसेः अस्तु सकृद्दर्शन-विधानेन सङ्कोच इति चेत् “मुक्ति दृष्ट्वा ततः स्नाया-दिति” मुक्तिस्नानेऽपि चाक्षुषज्ञानस्य निमित्तत्वापत्तेःअस्तु किं नश्छिन्नमिति चेत् ग्रस्तास्ते “तयोः परेद्यु-रुदये दृष्ट्वाभ्यवहरेच्छुचिरिति” दर्शनोत्तरं भोजनविधाना-दन्धस्य पूर्ववेधकाल इव यावद्दर्शनं भोजननिषेधापत्तिःमध्येऽन्धीभूतस्य सुतरां यावच्चक्षुःप्राप्त्युपवासप्रसङ्गश्च ।अथान्नलोलुपतया तत्र ज्ञानमात्रं विवक्ष्येत तत् तत्पूर्वमपिनिर्लज्जेन स्वीक्रियताम् एतेन यत्तु कैश्चिदुक्तं स्पर्शस्नानेमुक्तिस्नाने यस्य दर्शनं विहितं तेनैव कार्यं नान्येन क्त्वा-प्रत्ययेन समानकर्त्तृत्वावगतेरिति तन्निरस्तम् का तर्हितस्यगतिः दृशेरुद्देश्यविशेषणत्वाद्ग्रहैकत्ववदविवक्षयार्थतः सिद्ध-ज्ञानमात्रानुवादत्वे सर्वं सुस्थम् अङ्गल्याद्यनादेश्यग्रहव्या-वृत्त्यै वा दर्शनस्यार्थवत्त्वम् चोक्तयोग्यतापि सा-ध्वी दर्शनोत्तरं मेघच्छन्ने योग्यताभावापत्त्या दानाद्य-भावापत्तेः तेन तत्तद्रेखावच्छेदेन ज्योतिःशास्त्रावेद्यत्वमेवयोग्यता किञ्च “रजसोदर्शने नारी त्रिरात्रमशुचिर्भवेत्”इत्यत्राप्यन्धस्त्रीणामाशौचाभावप्रसङ्गः यत्तु वर्द्धमानेनो-क्तम् “ज्ञानोत्तरं ह्यधिकारो ज्ञानकाले, स्नानकालेज्ञानाभावात् एवं दर्शनोत्तरं मुक्तिपर्य्यन्तमस्त्येवयोग्यतेति” तदपि प्रतिज्ञामात्रम् किञ्च ग्रस्तास्ते“तयोः परेद्युरुदये दृष्ट्वाऽभ्यवहरेच्छुचिरित्यादि” वाक्यवैयर्थ्यापत्तिः चाक्षुषज्ञानान्यथानुपपत्त्यैवार्थादुदयेस्नानसिद्धेः ननु मुक्तिस्नाने शास्त्रोयमेव ज्ञानं निमित्तंन चाक्षुषम् “चन्द्रसूर्य्यग्रहे नाद्यात् तस्मिन्नहनिपूर्वतः राहोर्विमुक्तिं विज्ञाय स्नात्वा कुर्वीत भोजनमिति”वृद्धगौतमेन विज्ञायेति ज्ञानमात्रोक्तेः यत्तु “मुक्तिंदृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततःपरमिति” तदपिज्ञानमात्रपरम् “मेघमालादिदोषेण यदि मुक्तिर्न दृ-श्यते आकलय्य तु तं कालं स्नात्वा भुञ्जीत वाग्यतः” ।इति गौडनिबन्धे दर्शनात्” मैवम् अज्ञानस्य निमित्त-त्वाभावेन निमित्तमहिम्नैव ज्ञानलाभे वाक्यवैयर्थ्यात् ।ग्रस्तास्तेऽपि तदापत्तेश्च किञ्च, दर्शनं पुंसोविशेषण-मुपलक्षणं वा, नाद्यः दर्शनावच्छिन्ने काले स्नानतुलादे-र्बाधात् दर्शनविच्छेदे कृतमपि स्नानादि ग्रहणनिमित्तं स्यात् नान्त्यः, “यावद्दर्शनगोचर” इति यावत्पदवैयर्थ्यप्रसङ्गात् दृष्टग्रहणोत्तरमपि स्नानाद्यापत्तेश्च ।ज्ञानपक्षेऽप्येष दोषस्तुल्य इति चेत् मूर्खोऽसि यदिज्ञानवाचकं पदं श्रूयेत ततस्तस्यान्वयो विचार्य्येत ।दृशिस्तु श्रूयत इति वैषम्यात् कथं तर्हि ज्ञानं लभ्यते ।संक्रान्तौ स्नायादिति वदर्थादित्ययेहि अश्रुतत्वादेव-नोद्देश्यविशेषणविवक्षाकृतो वाक्यभेदोऽपि अस्तु तर्हिदृष्टग्रहणं निमित्तमिति चेत् ग्रस्तास्तेऽस्तोत्तरं स्ना-नापत्तेः विशिष्टोद्देशे वाक्यभेदाच्च तवाप्येतत्तुल्य-मिति चेत् “यावद्दर्शनगोचर” इति वचनेन तन्निषेधात् ।तव त्वन्यग्रह इव ग्रस्तास्तेःपि स्यात् किञ्च, दर्शनस्यविधिरनुवादो वा आद्ये ग्रहणोद्देशेन दर्शनविधिरुत-दर्शनविशिष्टस्नानविधिः नाद्यः, ग्रहोद्देशेन स्नान-विधाने दर्शनविधाने वाक्यभेदात् एतेन द्विती-योऽपि परास्तः दर्शनस्य निमित्तत्वेनाविधेय-त्वात् स्नानस्याप्राप्तेः अन्यथा सोमवमनादौप्रसञ्जनविधिः केन वार्य्येत अथ नानावाक्येषु कचि-द्दर्शनविविष्टस्नानविधिः क्वचिच्च प्राप्तदर्शननिमित्ती-कृत्य स्नानमात्रविधिः तन्न, स्नानस्य प्रघानस्य प्राप्तौतदङ्गदर्शनप्राप्तिः, तस्यां निमित्ते सति स्नानमित्यन्यो-न्याश्रयात् एवं दर्शनविधौ सति तन्निमित्तकस्नान-विधिः सति प्रधानस्नानविधौ तदङ्गदर्शनविधिः ।एवमधिकारे प्रयोजकत्वे योज्यम् क्त्वार्थपूर्वकाल-त्वविधौ चास्तेच वाक्यभेदः अन्यथा स्नानोत्तरमपिदर्शनमङ्गं स्यात् द्वितीयः तत्रापि दर्शनग्रहणयोर्निमित्तत्वे स्नानद्वयापत्तेः दर्शनावृत्तौ नैमित्तकावृत्ति-प्रसङ्गात् दर्शनविशिष्टग्रहस्य विशिष्टस्यानुवादे वाक्य-भेदापत्तेः हविरार्त्तिवद्विशिष्टं निमित्तमितिवाच्यं आर्त्तिमात्रस्य हि निमित्तत्वे निमेषाद्या-र्त्तेरपि तत्त्वापत्तेर्न्नैमित्तिकत्वभङ्गाद्युक्तं विशिष्टोद्देश्य-त्वम् इह तु ग्रहणमात्रस्य निमित्तत्वे काचित्क्षतिः तस्माद्दर्शनवाक्यानां ग्रस्तास्तविषयत्वात् अना-देश्यग्रहपरत्वाद्वा ज्ञानस्य चार्थतः प्राप्तेस्तदेव निमि-त्तम् तेन मेघाच्छादनेऽन्धादेश्च स्नानादि भवत्येवे-त्यलं वेदबाह्यैः संलापेन” ।“प्रागुक्तमनुवचनेनोपरक्त दिवाकरदर्शननिषेधः साक्षाद्-दर्शनपरः अतएव ब्रह्मसिद्धान्ते “सर्वैः पटस्थितं वीक्ष्यंस्वच्छतैलाम्बुदर्पणैः ग्रहणं गुर्विणी जातु पश्येत्तुपटं विना” पटदिस्थतयैव ग्रहणदर्शनमुक्तम् ।अत्र पूर्वापरवेधः हेमाद्रौ दर्शितो यथा “त्रयोदश्या-दितो वर्ज्य दिनानां नवकं ध्रुवम् माङ्गल्येषु समस्तेषु ग्र-हणेचन्द्रसूर्ययोः” प्रकारान्तरं तत्रैबोक्तम् “द्वादश्यादितृतीयान्तो वेध इन्दुग्रहे स्मृतः एकादश्यादिकः सौरेचतुर्थ्यन्तः प्रकीर्त्तितः” इदं पूर्णग्रासे, “त्र्यहं खण्डग्रहेतयोरिति” तत्रैवोक्तेः इदञ्च “ग्रस्तास्ते त्रिदिनं पूर्वमितिनारदेन ग्रस्तास्ते विशेषोक्तेर्ग्रस्तास्तभिन्नग्रहणपरम् ।ज्योतिर्निबन्धे च्यवनः ग्रहणोत्पातभं त्याज्यं मङ्गलेषुऋतुत्रयम् यावच्च रविणा भुक्त्वा मुक्तं भं दग्धकाष्ठवत्”चन्द्रार्कग्रहणस्य भूच्छायाचन्द्राभ्यामावरणरूपस्याऽपिअमावास्यासंक्रान्तिकालवत् तत्र स्नानदानादौ बहुपु-ण्यसाधनत्वं स्मृत्यादिषु प्रसिद्धम् तत्रादौ कालमाधवीयेयथा निर्णीतं तत् प्रदर्श्यते वृद्धगार्ग्यः “पूर्णिमाप्रति-पत्सन्धौ राहुः सम्पूर्णमण्डलम् ग्रसते चन्द्रमर्क्वञ्च द-र्शप्रतिपदन्तरे” इति तत्र पर्वणोऽन्तिमोभागः स्पर्शकालःप्रतिपद आद्योभागोमोक्षकालः तदुक्तं ब्रह्मसिद्धान्ते “या-वत्कालः पर्वणोऽन्ते तावान्प्रतिपदादिमः रवीन्दुग्रह-णानेहाः पुण्योमिश्रणाद्भवेदिति” ग्रहणानेहाः राहु-ग्रहणकालः तत्र कर्त्तव्यमाह वृद्धवसिष्ठः “गङ्गातोये चसंप्राप्ते इन्द्रोःकोटी रवेर्दश गवाङ्कोटिप्रदानेन सम्यग्द-त्तेन यत् फलम् गङ्गास्नाने तत् फलं स्याद्राहुग्रस्ते नि-शाकरे दिवाकरे पुनस्तत्र दशसंख्यमुदाहृतमिति” अस्यश्लोकद्वयस्य प्रथमार्द्धमपेक्षितपदाध्याहारेण योजनीयंइन्द्रीर्ग्रहणे संप्राप्ते सति गङ्गातोये अवगाहनं गोको-दिदानसमं भवति रवेर्ग्रहणे ततो दशगुणं फलम् अयमे-वार्थ उपरितनेनार्द्धत्रयेण स्पष्टीकृतः व्यासोऽपि “इन्दो-र्लक्षगुणं पुण्यं रवेर्दशगुणं ततः गङ्गातोये तु संप्राप्तेइन्दोः कोटीरवेर्दश गवाङ्कोटिसहस्रस्य यत् फलं लभ-ते नरः तत् फलं जाह्नवीस्नाने राहुग्रस्ते निशाकरे ।दिवाकरे तु स्नानस्य दशसंख्यमुदाहृतम् चन्द्रसूर्यग्रहे चैवयोऽवगाहेत जाह्नवीम् स्नातः सर्वतीर्थेषु किमर्थमटते म-हीमिति” गङ्गाव्यतिरिक्तमहानदीतोये लक्षगुणदशलक्षगुण-त्वं गङ्गातोये तु कोटिगुणदशकोटिगुणत्वम् ब्रह्मपुराणेऽपि“तिस्रोनद्यो महापुण्या वेणा गोदा जाह्नवी गां हरी-शाङ्घ्रिकात् प्राप्ता गङ्गा इति हि कीर्त्तिताः”हरेः पादादीश्वरस्य शिरसश्च गाम्भूमिं प्राप्ता गङ्गा य-द्यपि जाह्नव्येव तादृशी तु वेणागोदे तथापि छत्रिणोगच्छन्तीति न्यायेन जाह्नव्या सह निर्दिष्टयोस्तयोरपिगङ्गात्वमविरुद्धं यद्वा जाह्नवीजलमेव केनचिन्निमित्तेनब्रह्मगिरिवायुगिर्योरुद्भूतमिति कृत्वा तयोरपि मुख्यमेवगङ्गात्वन्तासु गङ्गासु स्नानं मुख्यं तदसम्भवे नद्यन्तरेषुस्नायात् तदुक्तं महाभारते “गङ्गास्नानं तु कुर्वीत ग्रहणेचन्द्रसूर्ययोः महानदीषु चान्यासु स्नानं कुर्याद्यथावि-धीति” माहानद्यो ब्रह्मपुराणे दर्शिताः “गोदावरी भीम-रथी तुङ्गभद्रा वेणिका तापी पयोष्णी विन्ध्यस्य दक्षिणेतु प्रकीर्त्तिताः भागीरथी नर्मदा यमुना सरस्वतो ।विशोका वितस्ता विन्ध्यस्योत्तरतस्तथेति” महानद्यस-म्भवे जलान्तराण्याह शङ्खः “वापीकूपतडागेषु गिरिप्र-स्तवणेऽपि नद्यान्नदे देवखाते सरसीषूद्धृताम्बुनि ।उष्णोदकेन वा स्नायात् ग्रहणे चन्द्रसूर्ययोरिति” एतत्सर्वमभिप्रेत्याह व्यासः “सर्वं गङ्गासमन्तोय सर्वो ब्रह्म-समो द्विजः सर्वं भूमिसमं दानं ग्रहणे चन्द्रसूर्ययोरिति”उष्णोदकस्यातुरविषयत्वमाह व्याघ्रः “आदित्यकिरणैः पूतंपुनः पूतं वह्निना अतोव्याध्यातुरः स्नायाद्ग्रहणेऽ-प्युष्णवारिणेति” गङ्गातोयमारभ्योष्णोदकान्त्रेषूत्तरोत्तरस्या-नुकल्पत्वमुक्तम् एतदेवाभिप्रेत्योष्णादकादिषु समुद्रजलान्तेषूत्तरोत्तरस्य प्राशस्त्यमाह मार्कण्डेयः “शोतमुष्णोदका-त्पुण्यमपारक्यं परोदकात् भूमिष्ठमुद्धृतात्पुण्यं ततःप्रस्रवणोदकम् ततोऽपि सारसं पुण्यं ततः पुण्यं नदी-जलम् तीर्थतोयं ततः पुण्यंमहानद्यम्बुपावनम् ततस्त-तोऽपि गङ्गाम्बु पुण्यं पुण्यस्ततोऽम्बु धिरिति” मासविशेषे-ण ग्रहणे नदीविशेषो देवीपुराणेऽभिहितः “कार्त्तिके ग्र-हणं श्रेष्ठं गङ्गायमुनसङ्गमे मार्गे तु ग्रहणं प्रोक्तंदेविकायां महामुने पौषे तु नर्मदा पुण्या माघे सन्नि-हिता शुभा फाल्गुने वरणा पुण्या चैत्रे पुण्या सरस्वती ।वैशाखे तु महापुण्या चन्द्रभागा सरिद्वरा ज्यैष्टे तु कौ-शिकी पुण्या आषाढे तापिका नदी श्रावणे सिन्धुनामातु तथा भाद्रे तु चन्द्रिका आश्चिने सरयूः श्रेष्ठा तथापुण्या तु नर्मदेति” ग्रहणविशेषे नदीविशेषस्तत्रैवाभिहितः ।“गोदावरी महापुण्या चन्द्रेराहुसमन्निते सूर्ये राहु-णा ग्रस्ते तमोमूते महामुने! नर्मदातोयसं स्पर्शे कृतकृत्याभवन्ति हीति” स्नानवत् स्मरणादिष्वपि पुण्यमाह “स्मृत्वा-शतक्रतुफलं दृष्ट्वा सर्वाघनाशनम् स्पष्ट्वा गोमेधपुण्यं तु पीत्वासौत्राभणेर्लभेत् स्नात्वा वाजिमखे पुण्यं प्राप्तुयादविचारतःरविचन्द्रोपरागे अयने चोत्तरे तथेति” क्षेत्रविशेषमाह “गङ्गा कनस्वलं पुण्यं प्रयागः पुष्करं तथा ।कुरुक्षेत्रं महापुण्यं राहुग्रस्ते दिवाकरे” इति ग्रहणेश्राद्धं विहितं लिङ्गपुराणे “व्यतीपातक्षणो यावांश्चन्द्र-सूर्यग्रहक्षणः गजच्छाया तु सा प्रोक्ता पितॄणांदत्तमक्षयम्” इति महाभारतेऽपि “सर्वस्वेनापि कर्त्तव्यंश्राद्धं वै राहुदर्शने अकुर्वाणस्तु नास्तिक्यात्पङ्केगौरिव सीदतीति” ऋष्यशृङ्गोऽपि “चन्द्रसूर्य्यग्रहेयस्तु श्राद्धं विधिवदाचरेत् तेनैव सकला पृथ्वीदत्ता विप्रस्य वै करे” इति विष्णुरपि “राहुदर्शनदत्तंहि श्राद्धमाचन्द्रतारकम् गुणवत् सर्वकामीयं पितणामुपतिष्ठते” इति ग्रहणे रात्रावपि स्नानादेर्न निषेधः ।तथा शातातपः “स्नानं दानं तपः श्राद्धमनन्तंराहुदर्शने आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जये-दिति” देवलः “यथा स्नानं दानं सूर्य्यस्य ग्रहणेदिवा सोमस्यापि तथा रात्रौ स्नानं दानं विधी-यते” श्राद्धं प्रकृत्य कूर्म्मपुराणे “नैमित्तिकं तु कर्त्तव्यंग्रहणे चन्द्रसूर्य्ययोः बान्धवानां तु मरणे नारकी स्याद-तोऽन्यथा काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणा-ष्विति” वारविशेषे योगफलातिशयमाह व्यासः “रवि-ग्रहः सूर्य्यवारे सोमे सोमग्रहस्तथा चूडामणिरितिख्यातस्तत्र दत्तमनन्तकम् वारेष्वन्येषु यत् पुण्यं ग्रहणेचन्द्रसूर्य्ययोः तत्पुण्यं कोटिगुणितं ग्रासे चूडामणौस्मृतमिति” अतिथिप्राप्त्यादिवद्ग्रहणस्यापि श्वाद्वकालत्व-माह मार्क्कण्डेयः “विशिष्टे ब्राह्मणे प्राप्ते मूर्य्येन्दुग्र-हणे दिने जन्मर्क्षग्रहपीडासु श्राद्धं कुर्य्यात् तथेच्छ-येति” अत्र श्राद्धं नान्नेन किन्तु हेमादिना तदाहबौधायनः “अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।हेमश्राद्धं संग्रहे कुर्य्याच्छूद्रः सदैवहीति” शाता-तपोऽपि “आपद्यनग्नौ तीर्थे चन्द्रसूर्य्यग्रहे तथा आ-मश्राद्धं प्रकुर्व्वीत हेमश्राद्धमथा पि वेति” अशौचि-नोऽपि ग्रहणे स्नानादि निषिद्धं तथा वृद्धवसिष्ठः“सूतके मृतके चैव दोषो राहुदर्शने तावदेवभवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते” इति इयञ्च शुद्धिःसर्वस्मार्त्तकर्मविषया अविशेषोक्तेः एतदेवाभिप्रेत्य व्याघ्रपा-दाह “स्मार्त्तकर्म्मपरित्यागो राहोरन्यत्र सूतके श्रौतेकर्म्मणि तत्कालस्नातः शुद्धिमवाप्नुयादिति” यत्तुग्रहणनिमित्तमाशौचं तत्स्नानेन निवर्त्त्यन्तदुक्तं ब्रह्म-पुराणे “आशौचं जायते नॄणां ग्रहणे चन्द्रसूर्य्ययोः ।राहुस्पर्शे तयोः स्नात्वा दानादौ कल्पते नरः” इति षड्-त्रिंशन्मतेऽपि “सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।स्नात्वा कर्म्माणि कुवींत शृतमन्नं विवर्ज्जयेदिति” ग्रहणस्यआद्यन्तयोः स्नानं विहितं स्मृत्यन्तरे “ग्रस्यमानेभवेत् स्नानं ग्रस्ते होमो विधीयते मुच्यमाने भवेद्-द्राबं मुक्ते स्नानं विधीयते” होमदानवद्देवार्चनमपिस्नानद्वयमध्ये कार्य्यं तदुक्तं ब्रह्मवैवर्त्ते “स्मानं स्यादु-परागादौ मध्ये होमः सरार्चनमिति” तत्काले स्वा-पादिकं कुर्य्यात् तदुक्तं शिवरहस्ये “सूर्य्येन्दुग्रहणंयावत् तावत् कुर्य्याज्जपादिकम् स्वपेन्न भुञ्जीत-स्नात्वा भुञ्जीत मुक्तयोरिति” मोक्षानन्तरभावि यत् स्नानंतस्य शुद्ध्यर्थतया तत् सचेलं विधेयं तदाह वृद्ध्ववसिष्ठः “सर्वेषामेव वर्ण्णानां सूतकं राहुदर्शने सचेलं तु भवेत् स्नानंसूतकान्नञ्च वर्ज्जरेदिति” ग्रहणकाले ततः पूर्वं वायावत् पक्कं तत्सूतकान्नं तत्तु पश्चादपि भुञ्जीत” ।अत्र विशेषोऽभक्ष्यशब्दे २८० पृ० उक्तस्तत्रावसेयः“आदिमध्यावसानेषु यद्यद्विहितं तस्य फलातिशय उक्तोब्रह्मपुराणे “उपमर्द्दे लक्षगुणं ग्रहणे चन्द्रसूर्य्ययोः ।पुण्यं कोटिगुणं मध्ये मुक्तिकाले त्वनन्तकमिति” अत्रग्रहणे यद्दानं तत् सत्पात्रे कर्त्तव्यं तदुक्तं महा-भारते “अयने विषुवे चैव ग्रहणे चन्द्रसूर्य्ययोः पात्र-भूताय विप्राय भूमिं दद्यात् सदक्षिणामिति” पात्र-लक्षणमाह याज्ञवल्क्यः “न विद्यया केवलया तपसावापि पात्रता यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्त्तित-मिति” पात्रे मुख्यानुकल्पावाह वौवायनः “श्रोत्रियो-ऽश्रोत्रियो वापि पात्रं वाऽपात्रमेव वा विप्रब्रुवोऽपिवा विप्रो ग्रहणे दानमर्हतीति” अह्नि सूर्य्यग्रहणंनिशि चन्द्रग्रहणमिति हि प्रसिद्धिः सर्वजनीना, तादृशेग्रहणे यद्वक्तव्यं तदुक्तं यत्तु कालविपर्य्यासेन ज्ञाप्यमानं ज्योतिःशास्त्रमात्रप्रसिद्धं ग्रहणं तत्र स्नानादिकं नकर्त्तव्यं तदुक्तं निगमे “सूर्य्यग्रहो यदा रात्रौ दिवाचन्द्रग्रहस्तथा तत्र स्नानं कुर्वीत दद्याद्दानं चक्वचिदिति” ग्रस्तास्तमये जावालिराह “संक्रान्तौपुण्यकालस्तु षोडशोभयतः कलाः चन्द्रसूर्य्योपरागे तुतु यावद्दर्शनगोचर” इति ग्रस्तस्यास्तमनपर्य्यन्तं दर्शन-गोचरत्वात् तावत् पुण्यकालो भवति ग्रहणे भोजनव्यवस्था-माह मनुः चन्द्रसूर्य्यग्रहे नाद्यादद्यात् स्नात्वा विमुक्तयोः ।अमुक्तयोरस्तगयोर्दृष्ट्वा स्नात्वा परेऽहनीति” ग्रहे ग्रहणकालेस्पर्शमारभ्य मोक्षपर्यन्तोग्रहणकालः तस्मिन् काले भुञ्जी-त किन्तु राहुणा चन्द्रसूर्ययोर्मुक्तयोः सतोः पश्चात् स्नात्वाभुञ्जीत यदा तु ग्रस्रास्तमयस्तदा परेद्युस्तौ विमुक्तौ दृष्ट्वास्नात्वा भुञ्जीत केवलं ग्रहणकाल एव भोजनाभावः किन्तुग्रहणात्प्रागपि तदाह व्यासः “नाद्यात् सूर्य्यग्रहात् पूर्बमह्नि सायं शशिग्रहात् ग्रहकाले नाश्रीयात् स्रात्वाश्नी-याद्विमुक्तयोः मुक्ते शशिनि भुञ्जीत यदि स्यान्महानिशा ।अमुक्तयोरस्तगयोरद्यात् दृष्ट्वा परेऽहनीति” पूर्बकाले भोज-ननिषेधे विशेषः अभक्ष्यशब्दे २८० पृ० उक्तस्तत्रावसेयः ।“समर्थस्य भोजने प्रायश्चित्तमुक्तं कात्यायनेन “चन्द्रसूर्य्य-हे भुक्त्वा प्राजापत्येन शुध्यति” ग्रस्तास्तसमये विशेषमाह भृगुः“ग्रस्तावेवास्तमानं तु रवीन्दू प्राप्नुतोयदि परेद्युरुदये दृष्ट्वास्नात्वाभ्यवहरेन्नरः” इति वृद्धगार्ग्योऽपि “सन्ध्याकाले यदाराहुर्ग्रसते शशिभास्करौ तदहर्नैव भुञ्जीत रात्रावपिकदाचनेति” विष्णुधर्मोत्तरेऽपि “अहीरात्रं भोक्तव्यंचन्द्र सूर्य्यग्रहो यदा मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वाततः परमिति” ननु मेघाद्यन्तर्धाने चाक्षुषदर्शनंन सम्भवतीतिन दर्शनशब्देन शास्त्रीयज्ञानस्य विवक्षितत्वात् तदाह वृद्धगौतमः “चन्द्रसूर्य्यग्रहे नाद्यात्तस्मिन्नहनि पूर्बतः तयोर्वि-मुक्तिं विज्ञाय स्नात्वा कुर्वीत भोजनमिति” एवं तर्हि परेद्युरुदयात् प्रागपि शास्त्रीयविज्ञानसम्भवात्तदैव मोजनंप्रसज्येतेति चेन्न “परेद्युरुदये दृष्ट्वा स्नात्वाभ्यवहरेन्नरः “अहोरात्र भोक्तव्यमिति” वचनद्वयेन तदप्रसक्तेः यत्तु “स्कन्द-पुराणे” यदा चन्द्रग्रहस्तात निशीथात्परतो भवेत् भोक्तव्यंतत्र पूर्वाह्णे नापराह्णे कथञ्चन पूर्बंनिशीथाद्ग्रहणं यदाचन्द्रस्य वै भवेत् तदा निशि कर्त्तव्यं भोजनं शिस्विवाह-नेति” तदिदं यामत्रयाभिप्रायं “चन्द्रग्रहे तु यामांस्त्रीनिति”विशेषस्य वृद्धगौतमेनाभिधानात् पापक्षयकामोग्रहणदिने उपवसेत् तदाह दक्षः “अयने विषुवे चैव ग्रहणे चन्द्र-सूर्य्ययोः अहोरात्रोषितः स्नात्वा सर्वंपापैः प्रमुच्यत” इतिपुत्री तु नोपवसेत् तदाह नारदः “संक्रान्त्यामुपवासञ्च कृ-ष्णैकादशिकादिने चन्द्रसूर्य्यग्रहे चैव कुर्य्यात् पुत्रवान्गृहीति” ग्रस्तास्तमये तु पुत्रिणोऽप्युपवासएव “अहोरात्रंन भोक्तव्यमिति, भोजनप्रतिषेधात्” कालमा० ।ग्रहणश्राद्धे विशेषः नि० सि० “सैहिकेयो यदा सूर्यंग्रसते पर्वसन्धिषु गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धंप्रकल्पयेत् घृतेन भोजयेद्विप्रान् घृतं भुमौ समुत्सृजेत्”इति वायुपु० विज्ञानेश्वरोप्याह “ग्रहणश्राद्धे भोक्तुर्दोषीदातुस्त्वभ्युदय इति “सूतके मृतके भुङ्क्ते गृहीते शशि-भास्करे च्छायायां हस्तिनश्चैव भूयः पुरुषो भवेत्इत्यापस्तम्बेन भोजननिषेधात् अयं निषेधः श्राद्ध-भोक्तुः अत्र ग्रहणनिमित्तकश्राद्धेनैवामासंक्रान्त्या-दिनिमित्तकानां सिद्धिः” प्रागुक्तबचनैरशौचाभ्यन्तरेऽपिस्मार्त्तादिकर्म्मविधानात् “स्नानमात्रं प्रकुर्वीत दानश्रा-द्धविवर्जितमिति” निर्मूलं वदन्तो गौडाः परास्ताःनि० सि० अशौचिनां ग्रहणकाले शुद्धिरविशेषान्मन्त्रदी-क्षापुरश्चरणादिसर्वस्मार्त्तकर्मविषया मदनरत्नेऽप्येवम् रज-स्वलायास्तु भार्गवार्चनदीपिकायाम् भेदः “न सूतकादिदोषोऽस्ति ग्रहे होमजपादिषु ग्रस्ते स्नायादुदक्यापितीर्थादुद्धृतवारिणेति” अत्र “स्नाने नैमित्तिके प्राप्ते नारीयदि रजस्वला पात्रान्तरिततोयेन स्नानं कृत्वा व्रतंचरेत्” इत्यादि मिताक्षरोक्तो विधिर्ज्ञेयः” नि० सि० ।ग्रहणदिने वार्षिकं श्राद्धं हेमादिना कार्य्यम्यथाह प्रयोगपारिजाते गोभिलः “दर्शे रविग्रहे पित्नोप्रत्याव्दिकमुपस्थितम् अन्नेनासम्भवे हेम्ना कुर्या-दामेन वा सुतः” इति अत्र दर्शरविपितृसुतशब्दाः प्रदर्श-नार्थाः न्यायसाम्यात् तेन चन्द्रग्रहेऽपि सपिण्डादि वा-र्षिकमन्नादिना तद्दिन एव कार्य्यमिति” मदनपारिजातेव्याख्यातम् पृथ्वीचन्द्रोदयेऽप्येवं तेन यानि “आमश्राद्धंतु कुर्वीत माससंवत्सरादृत” इति “अन्नेनैवाव्दिकं कुर्या-द्धेम्ना वाऽऽमेन क्वचिदिति” मरोचिलौगाक्ष्यादिवचनानि तानि ग्रहणदिनातिरिक्तविषयाणि निर्ण्णयामृते-ऽप्येवम् यानि तु “ग्रहणात्तु द्वितीयेऽह्नि रजोदोषात्तुपञ्चमे” तथा “ग्रस्तावेवास्तमानन्तु रवीन्दू प्राप्तुतोयदि ।प्रत्यव्दं तु तदा कार्य्यं परेऽहन्येव सर्वदा” “चन्द्रसूर्य्यो-परागे तथा श्राद्धं परेऽहनि” इत्यादीनि वचनानि तानिमहानिबन्धेषु क्वाप्यनुपलम्भान्निर्मूलानि प्रत्युत पूर्वोक्तवचनेऽप्येततद्दिन एव श्राद्धमुक्तमित्यलम्” नि० सि० ।“ग्रहणादिसप्तदिनपर्य्यन्तमागमे दीक्षोक्ता शिवार्चनचन्द्रिकायां ज्ञानार्णवे “मन्त्राद्यारम्भणं कुर्य्याद्ग्र-हणे चन्द्रसूर्य्ययोः ग्रहणाद्वापि देवेशि कालः सप्त-दिनावधीति” रत्नसागरे “सत्तीर्थेऽर्कविधुग्रासे तन्तु-दामनपर्वणि मन्त्रदीक्षां प्रकुर्वाणोमासर्क्षादीन्न शो-धयेत्” अत्र सूर्य्यग्रहणमेव मुख्यम् “सूर्य्यग्रहण-काले तु नान्यदन्वेषितम्भवेत् सूर्य्यग्रहणकालेन समो नान्यःकदाचन मासतिथिवारादिशोधनं सूर्य्यपर्वणीति”तत्रैव कालोत्तरवचनात् “चन्द्रग्रहे तु या दीक्षा या दीक्षाव्रतचारिणाम् वनस्थस्य या दीक्षा दारिद्र्यं सप्त-जन्मसु” इति तत्रैव योगिनीतन्त्रे निषेधाच्च” नि० सि०“पुरश्चरणचन्द्रिकायाम् “चन्द्रसूर्योपरागे स्नात्वाप्रयतमानसः स्पर्शादिभोक्षपर्यन्तं जपेन्मन्त्रं समाहितः ।जपाद्दशांशतो होमस्तथा होमात्तु तर्पणम् तर्पणस्यदशांशेन मार्ज्जनं कथितं किल मार्ज्जनस्य दशांशेन ब्राह्म-णानपि भोजयेत् जपार्चापूर्वकोहीमस्तर्पणञ्चाभिषेचनम् ।भूदेवपूजनं पञ्चप्रकारोक्ता पुरस्त्रिया होमाशक्तौ जप-कुर्याद्धोमसंख्या चतुर्गुणम” विशेषणतया सम्बन्धमात्रे ।४ निन्दायाम् हेम० ग्रहकल्लोले व्यसने दुष्टनीतौच मेदि० उपरज्यते मिथ्यासम्बन्धेन सम्बध्यते ऽनेन क-रणे घञ् आध्यासिकसम्बन्धेन सम्बद्धे विशेषणभेदे ।यथा घटत्वोपरागेण पटभानम् घटत्वं हि पटस्यआध्यासिकसम्बन्धेन सम्बद्धं विशेषणम्
Capeller
German
उपराग
m.
Färbung, Verfinsterung.
Burnouf
French
उपराग उपराग
m.
(रञ्ज्) action d'obscurcir ou de
s'obscurcir
éclipse
le nœud ascendant de la Lune, Rāhu.
Au fig. tristesse, affliction, malheur
conduite ténébreuse,
mauvaise vie
abus.
Stchoupak
French
उप-राग-
m.
couleur, coloration (fig. colère)
éclipse
dévastation
-वन्त्- a. disparu par éclipse.