उपयम (upayama)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishउपयम - upayama - - support
उपयम - upayama - - taking possession of
उपयम - upayama - - stay
उपयम - upayama - - marrying
उपयम - upayama - - marriage
उपयम - upayama - - kindling a fire
उपयम - upayama - - appropriation
Apte
Englishउपयमः [upayamḥ], 1 Marriage, marrying
कन्या त्वजातोपयमा सलज्जा नवयौवना S. D.
Restraint.
A support
stay.
Monier Williams Cologne
EnglishApte Hindi
Hindiउपयमः
- उप+यम्+अप्
"विवाह, विवाह करना"
उपयमः
- उप+यम्+अप्
प्रतिबंध
Shabdartha Kaustubha
Kannadaउपयम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಿವಾಹ /ಮದುವೆ
निष्पत्तिः - > उप + यम (उपरमे) - "अप्" (३-३-६३)
प्रयोगाः - > "कन्यात्वजातोपयमा सलज्जा नवयौवना"
उल्लेखाः - > सा० द०
उपयम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಂಕೆ /ಹತೋಟಿ
उपयम
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಯಮನ ಸಮೀಪ
प्रयोगाः - > "उपयमं नयतीति मन्ये"
उल्लेखाः - > चं० रा०
L R Vaidya
EnglishSanskrit Tibetan
Tibetannye zung
उपयम
अभिधानचिन्तामणिः
Sanskritजन्यास्तु तस्य सुहृदो विवाहः पाणिपीडनम् ॥ ५१७ ॥
पाणिग्रहणमुद्वाह उपाद्यामयमावपि ।
दारकर्म परिणयो जामाता दुहितुः पतिः ॥ ५१८ ॥
जन्य (पुं), विवाह (पुं), पाणिपीडन (क्ली), पाणिग्रहण (क्ली), उद्वाह (पुं), उपयाम (पुं), उपयम (पुं), दारकर्मन् (क्ली), परिणय (पुं), जामातृ (पुं), दुहितृपति (पुं)
वाचस्पत्यम्
Sanskritउपयम उप + यम--अप् । विवाहे । “कन्या त्वजातोप-यमा सलज्जा नवयौवना” सा० द० । उपयमस्य भेदादिक-मुद्वाहशब्दे ११८ ६ पृ० उक्तं तत्काल वरकन्यामेलकादिविशेषोनिरूप्यते । तत्र द्विजातीनां समावर्त्तनानन्तरंविवाहकालः मनुना “चतुर्थमायुषोभागमुषित्वाद्यं गुरौद्विजः । द्वितीयमायुषोभागं कृतदारो गृहंवसेत्”आयुर्द्वितीयभागे विवाहकाल उक्तः” कुल्लूकभट्टे नतु पूर्व्वापरविरोधमाशङ्ख्य ब्रह्मचर्य्यकालोत्तरत्वमस्यसमर्थितं यथा “चतुर्थं भागमिति ब्रह्मचर्य्यकालोपलक्षणा-र्थम् आनयतपरिमाणत्वादायुषश्चतुर्थभागस्य दुर्ज्ञानत्वात् नच “शतायुर्वै पुरुष” इति श्रुतेः पञ्चविंशतिवर्षपर्य्यन्तपरत्वम्, “षट्त्रिंशदाब्दिकं चर्य्यमित्यादिना विरोधात् ।आश्रमसमुच्चयपक्षमाश्रितो ब्राह्मण उक्तं ब्रह्मचर्य्य-कालं जन्मापेक्ष्याद्यं यथाशक्ति गुरौ स्थित्वा द्वितीय-मायुषश्चतुर्थभागं कृतदारो गृहस्थाश्रममनुतिष्ठेत् “गृह-स्थस्तु यदा पश्येत् बलिपलितमात्मनः । पुत्रेषु दारान्निक्षिप्य वनं गच्छेत् सहैव वा” (मनुः) इत्यनियत-कालत्वात् द्वितीयमायुषीभागमित्यपि गार्हस्थकालमेव"“गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेतद्विजोभार्यां सवर्णां लक्षणान्विताम्” मनुना समावर्त्त-नोत्तरमेव विवाहकालोविहितः । समावर्त्तनकालश्च “षट्-त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम् । तदर्द्धिकं पा-दिकं वा ग्रहाणान्तिकमेव वा” मनुना षट्त्रिंशद् वर्षाद्यु-त्तरकालः उक्तः । स च शक्त्यपेक्षया युगभेदेन वा व्यव-स्थाप्यः तथा च सत्ययुगे, ३६ वर्षाः त्रेतायामष्टादश वर्षाणिद्वापरे नव वर्षाणि कलियुगे वेदग्रहणकालपर्य्यन्तं ब्रह्म-चर्य्यं कार्यं ततःसमावर्त्तनम् । युक्तञ्चैतत् मनुनासत्येनराणां चतुःशतायुष्कत्वेन त्रेतायां त्रिशतायुष्कत्वेनद्वापरे द्विशतायुष्कत्वेन कलौ शतायुष्कत्वेन चोक्तेःआयुरुत्तमत्वादिभेदेन व्रतकालाधिक्यादि । अतएव “दीर्घ-कालं ब्रह्मचर्यं धारणञ्च कमण्डलोः” इत्यादिपुराणे कलौआयुषोहीनत्वाभिप्रायेणैव दीर्घकालब्रह्मचर्य्यनिषेधः ।तत्रायं भेदः । “केशान्तः षोडशे वर्षे ब्राह्मणस्य विधी-यते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः” मनुनास्वस्वोपनयनद्विगुणितकालएव गोदानाख्यस्य केशान्त-संस्कारस्य विधानात् वेदव्रतरूपस्य वक्ष्यमाणस्य म-हानाम्न्यादिकेशान्तरूपस्यानन्तरं विवाहस्य कर्त्तव्य-तायाःसर्वनिबन्धृभिर्व्य वस्थापितत्वेन स्वस्वोपनयनद्विगुणकालोत्तरं विवाहस्य कर्त्तव्यता नार्वाक् । तथा च ब्राह्म-णस्य १६ वर्षात् क्षत्रियस्य द्वाविंशतेः वैश्यस्य चतुर्विंशते-रुत्तरं विवाहकालः । अतएव रघौ वर्णितम् “अथास्यगोदानविधेरनन्तरं विवाहदीक्षां निरवर्त्तयत् पिता”शूद्राणान्तु “र्वश्यवच्छौचकल्पश्चेत्युक्तेर्वैश्यधर्मातिदेशात्चतुर्विंशतिवर्षोत्तरमेव विवाहकालः “त्रिंशद्वर्षोवहेद्भार्यांहृद्यां द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षीयां धर्मे सीदतिसत्वरं इति मनुना ब्रह्मचर्य्यरक्षणाशक्तौ सत्वरतोक्तेःअशक्तौ ततोऽर्वागपि कर्त्तुं शक्यते इति भेदः । स तु नश्रेयानिति बोध्यम् । अतएव शु० त० रघुनन्दनेन ।“अनूढभार्य्यः शूद्रस्तु षोडशाद्वत्सरात् परमिति” शङ्ख-वचनार्थमीमांसायां “तद्विशेषणेन न्यायवर्त्तिनां शूद्राणांषोडशवर्षोपरि विवाहकालः कल्प्यते” इति व्यवस्थाप्यतत्समर्थनाय वैश्यवच्छौचकल्पश्चेति चकाराद्वैश्यधर्म्म-मात्रस्यातिदेशमुक्त्वा अतिदेशेन शूद्रस्याप्युपनयनप्राप्तौ“विवाहमात्रं संस्कारं शूद्रोऽपि लभते सदेति” ब्रह्मपु० तस्य विवाहस्येवोपनयनस्थानीयतामुक्त्वा तत्काला-काङ्क्षायां “गर्भाष्टमेऽष्टमे वाव्दे व्राह्मणस्योपनायनम् ।राज्ञामेकादशे सैके विशामेके यथाकुलम्” या० स्मृतौ ।उत्तरोत्तरमधिककालस्योक्त्या वैश्योपनयनकालापेक्षया-ऽधिकालत्वं शूद्रविवाहस्योक्तम् । तत्रापि यथाकुलमित्य-तिदेशेन षोडशाद्वर्षात् प्रागपि विवाहो दृश्यते स तु नप्रकृष्ट इत्यन्तेन उक्तरीत्यैव व्यवस्थापितम् । द्विजाति-स्त्रीणान्तु यद्यपि हारीतेन “द्विविधाः तत्र ब्रह्मवादि-नीनामुपनयनं वेदाध्ययनं भिक्षाचर्य्या च, सद्योबधूनांतु उपस्थिते विवाहे स्त्रियो ब्रह्मवादिन्यः सद्योबधूश्चयथा कथञ्चिदुपनयनं विधाय विवाहः कार्य्यः” सद्यो-बचूनामप्युपनयनं विहितम् । तथापि तथा विधीयमानउपनयनेन वर्णभेदेनोक्तकालापेक्षा उपस्थिते विवाहे इतिकथनात् विवाहकालस्यैव तत्कालता । वस्तुतः स्त्रीणा-मुपनयनं कल्पान्तरविषयम् यथाह यमः “पुराकल्पे हिनारीणां मौञ्जीबन्धनमिष्यते । अध्यापनञ्च वेदानांसावित्रीग्रहणन्तथा । पिता पितृव्यो भ्राता वा नैनाम-ध्यापयेत्परः । स्वग्र्हे चैव कन्याया भैक्ष्यचर्या विधीयते”इति । ननु यद्यपि कलौ मुख्यमुपनयनं स्त्रीणां नास्तितथापि आतिदेशिकमस्ति यदाह मनुः “वैवाहिकोविधिःस्त्रीणाभीपनायनिकः परः । पतिसेवा गुरौ वासोगृ-हार्थोऽग्निपरिक्रियेति” तेन कालभेदः सेत्स्यतीति सत्यम्अतिदेशोयमुपनयनधर्म्मप्राप्त्यर्थः यथा ब्राह्मणादीनामुपन-यनात् प्राक् कामचारकामवादकामभक्ष्याद्याचाराणामदो-षतास्ति तदनन्तरन्तूपनयनधर्माणां सन्ध्यास्नानादीनां प्रागधर्मनिरसनपूर्व्वकमनुष्ठानपूर्वकं यथास्ति तथा स्त्रीणा-मपि विवाहात् प्राक् कामचारादिधर्मा न दोषं कुर्वन्तिविवाहस्य तु द्विजत्वसिद्धिकरत्वादनुष्ठिते विवाहे काम-चारादिधर्मनिरासपूर्वकं पतिसेवा गुरौ वास इत्या-दिकमनुष्ठानं भवेदिति । सर्ववर्ण्णस्त्रीणां षड्वर्षोत्तरंविवाहकालः वक्ष्यमाणवचनात् । एवं वरकन्ययोःसामान्यकाले निरूपिते इदानीं विशेषकालोऽभिधीयते ।तत्र तयोः रव्यादिशुद्धेरावश्यकता यथाह “गुरुशु-द्धिवशेन कन्यकानां समवर्षेषु षडव्दकोपरिष्टात् । रविशु-द्धिवशाच्छुभोवराणामुभयोश्चन्द्रविशुद्धितोविवाहः” मु० चि०पी० धा० व्या० “कन्यकानां विवाहः षडव्दकोपरिष्टात्षड्वर्षातिक्रमानन्तरं समवर्षेष्वयुग्मवर्षेषु सत्सु, गुरुशुद्धौसत्यां विवाहः शुभः । अर्थात् पुरुषाणां विषमयर्षेषु रवि-शुधौ विवाहः शुभः । तदाह च्यवनः । “षडव्दमध्ये-नोद्वाह्या कन्या, वर्षद्वयं यतः । सोमोभुङ्क्तेऽथ गन्धर्वस्ततःपश्चाद्धुताशन” इति जन्मानन्तरं वर्षद्वयं सोमः कन्यांभुङ्क्ते । तदनन्तरं द्वे वषे गन्धर्वस्तदनन्तरमग्निस्ततो मनु-ष्याधिकारःषडब्दतः प्राग्विवाहो न कार्य्यः । तत्र षड्व-र्षानन्तरं समतर्षे विवाहः शुभः । यदाह नारदः । “यु-ग्मेऽव्दे जन्मतः स्त्रीणां शुभदं पणिपीडनम् । एतत्-पुंसामयुग्मेऽव्दे व्यत्ययेनाशुभन्तयोरिति” । कश्यपः “वि-वाहो जन्मतः स्त्रीणां युग्मेऽव्दे पुत्रपौत्रदः । अयुग्मेश्रीप्रदः पुंसां विपरीते तु मृत्युदः” इति । एवं च सतिस्त्रीणां विवाहोऽष्टमदशमवर्षयोभवतीत्यर्थः । यथाह व्यासः“अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षा भवेत्कन्या द्वादशे वृषली स्मृतेति” । अस्य फलभेदमाह वात्स्यः“गौरीं ददद्ब्रह्मलोकं सावित्रं रोहिणीं ददत् । कन्यां-ददत् स्वर्गलोकमतःपरमसद्गतिम्” । प्राप्नोतीति शेषः ।“गौरी विवाहिता सौख्यसम्पन्ना स्यात् पतिव्रता । रोहिणीधनधान्थादिपुत्राढ्या सुभगा भवेत् । कन्या विवाहितासम्पत्समृद्वा स्वामिपूजितेति” । ननु नववर्षाया रो-हिण्या अयुग्मवर्षत्वाद्विवाहः कथं सम्भवति गर्भतोनवर्ष-ग्रहणे अयग्मवर्षत्वापरिहारात् स दोषस्तदवस्थ एवये तु “अयुग्म दुर्भगा नारी युग्मे च विधवा भवेदिति”चण्डेश्वरवाक्यभभ्यसन्ति तन्मते सुतरां विवाहाभावः ।उच्यते । “युग्मऽबदे सम्पदः सौख्यं विद्याधर्म्मायुषः सदा ।भर्त्तुर्दुष्टा भवव्योज निषेकान्नात्र संशयं इति पराशरवा-क्याद्भर्भग्रहणं यथाऽवसीयते नारदादिवाक्ये तथा ज-न्मत इत्यपि । तत्र षष्ठवर्षानन्तरं जन्मतोविषमवषींयमा-सत्रयानन्तरं नव मासाः शुभाः । समवर्षीयसामत्रयञ्च ।इदमेव च मासत्रयं नारदादिमते गृह्यते इति युक्ता व्यव-स्थेति युक्तमुत्पश्यामः । एतदेवाभिप्रेत्योक्तं श्रीपति-निबन्धे । “मासत्रयादूर्द्धमयुग्मवर्षे युग्मे तु मासत्रयमेवयावत् । विवाहशुद्धिं प्रवदन्ति सन्तोवात्स्यादयो गर्ग-वराहमुख्याः” इति । “अयुग्मे दुर्भगा नारी युग्मे तु वि-धवा भवेत् । तस्माद्गर्भान्विते युग्मे विवाहे सा पति-व्रतेति” चण्डश्वरोक्तिश्च सार्थिका । एवं नवमवर्षस्यायुग्मत्वप्रयुक्तनिषेधोऽष्टमवर्षानन्तरं मासत्रयमेव । एवंविहितवर्षे यस्मिन् काले गुरुशुद्धिर्भवेत् तद्वशेन विवाहःकार्य्यः गुरुशुद्धिस्तु “वटुकन्याजन्मराशेस्त्रिकोणायद्वि-सप्तगः । श्रेष्ठोगुरुः खषट्त्र्याद्ये पूजयान्यत्र निन्दित”मु० चि० अभिहिता । यदाह गुरुः “स्त्रीणां गुरुबलेनैवविवाहः शोभनः स्मृतः । वरस्यार्कबलं ग्राह्यमैन्दवन्तूभयो-रपोति” “सुरगुरुबलमबलानां पुरुषाणां तीक्ष्णरश्मि-बलमेव । चन्द्रबलं दम्पत्योरवलोक्य विशोधयेल्लग्नमिति” ।वराहोक्तेश्च । एतच्चावश्यकत्वार्थमभिहितम् । यदा द्वयो-रपि गुरुबलमिष्टं भवेत् तदा पाणिग्रहः शुभदः । द्वयो-रन्यतरस्य गुर्वर्कशुद्ध्यै विवाह्यकालान्तरासम्भवे च तत्पित्रा-दिना पूजाङ्कारयेत् “रविशुद्धौ गृहकरणं रविगुरुशुद्धौव्रतोद्वाहौ । क्षौरन्ताराशुद्धौ शेषं चन्द्राश्रितं कर्मेति” रा-जमार्त्तण्डोक्तेः । वराणां विवाह्यानां पुंसां रविशुद्धिवशेनविवाहः शुभः । उभयोः स्त्रीपुंसयोश्चन्द्रविशुद्धितोविवाहःशुभः स्मृतः अत्र सम्मतिः प्रागुक्ता । यदा तु कन्या का-लातिक्रान्ता भवति तदा गुरुबलमनावश्यकमित्याह व्यासः“दशवर्षव्यतिक्रान्ता कन्या शुद्धिविवर्ज्जिता । तस्या-स्तारेन्दुलग्नानां शुद्धौ पाणिग्रहोमतः” इति । “ग्रहशुद्धिमव्दशुद्धिं शुद्धिं मासायनर्त्तुदिवसानाम् । अर्वाक् दश-वर्षेभ्यो मुनयः कथयन्ति कन्यकानाम्” भुजबलः सा चगुरुरविचन्द्रशुद्धिर्गोचरप्रकरणेऽभिधाम्यते । “गोचरबलाभा-वेऽष्टकवर्गादिबलं ग्राह्यमित्याह नारदः “गोचरं वेधजचाष्टवर्गजं रूपजं बलम् । यथोत्तरं बलाधिक्यं स्थूलंगोचरमार्गजमिति” पी० धा० ।तत्रादौ अयननिरूपणम् । विवाहोपक्रमे “हरौ प्रसुप्ते नच दक्षिणायने तिथौ च रिक्ते शशिनि क्षयङ्गते” राजमा० ।“उदयगयन आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चूडोपन-यनगोदानविवाहाः, विवाहः सर्व्वकालिक इत्येके” आश्व०गृ० १, ४, १, सू० । सार्व्वकालिक इति दक्षिणायन-कृष्णपक्षविषयः न तु अशुद्धकालपरस्तस्यानुपस्थितेःअयनपक्षयोरेव प्रक्रान्तत्वात्तद्विषयता सर्व्वशब्देन तथैवपरामर्शयोग्यतया अत्यस्य चाप्रक्रान्ततया तेन परामर्शायोगात् । अत एव भुजबलभी० ग्रहशुद्धिमित्र्यादिकंप्रागुक्तमभिधाय “एतत्परन्तु विज्ञेयमङ्गिरोवचनंयथा । कालात्यये च कन्यायाः कालदोषो न विद्यते ।मलमासादिकालानां विवाहाद्ये प्रयत्नतः । पुंसः प्रतिसदा दोषात् सर्वदैव हि वर्ज्यता” इत्युक्तम् । ततश्च वर-कन्ययोर्मध्ये कन्याया दशवर्षातीतत्वे ग्रहशुद्ध्यादिर्नापेक्ष्यःसमयाशुद्धिश्च उभयसाधारणत्वादपेक्ष्यैव । एतदेव भङ्ग्य-न्तरेणोक्तं ज्यो० त० “राजग्रस्ते तथा युद्धे पितॄणां प्राण-संशये । अतिप्रौढा च या कन्या नानुकूगं प्रतीक्षते ।अतिप्रौढा च या कन्या कालधर्मविरोधिनी । अविशु-द्ध्यापि सा देया चन्द्रलग्नबलेन तु” । “एतत्परमेव दश-मासाः प्रशस्यन्ते चेत्रपौषविवर्ज्जिताः” राजमा० वाक्यम्“सार्वकालिकमिच्छन्ति विवाहं गौतमादय इति मिहिर-वचनमप्येतत्परम् । वस्तुतः सार्वकालिक इत्येतदासुरा-द्यधर्म्यविवाहविषयम् । प्रमि० “प्राजापत्यब्राह्मदैवार्षसंज्ञाःकालेषूक्तेष्वेव कार्य्याः विवाहाः । गान्धर्वाख्यश्चासुरो-राक्षसश्च पैशाचो वा सर्वकाले विधेयः” श्रीपत्युक्तेः“धर्म्येष्वेव विवाहेषु कालस्यैव परीक्षणम् । नाधर्म्म्येषुविवाहेषु” गृह्यपरिशिष्टोक्तेश्च । तत्र सौरादिमासनिरूपणम्“मिथुनकुम्भमृगालिवृषाजगे मिथुनगेऽपि रवौ त्रिलवेशुचेः । अलिमृगाजगते करपीडनम्भवति कार्त्तिक-पौषमधुष्वपि” मु० चि० । “मिथुनकुम्भौ प्रसिद्धौ ।मृगोमकरः अलिर्वृश्चिकः वृषः प्रसिद्धः अजोमेषः ।एतद्राशिगते रवौ सति तत्रापि मिथुनस्थिते सूर्येऽपिशुचेराषाढस्य त्रिलवे तृतीयांशे आषाढशुद्धप्रतिपदमारभ्यदशमीपर्य्यन्तं करपीडनं विवाहो भवति । अर्थादितर-राशिगते सूर्य्ये सति आषाढशुक्लदशम्यनन्तरं हरिशयनेच सति विवाहो न स्यात् यदाह कश्यपः । “उत्तरायणगतेसूर्य्ये मीनं चैत्रञ्च वर्जयेत् । अजगोद्वन्द्वकुम्भालिमृग-राशिगते रवौ । मुख्यं करग्रहं त्वन्यराशिगे न कदा-चनेति” वसिष्ठः । “दिनाधिपे मेषवृषालिकुम्भनृयुग्मन-क्राख्यधटर्क्षसंस्थे । माघद्वये माधवशुक्रयोश्च मुख्योऽथ वाकार्त्तिकसौम्ययोश्चेति । धटस्तुला । शुक्रोज्येष्ठः सौम्योमार्गशीर्षः मुख्यो विवाह इति शेषः । “आर्द्रोदयादूर्द्ध्व-मिनस्य कार्य्यं नक्षत्रवृन्दे दशके कदाचित् । मासोक्त-कर्मेतरमङ्गलाद्यं कुर्य्यान्न सुप्तेऽपि तथा मुरारौ” । एतेनहरिशयनात्प्राक्कालः साधीयानित्यभिहितं भवति । अत्रसामान्यतोमासशब्देन चान्द्र एव मासो गृह्यते “इन्द्राग्नीयत्र हूयेते” इत्याद्युक्तेः । अत्र तु सौरचान्द्रमासद्वयोपादा-नादुभयोरैक्ये विवाहफलमविकलं भवति । तदुक्तं केशवार्केण । “प्रायःसौरं मानमिष्टं विवाहे केविच्चान्द्रं मान-माहुः फलेन । तस्मात् सम्यक् तत्फलाप्तिस्तदैक्ये सौरो-मासः केवलः किञ्चिदूनः” इति । अस्यार्थः । कश्यपा-दिभिः सौरा एव मासाः उक्ताः तेषां च प्राशस्त्यम् ।“विवाहादौ स्मृतः सौरोयज्ञादौ सावनोमत” इति वृधगर्गस्मरणात् । नारदादिभिस्तु “माघफाल्गुनवैशाखज्यैष्ठ-मासाः शुभप्रदाः । मध्यमाः कार्त्तिकोमार्गशीर्षो वै नि-न्दिताः परे” इति चान्द्रा एवोक्ताः । एतत्प्राशस्त्यं चवशिष्ठेनोक्तम् । “उद्वाहयज्ञोपनयप्रतिष्ठातिथिव्रतंक्षौरमहोत्सवाद्यम् । पर्वक्रियावास्तुगृहप्रवेशः सर्वं हिचान्द्रेण हि गृह्यते तदिति” । अतोद्वयोः सौरचान्द्र-मासयौरैक्ये विवाहादि शुभमेकतरपक्षाश्रयणे मध्यममितिनिष्कृष्टोऽर्थः । एवं च मकरसंक्रान्तौ माघः, कुम्भे फा-ल्गुनोमेषे वैशाखः वृषे ज्येष्ठः, मिथुने आषाढ तृतीयांशः, तुलायां कार्त्तिको देवोत्थानादुत्तरः, वृश्चिके मार्गशीर्षः, शुभ इत्यर्थः । केचित्तु चान्द्रमासं मुख्यमाहुस्तेनायमर्थः ।फाल्गुनो विहित इति मीनसंक्रमणसद्भावेऽपि शुभः, चैत्रो निषिद्ध इति मेषसंक्रान्तिसद्भावेप्यशुभः । तदुक्तंविवाहवृन्दावने । “झषोन निन्द्यो यदि फाल्गुने स्याद-जस्तु वैशाखगतो न निन्द्यः । मध्वाश्रितौ द्वावपि वर्ज-नीयावित्यादिवाचामियमेव युक्तिरिति” “अजस्तु वैशा-खगतो न निन्द्य इति तु निर्मूलमेव । न हि मेषसंक्रमःक्वचित् निषिद्धोऽस्ति । तदेतदविचारितरमणीयं कुतः? य-तोयन्मते सौरमासस्यैव मुख्यत्वं तन्मते मेषः प्रशस्त इतिचैत्रेऽपि विवाहप्रसङ्ग इति विपरीतं तस्यापि वक्तुमश-क्यत्वात् । उक्तञ्च चूडारत्ने । “पौषेऽपि मकरस्थेऽर्के चैत्रेमेषगते रवौ । आषाढे मिथुनादित्ये केऽप्याहुः करपीडन-मिति” । किञ्च वशिष्ठवाक्ये “दिनाधिपे मेषवृषेत्यादौ, सौरचान्द्रमासयोरुपादानस्य वैयर्थ्यापातात् । तस्मात् द्वयो-रैक्ये विवाहः प्रशस्तः । तत्र माघफाल्गुनवैशाखज्येष्ठा-मुख्याः । यत्र तु निषेधानन्तरं प्रतिप्रसवो यथा दक्षि-णायने विवाहं निषिध्व कार्त्तिकमार्गशीर्षौ विहितौ तत्रमध्यमत्वम् अतएव कार्त्तिकसौम्ययोश्च वसिष्ठेन पृथगुक्तंनारदवाक्ये स्पष्टमेव मध्यमत्वम् अतो विवाहपटले गर्गः“पुत्रोपेता तु कार्त्तिके धनधान्यसुतोपेता सौम्ये भर्त्तृपरा-यणा” इत्युक्तवान् तदपि धनुःसंक्रान्तिव्यतिरिक्तविषयं द्र-ष्टव्यम् । हरिशयनात्प्रागाषाढतृतीयांशश्च मध्यमः हरि-स्वापान्तर्गताः आषाढश्रावणभाद्रपदाश्विनकार्त्तिका पौ-षश्चैते निषिद्धाः । धनुषि पौषस्त्वत्यन्तं निषिद्धः । “भानेधनुषि सिंहे च स्थिते सप्ततुरङ्गमे । क्षौरमन्नं न कुर्वीतविवाहं गृहकर्म चेति” गार्ग्योक्तेः । अन्नमन्नप्राशनं वि-हितकालातिक्रान्तम्, क्षौरं चौलञ्च स्वतन्त्रम् “यत्तूपन-यनाङ्गं क्षौरं तस्य न निषेधः “चैत्रे मीनगते रवाविति”विहितोपनयनस्य विषयालाभात् । अथोत्तरार्द्धं व्याख्या-यते । अलीति । अलिमृगाजाः प्राग्व्याख्याताः । एत-द्राशिगते सूर्ये सति कार्त्तिकपौषमधुष्वपि करपीडनं भवतियथा वृश्चिके कार्त्तिकः मकरे पौषः मेषे चैत्रोऽपीत्यर्थःइदं तु सौरमासग्रहिलानां मतम् । अतएवाधुनोक्तचू-डारत्नस्थवाक्ये “केप्याहुः करपीडन” मित्युक्तिः । श्रीधरो-ऽपि । “पौषे च कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतोयदा स्यात् । प्रशस्तमाषाढकृतं विवाहं वदन्ति गर्गा मि-थुनस्थितेऽर्के इति तदेतत्प्रागभिहितन्यायादुपेक्ष्यम् अथवाकेशवमताङ्गीकारेण मध्यमत्वमङ्गीकृत्य कालान्तरानपेक्ष्य-वश्यदेयकन्याविषयम्” । पी० धा० । प्रमिता० तु देशभेदात्मासभेदस्य ग्राह्यतोक्ता “तपतीकृष्णयोर्मध्ये चान्द्रोमासःप्रशस्यते । अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः । विन्ध्या-द्रेर्दक्षिणे भागे चान्द्रोमासः प्रशस्यते । उद्ग्भागे तुविन्ध्यस्य सौरमानं विधीयते । अन्येषु सर्वदेशेषु मिश्रमानंप्रकल्पयेत्” । मासभेदे फलभेदमाह ज्यो० त० भुजवलः“आषाढे धनधान्यभोगरहिता नष्टप्रजाः श्रावणे वेश्या भा-द्रपदे इषे च मरणं रोगान्विता कार्त्तिके । पौषे प्रेतवतीवियोगबहुला चैत्रे मदोन्मादिनी” निर्ण० सि० व्यासः ।“माघफाल्गुनवैशाखे यद्यूढा मार्गशीर्षके । ज्यैष्ठे वाषाढ-मासे वा सुभगा वित्तसंयुता । श्रावणे वापि पौषे वा कन्याभाद्रपदे तथा चैत्राश्वयुक्कार्त्तिकेषु याति वैधव्यतां लघु”अत्राषाढस्य शुभता दशदिनात् प्राक्, तदुत्तरमशुभत्वम् अत्रप्रतिसवः प्रागुक्तः । अत्र जन्ममासादिनिषेधः“आद्यभर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः । नोचि-तोऽथ विबुधैः प्रशस्यते चेद्द्वितीयजनुषोः सुतप्रदः” मु० चि०“यस्मिन् चान्द्रेमासे जन्म सजन्ममासः जन्मतिथिमारभ्य-त्रिंशत्तिथ्यात्मको मासो जन्ममासोवेत्युच्यते । द्वयमप्या-द्यप्रकरणे “जन्मर्क्षमासतिथय” इति पद्यव्याख्यावसरे विविच्यव्याकृतमस्माभिः, यस्मिन्नक्षत्रे जन्म तज्जन्मभं यस्यां तिथौजन्म सा जन्मतिथिः । समाहारद्वन्द्वः आगमशासनस्यानित्यत्वान्नुमभावः । उपलक्षणत्वात्तन्मुहूर्त्तोऽपि । तत्रा-द्यगर्भसुतकन्ययोर्द्वयोः करग्रहो विवाहो नोचितो निषिद्धइत्यर्थः । यदाह वसिष्ठः । “स्वजन्ममासर्क्षतिथिक्षणेषुवैनाशिकाद्यृक्षगणेषु चैवम् । नोद्वाहमात्माभ्युदयाभिकाङ्-क्षी नैवाद्यगर्भद्वितये कदाचित्” । क्षणोमुहूर्त्तः नारदोऽपि“न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि वा । आद्यगर्भसुत-स्याथ दुहितुर्वा करग्रहः” इति । जन्मदिवसे जन्मतिथौ ।आवश्यकत्वेऽपवादो जगन्मोहने “जातं दिनं दूषयते वसिष्ठःपञ्चैव गर्गस्त्रिदिनं तथात्रिः । तज्जन्मपक्षं किल भागुरिश्चव्रते विवाहे गमने क्षुरे चेति” पी० धा० । ज्यो० त० तु “चाष्टौच गर्गश्च्यवनोदशाहम् । जन्माख्यमासं किल भागुरिश्च व्रतेविवाहे क्षुरकर्णवेधे” तृतीयपादादि पाठः “अथेति द्विती-यजनुषोरनाद्यगर्भयोश्चेद्विवाहः तर्हि सुतप्रदो विबुधैःपण्डितैः प्रशस्यते । एतच्च तृतीयगर्भादावपि द्रष्टव्यम् ।सर्वथाद्यगर्भराहित्यं विवक्षितम् । केचित् “चेदनाद्यजनुषो-रिति” पठन्ति । यदाह च्यवनः “जन्मर्क्षेजन्ममासे वातारायामथ जन्मनि । जन्मलग्ने भवेदूढा पुत्राढ्या पतिव-ल्लभेति” । चण्डेश्वरः “जन्ममासे तु पुत्राढ्या धनाढ्याजन्मभोदये । जन्मलग्ने भवेदूढा वृद्धा सन्ततिसौख्यभागिति”एतच्चानाद्यगर्भविषयम् । “आद्यगर्भे साक्षान्निषेधाभिधानात्”पी० धा० । ज्यो० त० तु कन्याविषयमिदं न वरविषयम् ।“उद्वाहश्च कन्याया जन्ममासे प्रशस्यते” इति श्रीपतिवच-नात् इति समर्थितम् । अथ ज्यैष्ठादिमासे विवाहे विशेषः ।“ज्येष्ठद्वन्द्वं मध्यमं संप्रदिष्टं त्रिज्येष्ठञ्चेन्नैव युक्तं कदापि ।केचित्सूर्यं वह्निगं प्रोह्य चाहुर्नैवान्योन्यञ्येष्ठयोः स्याद्वि-वाहः” मु० चि० “पुत्रोज्येष्ठः कन्या च ज्येष्ठा मासोऽपिज्येष्ठः इत्येतत्त्रिज्येष्ठम् । इदं ज्येष्ठत्रयमुच्यते । तत् कदापिनैव युक्तं नैव प्रशस्तम् । ज्यैष्ठे मासे ज्येष्ठवधूवरयोर्नैवविवाहःकार्य इत्यर्थः । यदात्वेकतरज्येष्ठत्वं तदा ज्येष्ठमा-सेऽपि भवति । यदाह गुरुः “न ज्यैष्ठे ज्येष्ठयोः कार्यंनृनार्योः पाणिपीडनम् । तयोरन्यतरे ज्येष्ठे ज्येष्ठमास्यपिकारयेत्” इति । एतच्चान्यतरज्येष्ठत्वं द्विविधं ज्येष्ठ-मासो ज्येष्ठोवरश्च, ज्येष्ठोमासः कन्या च ज्येष्ठा एतज्ज्येष्ठः-द्वन्द्वं मध्यमं संप्रदिष्टमगतिविषयकमित्यर्थः । एकोज्ये-ष्ठोऽन्यद्वयमज्येष्ठमुत्तममेव यदाह वराहः “द्वौ ज्येष्ठौ मध्य-मौ प्रोक्तावेक ज्येष्ठः शुभावहः । ज्येष्ठत्रयं न कुर्वीतविवाहे सर्वसम्मतमिति” । पराशरोऽपि “अज्येष्ठा कन्यकायत्र ज्येष्ठःपुत्रोवरो यदि । व्यत्ययोवा तयोस्तत्र ज्येष्ठ-मासः शुभप्रदः” इति । केचित्तु ज्येष्ठमासाभावेऽपि वर-कन्ययोर्ज्येष्ठत्वमपि मध्यमाहुस्तदसत् । वधूवरान्यतरज्येष्ठताराहित्यं विवक्षितम् । तद्वाक्यं प्रागुक्त । किन्तु जन्ममास-ज्येष्ठमासयोरभावेऽपि ज्येष्ठयोर्बधूवरयोः सर्वथा निषिद्धोविवाहः । यदाह गर्गः “ज्येष्ठायाः कन्यकायाश्च ज्येष्ठ-पुत्रस्य वै मिथः । विवाहो नैव कर्त्तव्यो यदि स्यान्निधनंतयोरिति” । तदेतदुक्तं ग्रन्थकृता “नैवान्योन्यं ज्येष्ठयोःस्याद्विवाहः” इति । ज्येष्ठत्रयनिषेधस्त्वतिदोषाधिक्यसूचनार्थः । (अतःपरं ज्येष्ठशब्दस्य ज्यैष्ठवाचकत्वं समर्थितम्)अथास्यापवाद उच्यते केचिदिति । सत्यावश्यकत्वे सूर्यंवह्निगङ्कृत्तिकास्थं प्रोह्य त्यक्त्वा ज्यैष्ठमासेऽपि ज्येष्ठस्यवरस्य कन्याया वा विवाहः शुभः इति केचिदू चुः एत्च्चतुल्यन्याय्यत्वाज्ज्येष्ठापत्यस्य न ज्येष्ठे इति सामान्यतोमङ्गलकृत्यनिषेधेऽपि द्रष्टव्यं यदाह भरद्वाजः “ज्यैष्ठे ज्येष्ठस्य कुर्वीत भास्करे चानलस्थिते । नोत्सवादीनि कार्य्याणिदिग्दिनानि च वर्जयेत्” । विशेषमाह स एव । “दशाह-ञ्चैव गर्गस्तु त्रिदशाहं वृहस्पतिः । अर्कभोग्यानग्निभ-तो मुनिः त्राहं पराशर” इति । तन्त्रान्तरेपि । “कृत्तिका-स्थं रविन्त्यक्त्वा ज्यैष्ठे ज्येष्ठस्य कारयेत् । उत्सवादीनिकार्याणि दिनानि दश वर्जयेत् । व्रतबन्धविवाहञ्च चूडांकर्णस्य वेधनम् । ज्यैष्ठमासे न कुर्वीत कल्याणञ्ज्येष्ठपु-त्रगमिति” । अत्र ज्येष्ठपुत्रदुहित्रोर्ज्येष्ठमासवन्मार्गशीर्षे-ऽपि मङ्गलकृत्यनिषेधमाह वात्स्यः । “मार्गशीर्षे तथाज्यैष्ठे विवाहञ्चौलमेव च । ज्येष्ठपुत्रदुहित्रोश्च न कु-र्वीत व्रतन्तथा” । भरद्वाजोऽपि “मार्गशीर्षे तथा ज्यैष्ठे-क्षौरं परिणयं व्रतम् । आद्यपुत्रदुहित्रोश्च यत्नतः परि-वर्जयेत्” इति । (ज्यो० त० । “आद्यगर्भभवपुत्रकन्ययोःज्येष्ठमासि न च जातु मङ्गलम्” इत्युक्तम्) स्वयं च“ग्रन्थकर्त्रा ज्येष्ठे कैश्चिन्मार्गेऽपि नेष्यते इत्युक्तं प्राक्, कैश्चिद्ग्रहणं शिष्टाचाराभावं सूचयितुङ्कृतम्” पी०धा० । “सुतपरिणयात् षण्मासान्तः सुताकरपीडनंन च निजकुले तद्वद्वा मण्डनादपि मुण्डनम् । न चसहजयोर्देये भ्रात्रोः सहोदरकन्यके न सहजसुतोद्वा-होऽव्दार्धे शुभे न पितृक्रिया” मु० चि० । “देहलीदीप-न्यायेनात्रामि निजकुल इति सम्बन्ध्यते निजकुले स्ववंशेसुतस्य परिणयाद्विवाहात् परतः सौरमासषट्कमध्येसुतायाः कन्याया विवाहो न स्यात् । उक्तञ्च वसिष्ठेन ।“पुत्रोद्वाहान्नैव पुत्र्याः कदाचिदा षण्मासात्कार्य्यमुद्वाह-कर्मेति” । नारदोऽपि । “पुत्रोद्वाहात्परं पुत्रीविवाहो नऋतुत्रये । कुर्य्यान्न व्रतमुद्वाहं मङ्गलान्नापि मङ्गलमिति”(ऋतूनां सौरत्वात् सौरषण्मासवर्ज्जनमुक्तम्) अयञ्च निषेधःकुलपरोद्रष्टव्यः । यदाह वात्स्यः । “स्त्रीविवाहः कुले निर्गमःकथ्यते पुंविवाहः प्रवेशो वसिष्ठादिभिश्च । निर्गमादादितोन प्रवेशोहितस्तत्र संवत्सरान्तोऽवधिः कीर्त्तितश्च” इति ।निजकुल इति । स्ववंशे पुत्रस्य कन्याया वा मण्डना-द्विवाहान्मुण्डनञ्चौलमुपनयनं महानाम्न्यादिव्रतचतुष्टयंसमावर्त्तनं वा तद्वत् षण्मासान्तर्न कार्य्यम् । यदा-हात्रिः “कुले ऋतुत्रयादर्वाक् मुण्डनान्न तु मुण्डन-मिति” । तस्मान्मुण्डनान्मुण्डनं कार्य्यं तथा कन्या-विवाहादनन्तरं पुत्रस्य विवाहः कार्य्य इत्यर्थः । यदाहनारदः । “मुण्डनान्मण्डनं कार्य्यं मण्डनान्नैव मुण्डनमिति” । वसिष्ठः “पुत्रीविवाहात् परतः सदैव शुभप्रदंपुत्रविवाहकर्मेति” नचेति, सहजयोः सोदरयोर्भ्रात्रो-स्महोदरकन्यके न देये नोद्वाह्ये । उक्तं च नारदेन“नचैकजन्मनोः पुंसोरेकजन्ये तु कन्यके । नूनङ्कदाचि-दुद्वाह्ये नैकदा मुण्डनद्वय मिति” “एकजन्ये तु कन्ये द्वे-पुत्रयोर्नैकजन्ययोरिति” बसिष्ठोक्तेश्च । अत्र चकारोऽनुक्तसमुच्चयार्थः । तेनैकस्मै वराय सहोदरकन्याद्वयमपि नदेयमित्यर्थः । “न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचनेति”वसिष्ठोक्तेः नारदोपि । “प्रत्युद्वाहोनैव कार्य्योनैकस्मै दु-हितृद्वयमिति” । प्रत्युद्वाहोविनिमयविवाहः मत्पुत्रायचेत्त्वया कन्या दीयते तदा मयापि त्वत्पुत्राय कन्या देये-त्येवं पणबन्धरूपः । (परिवर्त्त) एतादृशः पणबन्धोभगि-न्यादिदानेऽपि द्रष्टव्यः । सुतश्च सुतश्च सुतौ सरूपाणा-मित्येकशेषः । सुता च सुता च सुते पूर्व्ववदेकशेषः ।सुता च सुतश्च सुतौपुमान् स्त्रियेत्येकशेषः । सुतौ चसुते च इति कृतैकशेषाणां न्द्वन्द्वः अत्रापि पुमान् स्त्रिये-त्येकशेषः । सहजाश्च ते सुताश्चेति कर्म्मधारयः । तेषांसोदरभ्रातॄणां विवाहः अव्दार्द्धे वर्षार्द्धे सौरषण्मास-मध्ये न कार्य्यः । यदाहनारदः “विवाहस्त्वेकजन्यानांषण्मासाभ्यन्तरे यदि । असंशयं त्रिभिर्वर्षैस्तत्रैका विधवाभवेत्” । विवाह इत्युपलक्षणम् । तेन समानसंस्कार एकमातृंजयोः पुत्रयोः कन्ययोर्बा पुत्रकन्ययोर्वा न कार्य्यइत्यर्थः । तथा च वृद्धमनुः “एकमातृजयोरेकवत्सरे पुरु-षस्त्रियोः । न समानक्रियाङ्कुर्य्यान्मातृभेदे विधीयते”इति । समानक्रिया चूडाकरणादिका एकवर्षमध्ये निषि-द्धेत्यर्थः । एकवत्सर इति सावकाशकालद्योतनाय ।षण्मासमघ्ये तु सर्वथैव न कार्य्या । “विवाहस्त्वेक-जन्यानां षण्मासाभ्यन्तरे यदीति” नारदवाक्यस्वरसात् ।पराशरीऽपि “एकोदरप्रसूतानामेकस्मिन् वत्सरे यदि ।पाणिग्रहोभवेन्नूनं तत्रैका विधवा भवेदिति”तुल्यन्यायत्वाद्यज्ञोपवीतसंस्कार्य्यत्वात् तयोरन्यतरस्यनाश इत्यर्थः “नैकदा मुण्डनद्वयमिति” वसिष्ठोक्तेः ।एकदा एकस्मिन्वर्षे मुण्डनञ्चौलमुपनयनं वा” “पुत्री-परिणयादूर्ध्वं यावद्दिनचतुष्टयम् । पुत्र्यन्तरस्यकुर्वीत नोद्वाहमिति सूरय इति” गर्गवाक्यन्तु भिन्नमातृविषयपूर्वोक्तपराशरवाक्यस्वरसात् । “समाना-पि क्रिया कार्य्या मातृभेदे तथैव च । विवाहे दुहितुःकार्य्यो न विवाहश्चतुर्द्दिनमिति” नारदोक्तेश्च । वसिष्ठेन तुविशेषोऽभिहितः । “एकोदरप्रसूतानां नात्र कार्य्यत्रयंभवेत् । भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीदिति” ।चौलोपनयनविवाहरूपं कार्यत्रयम् । तदुक्तं च्यवनेन ।“आदौ चौलं ततो मौञ्जी विवाहश्च शुभप्रदः । मातृभेदेबुधैरुक्तो मातुरैक्ये न कर्हिचिदिति” । एवं स्थिते भिन्नो-दरमङ्गलं सत्यावश्यकत्वे एकस्मिन् मण्डपे न कार्य्यम् ।किञ्च गृहभेदादाचार्य्यभेदाद्वा कार्य्यं यदाह वसिष्ठः ।“द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैश्च ।आवश्यकं शोभनमुत्सवो वा द्वारेऽथवाचार्य्यविभेदतोऽपि”इति! द्वारे द्वारभेदे ।यमलजातयोस्त्वपत्ययोर्नियतकालानां जातकर्मादिकर्म-णामेकक्रियानिषेधाभावो वर्षभेदेन तदसम्भवात् । अतो यम-लजातयोरुक्तनिषेधो नास्ति । “एकस्मिन् वत्सरे प्राप्ते कुर्या-द्यमलजातयोः । क्षौरञ्चैव विवाहञ्च मौञ्जीबन्धनमेव चेति”पराशरोक्तेः । क्षौरञ्चौलम् । भट्टकारिकायां च “एकस्मिन्वत्सरे चैव वासरे मण्डपे तथा । कर्त्तव्यं मङ्गलं स्वस्रोर्भ्रा-त्रोर्यमलजातयोरिति” । तत्रापि ज्येष्ठानुक्रमेण । “जन्म-ज्येष्ठेन चाह्वानं सुब्राह्मण्यास्वपि स्मृतम् । यमयोश्चैवगर्भेषु जन्मतोज्येष्ठता मतेति” मनूक्तेराद्योत्पन्नस्य ज्येष्ठ-त्वम् । “यस्य जातस्य यमयोः पश्यति प्रथमं मुखम् ।सन्तानः प्रथमश्चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितमिति” ।सन्तानोवंशः । शुभे इति शुभे विवाहादिमङ्गलकृत्ये पितृ-क्रिया श्राद्धक्रिया न कार्य्या विशेषेणानभिधानात् कुलेऽयं-निषेधः मङ्गले नाप्यमङ्गलमिति” नारदोक्तेः । अम-ङ्गलं श्राद्धम् । तु किन्तु समाप्ते एव मङ्गले कार्य्यमित्यर्थः ।अथवा श्राद्धदिने समीपस्थिते तदनन्तरं लग्नमवधार्य्य विवा-हादिमङ्गलं कृत्यं कार्य्यमित्यर्थः” पी० धा० । “बध्वा वरस्यापिकुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम् । मासोत्तरं तत्रविवाह इष्यते शान्त्याऽथ वा सूतकनिर्गमे परैः” मु० चि०“निश्चयोत्तरं वाग्दानानन्तरं यदि बघ्वाः कन्यायास्तथावरस्यापि कुले वंशे तत्रापि त्रिपूरुषमध्येकश्चन सपिण्डो-नाशं व्रजेत् प्राप्नुयात् तत्र मासोत्तरं मरणदिनादार-भ्य त्रिंशद्दिनं प्रतिकूलं ततः शान्त्या स्वनुष्ठितया विवाहःसुखेनेष्यते । उक्तञ्च स्मृतिचन्द्रिकायाम् । “कृते वाङ्रि-श्चये पश्चान्मृत्युर्भवति गोत्रिणः । तदा न मङ्गलं कार्य्यंनारीवैधव्यदं ध्रुवमिति” । विशेषमाह मेधातिथिः ।“पुरुषत्रयपर्य्यंन्तं प्रतिकूलं सगोत्रिणांम् । प्रवेशनिर्गमौतद्वत् तथा मुण्डनमण्डने” । इदं तु पित्रादिभिन्नविषयंयथोक्तं माण्डव्येन “अन्येषां तु सपिण्डा-नामाशौचं माससम्मितम् । तदन्ते शान्तिकं कृत्वा ततो-लग्नं विधोयते” इति । पित्रादिमरणे तु विशेषमाहशौनकः । “वरबध्वोः पिता माता पितृव्यश्च सहोदरः ।एतेषां प्रतिकूलञ्च महाविघ्नप्रदं भवेत् । पिता पि-तामहश्चैव माता वापि पितामही । पितृव्यः स्त्रीसुतो-भ्राता भगिनी वा विवाहिता । एभिरेव विपन्नैश्च प्रति-कूलं बुधैः स्मृतमिति । अन्यैरपि विपन्नैश्च केचिदूचुर्न तद्भ-वेत्” । अन्यैः उक्तेभ्योऽन्यैः । प्रतिकूलस्य नियतं कालमाह-माण्डव्यः “वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्-मृतिः । तदा संवत्सरादूर्द्ध्वं विवाहः शुभदो भवेत् । पि-तुराशौचमव्दं स्यात् तदर्द्धं मातुरेव हि । मासत्रयञ्चभार्य्यायास्तदर्द्धं भ्रातृपुत्रयोः” । दैवज्ञमनोहरे विशेषः“प्रतिकूले सपिण्डस्य मासमेकं विवर्ज्जयेत् । विवाहस्तुततः पश्चात् तयोरेव विधीयते । दुर्भिक्षे राष्ट्रभङ्गे च पि-त्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां प्रतिकूलं न दुष्य-तीति” मेधातिथिः । “दीर्घरीगाभिभूतस्य दूरदेशस्थितस्य च ।उदासवर्त्तिनश्चैव प्रतिकूलं न विद्यते । सङ्कटे समनुप्राप्तेयाज्ञवल्केन योगिना । शान्तिरुक्ता गणेशस्य कृत्वा तांशुभमाचरेत् । अकृत्वा शान्तिकं यस्तु निषेधे सति दारुणे ।यः करोति शुभं तावद्विघ्नं तस्य पदेपदे” इति । अथाव-श्यकत्वेऽपवादमाहाथवेति । “स्वस्ववर्णपुरस्कारेणाशौचनि-र्गमे मरणाशौचनिर्गमे सति शान्त्या च स्वनुष्ठितयाविवाहः कार्य्य इति परैराचार्य्यैरिष्यते । यदाह मेधा-तिथिः । “प्रेतकार्य्याण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियामिति”ज्योतिःप्रकाशेऽपि । “प्रतिकूलेऽपि कर्त्तव्योविवाहोमास-मन्ततरा । शान्तिं विधाय गां दत्त्वा वाग्दानादि चरेद्बुधः”इति । सत्यावश्यकत्व स्वस्वाशौचादनन्तरं मासमध्येऽपिशान्तिं विधाय विवाहः कार्य्य इत्यर्थः पी० धा० “चूडाव्रतञ्चापि विवाहतोव्रताच्चूडा नेष्टा पुरुषत्रयान्तरे । बधू-प्रवेशाच्च सुताविनिर्गमः षण्मासतोवाऽव्दबिभेदतः शुमःमु० चि० “चूडा चौलं व्रतमुपनयनञ्च अपिशब्दान्महानाम्न्यादिसमावर्त्तनञ्च विवाहात् परतः पुरुष-त्रयान्तरएव नेष्टम् । तथा व्रतादुपनयनाच्चूडा पुरुषत्रय-पर्य्यन्तं नेष्टा । तथा बध्वाः स्रुषायाः कन्यायाः वि-निर्गमोऽपि पुरुषत्रयपर्य्यन्ते नेष्टः एतन्मूलवाक्यं “पुरुषत्र-यपर्य्यन्तमित्यादि” “आदौ चौलं ततो मौञ्चीत्यादि” च प्रा-ग्लिखितम् । तस्मान्मूलपुरुषस्य चतुर्थादौ नायंदोषः । स चायं दोषः पुरुषत्रये षण्मासपर्य्यन्तमेव अतःषण्मासत इति मासषट्कानन्तरमयं व्यत्यस्तोऽपि बिवाहादिः सर्वोविधिः शुभः । एतन्मूलवाक्यम् “कुलेऋतुत्रयदर्वाक्” इत्यादि प्रागुक्तम् । अत्रापवाद उच्यतेवेति अथवाऽव्दभेदात् वर्षभेदात् षण्मासमध्येऽपिशुभः । यथा माघे मासि विवाहो वैशाखे चौलं यज्ञो-पवीतं वा भवत्येवेत्यर्थः । तदुक्तं संहितासारावल्याम्“फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने । भेदादव्दस्यकुर्वीत नर्त्तुत्रयविलङ्घनमिति” अत्र फाल्गुनपदं प्रागव्द-गतमासान्तरस्याप्युपलक्षणं चैत्रपदं चोत्तरवर्षगतवैशाखाद्युपलक्षणं तत्र कैमुतिकन्यायेन यत्र खल्पङ्कालान्तरं तत्रा-पि निषेधाभावस्ततोऽधिकव्यवधाने किं वाच्यम्, अव्द-भेदस्यव प्रयोजकत्वात्” पी० धा० । अथ प्रसङ्गान्मूलादिषूत्पन्नयोर्बधूवरयोः श्वशुरादिपीडकत्वमाह “श्वश्रूविना-शमहिजौ सुतरां बिधत्तः कन्यासुतौ निरृतिजौश्वशुरंहतश्च । ज्येष्ठाभजाततनया स्वधवाग्रजञ्च शक्राग्निजाभवति देवरनाशकर्त्री” मु० चि० । “अहिजावाश्लेषोत्-पन्नौ कन्यासुतौ श्वश्र्वाः साक्षाद्भर्त्तुर्मातुर्विनाशं विधत्तःकुरुतः तथा निरृतिजौ मूलोत्पन्नौ कन्यासुतौ श्वशुरंहतोमारयतः । उक्तञ्च वसिष्ठेन “नैरृत्यभोद्भूतसुतःसुता वा माक्षादवश्यं श्वशुरं निहन्ति । तदन्त्यपादे जनितोनिहन्ति नैवोत्क्रमेणाहिभवः कलत्रमिति” अहिभवइति पुंस्त्वमविवक्षितम् । सुतः सुता वेति पूर्व्वोंक्तेः“मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनामिति” नारदो-क्तेश्च तस्य श्वशुरस्याङ्गनां पत्नीम् । वरस्य कन्यायावा साक्षान्मातरं न तु सापत्नमातरं हन्तीत्यर्थः । तदेवस्पष्टमुक्तं वसिष्ठेन । “जनकं जननीं हन्ति भर्त्तुर्मूला-हिधिष्ण्यजा” । तुल्यन्यायत्वात् कन्याया अपि साक्षा-न्मातरम् । ज्येष्ठेति ज्येष्ठानक्षत्रोत्पन्नकन्या स्वधवा-ग्रजं भर्त्तुर्ज्येष्ठभ्रातरं हन्ति । शकाग्निजा विशाखा-नक्षत्रोत्पन्नकन्या देवरस्य भर्त्तुः कनिष्ठबन्धोर्नाशकर्त्रीभवति” । यदाह वसिष्ठः । “सुरेशताराजनिता धवाग्रजंद्विदैवताराजनिता तु देवरमिति” । हन्तीत्यनुवर्त्तते । ना-रदोऽपि । “ऐन्द्री पत्यग्रजं हन्ति देवरन्तु द्विदैवजेति” पी०धा० अत्र विशेषः “द्वीशाद्यपादत्रयजा कन्या देवरसौख्यदा ।मूलान्त्यपादसार्पाद्यपादजातौ तयोः शुभौ” । मु० चि०“द्वीशं विशाखा । यदाह च्यवनः । “विशाखा तुलया-युक्ता देवरस्य शुभावहा । विशाखा वृश्चिकोद्भूता देवरंहन्त्यसंशयमिति” । वृद्धनारदोऽपि “न हन्ति देवरंकन्या तुलामिश्रद्विदैवजा । चतुर्थपादजा त्याज्या दुष्टावृश्चिकपुच्छवत्” । तस्माद्विशाखाचतुर्थपादे निषेधः फ-लित” इत्यर्थंः । मूलेति । तयोः श्वशुरश्वश्र्वोः मूल-चतुर्थचरणोत्पन्नौ तौ कन्यासुतौ श्वशुरसौख्यदौ ।आश्लेषाद्यचरणोत्पन्नौ कन्यासुतौ तयोः सौख्यदौ तदुक्तंनारदेन । “सुतः सुता वा नियतं श्वशुरं हन्ति मूलजः ।तदन्त्यपादजोनैव तथाऽश्लेषाद्यपादजः” अत्र पुंस्त्वमविव-क्षितं हेतुः स एव” पी० धा० । इति बधूवरयोः सामान्य-तोगुणदोषविचारःअथ बधूवरयोर्मेलकम् । तत्र कूटान्यनेकविधानि तत्रकेचिद्दश कूटान्याहुः । तदाह नारदः । “दिनं गणञ्चमाहेन्द्रं स्त्रीदीर्घं योनिरेव च । राशिराश्यधिपौ रज्जुर्वश्यं वेधो दश स्मृताः” । “पुनश्च वर्णकूटञ्च माहेन्द्रंवा ततः परम् । एते द्वादश योगाश्च प्रीतिभेदाःप्रकीर्त्तिताः” । अन्येऽष्टादशकूटान्याहुः । यदाह गर्गः“माहेन्द्रं गणकूटञ्च दिनकूटञ्च योनिजम् । स्त्रीदीर्घंरज्जुकूटञ्च वश्यं वर्णाख्यकूटकम् । राशिराश्यधिपाख्येच वेधौ नाड्याख्यकूटकम् । भूतलिङ्गाख्यकूटञ्च जात्याख्यंपक्षिकूटकम् । योगिनीगोत्रकूटन्तु कूटात्यष्टादशैव तु ।दम्पत्योर्वृद्धिकारीणि यत्नाच्चिन्त्यानि शास्त्रतः” इति । तत्रदशादिकूटानां तत्तद्देशविशेषप्रसिद्धत्वात् तानि विहायसर्वदेशप्रसिद्धान्यष्टकूटानि सलक्षणानि आह पी० धा०“वर्णोवश्यं तथा तारा योनिश्च ग्रहमैत्रकम् । गणमै-त्रम्भकूटञ्च नाडी चैते गुणाधिकाः” मु० चि० ।“एते राशिकूटभेदवर्णादिमैत्र्यां सत्यां गुणाधिकाएकादिगुणाधिकाःस्युः । वर्णमैत्र्यामेकगुणः, वश्ये द्वौगुणौ, तारायां त्रयोगुणाः, यीनिमैत्र्यां चत्वारः, ग्रहमै-त्र्यां पञ्च, गणमैत्र्यां षट्, सद्भकूटे सप्त, नाडीभे-देऽष्टौ इत्यर्थः । तदुक्तम् “वर्णोवश्यं तारा योनिग्रह-भकूटनाडिकाश्चेति । ज्ञेया यथोत्तरं ते बलिनः स्त्रीपुं-सयोर्घटन” इति । दैवज्ञमनोहरेऽपि । “नाडीमेदे गुणाअष्टाउ सप्त सद्राशिकूटके । षट्गुणा गणमैत्र्याञ्च सौहार्देपञ्चकं तयोः । योनिमैत्र्याञ्च चत्वारस्त्रयस्ताराबलेगुणाः । वश्यत्वे द्वौ गुणौ प्रोक्तौ वर्णएकः प्रकीर्त्ति-तः इति” पी० धा० । तत्रादौ वर्णकूटमाह“द्विजाझषालिकर्कटास्ततो नृपा विशोऽङिघ्रजाः ।वरस्य वर्णतोऽधिका बधूर्न शस्यते बुधैः” मु० चि० ।“मीनवृश्चैककर्कराशयोद्विजाः ब्राह्मणाः । ततीऽनन्तरमन्येमेषसिंहधनूराशयोनृपाः क्षत्रियाः । वृषकन्यामकराविशोवैश्याः । मिथुनतुलाकुम्भा अङ्ध्रिजाः शूद्राः । ततश्चवधूवरराश्योर्वर्णौ ज्ञात्वा वरस्य वर्णतः ब्राह्मणादिकाद्-बधूरधिका ज्येष्ठवर्णा बुधैर्न शस्यते । किन्तु समा होनावा शस्यत इत्यर्थः । यदाह नारदः । “झषालिकर्कटाविप्रा-स्तदूर्ध्वाः क्षत्रियादयः । पुंवर्णराशेः स्त्रीराशौ समे-हीने तथा शुभम् । वर्णज्येष्ठा तु या नारी वर्णहीनःस्तु यः पुमान् । विवाहं यदि कुर्वीत तस्या भर्त्ता विन-श्यति” । अत्रैको गुणो वर्णाधिके वरे वर्णसमे वा वर्णहीनेतु गुणाभावः तदुक्तं दैवज्ञमनोहरे । “एकोगुणः सदृग्वर्णेतथा वर्णोत्तमे वरे । हीनवर्णे वरे शून्यं केऽप्याहुः सदृशेदलमिति । दलमर्द्धम् । पी० धा० । अथ वश्यकूटम् ।“हित्वा मृगेन्द्रं नरराशिवश्याः सर्वे तथैषां जलजाश्च-भक्ष्याः । सर्वेऽपि सिंहस्य वशे विनालिं ज्ञेयं नराणांव्यहारतोऽन्यत्” मु० चि० । “नरराशयो मिथुनकन्यातुलाः एषां सर्वेऽपि मेषादयः सिंहं त्यक्त्वा वश्याः ननुमनुष्याणां जलचराः कथं वश्याः यत उभयोः सहाव-स्थानाभाव इत्यत आह तथेति । एषां नरराशीनांजलजाः कर्कमकरकुम्भमीनास्तु भक्ष्याः किं पुनर्वश्याइति सूचयितुं तुशब्दः । सिंहस्य वशे अलिं वृश्चिकं विनासर्वे राशयोवश्याः अन्यदनुक्तं चतुष्पदानां स्थलचराणांचतुःपदजलचराणां वा परस्परं वश्यावश्यं, नराणांमनुष्याणां व्यवहारतो ज्ञेयं यदाह वसिष्ठः “वश्यास्त्य-क्त्वा राशयोऽन्ये नृभानां सिंहन्तस्याऽप्येवमन्ये विधेयाः ।कीटन्त्यक्त्वा लोकतोन्यत्प्रसिद्धम् वश्यावश्यं नैव तो-यालयाल्योः” तोयालया जलचराः अलिश्च ते पर-स्परं वश्या नैव स्युरित्यर्थः । अत्र गुणविभागो दैवज्ञम०“सख्यं वैरं च भक्ष्यं च वश्यमाहुस्त्रिधा बुधाः ।वैरे भक्ष्ये गुणाभावोद्वयोः सख्ये गुणद्वयम् । वश्यवैरेगुणस्त्वेको वश्यभक्ष्ये गुणोऽर्द्धक इति” यद्यपीदं बधू-वरयोः परस्परं तुल्यमेवोक्तं तथापि सत्यावश्यकत्वेवरं प्रति भक्ष्यत्वं वश्यत्वंवा स्त्रियोऽपेक्ष्यं न तु वि-परीतं “वर्णज्येष्ठा तु या नारीत्यनेन” समानन्यायत्वात्“अन्योन्यवश्यत्वे तूत्तममेव” पी० धा० । अथ ताराकूटम् ।“कन्यर्क्षाद्वरभं यावत् कन्याभं वरभादपि । गणयेन्नव-हृच्छेषे त्रीष्वद्रिभमसत् स्मृतम्” मु० चि० “कन्याजन्मनक्ष-त्रात् वरनक्षत्रं यावद्गणयेत्तथा वरनक्षत्रादपि कन्या-नक्षत्रं गणयेत्ततोऽवगतेऽङ्के नवभिर्भक्ते यदवशिष्टं तच्चेत्त्रिपञ्चसप्तमितम्भवेत्तदाऽसत् अशुभदं स्मृतमन्यथाद्विचतुःषडष्टनवमितञ्चेत्स्यात्तदा शुभमित्यर्थादुक्तम्भवतियदाह नारदः “स्त्रीभमारभ्य गणने नवपर्य्यायतःक्रमात् । जन्मत्रिपञ्चसप्तस्थम्पुम्भं स्याद्वरनाशनम् ।पुम्भमारभ्य गणने स्त्रीभञ्जन्मादिके स्थले । स्त्रीविनाशोभवेत्तस्माद्दिनकूटं विवर्जयेत्” दिनकूटं ताराकूटम् ।शार्ङ्गीयेऽपि “नरर्क्षाद्गणयेद्यावत्कन्यर्क्षङ्कान्यभादपि । वरभं नवहृच्छेषास्ताराः सन्ति परस्परम् । त्यक्त्वा त्रिपञ्चसप्ताख्याःशेषोद्वाहे मिथः शुभाः” इति यत्तु कश्यपेन” “गणयेत्कन्य-काधिष्ण्यादावृत्त्या वरजन्मभम् । जन्मत्रिपञ्चसप्तर्क्षं हि-त्वाऽन्यर्क्षं शुभप्रदमिति” । कन्यानक्षत्रादेव गणनोक्ता ।अत एव “भीरुभादचलपञ्चतृतीयाः शोकवैरविपदेव चतारा” इति केशवार्केणाप्युक्ता सा त्वावश्यकद्योतनार्था । त-थाहि । द्वयोरपि परस्परनक्षत्रगणने शुभञ्चेच्छुभमेवाशुभ-ञ्चेदशुभमेव तत्रैकस्मादन्यतरनक्षत्रगणनयाऽशुभत्वेऽपि स्त्री-नक्षत्राद्वरनक्षत्रं त्वशुभं नापेक्षितव्यमेवेति भावः । अत्रगुणविभागो दैवज्ञम० । “एकतोलभ्यते तारा शुभा-चैवाशुभाऽन्यतः । तदा सार्द्धो गुणश्चैव ताराशुद्ध्या मिथस्त्रयः । उभयोर्न शुभा तारा तदा शून्यं समादिशेदिति”अत्र यद्यपि नारदादिभिर्जन्मतारा निषिद्धेत्युक्तम् । तद्-ग्रन्थकृता एकनक्षत्रे तावत् “राश्यैक्ये चेद्भिन्नमृक्षन्द्वयोःस्यान्नक्षत्रैक्ये राशियुग्मन्तथैवेति” वक्ष्यमाणत्वान्नोक्तम् ।दशमैकोनविंशतितारयोस्तु निषेधो दुष्टभकूटे ज्ञेयः ।सद्भकूटे तु दोषाभावएव” । पी० धा० योनिकूटमाह “अश्वि-न्यम्बु पयोर्हयोनिगदितः स्वात्त्यर्कयोः कासरः, सिंहोवस्व-जपाद्भयोः समुदितोयाम्यान्त्ययोः कुञ्जरः । मेषोदेवपुरो-हितानलभयोः कर्णाम्बुनोर्वानरः, स्याद्वैश्वाभिजितोस्तथैवनकुलश्चान्द्राब्जयोन्योरहिः । ज्येष्ठामेत्रभयोः कुरङ्ग उ-दितो मूलार्द्रयोःश्वा तथा, मार्जारोऽदितिसार्पयोरथमघायोन्योस्तथैवोन्दुरुः । व्याघ्नोद्वीशभचित्रयोरपि चगौरार्य्यम्णबुध्न्यर्क्षयोर्योनिः पादगयोः परस्परमहावैरंभयोन्योस्त्यजेत्” मु० चि० “अश्विनीशततारयोर्हयः अ-श्वयोनिरुक्तः १ स्वातीहस्तयोः कासारोमहिषः २ । वस्व-जपाद्भयोर्धनिष्ठापूर्व्वाभाद्रपदयोः सिंहः ३ । याम्यान्त्य-योर्भरणीरेवत्योः कुञ्जरोहस्ती ४ । पुष्यकृत्तिकयोः मेषः ५कर्णाम्बुनोः श्रवणपूर्व्वाषाढयोर्वानरःस्यात् ६ । उत्त-राषाढाभिजितोर्नकुलः ७ । चान्द्रं मृगः अब्जयोनिर्व्र-ह्मा तद्भं रोहिणी तयोरहिः सर्पः ८ । ज्येष्ठानुराधयोःकुरङ्गो हरिणौदितः९ । मूलार्द्रयोःश्वा कुक्कुरः१० । तथापुनर्वस्वश्लेषयोर्मार्जारः११ । मघापूर्व्वाफल्गुन्योरुन्दुरु-र्मूषिकः१२ । द्वीशं विशाखा चित्रा तयोर्व्याघ्रः१३ । आर्य-म्णम् उत्तरफल्गुनी बुध्न्यर्क्षमुत्तरभाद्रपदा तयोर्गौः १४ ।तत्फलमाह पादगयोरिति । एकस्मिन् पादे श्लोकचरणेउक्तनक्षत्रयोन्योः परस्परं महावैरंभवेदन्यथा नेत्यर्थः ।यथा । “अश्विन्यम्बुपयोर्हयोनिगदितः स्वात्यर्कयोः कासरः”इतिपादस्तत्रोक्तयोन्योरश्वमहिषयोर्महावैरं भवेत् । एवंसिंहहस्तिनोरित्यादिष्वपि द्रष्टव्यम् । यदाह वसिष्ठः । “अ-श्वेभमेषभुजगद्वयकुक्कुरौतुमेषौतुमूषकमथोन्दुरुगोलुलापाः ।शार्दूलमाहिषगवारिमृगद्वयं श्वा कीशोऽथ बभ्रु-युगकीशगवाश्वसिंहाः । गौःकुञ्जराविति यथाक्रममाश्वि-नादिभानाम्भवन्ति खलुकल्पितयोनिरूपाः” । लुलापी म-हिषः, गवारिर्व्याघ्रः कीशोवानरः बभ्रुर्नवुलः । “बभ्रूरगंश्वैणमिभेन्द्रसिंहमोत्वाखुसंज्ञन्त्वजवानरौ च । गोव्या-घ्रमश्वोत्तरमाहिषञ्च वैरं नृनार्योर्नृपभृत्ययोश्चेति” एत-त्फलं सापवादमाहात्रिः । “एकयोनिषु सम्पर्त्त्यै द-म्पत्योः सङ्गमः सदा । भिन्नयोनिमु मध्यःस्यादरिभावोन चेत्तयोः । योनेरभावे नोद्वाहः स तु कार्य्योवियोगदः । राशिर्वश्यञ्च यद्यस्ति कारयेन्न तु दोषभाक्” ।अत्र गुणविभागोदैपज्ञम० “अष्टाविंशतिताराणां योनयस्तुचतुर्दश । मैत्रं चैवातिमैत्रञ्च विवाहे नरयोषितोः ।महावैरे च वैरे च स्वभावे च यथाक्रमम् । मैत्रे चैवाति-मैत्रे च खेन्दुद्वित्रिचतुर्गुणाः” पी० धा० । अथ ग्रहमैत्री“मित्राणि द्युमणेः कुजेज्यशशिनः शुक्रार्कजौ वैरिणौ, सौम्यश्चास्य समो, विधोर्बुधरवी मित्रे, न चास्य द्विषत् ।शेषाश्चास्य समाः, कुजस्य सुहृदश्चन्द्रेज्यसूर्य्या, बुधःशत्रुः, शुक्रशनी समौ च, भृत्सुनोः सिताहस्करौ ।मित्रे, चास्य रिपुः शशी, शानक्ष्माजाः समा, गीष्पते-र्मित्राण्यर्ककुजेन्दवोबुधसितौ शत्रू, समः सूर्य्यजः । मित्रे-सौम्यशनी, कवेःशशिरवी शत्रू, कुजेज्यौ समौ । मित्रेशुक्रबुधौ, शनेः शशिरविक्ष्माजा द्विषोऽऽन्यः समः” मु० चि०एत्फलं सापवादमाह जगन्मोहने वसिष्ठः“अन्योन्यमित्रं शस्तं स्यात् सममित्रं तु मध्यमम् ।उदासीनं कनिष्ठं स्यान्मृतिदं शात्रवं स्मृतम् । शत्रु-मित्रञ्च विज्ञेयं दम्पत्योः कलहप्रदम् अन्योन्यसमशत्रुतवंदम्पत्योर्विरहप्रदम्” अस्यापवादस्तत्रैव “राशिनाथे विरुद्धे-ऽपि सबलावंशकाधिपौ, तन्मैत्रैऽपि च कर्त्तव्यं दम्पत्योःशुभमिच्छता । अत्र गुणभेदो दैवज्ञम० । “ग्रहमैत्र्यंसप्तविधं गुणाः पञ्च प्रकीर्त्तिताः । तत्रैकाधिपतित्वे चमित्रत्वे गुणपञ्चकम् । चत्वारः सममित्रत्वे द्वयोः साम्ये-त्रयी गुणाः । मित्रवैरे गुणश्चैकः समवैरे गुणार्द्धकम् ।परस्परखेटवैरे गुणशून्यं विनिर्द्दिशेद् । असद्भे सममि-त्रादौ व्येका ग्राह्या यथोदिताः” पी० धा० । अथ गणकूटम् ।“रक्षोनरामरगणाः क्रमतोमघाहिवस्विन्द्रमूलवरुणानलत-क्षराधाः । पूर्वोत्तरात्रयविधातृयमेशभानि मैत्रादितीन्दुह-रिपौष्णमरुल्लघूनि” मु० चि० ।“क्रमतः रक्षोनरामरगणाः वाक्यत्रयेणोच्यन्ते ।मघा प्रसिद्धा अहिरश्लेषा वसुर्धनिष्ठा इन्द्रोज्येष्ठामूलं प्रसिद्धं वरुणः शततारका अनलः कृत्तिकातक्षा चित्रा राधा विशाखा एतानि भानि रक्षोगणः ।पूर्वात्रयम् उत्तरात्रयं चेत्येवं षड्भानि विधाता रोहिणीयमोभरणी ईशः आर्द्रा एतानि भानि नरगणोमनुष्यगणः ।मैत्रमनुराधा अदितिः पुनर्वसुः इन्दुर्मृगः हरिः श्र-वणः पौष्णं रेवती मरुत् स्वातिः लघूनि अश्विनीह-स्तपुष्याणि एतानि भान्यमरगणो देवगुण इति । यदाहनारदः । “रक्षोगणः पितृत्वाष्ट्रद्विदैवत्येन्द्रतारकाः । वसु-वारीशमूलाहिकृत्तिकाभिर्युतास्ततः । तिस्रः पूर्वोत्त-राधातृयममाहेशतारकाः । इति मर्त्यगणोज्ञेयः स्याद-मर्त्यगणः परे । हयादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः”पी० धा० । फलमाह । “निजनिजगणमध्ये प्रीति-रत्युतमा स्यादमरमनुजयोः सा मध्यमा संप्रदिष्टा ।असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टो दनुजविबुधयो स्याद्वैर-मेकान्ततोऽत्र” मु० चि० । “असुरमनुजयोः राक्षसमनु-ष्यगणयोः स्त्रीपुंसयोः मृत्युरेव प्रदिष्ट उक्तः द्वयोर्वा-न्यतरस्य वेत्याकाङ्क्षायां प्रबलेन दुर्बलं बाध्यते इतिन्यायेन मनुष्यगणस्यैव नाशः, यदाह नारदः । “दम्पत्यो-र्जन्मभे चैकगणे प्रीतिरनेकधा । मध्यमा देवमर्त्यानां रक्षोनॄणांतयोर्मृतिः” कश्यपः “स्वगणे चीत्तमा प्रीतिर्मध्यमाऽमरम-र्त्ययोः । मर्त्यराक्षसयोर्वैरमसुरासुरयोरपीति” अयमर्थःपुरुषोरक्षोगणः स्त्री मनुष्यगणा तदा वैरं, यदि वैपरीत्य-न्तदा मृत्युः । तथा पुरुषोरक्षोगणः स्त्री देवगणा तदावैर वैपरीत्ये मृतिः । उक्तं च । “राक्षसी यदि वा नारीनरो भवति मानुषः । मृत्युस्तत्र न सन्देहो विपरीतःशुभावहः” । शार्ङ्गीये । “रक्षोगणः पुमान् स्याच्चेत्कन्याभवति मानवी । केऽपीच्छन्ति तदोद्वाहं व्यस्तङ्कोऽपीहनेच्छतीति” । एतत्तुल्यन्यायत्वाद्देवराक्षसयोरपि द्रष्टव्यम् ।अत्र गुणविभागो दैवज्ञम० । “षड्गुणा गणसादृश्ये पञ्चस्युः सुरमानुषे । नार्या देवोनरः पुंसश्चत्वारोवा गुणा-स्त्रयः । देवराक्षसयोः शून्यं तथैव नररक्षसोः । पुंसीरक्षोगणो यत्र नार्यादेवोऽथ वा नरः । गुणौ द्वौ क्रमतश्चै-को गुणोग्राह्योऽन्यथा न हीति” । अस्यापवादमाह गर्गः ।“ग्रहमैत्री च राशीशोर्विद्यते नियतं यदि । न गणाभावजनितं दूषणं स्याद्विरोधनम्” । अत्रिरपि । “राशी-शयोः सुहृद्भावे मित्रत्वे वांशनाथयोः । गणादिदौष्ट्येऽप्यु-द्वाहः पुत्रपौत्रप्रवर्द्धनः” । अमुं परिहारं ग्रन्थकृदप्यग्रेवक्ष्यति । मनुरपि । “ग्रहमैत्री च रज्जुश्च यदि नाडीपृथक् तयोः । विवाहः शुभदः कन्या राक्षसी वा नरोनरः”इति पी० धा० । रज्जुकूटमन्यत्र दृश्यम् । अथ भकूटम् “मृत्युःषट्काष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे । द्विद्वादशे निधनत्वंद्वयोरन्यत्र सौख्यकृत्” मु० चि० । “स्त्रीपुंमराश्योः परस्परंषष्ठाष्टमराशित्वे सति मृत्युर्ज्ञेयः । यथा मेषकन्ययोःवृषधनुषोः । एवं नवात्मजे नवपञ्चमेऽपत्यानां बालानांहानिर्नाशः स्यात् । यथा सिंहधनुषोः एवं द्विद्वादशेसति निर्द्धनत्वं दारिद्र्यं स्यात् । यथा मेषदृषयोः अ-न्यत्र तृतीयैकादशे चतुर्थदशमे समसप्तमे वा सति सौख्य-कृत्पाणिपीडनं स्यात् । यदाह नारदः “षट्काष्टकेमृतिर्नन्दनवमे त्वनपत्यता । नैख्यं द्विद्वादशेऽन्येषु दम्पत्योःप्रीतिरुत्तमेति” । अत्र विशेषोज्योतिःप्रकाशे । “पुंसो गृहात्सुतगृहे सुतहा च कन्या धर्मे स्थिता धनवती पतिवल्लभाच । द्विद्वादशे धनगृहे धनहा च कन्या रिप्फै स्थिता धनवतीपतिवल्लभा चेति” । अन्यच्च । “मृगः कुलीरेण घटेन सिं-होवैरप्रदः स्यात् समसप्तकोयम् । तुला मृगेणाथ वृषेणसिंहो मेषेण कर्कोमिथुनेन मीनः । चापेन कन्या धटभेनचालिर्दौर्भाग्यदैन्ये दशतुर्यकेऽस्मिनिति” पी० धा० अ-त्रापवादः “प्रोक्ते दुष्टभकूटके परिणयस्त्वेकाधिपत्ये शुभो-ऽथो राशीश्वरसौहृदेऽपि गदितो नाड्यृक्षशुद्धिर्यदि ।अन्यर्क्षेऽंशपयोर्बलित्वसखिते नाड्यृक्षशुद्धौ तथा तारा-शुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः” मु० चि० ।“प्रोक्ते दुष्टराशिकूटे सत्यपि द्वयोःस्त्रीपुरुषराश्योरेकाधिपत्ये एकस्वामित्वे परिणयो विवाहः शुभोगदितः ।यथा षट्काष्टके मेषवृश्चिकयोस्तुलावृषयोर्वा । नवमपञ्चमेत्वेकाधिपत्याभावः । द्विद्वादशे मकरकुम्भयोः । अथवा राशीश्वरयोः राशिस्वामिनोः सौहृदे मैत्र्ये परि-णयः शुभोगदितः । यथा षट्काष्टके मीनसिंहयोरित्या-दौ, नवपञ्चमे मेषधनुषोरित्यादौ । द्विद्वादशे मीनमेषयो-रित्यादौ । यदाह वसिष्ठः “द्विद्वादशे वा नवपञ्चमे वाषट्काष्टके राक्षसयोषितोर्वा । एकाधिपत्ये भवनेशमैत्र्येशुभाय पाणिग्रहणं विधेयमिति” राजमा० “भवेत्त्रि-कोणे बहुपुत्रवित्तं द्विद्वादशे चार्थमुपैति कन्या । षट्का-ष्टके सौख्यफलं विधत्ते स्त्रीणां विवाहे ग्रहमैत्रीभावे”इति एकाधिपत्येपीति शेषः । अतएव ग्रहमैत्र्यैका-धिपत्याभावे वैरषट्काष्टकमित्यादि वदन्ति । यदाह नारदः “वैरषट्काष्टकं मेषकन्ययोर्धटमीनयोः । चापोक्षयो-र्नृयुक् कीटभयोः कुम्भकुलीरयोः । पञ्चास्यमृगयोर्जन्म-राशेः प्रोक्तोऽशुभप्रदः” इति । उक्षा वृषः चापोक्षयोरि-रित्यकोरान्तनिर्देशच्छान्दसः । एतद्भिन्नं मित्रषट्काष्टकमित्याहुः । तदुक्तं जगन्मोहने “मित्रषट्काष्टकं कीट-मेषयोर्वृषजूकयोः । कर्किचापभयोर्मीनसिंहयोर्मृगयुग्मयोः ।कन्यकाकुम्भयोरन्यत् प्रयत्नादेव वर्जयेदिति” । एवञ्च ग्र-हमैत्र्यभावे वैरनवपञ्चममित्याहुः । तथा च शार्ङ्गधरीये-शुक्रः । “मीनालिभ्यां युते कीटे कुम्भे मिथुनसंयुते ।मकरे कन्यकायुक्ते न कुर्यान्नवपञ्चमे” इति । एता-दृशस्य नवपञ्चमस्य फलान्तरमुक्तं कैश्चित् यथाज्योतिर्निबन्धेशार्ङ्गधरः । “वरबध्वोर्मातृपित्रोर्जीवतो-स्तद्विनाशकृत् । त्रिकोणमीनकीटाढ्यं न स्यादन्यत्र दोष-दमिति” । एतत्फलमनार्षत्वादुपेक्ष्यम् । इतोन्यच्च मेष-सिंहादिकं नवपञ्चमं ग्रहमैत्रीसत्त्वान्मित्रं नवपञ्चममितिननु मीन कर्कादिकमपि त्रिकोणं ग्रहमैत्रीसत्त्वान्मित्रनवप-ञ्चममिव, कयं? गुरोश्चन्द्रोमित्रमेव चन्द्रस्य तु गुरुःसमोऽपि मित्रमिव “अपदोषतैव विगुणस्य गुणः” इतिन्यायात्तथा सति त्रिकोणदोषोच्छेदापत्तिः स्यादितिचेत् उच्यते यत्र ह्येकस्य मित्रत्वमपरस्य समत्वन्तत्रदुष्टनवपञ्चममिति व्यवहारः । तादृशं मीनकर्कादिकंत्रिकोणचतुष्टयमेव सम्भवति । यत्न तूभयोरपि ग्रहमै-त्री तत्रैव मेषसिंहादिके मित्रनवपञ्चममिति व्यवहृतिः ।अयञ्च परिहारो वरबध्वोर्मातृपित्रोरित्यस्यापि दोषा-स्तरस्य सत्यसति वा समूलत्वे नाशको भवति तुल्यन्या-यत्वात् । मृतमातापितृकयोस्तु वरबध्वोर्नायं दोषो-न्मेषः एवं द्विद्वादशेऽपि । तथा जगन्मोहने वसिष्ठकश्यपौ । “द्विद्वादशं शुभं प्रोक्तं मीनादौ युग्मराशिषु ।मेषाद्ययुग्मराशौ तु निर्द्ध्वनत्वं न संशयः । “आयुष्यसम्पत्सुतभोगसम्पत्पुत्रार्थसम्पत्पतिसौख्यसम्पत् । सौभाग्यसम्पद्धनधान्यसम्पत् झषादियुग्मे क्रमतः फलानि ।अजादियुग्मे क्रमतः फलानि वै वैधव्यमृत्युर्बधबन्धनानि ।वियोगसन्तापमतीव दुःखं वसिष्ठगर्गप्रमुखैः स्मृतानि”इति । अथैवंविधेऽपि प्रीतिषट्काष्टकादिविषये नाडीदोषःसर्वथा त्याज्य एवेत्याह नाड्यृक्षशुद्धिर्यदीति । वक्ष्यमाणानांत्रिविधनाडीनक्षत्राणां शुद्धिः स्त्रीपुरुषनक्षत्रस्थितिरे-कस्यां कस्यामपि नाद्ध्यां यदि न भवति तदा प्रीतिषट्काष्ट-कादि मवति तदा विवाहः कार्यः । यद्येकस्यां नाड्यां स्त्रीपु-रुषनक्षत्रस्थितिस्त्यदा तु नैव विवाहः । उक्तञ्च रत्नमालायाम्“भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं यदि भवनवशित्वञ्चैवषट्काष्टकेऽपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौयदि खलु फणिचक्रे स्यान्न नाडीसमाज” इति । अपिश-ब्दान्नवमपञ्चमद्विद्वादशयोरपि । अत्र केचित् षडष्टक-स्यैव मरणरूपानिष्टफलश्रवणान्न तस्यापवादकः षट्काष्टके-पीति परिहारः, किन्तु निन्दां प्रतिपादयतोऽपिशब्दान्तस्य वाक्यस्याधिपतिमैत्र्यादिगुणपशंसाद्वारा नवपञ्चम-द्विद्वादशयोरेव दुष्टभकूटयोर्विधानपर्यवसानात्तयोरेवाप-वादक इति यथा “ब्रह्महापि नरः पूज्यो यदि स्याद्विपुल धनमिति” अत्र वाक्ये धनस्तुतिर्धनवन्नरपूजापरा नतु धनवद्विप्रघ्ननरपूजापरापीति मैवं वोचः “द्विद्वादशे वानवपञ्चमे वा षट्काष्टके” इत्यादि वसिष्ठादिवाक्यानि दुष्टभ-कूटापवादभूतान्यधिपतिमैत्र्यादिविशिष्टं षडष्टकादि विद-ध्रते । षट्काष्टके मृत्युरित्यादीनि निन्दार्थवादवाक्यानि-ग्रहवैरग्रस्तषडष्टकादिविषयाणि अन्यथा दुष्टफलषड-ष्टकनिराकरणस्य नवपञ्चमस्य द्विद्वादशयोरपि तुल्यत्वे-नापवादकवाक्यानां विपयालाभात् । दृष्टान्ते तु ब्रह्म-ध्नप्रायश्चित्तयिधानस्य वैयर्थ्यापातात् धनस्तुतिर्धनवत्प्रर्शसापरैवेति युक्तमुत्पश्यामः । अथ नाडीसमाजप-दस्यायमर्थः । अश्विन्यादित्रिकगणनया त्रिविधानां नाडीनक्षत्राणां वेधो नाडीसमाजः । यदाह श्रीपतिः “ना-ड्यस्त्रिस्रोन्यस्तनिःशेषधिष्ण्यास्त्रिभ्यश्चाश्वादिभ्य एव प्र-सूताः । सर्पाकारास्तत्र नाडीसमाजो नक्षत्राणामेकना-डीस्पृशां स्यादिति” । एवञ्च यत्र भकूटादयः सप्तभेदाः शुभाभवन्ति । तत्र नाडीदोषश्चेत्तदा विवाहो न विधेयः ।उक्तञ्च सप्तर्षिमते विवाहपटले । “सदा नाशयत्येक ना-डीसमाजो भकूटादिकान् सप्तभेदान् प्रशस्तानिति” । अत्रकेचित् । नाडीसमाजशब्दोपादानात् समाजशब्दस्यसमुदायवाचित्वात् यदा त्रिचतुःपञ्चपर्वनाडीत्रयसमु-दाये स्त्रीपुरुषनक्षत्रयोरेकनाड्यां पातस्तदा समस्तवश्यादिगुणसत्त्वे विवाहोनैव भवेत् । यदा त्रिचतुःपञ्चपर्व्व-नाडीष्वेकैव नाडी स्त्रीपुरुषयोःस्यात्तदा भवत्येव विवाहः ।अतएव “भकूटादिकान् सप्तभेदांश्च ते तामिति” वीपरीतंवचनमनुकूलम् । अस्यायमाशथः” ते इति बहुत्वात्सप्तभकूटादयः शुभास्तामित्येकवचनानुरोधादेकामेव ना-डींपरिहरेयुः न तु नाडीसमाजमित्याहुः । तच्चि-न्त्यम् । यतश्चतुस्त्रिद्व्यङ्घ्यिभोत्थायाः” इति वाक्याच्चतु-श्चरणनक्षत्रोत्पन्नायाः कन्याया स्त्रिपर्व्वैव, त्रिचरणन-क्षत्रोत्पन्नायाः कन्यायाःद्विपर्वैव द्विचरणनक्षत्रोत्पन्नायाःकन्यायाः पञ्चपर्वैव नाडी गणनीयेति नियमाद्युगपन्नाडी-त्रयविचारासम्भव एव । किञ्च रत्नमालादिवाक्येषुपार्थक्येन नाडीत्रयाभिधानात्तत्रत्यसमाजपदं नाडी-संस्थनक्षत्रसमुदायपरं तथाहि “अश्वादिभ्यस्त्रिभ्यएव नक्षत्रेभ्यः प्रसूता न्यस्तनिःशेषधिष्ण्या सर्पाकारा-स्तिस्रोनाड्यःस्युः तत्रैकनाडीस्पृशां नक्षत्राणां समाजोनाडी स्यात् इति । ननु “यस्मादनर्थकलहागममृत्यवःस्युः पाणिग्रहादनु तयोः खलु नाडीयोगे । तस्माच्चतु-स्त्रियमलाङ्घ्रिषु भेषु नूनं नाडीसमाजैतिचिन्त्यमनु-कमेणेति” वृद्धगर्गवचनान्नाडीसमाजएव स्थिते दोषः नै-कस्यां नाड्यामिति चेत् उच्यते । स्वयमेव चतुस्त्रियमलाङ्घ्रिभेषु इति परिगणितविषयत्वेनाभिधाना-न्नाडीसंस्थनक्षत्रसमुदायविषयकमिति । किञ्च पञ्चपर्वचतु पर्वनाड्योर्देशविशेषविषयत्वेन त्रिनाड्यास्तुसर्वदेशवषयत्वादेतस्या एव निषेधोयुक्तः । तानि चदेशविशेषवाक्यान्यग्रेऽभिधास्ये । अतः “भकूटकान् सप्त-भेदांश्च ते तामित्यत्रपाठे प्रशस्तानिति पठन्ति अभियुक्ताःशार्ङ्गधरीयज्योतिर्निबन्धकारादयः । तस्मान्नाडीसमाजपदस्य प्राग्वदेव व्याख्यानंन्याय्यम् । ननु यत्र नाडीनक्षत्रशुद्धिरस्ति । यथा मरणीहस्तयोः षट्काष्टकञ्च वर्त्ततेग्रहमैत्र्यपि नास्ति तत्र किं कार्य्यमत आह । अन्यर्क्षेऽंशे-शपयोरिति । अन्यर्क्षे प्रीक्तषट्काष्टकादिभ्योऽन्यराशौ, कोर्थः? राशिस्वामिनोः परस्परं शत्रुत्वे वा समत्वे वा षट्काष्टकादौ च सति अंशपयोस्तद्राशिनवांशस्वामिनोर्बलित्व-सखित्वे चेत् स्याताम् । बलित्वं सबलत्वमुच्चादिस्थितत्वेन, सखिता परस्परमेत्री ते उभे चेद्भवतः सखिताया उपलक्षण-त्वादेकाधिपत्यमपि तदा विवाहः शुभोनिरुक्तः । उक्तञ्चजगन्मोहने वसिष्ठेन । “राशिनाथे विरुद्धेऽपि सबलावंशका-धिपौ । तन्मैत्र्येऽपि च कर्त्तव्यं दम्पत्योः सुखमिच्छतेति”नन्वयम्परिहारो राशिनाथे विरुद्धेऽपीत्यनुवादात्केवलग्रहदौट्यापवादको न तु दुष्टभकूटग्रहवैरस्य । उच्यते“खेटारित्वं नाशयेत् सद्भकूटम्” अग्रे वक्ष्यति । तत्र च“नभोगारिभावं हरेत् सद्भकूटमिति” सप्तर्षिमतविवाहपट-लीय वाक्यं सम्मतित्वेनास्माभिरभिधास्यते । तदेव केवल-ग्रहवैरापवादकमस्ति न त्विदमपि । ननु द्वयो-र्वाक्ययोर्यथाश्रुतशब्दस्वरसेनार्थे जिज्ञासिते एकस्मि-न्नेव ग्रहदौष्ट्यरूपे परिहारद्वयं दृश्यते । अथैकस्मि-न्नेव दुष्टभकूटके भवनपतिसुहृत्त्वमित्यादिनानेकपरिहारा-भिधानमित्यतोऽत्र वचने न किञ्चित्तादृशं विषयं पश्यामःसत्यम् । “नभोगारिभावं हरेत्सद्भकूटमिति तु निःसन्देहंग्रहवैरस्यापवादकम् परन्तु “राशिनाथे विरुद्धेऽपि मैत्रत्वेचांशनाथयोः । विवाहङ्कारयेद्धीमान्दम्पत्योः सौख्यवर्द्धनमिति” जगन्मोहनस्थवसिष्ठवाक्येन प्रागुक्तवसिष्ठवचःसमानार्थकं दुष्टभकूटग्रस्तग्रहवैरापवादकम् । तथाहि ।न्यूनार्थ एकस्मिन्वाक्ये राशिनार्थयोः परस्परविरोधे सति-तद्राशिनवांशस्वामिनोः परस्परमैत्री चेच्छुभो विवाह इ-त्यर्थः । अत्रांशनाथयोः सबलत्वविचारोनास्ति । यत्र त्वंश-नाथयोरुच्चादिस्थितत्वेन सबलत्वं परस्परमैत्री चेति द्वयमस्तितद्दाष्टभकूटग्रस्तग्रहवैरापवादकमित्यधिकार्थवचनस्यार्थः ।एवञ्च “नभोगारिभावं हरेत्सद्भकूटमित्यपि” वाक्यं ग्रह-वैरापवादकन्तुल्यबलत्वाद्व्रोहियववत् । अंशनाथसबलत्वा-भिधायकं तु “राशिनाथे विरुद्धेऽपीत्येतद्वाक्य मुभयवि-रोधपरिहार्थकम् । तथाहि । राशी च नाथौ च एतेषांसमाहारो राशिनाथन्तस्मिन् राशिनाथे इत्येवं यदिसमाहारद्वन्द्व आश्रीयेत तथा सत्ययमर्थः । राशी विरु-द्धौ षट्काष्टकादिना, नाथौ विरुद्धौ कयोर्नाथावित्याकाङ्-क्षायां ययोः षट्काष्टकादिविचारस्तयोरेव सन्निहितत्वा-द्ग्रहणमिति तयोः राश्योर्नाथौ विरुद्धौ “मित्राणि द्यु-मणेरित्यादिना परष्परं शत्रू स्यातां तद्राशिनवांशस्वामिनोःसबलत्वे मित्रत्वे च समुच्चिते सति विवाहः शुभदः ।नन्वतिक्लिष्टे समाहारद्वन्द्वे किं प्रयोजनम्? उच्यते ।अंशनाथस्य सबलत्वस्याधिककरणमेव । तच्च युगपदुत्प-न्नस्य दोषद्वैविध्यस्य राशिविरोधग्रहविरोधरूपस्य परि-हारोऽतएव ज्योतिःशास्त्राभियुक्ताः एवंबिध उभयविरोधेएवंविधं समाधिमाश्रित्य विवाहङ्कारयन्तीत्यास्तां प्रसक्ता-नुप्रसक्तम् । अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवेत्याह ।नाठ्य्वक्षशुद्धौ तथेति प्रागुक्तप्रकारेण नाडीनक्षत्रेषु स्त्री-पुरुषनक्षत्रयोरेकस्यां नाड्यामवस्थित्यभावश्चेत्तदा विवाहःशुभः । यथा भरणीहस्तयोःसत्युभयविधविरोधे राशिनवांशयोः क्रमेण पञ्चमचतुर्थयोर्यो स्वामिनौ सूर्य्य-भौमौ तयोर्मैत्र्यप्यस्ति स्वनवांशस्थितत्वात्सपलत्वमपि तत्रविवाहः शुभफलदोनिगदितः । यतोऽत्र स्त्री पुंस-नक्षत्रयोरेकनाड्यामवस्थित्यभावः । यदात्वश्विनीहस्ताख्ये एव द्वयोर्नक्षत्रे स्यातां तदा नाडीनक्षत्रशुद्ध्यभा-वात् सकलगुणवत्त्वेऽपि विवाहो न भवति । किं पुनरेवं-विधविषये इति “सदा नाशयत्येकनाडीसमाजोभकूटादि-कान् सप्तभेदान् प्रशस्तान्” इत्युक्तेः । अथैतत्परिहारासम्भवे परिहारान्तरमाह । ताराशुद्धिवशे इति । अ-त्रान्यर्क्ष इत्यनुवर्त्तते । प्राग्वदेव व्याख्येयमिदम् । एवं-विधे विषये षट्काष्टकादौ च सति यदि स्त्रीपुंसनक्ष-त्रयोः परस्परन्ताराशुद्धिवशे कन्यार्क्षाद्वरमं यावदित्यादिनाताराशुद्धिरूपे वशे वश्यत्वे द्वितीयचतुर्थषष्ठाष्ठमनवमता-रासंज्ञके सति बुधैर्विवाहः शुभोनिगदितः । अत्रोदाहर-णानि बुधैर्घ्येयानि । अत्र संमतिः “अन्योन्यताराविशुद्धौ”इत्युक्ता । राजमार्त्तण्डेनायमर्थः स्पष्टमभिहितः ।“मैत्री क्षेत्रपयोर्द्वयोरपि तयोरेकाधिपत्येऽपि चेत्तारामित्रसुमित्रजत्मशुभदा क्षेमा च संपत्करी । षष्ठाष्टे नवपञ्चमे व्ययधने योगेषु पुंयोषितोः प्रीत्यायुःसुतवृद्धि-बित्रजनकः कार्य्यो विवाहस्तदेति” । चकारात् षष्ठी च ।जन्मतारा यद्युत्पत्तितारा तदा राशिभेदे चरणभेदे वाशुभा ध्येया । दशमैकोनविंशतितारे शुभे एव । अत्रापिपक्षे नाडीशुद्धिरपेक्षितैव । नाडीशुद्ध्यभावे विवाहोनैवभवेत् । उक्तैवात्र संमतिः” । अथैतस्यापि परिहारस्यासम्भवे परिहारान्तरमाह । अथ राशिवशताभाव इति ।अत्रापि द्वयोः स्त्रीपुंसयो राशिनाथविरोधादिके विषयेषट्काष्टकादौ सति “हित्वा मृगेन्द्रं नरराशिवश्या” इत्या-दिना पुरुषराशेः स्त्रीराशिवशताभावे सति विवा-हः शुभोनिगदितः । “यदि भवनवशित्वमिति श्रीपत्यु-क्तेश्च अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवोक्तादेव-हेतोः । तदयमत्र निष्कृष्टोऽर्थः । षट्काष्टकनवमपञ्च-मद्विद्वादशाख्येषु दुष्टभकूटेषु सत्सु परस्परं ग्रहमैत्र्येएकः परिहारः । एकाधिपत्ये द्वितीयः । ग्रहवैरेऽप्यं-शपपोः सबलत्वे मैत्रे च तृतींयः । ताराशुद्धौ चतुर्थः ।राशिवश्यत्वे पञ्चमः । सर्व्वेष्वपि परिहारेषु नाडीशुद्धिरपेक्षितैव । नाडीविरोधगुत्त्वे तु विवाहोनैव स्यादिति ।एवञ्च ग्रन्थकर्त्त्रा “भवनपतिसुहृत्त्वमित्यस्य” श्रीपतिश्लोक-स्य वाक्यचतुष्टयमङ्गीकृत्य तत्परिहाराभिधानङ्कृतम् ।तट्टीकाकृन्महादेवोप्येवमेव व्याख्यत् । यत्र हि प्रत्येकंपरिहारकम् तत्र गुणसमुदायः परिहारकः स्यादितिकिं वाच्यम् । वस्तुतस्तु । “मैत्री क्षेत्रपयोर्द्वयोरपि तयो-रेकाधिपत्येऽपि चेत्तारामित्रसुमित्रजन्मशुभदा क्षेमा चसम्पत्करीत्यादि प्राग्लिखितेन राजमार्त्तण्डवाक्येन दुष्टभकूटे ग्रहमैत्र्या सह तथैकाधिपत्येन सह ताराशुद्धिरेवपरिहारिका समुचिता । अर्थादेकस्य मित्रत्वेऽपरस्य समत्वे वश्यत्वापेक्षा अतएतद्वाक्यं ज्योतिःसारसागरे विवृतम्“तत्रान्योन्यमित्रत्वे तुल्याधिपतित्वे वा ताराशुद्धिरेवचिन्त्या । एकमित्रतायान्तु वशित्वादि गुणान्तरापेक्षा ।शत्रुत्वे तु सर्व्वथा त्याग इति” । अत एवैतस्मिन् पक्षेचेत्पदाभिधानादेकवाक्यतावसायः । एवं श्रीपतिवाक्यमपिव्याकर्त्तव्यमेकवाक्यताबलात् । तत्रषद्काष्टके पुनर्भवनपति-सुहृत्त्वमिति सकलगुणसत्त्वमेव परिहारकम् । अनयो-र्दुष्टभकूटयोर्द्वयमेव । यदाह ज्योतिर्निबन्धे गर्गः “ग्र-हमैत्र्यां शुभा तारा राशिवश्ये त्रिभिः शुभम् । षडष्ट-कम्बुधाः प्राहुर्द्वाभ्यां द्व्यर्कन्त्रिकोणक मिति” । “द्व्य-र्कन्द्विद्वादशम् । “द्विद्वादशे वा नवपञ्चमे वेत्यादीनि” वसि-ष्ठवादीनि तूपलक्षणपरतया व्याख्येयानि । अत्र यथास-म्प्रदायं व्यवस्था ध्येयेत्यलमियता” पी० धा०अत्रापबादः । “मैत्र्यां राशिस्वामिनोरंशनाथद्वन्द्वस्यापिस्याद्गणानां न दोषः । खेटारित्वं नाशयेत् सद्भकूटं खेट-प्रीतिश्चापि दुष्टं भकूटम्” । मु० चि० “स्त्रीपुंसराशिस्वामि-नोर्मैत्र्यां सत्यां तथा राशिनवांशयोर्द्वन्द्वं युग्मं तस्यापिमैत्र्यां सत्यां गणानां दुष्टगणानां दोषो न स्यात्, स्त्री-रक्षोगणा पुमान् मनुष्यगणोदेवगणो वा तदा गणदोषो नस्यादित्यर्थः” । यदाहात्रिः “राशीशयोः सुहृद्भावेमित्रत्वे वांशनाथयोः । गणादिदौष्ट्येऽप्युद्वाहः पुत्र-पौत्रप्रवर्द्धनः” । अथ सद्भकूटं शुभफलदम्भकूटं राशि-कूटं तृतीयैकादशादिकं खेटारित्वं ग्रहयोः शत्रुता-सम्बन्धिनं दोषं नाशयेत् । एवमेव खेटप्रीतिर्ग्रहमैत्री चापिदुष्टं भकूटं षडष्टकादिसम्बन्धिनं दोषं नाशयेदित्यर्थः”तदुक्तं सप्तर्षिमते विवाहपटले । “नभोगारिभावं हरेत्सद्भकूटं विरुद्वं भकूटं हरेत् खेटमैत्री । सदा नाशय-त्येकनाडीसमाजोभकूटादिकान् सप्तभेदांश्च ते ताम्” ।(मु० चि०) चतुर्थचरणः “प्रोक्ते दुष्टभकूटक इत्यादिना पुन-रुक्तोऽपि स्मरणाविच्छेदार्थं पठितः” । यत्तूक्तं नारदेन“एकाधीशे मित्रभावे शुभदं पाणिपीडनम् । द्विद्वादशेत्रिकोणे च न कदाचित् षडष्टके” इति । एतन्नाडीदोषेसत्येव द्रष्टव्यम् । अधुनोदितवाक्यस्वरसात् । “भवन-पतिसुहृत्त्वं स्यात् तथैकाधिपत्यं यदि भवनवशित्व चैवषष्ठाष्टकेऽपि । शुभकृदिह विवाहोऽन्योऽन्यताराविशुद्धौयदि खलु फणिचक्रे स्यान्न नाडीसमाज” इति श्रीपत्युक्तेश्च“अन्यथा प्रागभिहितवसिष्ठादिवाक्यान्यनर्थकान्यापद्येर-न्निति” । पी० धा० । अथ नाडीकूटमाह । “ज्येष्ठार्यम्णेशनीराधिपभयुगयुगन्दास्रभञ्चैकनाडी पुष्पेन्दुत्वाष्ट्रमित्रान्तकवसुजलभं योनिबुध्न्ये च मध्या । वाय्वग्निव्यालवि-श्वोडुयुगयुगमथोपौष्णमञ्चापरा स्याद्दम्पत्योरेकनाड्यां परि-णयनमसन्मध्यनाड्यां हि मृत्युः” मु० चि० ज्येष्ठा प्रसिद्धा ।अर्यम्णमुत्तराफल्गुनो । ईश आर्द्रा । नीराधीपोवरुण-स्तद्भं शततारका एभ्यो नक्षत्रेभ्यो युगयुगं द्वयं द्वयम् ।ज्येष्ठामूलं उत्तराफल्गुनीहस्तश्च । आर्द्रा पुनर्वसुश्च ।शततारकापूर्वभाद्रा चेत्यर्थः । दास्रभमश्विनी च एतन्न-क्षत्रनवकं परस्परमेकनाडीत्युच्यते । अथ पुष्यः प्रसिद्धःइन्दुर्मृगः त्वाष्ट्रं चित्रा मित्रोऽनुराधा अन्तकं भरणी व-सुर्धनिष्ठा, जलभं पूर्वाषाढा, योनिः पूर्वफाल्गुनी, बुध्न्योऽ-हिर्बुघ्न्य उत्तरभाद्रपदा, एतन्नक्षत्रनवकं परस्परं मध्य-नाडीत्युच्यते । अथ वायुः स्वाती, अग्निः कृत्तिका, व्या-लोऽश्लेषा, विश्वोत्तराषाढा, एभ्यो युगयुगं स्वाती विशाखाच, कृत्तिका रोहिणी च अश्लेषा मघा च उत्तराषाढा-श्रवणश्चेत्यर्थः । अथ पौष्णभं रेवती च, एतन्नक्षत्र-नवकमपरा तृतीयनाडीत्युच्यते । एतत्फलमाह ।दम्पत्योः स्त्रीपुंसयोरेकनाड्यां परिणयनमसद्दुष्टफलंस्यात् । मध्यनाड्यां हि निश्चयेन मृत्युर्द्वयोरपि स्यात् । “मूले-न्द्रार्कभपाश्यजैकचरणादित्यार्यमेशाश्विभैर्याम्येन्द्वीज्यभमित्र-भाग्यवसुभत्वाष्ट्राम्ब्वहिर्बुध्न्यभैः । अन्यैर्नाड्यैहैकना-डिनवके स्यातां द्विभे चेन्मृतिर्गोदादक्षिणतः क्वचिन्नृपमुखेपार्श्वैकनाडी हिता” । गोदादक्षिणतः सर्ववर्णेषु पार्श्वैक-नाडी हिता, क्षत्रियादौ क्वचित्, अन्यकन्याया अलाभेपार्श्वैकनाडी हितेत्यर्थः” । यदाह गर्गः । “नाडीकूटंतु संग्राह्यं कूटानां तु शिरोमणिः । ब्रह्मणा कन्यका-कण्ठसूत्रत्वेन विनिर्मितमिति” । वराहः “आद्यैकनाडी-कुरुते वियोगं मध्याख्यनाड्यामुभयोर्विनाशम् । अन्त्याच वैधव्यमतीव दुखं तस्माच्च तिस्रः परिवर्ज्जनीयाः” इति ।अत्र चक्रन्यासोवसिष्ठेनोक्तः । “आवृत्तिभिर्भैस्त्रिभिरश्वि-भाद्यं क्रमोत्क्रमात् संगणयेदुडूनि । यदैकपर्वण्युभयोश्चधिष्ण्ये नेष्टा नृनार्योर्भृशमेकनाडी” । फलेऽपि विशेषमाहवसिष्ठः “सा मध्यनाडी पुरुषं निहन्ति तत्पार्श्वनाडीखलु कन्यकां तु । आसन्नपर्य्यायसमागताश्चेद्वर्षेण साप्यन्त-रिता त्रिवर्षैः” । उत्तरार्द्धस्यायमर्थः । आसन्ने समीप-स्थिते पर्याये आवृत्तौ चेदेकनाडी समागता । यथा-ऽश्विन्यार्द्रयोर्भरणीमृगयोरोहिण्याश्लेषयोर्वा सा नाडी व-र्षेणैकेन स्त्रीपुंसयोरुक्ताऽशुभफयदात्री स्यात् । यदा त्वश्वि-न्युत्तरफाल्गुन्योरितरकृतव्यवधाना सा नाडी त्रिभिर्वर्षै-रुक्ताऽशुभफलदात्री स्यात् । इयञ्चाश्विन्यादित्रिकगणनाकन्यायाश्चतुश्चरणे जन्मनक्षत्रे सति यदा तु त्रिचरणंनक्षत्रं तदा कृत्तिकामारभ्य साभिजिच्चतुःपर्वगणनाद्विचरणत्वे कन्यानक्षत्रस्य मृगशीर्षतः पञ्चपर्वगणना ।यदाह नारदः । चतुस्त्रिद्यङ्घ्रिभोत्थायाः कन्यायाःक्रमशोऽश्विभात् । वह्निभादिन्दुभान्नाडी त्रिचतुःपञ्चप-र्वसु । गणयेत् संख्यया चैकनाड्यां मृत्युर्न संशयः” । अमु-मर्थं स्पष्टमाह गर्गः । “चतुःपात् कन्यकाऋक्षं गण-येदश्विभादिकम् । त्रिभं सव्यापसव्येन भिन्नं पर्व सुखा-वहम् । कन्यकर्क्षं त्रिपाच्चेत् स्याद्भणयेत् कृत्तिकादिकम् ।चतुर्भिः पर्वभिस्तद्वदभिजित्तारकान्वितम् । कन्यकर्क्षंद्विपाच्चेत् स्याद्गणयेत् सौम्यभादिकम् । पञ्चभिस्त्ववरोहेतु पञ्चमात् त्रिकवर्जिते” एतत्फलमप्याह गर्गः । “संश्लि-ष्टा मध्यनाडी तु पुरुषं हन्ति वेगतः । संश्लिष्टा पार्श्व-नाडी तु कन्यकां हन्त्यसंशयम् । आसन्ना त्वेकनाडीस्यादासन्नमृतिदायिनी । दूरस्था चैकनाडी स्याद्दूरानि-ष्टस्य कारिणीति” । जगन्मोहने नारदः । “एकनाडी-विवाहश्च गुणैः सर्वैः समन्वितः । वर्ज्जनीयः प्रयत्नेनदम्पत्योर्निधनं यतः” । आसां नाडीनां देशभेदेनव्यवस्थामाह जगन्मोहने नारदः । “चतुर्नाडी त्वह-ल्यायां पाञ्चाले पञ्चनाडिका । त्रिनाडी सर्वदेशेषु वर्ज्ज-नीया प्रयत्नतः” इति । अहल्यापाञ्चालौ देशविशेषौ ।तस्माद्वसिष्ठादिभिर्द्देशभेदेन नक्षत्रभेदेन चानित्यप्रवृत्तिकेचतुःपञ्चनाड्यावुपेक्ष्य सकलदेशव्यापित्वात् सकलनक्षत्रव्या-पित्वाच्च त्रिनड्येवोक्ता । नचैतावता चतुःपञ्चनाड्यौ स्वस्वदे-शव्यतिरिक्तदेशेषु नैवावलोक्ये किन्तु सर्व्वेष्वपि देशेषुविचार्य्ये तत्र स्वदेशे दोषमहत्त्वमन्यदेशे दोषाल्पता त्रिनाडीतु सर्व्वत्रैव समानदोषा” यदाह मनुः । “अहल्यायांचतुर्नाडीसंयोगः कालमृत्युदः । एष योगोऽन्यदेशेषु ह्यप-मृत्युफलप्रदः । पञ्चनाडीसमायोगः पाञ्चाले कालदण्डदः ।इतरत्र समायोगो दुखदारिद्र्यदोषकृत् । त्रिनाड्यां तु स-मायोगः सर्व्वत्रानिष्टकारकः” इति । यत्तु ज्योतिर्निबन्धेज्योतिःप्रकाशे अश्विन्यादित्रिनाडीं प्रकृत्याभिहितम्“निधनं मध्यमनाड्यां दम्पत्योर्नैव पार्श्वयोर्नाड्योः” अत्रपार्श्वनाड्यां मृत्युरूपमहादोषाभाबं मत्वा विवाहादिकरणंशुभायेत्यर्थः । तत् क्षत्रियादिविषयं गोदावरीतोदक्षिणदेश-वासिविषयं वा । तदप्युक्तं तत्रैव । “करग्रहे पृष्ठनाद्योन निन्द्ये इति यद्वचः । तत्क्षत्रियादिविषयं गौतम्याया-म्यतस्तथेति” । गौतमी गोदावरी । अत्रार्थे आर्षं मूलं मृ-ग्यम् । “इयं चाश्विन्यादित्रिनाडी गुरुमन्त्रादिष्वप्यनिष्टा प्रभु-पण्याङ्गनादौ तु शुभैव” । उक्तञ्च स्वरोदये “एकनाडी-स्थिता यत्र गुरुमन्त्राश्च देवताः । तत्र द्वेषं रुजं मृत्युंक्रमेण फलमादिशेत् । प्रभुः पुण्याङ्गना मित्रं देशो ग्रामःपुरं गृहम् । एकनाडीस्थितं भव्यं विरुद्धं वेधबर्जित-मिति” । अत्र नाडीवेधे चरणवेधेऽधिकदोषः, आवश्यके सएव त्याज्यः” एतदप्युक्तं तत्रैव । “आद्यांशेन चतुर्थांशं चतु-र्थांशेन चादिमम् । द्वितीयेन तृतीयञ्च तृतीयेन द्वितीयकम् ।एवंभांशव्यधो यषां जायते वरकन्ययोः । तेषां मृत्युर्नसन्देहः शेषांशाः स्वल्पदोषदा इति” तत्राप्यावश्यकत्वे गुरुः“दोषापनुत्तये नाड्या मृत्युञ्जयजपादिकम् । विधाय ब्रा-ह्मणांश्चैव तर्पयेत् काञ्चनादिना । हिरण्मयीं दक्षिणाञ्चदिद्याद्वर्ण्णादिकूटके । गावोऽन्नं वसनं देयं सर्व्व दोषापहा-रकमिति” । एवं सर्व्वसम्मतत्वादष्टौ कूटभेदा अभिहि-ता नान्ये । “माहेन्द्रं गौडदेशे च मालवे रज्जुसंज्ञक-मित्यादिना वादरायणवाक्येनान्यकूटानां तत्तद्देशविषयता-पादनात् । ते च कूटभेदावसिष्ठसंहितायां तोडलानन्देच सामान्यविशेषभावसहिता द्रष्टव्याः” पी० धा० ।अथ नाडीदोषापवादः “राश्यैक्ये चेद्भिन्नमृक्षं द्वयोःस्यान्नक्षत्रैक्ये राशियुग्मं तथैव । नाडीदोषोनोगणानांच दोषो नक्षत्रैक्येपादभेदे शुभं स्यात्” मु० चि० । “द्वयोःस्त्रीपुंसयोरेकराशित्वे सति यदि भिन्नमृक्षं स्यात् तदानाडीदोषोगणानाञ्च राक्षसमनुष्यगणानाञ्च दोषो नास्ति ।यथा एकस्मिन्नपि कुम्भराशौ शतततारकापूर्बभाद्र-पदापादत्रयं च येवं रूपोनक्षत्रभेदः । तथैव नक्षत्रैक्येराशियुग्मं राशिद्वयं चेत् स्यात् तदापि प्रागुक्तो दोषो नस्यात् । उपलक्षणत्वात् तारादोषोऽपि न भवेत् । यथा ।एकस्मिन्नेव नक्षत्रे पूर्वाभाद्रपदाख्ये पूर्वभाद्रपदायाः प्रथ-मपादत्रयं कुम्भे चतुर्थचरणश्च मीने इत्येवंरूपोराशिभेदः” । यदाह नारदः । “एकराशौ पृथग् धि-ष्ण्ये दम्पत्योः पाणिपीडनम् । उत्तमं मध्यमं भि-न्नराश्येकर्क्षगयोस्तयोः । एकर्क्षे चैकराशौ च विवाहःप्राणहानिदः” । वसिष्ठः । “दम्पत्योर्जन्मभे चैक्ये राशौ चनिधनं तयोः । एकस्य च तथोद्वाहे किञ्चिद्भेदे पि वानवा” । किञ्चिद्भेदे नक्षत्रभेदे राशिभेदे च । गर्गः “ए-कराशिं विना नाडीयोगमादौ विवर्जयेत् । न दोषस्त्वेकराशिस्थे भकूटेऽन्येषु मृत्युदेति” । भृगुरपि “दम्पत्यो-रेकराशिश्चेत् पृथगृक्षं यदा भवेत्” । वसिष्ठोक्तो विवाहःस्याद्गणनाड्यौ न योजयेदिति । “अतएवाह केशवार्कः“नक्षत्रमेकं यदि भिन्नराश्योरभिन्नराश्योर्यदि भिन्नमृक्षम् ।प्रीतिस्तदानीं निविडा नृनार्योर्श्चेत् कृत्तिकारोहिणिवन्ननाडीति” । चतुर्थचरणस्यायमर्थः चेद्यदि कृत्तिकारोहिणीवत्स्यात् तदापि नाडीदोषो न स्यात् । उपलक्षणत्वाद्गणदोषो-ऽपि । यथा कृत्तिकारोहिण्योरेकनाडीस्थत्वेऽपि गणदौ-ष्ठ्येऽपि तत्संसूचिताऽशुभफलं नैव स्यात् । अत्रापि प्रथ-मतःपुंतारापेक्षिता द्वितीयतः स्त्रीतारेत्यपि विशेषोध्येयः ।यदाह गर्गः “एकराशौ पृथक् धिष्ण्ये पुंतारा प्र-थमा भवेत् । अतीव शीभना प्रोक्ता स्त्रीतारा चेत्त्वशो-भनेति” । तदेवं कैमुतिकन्यायेन यत्र नाडीगणदोषाद्य-भावो यथा रोहिणीमृगयोर्हस्तचित्रयोर्वा तत्र पाणि-पीडनं शुभं स्यादिति किं वाच्यमित्यर्थः । अथैकराशि-नक्षत्रत्वेऽपवादमाह । नक्षत्रैक्ये इति । स्त्रीपुंसयोःराश्यैक्यै नक्षत्रैक्ये च यदि चरणभेदो यथा भरण्याःप्रथमपादे पुंसोजन्म द्वितीयपादे स्त्रियास्तदापि शुभंकल्याणं स्यात् । तदुक्तं केशवार्केण । “पराशरः प्राह-नवांशभेदादेकर्क्षराश्योरपि सौमनस्यमिति” । सौमनस्यंप्रीतिः । वसिष्ठेनापि “एकगृहसम्भवानां भवति विवाहःसुतार्थसम्पर्त्त्यै । यद्युभयोरेकर्क्षं भवति यदा चांशकोभिन्न” इति । एतच्च सङ्कोचविषयं वेदितव्यम् । तथा चजगन्मोहने । “एकर्क्षे चैकराशौ च विवाहस्त्वशुभः स्मृतः ।सङ्कोचे तु तदा कार्योभिन्नपादोयदा तयोरिति” । अ-त्रापि विशेषो ज्योतिर्निबन्धे विधिरत्ने । “रोहिण्या-र्द्रा मघेन्द्राग्नी तिष्यश्रवणपौष्णभम् । उत्तराप्रोष्ठपाच्चैव न-क्षत्रैक्येऽपि शोभना” इति । इन्द्राग्नी विशाखा तदेतत्स्पष्टमुक्तं तत्रैव विधिरत्ने । “विशाखिकार्द्रश्रवणप्रजेशति-ष्यान्त्यतत्पूर्व्वमघाः प्रशस्ताः । स्त्रीपुंसतारैक्यपरिग्रहेतु शेषाविवर्ज्या इति सङ्गिरन्त” इति । शेषास्तारा इत्यर्थः ।अत्र द्वयोरन्यतरस्य वा जन्मराशि नक्षत्राद्यज्ञाने उपाय-माह । वसिष्ठः । “अज्ञातजन्मनान्नॄणां नामभे परिकल्पना ।तेनैव चिन्तयेत् सर्वं राशिकूटादि जन्मवत् । जन्मभं जन्म-धिष्ण्येन नामधिष्ण्येन नामभम् । व्यत्ययेन सदा योज्यंदम्पत्योर्निधनप्रदम् । कुर्य्यात् षोडश कर्माणि जन्म-राशौ बलान्विते । सर्वाण्यन्यानि कर्माणि नामराशौबलान्विते” इति । वृहस्पतिरपि । “व्यवहारराजसेवासंग्रामग्राममैत्रेषु । ज्ञातेऽपि जन्मराशौ फलमुक्तं नाम-राशिवशादित” । नाम्नः सकाशाज्जन्मनक्षत्रज्ञानंस्वरोदयाभिहितशतपदचक्रान्तर्गतस्वीयनामादिवर्णवशात्ज्ञेयमिति । यस्तु ऋकारादिवर्ण ऋषभादिनामसुदृश्यते तत्र यथासम्प्रदायं व्यवस्था” पी० धा० । नाडीभेदे-ऽष्टौ गुणाः प्रागुक्ताः ।ज्यो० त० नाडीचक्रलेखनतद्विशेषौ दर्शितौ यथास्वरोदये । “अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडि-कम् । तत्र वेधवशात् ज्ञेयं विवाहादौ शुभाशुभम् । त्रि-नाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तराः । हस्तेन्द्रमूलवा-रुण्यः पूर्वभाद्रपदादिमा । याम्यः सौम्योगुरुर्योनिश्चित्र-मित्रजलाह्वयम् । धनिष्ठा चोत्तरा भद्रा मध्यनाडी व्यव-स्थिता । कृत्तिका रोहिणी सर्पोमघा स्वातीविशाखके ।उत्तराश्रवणापौष्णंपृष्ठनाडी व्यवस्थिता । अश्व्यादि-नाडीवेधर्क्षेषष्ठं द्वितीयकं क्रमात् । याम्यादित्रिकतुर्यञ्च कृत्तिकादिद्विषट्ककम् । एवं निरीक्षयेद्वेचं कन्या-मन्त्रे सुरे गुरौ । पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरेगृहे । एकनाडीस्थधिष्ण्यानि यदि स्युर्वरकन्ययोः ।तदा वेधं विजानीयात् गुर्वादिषु तथैव च । प्रकटं यस्यजन्मर्क्षं तस्य जन्मर्क्षतोव्यधः । प्रणष्टं जन्मभं यस्य तस्यनामर्क्षतोवदेत् । द्वयोर्जन्मभयोर्वेधे द्वयोर्नामभयोस्तथा ।नामजन्मर्क्षयोर्वेधे न कर्त्तव्यं कदाचन । एकनाडीस्थिताचेत् स्यात् भर्त्तुर्नाशाय चाङ्गना । तस्मान्नाडीव्यधोवीक्ष्यो-विवाहे शुममिच्छता । प्राङ्नाड्या वेधतोभर्त्ता मध्य-नाड्योभयं तथा । पृष्ठनाडीव्यधे कन्या म्रियते नात्रसंशयः । एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता । तत्रद्वेषं रुजंमृत्युं क्रमेण फलमादिशेत् । प्रभुः पण्यङ्गना-मित्रं देशोग्रामः पुरं गृहम् । एकनाडीगता भव्याअभव्या वेधवर्जिताः” । अस्यापवादः ज्यो० त० ।“एकराश्यादियोगे तु नाडीदोषो न विद्यते” एकरा-श्यादिश्च “एकराशौ च दम्पयोः शुभं स्यात् समसप्तके ।चतुर्थे दशमे चैव तृतीयैकादशे तथा” इत्युक्तः । समग्रहणा-द्विषमसप्तके दोषः । तथा च “योटके सप्तके मेषतुलेयुग्महयौ तथा । सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवी-च्छिवः” । श्रीपतिव्यवहारनिर्ण्णये । “सुहृदेकाधिप-योगे ताराबले वश्यराशौ वा । अपि नाड्यादिवेधे भवतिविवाहोहितार्थाय, राजमार्त्तण्डे च । “न राजयोगे ग्रहवै-रिता च न तारशुद्धिर्नगणत्रयं स्यात् । ननाडीदोषो न चवर्णदुष्टिर्गर्गादयस्ते मुनयोवदन्ति” अत्र देशभेदात् व्यवस्था ।अन्यत्रोक्तम् । “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे ।भर्त्ता कन्याविनाशाय कन्याभर्त्तृविनाशकृत्” । अस्याप-वादः । “अथ वा गुणबाहुल्ये कुजे वा तादृशे द्वयोः”प्रागुक्तरीत्या अष्टानां कूटानां गुणाङ्कानां सङ्गलने अष्टा-दशतोऽधिकत्वे उभयोर्वरकन्ययोरुक्तलग्नादिस्थाने मङ्गलस्यस्थितौ च न दोषः एवमन्योऽपि वैधव्ययोगोनिन्दनीयः स चजातकशब्दे वक्ष्यते । एवं विवाहे वर्षादिशुद्धिं दम्पत्यो-रानुकूल्याङ्गं चीक्त्वेदानीं निर्दोषदिनलग्नादि निरूप्यते ।“तत्रैक्र विंशतिः सर्वसम्मता दोषा नारदेन परिगणि-ताः । “एकविंशतिदोषाणां नामरूपफलानि च । पिता-महोक्तं संवीक्ष्य तानि वक्ष्ये समासतः । पञ्चाङ्गशुद्धिरहि-तोदोषस्त्वाद्यः प्रकीर्त्तितः । उदयास्तशुद्धिरहितो द्वितीयःसूर्य्यसंक्रमः । तृतीयः पापषड्वर्गो भृगुषष्ठः कुजाष्टमः ।गण्डान्वं कर्त्तरी रिप्फषडष्टेन्दुश्च संग्रहः । दम्पत्योरष्ट-मं लग्नं राशिर्विषघटी तथा । दुर्मुहूर्त्तो वारदोषःखार्ज्जूरिकसमङ्घ्रिमम् । ग्रहणोत्पातभं क्रूरविद्धर्क्षंक्रूरसंयुतम् । कुनवांशो महापातो वैधृतिश्चैकविंशति-रिति” अन्यैस्तु दश दोषा उक्ताः “वेधश्च १ लत्ता २ च तथाच पातः, ३ खार्ज्जूरयोगो ४ दशयोगचक्रम् ५ । युतिश्च ६ जामि-त्र ७ मुपग्रहाश्च ८ वाणाख्यवज्रौ ९ दश चैव दोषा इति व्यव-हारोच्चयेऽभिधानात् । तत्र “दुर्मुहूर्त्तो रवावर्यमेत्यादिः । वारदोषः कुलिकादिः, क्रूरसंयुतमित्यस्योपलक्षणत्वादकाल-वृष्टिनामकोऽपि दोषो गृह्यते । यदाह वसिष्टः । “प-ञ्चाङ्गशुद्धिरहिताश्चोत्पाताऽकालवृष्टिजाः” इति । एषंदोषाणां कर्मविशेषे फलमाह वसिष्ठः “एकविंशन्-महादोषास्त्वेते ब्रह्ममुखोदिताः । कदाचिन्नैव सीदन्तिगुणानां कीटिकोटिभिः । तस्मादेतेषु दोषेषु कदाचि-न्नाचरेच्छुभम् । विवाहे विधवा नारी मरणं व्रतबन्धने ।ग्रामनाशः प्रतिष्ठायां सीमन्ते गर्भनाशनम् । नवान्न-भोजने मृत्युः कृषौ तत्फलनाशनम् । कर्त्तुर्नाशो गृहा-रम्भे प्रवेशे पतिनाशनम् । यात्रायां कर्त्तृनाशः स्याद्यु-द्धयाने विशेषतः । लभ्यते सुमहत्पुण्यमेषु श्राद्धादिकर्म-भिरिति” पी० धा० ।तत्र सर्वकर्मोपयोगिषड्वर्गे वक्तव्येआदौ क्षेत्रनवांशपावाह“कुजशुक्रसौम्यशशिसूर्य्यचन्द्रजाः कविभौमजीवशनिसौ-रयोगुरुः । इह राशिपाः, क्रियमृगास्यतौलिकेन्दुभतोनवांशविधिरुच्यते बुधैः” मु० चि० ।“अत्र लग्नादीनां लक्षणं नारदोक्तम् । “त्रिंशद्भा-गात्मकं लग्नं होरा तस्यार्द्धमुच्यते । लग्नत्रिभागो-द्रेष्काणो नवमांशो नवांशकः । द्वादशांशोद्वादशांशस्त्रिंशांशस्त्रिंशदंशकः । षड्वर्गाः कथिताह्येते--तेषामीशा इमेस्मृताः” इति । तत्रैते भौभशुक्रबुधचन्द्रसूर्य्यबुधशुक्र-भौमगुरुशनिगुरवं, क्रमेणेह षड्वर्गे राशिपा मेषादिरा-शीनां स्वामिनः । क्रियेति । क्रियो मेषः मृगास्यो मकरःतौलिकं तुला इन्दुभं कर्कः एभ्यो राशिम्यो द्वादशस्वपिराशिषु नवांशविधिर्बुधैरुच्यते । मेषे मेषादेव, वृषे मक-रादेव मिथुने तुलातः कर्के कर्कादेव, एवं सिंहेऽपि मे-षादेव एवं कन्यादिषु अपि राशिषु मकरादित एव ।एवमेव धनुरादिष्वपि इत्यर्थः । यदाह नाररः । “सिंह-स्याधिपतिर्भानुश्चन्द्रः कर्कटकेश्वरः । मेषवृश्चिकयोर्भौमःकन्यामिथुनयोर्बुधः । धनुर्मीनयोर्देवेज्यः शुक्रोवृषतुलेश्वरः ।शनिर्मकरकुम्भेश इत्येते राशिनायका” । “नवमांशा-मेषसिंहवापे, मेषादयः क्रमात् । क्रमाद्गोमृगकन्यासुज्ञेयाः स्युर्मकरादयः । तुलामिथुनकुम्भेषु स्युः क्रमेणतुलादयः । अलिकर्कटमीनेषु क्रमात् स्युः कर्कटादयः”इति पी० धा० । अथ होरेशकथनम्“समगृहमध्ये शशिरविहोरा विषमभमध्ये रविशशिनोःसा” मु० चि० । “पञ्चदशभागात्मकैका होरा समराशि-मध्ये प्रथमा चन्द्रस्यापरा सूर्य्यस्य । विषमराशिमध्ये प्रथमारवेः परा चन्द्रस्येत्यर्थः । “होरार्केन्द्वीरोजराशौ समभेचन्द्रसूर्य्ययोरिति नारदोक्तेः” पी० धा० । अथ त्रिंशांश-द्रेक्काणेशाः । “शुक्रज्ञजीवशनिभूतनयस्य बाणशैलाष्टपञ्च-विशिखाः समराशिमध्ये । त्रिंशांशकोविषमभे विपरीत-सस्माद्द्रेष्काणकाः प्रथमपञ्चनवाधिपानाम्” मु० चि० ।समराशिमध्ये क्रमेण प्रथमतः पञ्चानामंशानां शुक्रःस्वामी ततः शैलानां सप्तानां ज्ञोबुधः । ततोऽष्टानांजीवो गुरुः । ततः पञ्चानां शनिः । ततो विशिखाबाणाःपञ्च तेषां भूतनयो भीमः । शुक्रज्ञेत्यादिसमाहारद्वन्द्वः ।विषमभे तु अस्मात्समराशेर्व्विपरीतं ज्ञेयम् । यथा प्रथ-मतः पञ्चानां भौमः ततः पञ्चानां शनिः ततोऽष्टानांगुरुः । ततः सप्तानां बुधः ततः पञ्चानां शुक्रः इत्यर्थः ।अयमेव त्रिंशांशकसंज्ञ इति । यथाह नारदः ।“कुजार्कीज्यज्ञशुक्राणां बाणेष्वष्टाद्रिमार्गणाः भागाः स्यु-र्विषमे ते तु समराशौ विपर्य्ययात्” इति । द्वक्काणा राशि-दशांशाः द्वादशसु राशिषु प्रथमोद्रेष्काणः प्रथमस्यस्वराश्यधीशस्य, द्वितीयोद्रेष्काणः पञ्चमराशीश्वरस्य, तृतीयः स्वराशितो नवमराशीश्वरस्य । यथा वृषे प्रथमोद्रेष्काणो वृषाधीशशुक्रस्य, स्वापेक्षपञ्चमकन्याधीशबुधस्यद्वितीयः, तृतीयः स्वापेक्षनवममकराधीशशनेरित्यर्थः ।“स्युर्द्रेक्काणा लग्नपञ्चनवराशीश्वराः क्रमादिति” नार-दोक्तेः पी० धा० । द्वादशांशेशानाह ।“स्याद्द्वादशांश इह राशित एव गेहं होराथदृक्कनवमांशकसूर्यभागाः । त्रिंशांशकश्च षडिमे कथितास्तुवर्गाः सौम्यैः शुभं भवति चाशुभमेव पापैः” मु० चि० ।“इह षड्वर्गे द्वादशांशः सार्द्धमंशद्वयं तत् स्वराशित एवे-ष्टांशान्तं गणितं सद् यस्तद्राशिस्वामी स द्वादशांशेश्वरः“आरभ्य लग्नराशेस्तु द्वादशांशेश्वराः व्रमादिति” नारदोक्तेः ।अन्यच्चरणत्रयं स्पष्टतरम् । तदुक्तं वसिष्ठेन । “लग्नंतदर्द्धञ्च ततस्त्रिगागो नवांशकश्च द्विदशांशकश्च । त्रिंशां-शकश्चेति हि वर्गषट्कं शुभं शुभव्योमचराधिपत्यम् ।यः पापषड्वर्गभवो हि दोषः पञ्चाङ्गसौम्यग्रहलग्न-जातम् । गुणौघमम्भोधिममोघवाणः शुष्यत्यशेषं खलुराघवस्येति” । तस्मात् सौम्यपापग्रहषड्वर्गसाङ्कर्ये सतिसौम्यषड्वर्गस्त्रिभ्योऽधिकश्चेच्छुभः त्रिभ्योहीनश्चेदशुभइत्यर्थः” पी० धा० । अथ गण्डान्तदोषः । “ज्येष्ठा-पौष्णमसार्पभान्त्यघटिकायुग्मं च मूलाश्विनीपित्र्यादौघटिकाद्वयं निगदितं तद्भस्य गण्डान्तकम् । कर्काल्य-ण्डजभान्ततोऽर्धघटिका सिंहाश्च मेषादिगा पूर्णान्ते घटि-कात्मकं त्वशुभदं नन्दातिदेश्चादिमम्” मु० चि० ।“गण्डान्तं नाम सन्धिविशेषः सचानेकविधः नक्षत्रसन्धिस्तिथिसन्धिर्लग्नसन्धिश्च तथा योगसन्धिः करणसन्धिर्वर्षसन्धिरयनसन्धिरृतुसन्धिर्माससन्धिः पक्षसन्धिर्दिनसन्धी-रात्रिसन्धिमध्याह्नसन्धिः प्रातःसायंसन्धिर्निशीथसन्धिश्च ।तत्र तिथिनक्षत्रलग्नविशेषाणां यः सन्धिर्नियतकालःस गण्डान्तसंज्ञः । अन्येषां तु सन्धिर्नियतकालःसन्धिशब्दवाच्य एव । तत्रादौ नक्षत्रगण्डान्तमुच्यते ।ज्येष्ठा प्रसिद्धा पौष्णभं रेवती सार्पभमश्लेषा एषा-मन्ते घटिकाद्वयम् (४ दण्डाः) । तथा मूलाश्विन्यौप्रसिद्धे पित्य्रं मघा । एषामादौ घटिकाद्वयं चगण्डान्तन्नाम । तथा च रेवत्यश्विन्योरश्लेषामघयोर्ज्येष्ठा-मूलयोरन्तरालवर्त्तिघटीचतुष्टयं नक्षत्रगण्डान्तमशुभदम्तदुक्तं रत्नमालायाम् । “पौष्णाश्विन्योः सार्प-पित्र्याख्ययोश्च यच्च ज्येष्ठामूलयोरन्तरालम् । तद्गण्डान्तंस्याच्चनुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्ट-मिति” । यत्तु वसिष्ठेनोक्तम् “यदन्तरालं पितृ-सार्पयोश्च मूलेन्द्रयोराश्विनपौष्णायोश्च । ससन्धि गण्डा-न्तमिति त्रयं तद्यामप्रमाणं शुभकर्महन्तृ इति” । यामःप्रहरो नक्षत्रभोगस्येति शेषः । नारदोऽपि “सार्पेन्द्रपौष्णधिष्ण्यान्ते षोडशांशा भसन्धयः । तदग्रभेष्वाद्य-जाताः पापागण्डान्तसंज्ञकाः । उग्रं सन्धित्रितयजं ग-ण्डान्तत्रितयं महत् । मृत्युदं जन्मयानादिविवाहस्था-पनादिषु” । षोडशांशो नक्षत्रभोगस्यार्द्धप्रहर इति यावत् ।आद्यजाताः षोडशाशाः । तदेतद्दोषमहत्त्वाल्पत्वसूच-नार्थम् । तथा हि । चतुर्घटिके नक्षत्रगण्डान्ते महान्दोषः, तदधिके त्वष्टघटिकात्मके मध्यमदोषः । ततोऽधिकेचरणावधिके त्वल्पदोषः । अतएवोक्तं सूर्यसिद्धान्ते “सार्पे-न्द्रपौष्णधिष्ण्यानामन्त्याः पादा भसन्धयः । तदग्रभेषुसार्द्धांशो गण्डान्तं नाम कीर्त्त्यते । व्यतीपातत्रयं घोरंगण्डान्तत्रितयं तथा । एतद्भसन्धित्रितयं सर्वकर्मसु व-र्जयेदिति” । अर्द्धांशश्चरणार्द्धं प्रहर इत्यर्थः । दीपिका-याञ्च । “आद्ये मघाचतुर्भागे मूलपादाद्य एव च । रेव-त्यन्त्यचतुर्भागे विवाहः प्राणनाशक” इति । अथ लग्न-गण्डान्तमुच्यते । कर्केति कर्कः प्रसिद्धः अलिर्वृऐकःअण्डजोमीनः एषाम्भानां लग्नानामन्तेऽर्द्धघटिका, तथासिंहमेषौ प्रसिद्धौ अश्वोधनुः एषां लग्नानामादिभूतार्द्ध-घटिका गण्डान्तं नाम । तथा च कर्कसिंहयोर्वृश्चिकधनु-षोर्मीनमेषयोर्वा लग्नयोरन्तरालवर्त्तिन्येका घटिका लग्नग-ण्डान्तमशुभदमित्यर्थः । यदाह कश्यपः “सिंहकर्कटयो-श्चापकीटयोर्मीनमेषयोः । गण्डान्तमन्तरालं तन्नाडिकानिधनप्रदेति” । यत्तु नारदेनोक्तम् “कुलीरसिंहयोःकीटचापयोर्मीनमेषयोः । गण्डान्तमन्तरालं स्यात् घटि-कार्द्धं मृतिप्रदमिति” । वसिष्ठेनापि । “लग्नान्तरालंघटिकार्द्धमेतत्कुलीरहर्योरलिचापयोश्च । मीनाजयोःसर्व-गुणान्निहन्ति लोभो यथा सर्वगुणान्नरस्येति” । तद्दोषाधि-क्यसूचनार्थम् । अय तिथिगण्डान्तमुच्यते । पूर्णान्तइति । पूर्णाः पञ्चमीदशमीपञ्चदश्यस्तासामन्ते घटि-कैका, तथा नन्दाः प्रतिपत्षष्ट्यैकादश्यस्तासामादिभूतैकाघटिका तिथिगण्डान्तं नाम । तथा च पञ्चमीषष्ट्योर्दश-स्येकादश्योः, पञ्चदशीप्रतिपदोर्वा तिथ्योरन्तरालवर्त्ति-घटीद्वयं तिथिगण्डान्तमशुभमित्यर्थः । यदाह नारदः“पूर्णानन्दाख्ययोस्तिथ्योः सन्धिर्नाडीद्वयं सदा । गण्डान्तंमृत्युदं जन्मयात्रोद्वाहव्रतादिषु” इति । यत्तु कश्यपे-नोक्तम् “पूर्णानन्दाख्ययोस्तिथ्योः सन्धिर्नाडीचतुष्टयम् ।उद्वाहजन्मयानेषु गण्डान्तं निधनप्रदमिति” । तद्दोष-तारतम्यसूचनार्थम् । एवं गण्डान्तसंज्ञः सन्धिरुक्तः ।तत्र तिथिलग्नगण्डान्तपरिहारः शाकल्यसंहितायाम् ।“तथैव तिथिगण्डान्तं नास्तीन्दौ बलशालिनि । तथैवलग्नगण्डान्तं नास्ति जीवे बलान्विते” इति । अथात्रप्रसङ्गादन्येषामपि सन्धिरुच्यतेऽस्माभिः । यदाह गुरुः“घटिकाद्वयमृक्षान्ते मासान्ते तु दिनत्रयम् । वर्षान्ते व-र्जयेत्पक्षं ग्रहणाद्दिनसप्तकमिति” । तिथ्यादिसन्धिम-प्याह वसिष्ठः “पक्षोऽवदसन्धिस्त्रिदिनञ्च माससन्धिस्त्रिनाड्यः खलु सन्ध्ययोश्च । नाड्यश्चतस्रस्तिथिऋक्षयोगसन्धिस्तदर्द्धं करणस्य सन्धिः” । वर्षेषु विशेपमाह स एव“सौराव्दान्ते त्यजेत्पक्षं चान्द्रे तु नवभन्त्यजेत् । सावनान्तेऽष्टभन्त्याज्यं नाक्षत्रे पौष्णभात् त्र्यहमिति” । अत्रापिविशेषमाह स एव । “अव्दाः स्युस्त्रिविधा जीवसौरचान्द्राह्वयाः सदा । तेषामादौ तथा चान्ते त्रिदिनंवर्जयेच्छुभे” इति । अयञ्च सर्वकार्यसाधारणो निषेधःअन्यथा मीनादित्ये विवाहप्रसङ्गाभावादेव वर्षान्तनि-षेधस्य वैयर्थ्यापातात् । गुरुः “ऋक्षान्ते पुत्रनाशःस्यान्मासान्ते तु धनक्षयः । वर्षान्ते वर्गनाशः स्याद्ग्रहणात्सर्वनाशनमिति” । आवश्यकत्वे तु “नक्षत्रयोगतिथिसन्धिषु नाडिकैका तिथ्यष्टविंशतिपलैः सहितोभयत्र ।कर्कालिमीनतनुसन्धिशु दिक्पलानि त्याज्यानि शेषविवरेषु च पञ्च पञ्चेति” वासनासिद्धं केशवार्कवाक्यमनुसर्त्तव्यम् । वासना च सिद्धान्तशिरोमणावभिहिता ।“शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभि-र्भूय एवाभिरेव । पृथगथ गतिगुण्या नाडिकाः सन्धिरा-प्ता भतिथिकरणयोगानां फलं तत्र मिश्रमिति” । सन्धि-फलमप्याह केशवार्कः । “सन्धौ पुरन्ध्री शुचमेति वध्या मृ-तप्रजा वा यदि सन्धिसन्धिः । वदन्ति वात्स्या ऋतुना-विमूढां निशीथमध्यंदिनसन्धिषूढाम्” तत्रार्द्ध रात्रमध्यन्दिनसन्धिः “मध्ये निशाह्नोर्घटीत्र्यंशम्” मु० चि० । इत्याद्येप्रकरणेऽभिहितः । सन्धिसन्धिस्तु केशवार्केणोक्तः । “रवेर्भ-वेदेकगृहाधिकस्य यदंशवृन्दं खलु सायनस्य । तदत्र रा-शिद्वयभागतष्टं स्पष्टं वसन्तादृतवो भवन्ति । तत्सन्धयोगा-ङ्गघटीसमाः स्युर्द्विसङ्गुणाश्चेद्विषुवायनीयाः । स सन्धि-सन्धिः खलु यत्र शेषं शून्यं भवेदेष विशेष-पुण्यः” इति मीनसंक्रान्तिमारभ्य वसन्तर्त्ततुगणनेतिपक्षमङ्गीकृत्यैकगृहाधिकस्येत्युक्तम् । गण्डान्तदोसपरि-हारमाह वसिष्ठः “गण्डान्तदोषमखिलं मुहूर्तोऽभि-जिदाह्वयः । हन्ति यद्वन्मृगव्याधः पक्षिसङ्घमिवा-खिलम्” । तदेतद्दोषापवादाख्यस्य प्रकारस्य नियामकत्वा-द्विवाहविषयं न जातकादौ” पी० धा० । अथ कर्त्तरीदोषः ।“लग्नात् पापावृज्वनृजू व्ययार्थस्थौ यदा तदा । कर्त्तरीनाम सा ज्ञेया मुत्युदारिद्र्यशोकदा” । मु० चि० “यदा पाप-ग्रहौ लग्नाद्व्ययार्थस्थावृज्वनृजू द्वादशस्थः पापग्रहोमा-र्गी, द्वितीयस्थः पापग्रहो वक्री स्यात्तदा कर्त्तरी नाम दोषःकृन्तति स्त्रीपुंसयोः प्राणांश्छेदयतीति कृती च्छेदन इतिधात्वर्थानुसारादन्वर्था सम्मुखकर्त्तरीयं मृत्युदारिद्र्यशो-कदा भवेत् । यदाह नारदः “लग्नाभिमुखयोः पाप-ग्रहयोरृजुवक्रयोः । सा कर्त्तरीति विज्ञेया दम्पत्यीर्ग-लकर्त्तरी । कर्त्तरीदोषसंयुक्तं यल्लग्नं तत् परित्यजेत् ।अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितमिति” । ग-र्गोऽपि । “व्यये मार्गगतिः क्रूरो वक्री क्रूरो धने यदि ।तौ च लग्नांशतुल्यौ च तदा घोराख्यकर्त्तरी” । यदा तुद्वितीये मागीं द्वादशे च वक्री अथ द्वापपि क्रूरौ व्यया-र्थस्थौ सन्तौ शीघ्रिणौ वा स्यातां तदा कर्त्तरी नास्त्येव ।यदाह वशिष्ठः “लग्नस्य पृष्ठाग्रगयोरसाध्वोः सा कर्त्तरीस्यादृजुवक्रगत्योः । तावेव शीघ्रौ यदि व्यक्तचारौ न कर्त्त-री चेति पितामहोक्तिरिति” । इयं कर्त्तरी चन्द्रस्यापिद्रष्टव्या । यदाह कश्यपः “चन्द्रस्य कर्त्तरी तद्वच्छुभदृष्टा न दोषदेति” । परन्तु लग्नस्य चन्द्रस्य वा क्रूरग्रहम-ध्यगतत्वदोषोऽस्त्येव कर्त्तरीतोऽल्पफलः कन्यानाशकरत्वात् ।यदाह वसिष्ठः । “क्रूरग्रहमध्यगते लग्ने चन्द्रेऽथ वा कर-ग्रहणम् । ते यमसदनाभिमुखं गमनञ्चेच्छन्ति कन्यायाः”इति कर्त्तरीदोषेऽन्यदप्यपयादान्तरं “पापौ कर्त्तरिकार-कावित्यादिना स्वयं वक्ष्यति । अत्र लग्नादित्युपलक्षणात्सर्वेषामपि भाबानां कर्त्तरीदोषोऽध्यवसेयः “यो यो भावःस्वामिदृष्टोयुतोवेत्यादिना” तुल्यन्यायत्वात् । तत्र लग्नेकर्त्तरी महादोषकरी लग्नभङ्गाधायकत्वात्तस्या अन्यत्र ता-दृशदोषाभाव इति तु तत्त्वम्” पी० धा० । अतःपरं राहुकेत्वोःपापग्रहत्वं व्यवस्थापितं तच्च केतुशब्दे विस्तरेण वक्स्यते ।अथ युतयोगापरपर्य्यायसंग्रहदोषः । “चन्द्रे सूर्य्यादिसं युक्तेदारिद्र्यं मरणं शुभम् । सौख्यसापत्न्यवैराग्यं पाप-द्वययुते मृतिः” मु० चि० “सूर्य्ययुक्ते चन्द्रेदारिद्र्यं स्यात् ।भौमादियोगे मरणादि फलं क्रमेण स्यादित्यर्थः पाप-ग्रहराहित्येऽप्यशुभफलं राहुकेत्वोरपि द्रष्टव्यम् । यथाहनारदः “शशाङ्के ग्रहसंयुक्ते दोषःसंग्रहसंज्ञकः ।सूर्य्येण संयुते चन्द्रे द्रारिद्य्रम्भवति ध्रुवम् । कुजेन मरणंव्याधिः सौम्येन त्वनपत्यता । दौर्भाग्यङ्गुरुणा युक्तेसापत्न्यम्भार्गवेण तु । प्रव्रज्या सूर्य्यपुत्रेणराहुणा कलहःसदा । केतुना सयुते चन्द्रे नित्यं कष्टंदरिद्रता । तस्मिन्संग्रहदोषे तु विवाहं नैव कारयेत्” । सापत्न्यंभर्त्तुरन्या भार्य्या स्यात् । अत्र गुरुबुधसाहित्यफलमशुभ-मुक्तम् ग्रन्थकर्त्र्य तु वसिष्ठवाक्ये कस्यचिन्मताभिप्रायेणशुभफलमुक्तम् । यथोक्तं वसिष्ठेन “दारिद्र्यं रविणाकुजेन मरणं सौम्येन न स्युः प्रजा दौर्भाग्यं गुरुणा सितेनसहिते चन्द्रे ससापत्नकम् । प्रव्रज्याऽर्कसुतेन सेन्दुजगुरौवाञ्छन्ति केचिच्छुभं द्व्याद्यैर्मृत्युरसद्ग्रहैः शशियुतैर्दीर्घःपवासः शुभैरिति” । अत एव श्रीपतिनोक्तम् । “शुभञ्चदम्भोलिभृदीज्यविद्भ्यामिति” दम्भोलिभृदीज्योजीवः ।पापेति । पापद्बयेन युते उपलक्षणत्वात्पापत्रयादियुतेमृतिरेव स्यात् । “पापद्वययुते चन्द्रे दम्पत्योर्मरणं ध्रुव-मिति” नारदीक्तेः । बहुसौम्यग्रहयोगे तु बहुकालंपत्युर्देशान्तरेऽवस्थानं स्यात् तद्वाक्यमधुनैवाभिहितम् ।अथास्य परिहारो नारदीक्तः । “स्वक्षेत्रगः स्वोच्चगोवामित्रक्षेत्रगतो विधुः । युतिदोषाय न भवेद्दम्पत्योः श्रेयसेतदेति” । क्वचिद्वर्गोत्तम इति पठ्यते । कश्यपेनापि ।“तुङ्गमित्रस्वराशिस्थः शुभयुक्तः शुभप्रदः । एवंविधः क्रूर-युतः सम्पूर्णफलदःशशीति” पी० धा० ।अथ जन्मराशिलग्नयोरष्टमलग्नदोषं सापवादमाह ।“जन्मलग्नभयोर्मृत्युराशौ नेष्टः करग्रहः । एकाधिपत्येराशीशे मैत्रे वा नैव दोषकृत्” मु० चि० ।“जन्मलग्नजन्मराश्यीः सम्बन्धिनि मृत्युराशावष्टमलग्नेकरग्रहोनेष्टः । यदाह नारदः “दम्पत्योरष्टमं लग्नंत्व-ष्टमोराशिरेव च । यदि लग्नगतः सोऽपि दम्पत्योर्नि-धनप्रदः । स राशिः शुभयुक्तोऽपि लग्नं वा शुभसंयुतम् ।लग्नं विवर्ज्जयेत् यत्नात् तदंशांश्च तदीश्वरान्” इति । अत्रजन्मलग्ने जन्मराशौ च विशेषमाह कश्यपः । “इष्टं स्व-जन्मलग्नं तज्जन्मराशिरनिष्टदः । लग्नगस्तु तयोः स्थाना-च्छुभान्युपचयानि वै” इति । नारदोऽपि “जन्म-राश्युद्गमोनैव जन्मलग्नोदयः शुभः । तयोरुपचयस्थानंयदि लग्नगतं शुभमिति” । अथाष्टमलग्नदोषपरिहार-माह । एकेति जन्मराशिजन्मलग्नयोरन्यतरस्य विवाह-लग्नस्य च स्वाम्यैक्ये सति यथा मेषवृश्चिकयोः, तथातयोराशीश्वरयोः मैत्रे यथा सिंहमीनयोः । अत्र हिसूर्य्यगुर्वोरन्योन्यप्रीतिरस्ति । एतादृशविषये विवाहोलग्नाष्टमदोषकृत् न स्यात् । यदाह कश्यपः “जन्मेशा-ष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ । जन्मराश्यष्टमर्क्षो-त्थदोषो नश्यति भावतः” इति पी० धा० । परिहारान्तरमाह“मीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेह-दोषकृत् । अन्योन्यमित्रत्ववशेन सा बधूर्भवेत्सुतायुर्गृह-सौख्यभागिनी” । “उक्षा वृषः स्त्री कन्या अन्ये प्रसि-द्धाः एते राशयो यद्यष्टमलग्नं स्युः यथा सिंहान्मीनःतुलातोवृषः धनुषः कर्कः मेषात् वृश्चिकः मिथुनान्मकरःकुम्भात्कन्याऽष्टमलग्नम् । तदाष्टमगेहदोषकृन्न भवेत् ।कुत इत्यत आह । अन्योन्येति । प्रागुक्तपरस्परप्रीतिवशे । इदञ्चोपलक्षणम् । मेषवृश्चिकयोस्तुलावृषयोरेकाधि-पत्यात् । एवं सति सा बधूः परिणीता कन्या सुतायुर्गृहसौख्यभागिनी स्यात् । उक्तञ्च “झषकुलीरवृ-षालिमृगाङ्गना जननराशिविलग्नगृहाष्टमाः । शुभ-फला भृगुणा कथितास्तयोरधिपती सुहृदौ हि प-रस्परमिति” । परिहारान्तरमप्याह गुरुः । “लग्नादष्टम-राशीशः केन्द्रगः शुभवीक्षितः । यद्यष्टमगतस्योक्तदोषमाशु व्यपोहति । रन्ध्रेशः स्वशुभांशस्थस्तुङ्गः स्वक्षेत्र-मित्रगः । अष्टमस्थानदोषोहि विनश्यति न संशय” इति ।अथ लग्नेऽष्टमेशादियोगफलम् । “मृतिभबनांशोयदि चविलग्ने तदधिपतिर्वा न शुभकरःस्यात् । व्ययभवनं वा भवतितदंशस्तदधिपतिर्वा कलहकरः स्यात्” मु० चि० । “अष्टम-भवननवांशोयदि विलग्ने स्यादथ वाष्टमभवनस्वामी विलग्नेस्यात्तदा शुभकरो न स्यात् । यदाह कश्यपः । “दम्पत्यो-रष्टमे लग्ने राशौ वापि तदंशके । तदीशे वा लग्नगतेतयोर्मृत्युर्न मंशय” इति । अथ व्ययभवनञ्जन्मलग्नजन्म-राशिभ्यान्द्वादशम्भवनम् अथवा व्ययांशो व्ययस्वामी यदिलग्ने स्यात्तदा कलहकृत् स्यात् । उक्तञ्च कश्यपेन “तथैवद्वादशे लग्ने तदंशे वा तदीश्वरे । विवाहे लग्नगे नैस्व्यंनित्यं स्यात् कलहोद्वयोरिति” । नारदेनापि “दम्प-त्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः । अर्थहानिस्त-योस्तस्मात्तदंशस्वामिनन्त्यजेदिति” ।अथ विषघटीदोषः । “खरामतो३० ऽन्त्यादितिवह्निपित्र्यभेखवेदतः ४० के, रदत ३२ श्च सार्पभे । खवाणतो ५० ऽश्वे, धृ-तितो १८ र्यमाम्बुपे, कृते २० र्भगत्वाष्ट्र भविश्वजीवभे । मनो१४ र्द्विदैवानिलसौम्यशाक्रभे कुपक्षतः २१ शैवकरेऽष्टि १६तोऽजभे । युगाश्वितो २४ बुध्न्यभतोययाम्यभे, खचन्द्रतो १०मित्रभवासवश्रुतौ । मूलेऽङ्गवाणाद् ५६ विषनाडिकाःकृता४ वर्ज्याः शुभेऽथोविषनाडिकाध्रुवाः । निघ्ना भमोगेनखतर्क ६० भाजिताः स्थुटाभवेयुर्विषनाडिकास्तथा” मु० चि० ।“रेवतीपुनर्वसुकृत्तिकामघानक्षत्रेषु खरामतः त्रिंशत्घटि-कोत्तरं कृताश्चतस्रो घटिकाविषनाडिकाः शुभकार्य्ये वर्ज्याः-स्युरिति” तृतीयश्लोकेनान्वयः । एवं सर्व्वत्र व्याख्येयं केरोहिण्यां कृतेर्विंशतेः । अजभे पूर्व्वभाद्रपदायाम् अन्या-नि पदानि स्पष्टानि । तदेवं षष्टिघटीरूपे नक्षत्रभोगेधुवकाश्चतस्रो विषनाडिकाः प्रोक्ताः न्यूनाधिकत्वे तुस्पष्टीकरणमुच्यते । अथो इति । विषनाडीनां ध्रुवाः ख-रामतः इत्येवमादायो नक्षत्रभोगेनेष्टेन निघ्नाः खतर्कैःषष्ट्या भाजितास्ततोविषनाडिका ध्रुवाः स्पष्टा भवेयुरित्य-र्थः । अत्रोपपत्तिस्त्रैराशिकेन । यदि घटीषष्ट्यात्मकभभो-गेनेमे ध्रुवका इमाश्चतस्रो विषनाडिकाश्च लभ्यन्ते । तदेष्ट-भभोगेन किमपि, ध्रुवाविषनाडिकाश्चेष्टभभोगेन गुण्याःषष्ट्या भाज्या फलितम् । यदाह कश्यपः “वियद्वाणा ५०वेददस्राः २४ खरामा ३० व्योमसागराः ४० । वेदचन्द्रा १४श्चन्द्रदस्राः १२ खरामा ३० व्योमवाहवः २० । नेत्रा-ग्नयो ३२ व्योमगुणाः ३० शून्यदस्रा २० गजेन्दवः १८ ।क्ष्मावाहवो २१ वियद्दस्राः २० शक्रा १४ श्चेन्द्राः १४खभूमयः १० । वेदचन्द्रा १४ स्तर्कवाणा ५६ वेददस्राः २४खबाहवः २० । व्योमेन्दवो १० व्योमचन्द्रा १० धृतय १८स्तर्कभूमयः १६ वेदाश्विनः २४ खरामाः ३० स्युर्दस्रर्क्षात्घटिकाःक्रमात् । आभ्यः परस्तत्क्रमशश्चतस्रो विषनाडिकाः ।ऋक्षाद्यन्तघटीनिघ्नाः षष्टिभक्ताः स्फुटाः स्मृताः । विषनाडीदोषदुष्टं लग्नं सर्व्वगुणान्वितम् । शुभैः सर्व्वैश्चसंयुक्तमपि पञ्चेष्टकं त्यजेदिति” । वसिष्ठः कुर्व्वन्त्यु-द्वाहितां कन्यां विधवां वत्सरत्रयात् । अन्यस्मिन् मङ्ग-ले ताश्च निधनं वाथ निर्द्धनमिति” । ताः विषनाडिकाः ।अथ प्रसङ्गात् ग्रन्थान्तरोक्तास्तिथिवारविषनाडिकाःप्रोच्यन्तेऽस्माभिः दैवज्ञम० । “तिथी १५ षु ५ नागाऽ ८ द्रि ७-गिरी ७ षु ५ वारिधि ४ र्गजा ८ ऽद्रि ९ दिक् १० पावक ३ विश्व १३वासवाः १४ । मुनीभ ७, ८ संख्याप्रथमा तिथेः क्रमात्परं विषस्यात् घटिकाचतुष्टयम् । नखा २० द्वयं २ द्वादश १२ दिक् १० चशैला७ वाणाश्च ५ तत्त्वानि २५ यथाक्रमेण । सूर्य्यादिवारेषुपरं चतस्रोनाड्योविषं स्यात् खलु वर्जनीयम्” । ज्योतिः सा-गरे । “विवाहव्रतचूडासु गृहारम्भप्रवेशयोः । यात्रादिशु-भकार्य्येषु विघ्नदा विषनाडिकेति” । अस्य परिहारमाह दैव-ज्ञम० गुरुः “चन्द्रोविषघटीदोषं हन्ति केन्द्रत्रिकोणगः ।लग्नंविना शुभैर्दृष्टः केन्द्रे वा लग्नपस्तथेतिं” फलप्रदीपे“विषनाड्युत्यितं दोषं हन्ति सौम्यर्क्षगः शशी । मित्रदृष्टोऽथवा स्वीयवर्गस्थो लग्नपो भवेत्” पी० धा० । अथ मुहूर्त्तेशाः ।“गिरिशभुजगमित्राः पित्र्यवस्वम्बुविश्वेऽभिजिदथ च वि-धाताऽपीन्द्र इन्द्रानलौ च । निरृतिरुदकनाथोऽप्यर्यमाऽथोभगः स्युः क्रमश इह मुहूर्त्ता वासरे वाणचन्द्राः” मु० चि० ।“अत्र वाणचन्द्रा इत्युक्तेः मुहूर्त्तस्य पार्थक्येनात्र-लक्षणं नोक्तम् । गिरिशो महादेवः भुजगः सर्पः मित्रःसूर्य्यविशेषः पित्र्यवस्वम्बुविश्वे प्रसिद्धाः अवृमोऽभिजित्ततो विधाता ब्रह्मा, इन्द्रः इन्द्रानलौ अत्र समुदितयो-र्व्यासज्यवृत्तिदेवतात्वम् अत्र तुर्य्यमुहूर्त्तस्वामिनः पितरइत्यपेक्षितम् पित्र्यमिति नक्षत्रतदीशयोरभेदोपचारात्तस्य स्वामिनि वृत्तिः । निरृतीराक्षसः उदकनाथोवरुणः अर्य्यमा भगश्चेमौ सूर्य्यविशेषौ । इत्येतदीशावाणचन्द्राः पञ्चदश वासरे मुहूत्तांः स्युः यदाहनारदः “दिवामुहूर्त्ता रुद्राहिमित्राः पितृवसूदकम् ।विश्वे विधातृब्रह्मेन्द्रा इन्द्राग्न्यसुरतोयपाः । अर्यमा-भगसंज्ञश्चविज्ञेयाः दश पञ्च चेति” पी० धा० ।“शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवकौ । विष्ण्व-र्कत्वष्टृमरुतो मुसूर्त्ता निशि कीर्त्तिताः” मु० चि० ।“प्रथममुहूर्त्तस्वामी शिवः ततोऽजपादात् पूर्व्वाभाद्रपदा-दष्टौ भेशानक्षत्रस्वामिनोमुहूर्त्तेशाः स्युः । यथा “अजपादःअहिर्बुघ्न्यः पूषा अश्विनौ यमः अग्निर्ब्रह्मा सोम इत्यष्टौभेशाः । ततोदशमेशोऽदितिः जीवको गुरुः । विष्ण्वर्कत्वष्टृम-रुतः प्रसिद्धाः एतदीशा निशि मुहूर्त्ता प्रकीर्त्तिताः यदाहनारदः “ईशाजपादहिर्बुध्न्यपूषाश्वियमवह्नयः । धातृचन्द्रा-दितीज्याख्यविष्ण्वर्कत्वष्टृवायवः” इति । मुहूर्त्तलक्षणं कश्य-पेनोक्तम् । “अह्नः पञ्चदशोभागोमुहूर्त्तोऽथ तथा निशः”इति । प्रयोजनमाह नारदः । “यस्मिनृक्षे हि यत्कर्मकथितं निखिलञ्च यत् । तद्दैवत्ये तन्मुहूर्त्ते कार्य्यं यात्रा-दिकं सदेति” यात्रेत्युपलक्षणं देवस्थापनाद्यपि कार्य्यम् ।पी० धा० । एवं मुहूर्त्तेशे निरूपिते तद्दोषमाह ।“रवावर्य्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चा-भिजित् स्यात् । गुरौ तोयरक्षो भृगौ ब्रह्मपित्र्ये शनावीशसार्पौ मुहूर्त्ता निषिद्धाः” मु० चि० ।“रवेर्वारेऽर्यमा लक्षणया अर्यमस्वामिकचतुर्दशसं-ख्याकोमुह्र्त्तोनिषिद्धः । एवं सोमवारे ब्रह्मरक्षः द्वन्द्वै-कवद्भावः । ब्रह्मरक्षःस्वामिकौ मुहूर्त्तौ निषिद्धौएवं सर्वत्र व्याख्येयम् । ईशो महादेवः । यदाह-नारदः । “अर्य्यमा राक्षसब्राह्मौ पित्र्याग्नेयौ तथा-भिजित् । रक्षःसार्पौ ब्राह्मपित्र्यौ भौजङ्गेशाविनादिषु ।वारेषु वर्जनीयास्ते मुहूर्त्ताः शुभकर्म्मणि” पी० धा० ।“अथ वेधदोषं विवक्षर्विहितनक्षत्रादिकमभिजिन्मानञ्चाह“निर्व्वेधैः शशिकरमूलमैत्रपित्र्यब्राह्मान्त्योत्तरप-वनैः शुभोविवाहः । रिक्तामारहिततिथौ शुभेऽह्नि वैश्वप्रा-न्त्याङ्घ्रिश्रुतितिथिभागतोऽभिजित् स्यात्” मु० चि० ।“मृगशिराहस्तमूलानुराधा मघारोहिण्युत्तराफाल्-गुन्युत्तराषाढोत्तराभाद्रपदास्वातीनक्षत्रैः निर्वैधैः वेधा-ख्यदोषरहितैः विवाहः शुभः शुभफलप्रदः यदाहवसिष्ठः । “स्वातीमघायां निरृतौ ध्रुवान्त्यमित्रेन्दुहस्तेषुच कन्यकानाम् । पाणिग्रहस्त्विष्टफलप्रदः स्यादविद्धभेष्वेवगुणान्वितानामिति” । नारदोऽपि “पौष्णधात्रुत्तरामैत्रम-रुच्चन्द्रार्कपित्र्यभैः । समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते”अर्कोहस्तः पी० धा० । वसिष्ठवाक्ये इष्टफलदैत्युक्ते अन्ये-षामपि ग्रहणमापद्विषये सूचितम् तेन “कुमार्याः पाणिंगृह्णीयात्त्रिषूत्तरादिषु” पारस्करसूत्रे चित्राश्रवणाधनिष्ठा-श्विनीनां ग्रहणं तच्च तस्य यजुर्वेदीयगृह्यसूत्रकरत्वेनतद्वेदिविषयमापद्विषयं वेति ज्यो० रघु० अतएव भीमपरा-क्रमे अन्यान्यनक्षत्रेऽनिष्टमुक्तं यथा“पूर्वात्रये विशाखायां शिवाद्ये भचतुष्टये । ऊढा चाशु भ-वेत् कन्या विधवाऽतो विवर्जयेत् । विष्णुभात्तु त्रिके चित्रेज्येष्ठायां ज्रलनेयमे । एभिर्विवाहिता कन्या भवत्येव सु-दुःखिता” । अत्र चित्रादिवर्जनात् यजुर्वेदिनामप्यत्यन्तापद्येवग्राह्यता । तिथिनिर्णयमाह रिक्तेति । रिक्तामाः प्रसिद्धाःआभिर्वर्जिततिथिषु शुभेऽह्नि शुभग्रहवासरेऽपि विवाहःशुभः । यदाह वसिष्ठः । “शुक्लद्वितीयादित एव कृष्णे पक्षेदशम्यन्तगताः प्रशस्ताः । तास्वष्टमीस्कन्दगणेशदुर्गाचतुर्दशीचापि तिथिर्विवर्ज्या । वाराः प्रशस्ताः शुभखेचराणांसूर्य्याकिवारौ खलु मध्यमौ तु । त्याज्यः सदा भूमिसुतस्यवारः कामार्कतिथ्योरपि तौ प्रदोषाविति” तौ सूर्य्यार्कि-वारौ त्रयोदशीद्वादश्योः प्रदोषौ प्रकृष्टदोषावित्यर्थः । गणेशश्च-तुर्थी दुर्गा नवमी । अत्र यदि विचारितविवाहदिनमारभ्यचतुर्थीकर्मपर्य्यन्तं पित्र्याद्यावश्यकश्राद्धदिनममावास्या वाभवति तदा विवाहो न कार्य्यः । उक्तञ्च “विवाहमा-रभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् ।वैधव्यमाप्नोति तदाशु कन्या जीवेत् पतिश्चेदनप-त्यता स्यादिति । अन्यच्च । “विवाहमध्ये यदि तत्क्षयाह-स्तत्रान्नमुख्याः पितरो न यान्ति । वृत्ते विवाहे परतस्तुकुर्यात् श्राद्धं स्वधाभिर्न तु दूषयेत् तमिति ।पी० धा० । तेन कृष्णपक्षे द्वादश्यादिदिनचतुष्टये आपद्यपिविवाहो न कार्यः । रिक्ताया वर्ज्यत्वेऽपि शनिवारयुक्ताया-स्तस्याः ग्राह्यता इति गौडा अनार्षमूलत्वात्तच्चिन्त्यम् “नवारदोषाः प्रभवन्ति रात्रौ सूर्यावनीसूनुशनैश्चरणामिति” ।गौडावदन्ति तन्मूलमपि मृग्यम्” । अथाभिजित्प्रमाणम् ।वैश्वेति पी० धा० “अभिजिच्चब्दे २२७ पृ० तद्विवृतिः ।अथ पञ्चशलाकचक्ने विद्धनक्षत्राणि । “वेधोऽन्योन्यमसौविरिञ्च्यभिजितोर्याम्यानुराधर्क्षयोर्विश्वेन्द्वोर्हरिपित्र्ययो-र्ग्रहकृतोहस्तोत्तराभाद्रयोः । स्वातीवारुणयोर्भवेन्नि-रृतिभादित्योस्तथोफान्त्ययोः खेटे तत्र गते तुरीयचरणा-द्योर्वा तृतीयद्वयोः” मु० चि० ।“विरञ्चिः रोहिणी रोहिण्यभिजितोर्ग्रहैः क्रूराक्रूरैःकृतोवेधोऽन्योन्यं परस्परं भवेत् । रोहिणीस्थे ग्रहेअभिजिद्विद्धः अभिजित्स्थे रोहिणी विद्धेत्यर्थः । एवंसर्व्वत्र उफा उत्तरफल्गुनी । तन्न्यासप्रकारमाह नारदः ।“तिर्य्यक् पञ्चोर्द्धगाः पञ्च रेखे द्वे द्वे च कोणयोः । शुम्भु-कोणे द्वितीयेऽग्निधिष्ण्यं चक्रे च विन्यसेत् । मान्यतः सा-मिजिन्त्येकरेखाकोणे च विद्धभमिति” । चक्रे तस्मिन्नेकरे-खास्थितेन त द्विद्धर्क्षं खेचरेण प्रदिष्टम् । क्रूरैर्विद्धं सर्वधिष्ण्यंविवर्ज्यं सौम्यैर्विद्धं नाखिलं पाद एवेति” । नन्वष्टाविंश-तिर्नक्षत्राणि चक्रे तत्र द्वयोर्द्वयोः परस्परवेधे चतुर्दशयुग्मानि वक्तव्यानि स्युः कथमष्टावेवामिहितानि उच्यतेविवाहे ह्येकादशनक्षत्राणामेव प्राशस्त्याभिधानात् तद्वेधो-पयोगीन्येतावन्त्येव युग्मानि सम्भवन्तीति तावतामेवाभि-धानम् । अतएव दैवज्ञम० “रोहिण्यभिजितोर्मूला-दित्ययोर्मृगवैश्वयोः । रेवत्युत्तरफाल्गुन्योर्मघाश्रवणयोर्भ-वेत् । हस्तोत्तराभाद्रपदोः स्वातीवारुणयोर्मिथः । अनु-राधाभरण्योश्च वेधोऽयं पञ्चरेखजः” इति तथैवोक्तम् ।वाराहविवाहपटले प्रत्येकवेधफलानि “रविवेधे वैधव्यं पुत्र-नाशं करोति कुजवेधे । बन्ध्या पण्डितवेधे दीक्षाकरणंकरोति गुरुवेधः । भृगुसुतवेधेऽपुत्रा दासी रविजात-राहुसम्भूते” इति । पण्डितो बुधः दीक्षाकरणं प्रव्रज्याम्चरणवेधमाह खेट इति । तत्र तस्मिन् नक्षत्रेविद्यमाने ग्रहे सति यदि चतुर्थपादेऽस्ति तदा विद्ध-नक्षत्रस्य प्रथमपादे वेधः । यदि तृतीयपादे तदा द्वि-यीयचरणस्य वेधः एवं यदि द्वितीयपादस्थः तदातृतीयपादे वेधः यदि प्रथमपादे तदा चतुर्थपादस्यवेध इत्यर्थः । यदाह वसिष्ठः “अतोऽन्त्यपादमा-दिगोद्विर्तायगस्तृतीयकम् । तृतीयगोद्वितोयकञ्चतुर्थ-गस्तु चादिमम् । भिनत्ति वेधकृद्ग्रहोनचान्यपादमादि-शेत्” । एतद्यद्यपि शुभाशुभग्रहसाधारणं प्रतीयते तथापि सौम्यग्रहपरन्द्रष्टव्यम् । यतोवसिष्ठेनैव खार्जूरदोषा-भिधानावसरे “विषप्रदिग्धेन हतस्य पत्रिणा मृगस्य मांसंश्रुभदं क्षतादृते । तथैव पादो न शुभोऽवशिष्टपादाः शुभा-श्चेति पितामहेन” इत्याशङ्क्य समाहितम् “पादएव न शु-भः शुभग्रहैर्विद्ध इत्यखिलशास्त्रसंमतम् । क्रूरविद्धभयुतं न शोभनं शोभनेषु गदितं न पादतः इति ।नारदः । “पादमेव शुमैर्विद्धमशुभैश्चैव कृत्स्नभम्” इति ।कश्यपोऽपि । “क्रूरविद्धं युतन्धिष्ण्यं क्रूराक्रान्तञ्च कृत्-स्नभम् । मणिहेममयंहर्म्यम्भूताक्रान्तमिव त्यजेत्”इति कृत्स्नभं सकलनक्षत्रम् । तस्मात्क्रूरग्रहविद्धेसंपूर्णनक्षत्रत्यागः शुभविद्धे चरणत्याग इति सिद्धान्तः ।तत्र विवाहे पञ्चशलाकावेध एव यदाह वसिष्ठः“पञ्चशलाकाचक्रे पाणिग्रहणे भवेधविधिरुक्तः । शस्त-शुभमित्रकृतः सप्तशलाकाजैतरत्रेति” । श्रीपतिः “बधू-प्रवेशने दाने वरणे पाणिपीडने । वेधः पञ्चशलकाख्योऽ-न्यत्र सप्तशलाकक” इति पी० धा० । अत्र केचित् सप्त-शलाकाचक्रवेधमाहुः । तत्र विद्धनक्षत्राणि यथा “शाक्रेज्ये, शतभानिले, जलशिवे, पौष्णार्य्यमर्क्षे, वसुद्वीशे, वैश्वसुधां-शुभे, हयभगे, सार्पानुराधे, तथा । हस्तोपान्तिमभे, विधा-तृबिधिभे, मूलादिती त्वाष्ट्रभाऽजाङ्घ्री, याम्यमघे, कृशा-नुहरिभे, विद्धे कुभृद्रेथके” मु० चि० “कुभृद्रेखके सप्तशलाकेचक्रे शाक्रेज्येज्येष्ठापुष्यनक्षत्रे मिथः क्रूराधिष्ठितत्वेनविद्धे ज्ञेये । एवं जलशिवे पूर्व्वषाढार्द्रे विद्धेज्ञेये एवंसर्व्वत्र । वैश्वसुधांशुभे उत्तरषाढामृगशिरसी, हयभगेअश्विनीपूर्व्वफाल्गुन्यौ, उपान्तिमभं उत्तराभाद्रपदा, अत्र मूलवाक्यं स्वरोदयस्थं यज्ञोपवीतप्रकरणे भिहि-तम् । चक्रोद्धारो व्यवहारसमुच्चये “सप्त सप्त विनि-पात्य रेखिकास्तिर्यगूर्ध्वमथ कृत्तिकादिकम् । लेखये-दभिजिता समन्वितञ्चैकरेखगमेन विध्यते” दीपि-का । “यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवाविवाहे । उद्वाहवस्त्रेण तु संवृताङ्गी श्मशानभूमिंरुदती प्रयाति” । तथा च भोजः । “विद्धे सप्तशला-काख्ये बिधवा लग्नवाससा । पुनर्यात्यचिरान्नारी मुखाग्नौमुखचन्द्रिकाम्” । वैधव्यञ्च नक्षत्रसंख्यातुल्याब्दैर्बवतितदुक्तं वराहेण “नक्षत्रजमुद्वाहे फलमब्दैस्तारकामितैःसदसदिति” । अत्रापि तुल्यन्यायत्वात् क्रूरवेधे पूर्णं नक्ष-त्रन्त्याज्यम् शुभग्रहवेधे पादस्त्याज्यः इति ध्येयम् ।पी० धा० । “सप्तशलाकाजैतरत्रेति” प्रागुक्तवचनात्“भुक्तम्भोग्यन्तथाक्रान्तं विद्धं पापग्रहेण च । शुभाशु-भेषु कार्य्येषु वर्जनीयं प्रयत्नतः” स्वरोदयवाक्यांच्च अस्यकर्मकार्येषु वर्ज्यतया चतुर्दशयुग्मानामिहोक्तिः” अत्रापवादः“ऋक्षाणि क्रूरविद्धानि क्रूरमुक्तादिकानि च । भुक्त्वाचन्द्रेण मुक्तानि शुभार्हाणि प्रचक्षते” । मु० चि० “क्रूर-ग्रर्हैर्विद्धानि ऋक्षाणि तथा क्रूरैर्मुक्तानि त्यक्तानि । आदि-शब्दात् क्रूरैराक्रान्तानि क्रूरैर्गन्तव्यानि च त्रिविधोत्पातै-र्दूषितानि ज्ञेयानि तानि यदि चन्द्रेण भुक्त्वा मुक्तानितदा शुभार्हाणि प्रचक्षते वदन्ति मुनय इति शेषः । यदाहवात्स्यः “भुक्तम्भोग्यन्तथाक्रान्तं विद्धं पापग्रहेण भम् ।मङ्गलेषु च कार्य्येषु यत्नतः परिवर्जयेदिति” । वसिष्ठो-ऽपि “उत्पातभङ्ग्रहणभङ्क्रूरविद्धस्थितञ्च यत् । दहत्येवशुभं कर्म्म राघवाग्निशरोम्बुधिमिति” । शार्ङ्गीये “क्रूरा-श्रितङ्क्रूरविभुक्तविद्धङ्गन्तव्यधिष्णेषु कुमारिकाणाम् ।वदन्ति पाणिग्रहणे मुनीन्द्रावैधब्यमव्दैस्त्रिभिरेवमाहुरि-ति” । अस्यापवादमाह केशवार्कः । “उत्पातपापग्रहदूषितन्भं यदीन्दुराक्रम्य पुनर्भुनक्ति । तदा तदर्हङ्किल मङ्गलेषुत्यजेत्समाक्रान्तधनूरवीन्द्वोरिति” । अयमवधिराक्रान्तनक्षत्रभिन्नविषयो वेदितव्यस्तत्र हि चाण्डालधृतहस्तस्नानव-च्चन्द्रभोगस्यानिर्णेजकत्वात् । तदुक्तं शार्ङ्गीय “यद्धि-ष्ण्यन्दोषसंयुक्तं स्यात्तथापीन्दुसंयुतम् । शुभकार्य्येषु त-त्त्याज्यमन्यकर्म्मसु सिद्धिदम् । यथा हि चाण्डालधृतैकहस्तोमज्जन्नगाधेऽपि सरित्प्रवाहे । भवेन्न पूतः शशिमोगतोऽपितथा न शुध्येदुडु पापयुक्तम् । स्पृष्ट्वा गते तु चाण्डाले शु-द्धिराप्लवनाद्यथा । तथा भुक्त्वा गते क्रूरे चन्द्रभोगाद्विशो-धनमिति । अतएवोक्तं वसिष्ठेन “गन्तव्यधिष्ण्यङ्खलुभुक्तभं यत् क्रूरैर्महोत्पातविदूषितञ्च । चन्द्रोपभोगाद-मलन्तदानीं शुभेषु कार्येषु शुभप्रदं चेति । एतच्च सामा-न्यन्यायत्वात् क्रूरविद्धे भे चन्द्रभोगादपि शुद्धिर्नास्तीत्युक्तम्यत्तु नारदेनोक्तम् “ग्रहणोत्पातभन्त्याज्यं मङ्गलेषु ऋतु-त्रयम् । यावच्च रविणा भुक्त्वा मुक्तन्तद्दग्धकाष्ठवदिति”“तद्यावद्वचनं वाचनिकमिति” न्यायेन ग्रहणोत्पातभयोः ष-ण्मासपर्य्यन्तं निषेधस्ततोऽपि यावद्रविणा भुक्त्वा न त्यक्त-न्तावत्त्यजेत् तत्रापि चन्द्रग्रहण एव सूर्य्यग्रहणीयनक्षत्रस्यतु षण्मासानन्तरं सूर्य्यभोगासम्भव एव अतो नक्रूरमुक्तादी रविभोगापेक्षा उत्पातभस्य चन्द्रोपभोगोऽप्या-वश्यको वसिष्ठवाक्यालोचनात् । अत्र क्रूरवेधे निखिल-भं त्याज्य न चरण एव । तदुक्तं कश्यपेन “क्रूरविद्ध-युतन्धिष्ण्यं निखिलं नैव पादतः । अन्यैरपि गुणैर्युक्तसर्व्वदोषविवर्जितम् । त्यजेदनर्घमाणिक्यङ्कलङ्कोपहतंयथेति” अयञ्च क्रूराधिष्ठितत्वे दोषः क्रूर ग्रहचन्द्रयोरेकराशिस्थत्वे वेदितव्यः । यदा तु चन्द्रः प्रथमपादेक्रूरग्रहश्च तृतीयपादे एवं सति राशिभेदोऽपि जायतेतदा क्रूरग्रहाधिष्ठितत्वदोषोनास्तीति ध्येयम् । उक्तञ्चज्योतिर्निबन्धे । “एकस्मिन्नपि धिष्ण्ये भिन्ने राशौ खलग्रहे शशिनि । तच्चन्द्रर्क्षे कुर्य्याद्विवाहयात्रादिकं सर्वमिति”यथा मृगशिरसि प्रथमे पादे चन्द्रः तृतीये क्रूरग्रहःतत्र सत्यप्येकनक्षत्रत्वे राशिभेदोद्वयोरिति पी० धा० ।अथ लत्तादोषः । “ज्ञराहुपूर्णेन्दुसिताः स्वपृष्ठेभं सप्तगोजातिशरैर्मितं हि । संलत्तयन्तेऽर्कशनीज्यभौमाःसूर्य्याष्टतर्काग्निमितं पुरस्तात्” मु० चि० ।“सप्त प्रसिद्धाः गावोनव जातयोद्वाविंशतिः शराः पञ्चएतैर्मितम्भम् स्वाक्रान्तनक्षत्रात् ज्ञराहुपूर्णेन्दुसिताः स्वपृष्ठे संलत्तयन्ते यथा बुधः सप्तनं, राहुर्नवमं, पूर्णेन्दुःपूर्णिमान्तचन्द्रोद्वाविंशम्, तच्च गतकृष्णपक्षे पञ्चमीषष्ठीसप्तमीनामन्यतमायां सम्भवति । शुक्रः पञ्चमंस्वपृष्ठे लत्तयतीत्यर्थः अर्कशनीज्यभौमाः क्रमेण पुरस्तादग्रेसूर्य्याष्टतर्काग्निमितं संलत्तयन्ते यथा सूर्य्यः स्वाक्रान्तनक्षत्राद्द्वादशं, शनिरष्टमम्, गुरुः षष्ठम्, भौमस्तृती-यभम् अग्रतोलत्तयतीत्यर्थः । यदाह नारदः “पुरतःपृष्ठतोऽर्काद्या दिनर्क्षं लत्तितञ्च यत् । अर्काकृतिगुणाङ्गर्त्तु-वाणाष्टनवसङ्ख्यभमिति, सूर्य्यः पुरतः, चन्द्रः पृष्ठतः एवंक्रमेण भौमादयोपि पुरतः पृष्ठतश्च लत्तयन्तीत्यर्थः । वरा-होऽपि “सूर्य्योद्वादशमृक्षं षष्ठं गुरुरवनिजस्तृतीयन्तु ।संलत्तयति दिवाकरपुत्रोऽष्टममग्रतः पादैः । पश्चाद्द्वा-विंशतिभम्पौर्णिमचन्द्रस्तु पञ्चमं शुक्रः । स्वर्भानुरपि न-वमं सप्तममृक्षं शशाङ्कसुत” इति प्रत्येकं वेध फलमाहसएव । “रविलत्ता वित्तहरी नित्यङ्कौजी विनिर्दिशेन्मरणम् ।चान्द्री नाशङ्कुर्याद्बौधी नाशं वदत्येव । सौरी मरणं कथयति बन्धुविनाशं वृहस्पतेर्लत्ता । मरणं लत्ता राहोः कार्यविनाशम्भृगोर्वदन्तीति” नन्वग्रलत्ता वा पृष्ठलत्ता वा वक्त-व्या किमिति न द्वैरूप्यकथनम् । अत्र समावत्ते केशवार्कः”“इति सति द्युसदामभिलत्तने यदनुलत्तनमुक्तमृषिव्रजैः ।तदुडुपश्चिमपूर्व्वविभागयोरनधिकाधिकदोषविवक्षयेति” ।अत्र राहोः सदा वक्रिवान्नवमगणना क्रमेणैव ग्राह्यायथाश्विन्यां राहुः तदा अश्लेषां लत्तयति । सम्मुखलत्तावादिमतेऽपि वक्रगामिना राहुणा सन्मुखमश्विनीरेवतीत्या-दिगणनया विंशतिभम् अश्लेषैव नत्वन्यथाश्रयितव्यमितिसाम्प्रदायिकाः” पी० धा० ।अथ पातदोषः । “हर्षणवैधृति साध्यव्यतिपातकगण्डशूल-योग नाम् । अन्ते यन्नक्षत्रं पातेन निपातितन्तत् स्यात्” ।मु० चि० । “हर्षणेत्यादि षड्योगानां अन्ते यच्चन्द्रनक्षत्रंभवेत् तत्पातेन चण्डीशचण्डायुधाख्येन निपातितं स्यात् यदाह त्रिविक्रमः “साध्यहर्षणशूलानि वै-धृतिव्यतिपातयोः । षड्भङ्गण्डस्य चान्ते स्यात्तत् पातेननिपातितमिति” । नारदेन प्रकारान्तरेणैतत्प्रकारसम्पा-दकः पातोऽभिहितः । “सूर्यभात्सार्पपित्र्यान्त्यत्वाष्ट्रमित्रोडुविष्णुभे । सङ्ख्यया दिनभे तावदाश्विभात्पातदुष्ट-भम्” । वसिष्ठेनापि “रविभादहिपितृमित्रत्वाष्ट्रभहरिपौ-ष्ण्यभेषु गणितेषु । आश्विनभादिन्दुयुतौ तावति वै पततिगणनया पातः । अयमपि पातोदोषश्चण्डीशचण्डायुधा-ह्वयोज्ञेयः । अखिलेषु मङ्गलेष्वपि वर्ज्योयस्माद्विनाशदःकर्त्तुरिति” यद्यप्यत्र हर्षणादीनामुपादानं नास्ति तथा-प्यभिहिताश्लेषादिनक्षत्रसाहित्येन पाताभिधानात्तत्तुल्यसख्याकेष्वेव योगेषु पातसम्भवो जायते इति मत्वा हर्षणा-दीनामनुक्तिः । एवञ्च प्रागुक्तेषु दशसु विरुद्धयोगेषुलत्तापातयोः पृथक् कीर्त्तनम्” । ज्यो० त० रघुनन्दनेन“ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः षष्ठचाष्टयमर्कजस्तु सुरतोहन्ति स्फुटं लत्तया” इत्यादि रत्नमा-लावाक्य मुक्त्वा “लत्तापातोऽयमिति, यदुक्तं तच्चिन्त्यमूलम्तयोर्विभिन्नदोषत्वात् अन्यथा प्रागुक्तव्यवहारोच्चयवाक्ये-वर्ज्यदशसंख्यानुपपत्तेः तद्वाक्ये पातशब्दस्याश्रवणाच्च ।अथ क्रान्तिसाम्यम् “पञ्चास्याजौ गोमृगौ तौलिकुम्भौकन्यामीनौ कर्क्यली चापयुग्मे । तत्रान्योन्यञ्चन्द्रभान्वो-र्निरुक्तं क्रान्तेः साम्यं नो शुभं मङ्गलेषु” मु० चि० । “पञ्चा-स्याजौ सिंहमेषौ अन्ये प्रसिद्धाः । एषु राशियुग्मेषु च-न्द्रभान्वोः पाठक्रमेण व्युत्क्रमेण वा स्थितयोः क्रान्तिसाम्यंनिरुक्तन्तन्मङ्गलेषु नो शुभं स्यात् । अत्र पञ्चास्याजा-वित्येवमादीनाङ्ग्रहणमुदाहरणदिक्प्रदर्शनार्थत्वात्सर्व्वथासूर्याचन्द्रमसोः सायनयोर्योगः षड्राशिमितो द्वाद-शराशिमितो वा विवक्षितस्तदैव क्रान्तिसाम्यस्य सम्भ-वात् । अतः सम्मतिवाक्यस्यानवसरः नन्वेतावन्त एवषड्राशियोगा द्वादशराशियोगा वा सम्भवन्तीति चेन्नराश्यन्तावच्छेदस्थित्याधिकानामपि सम्भवात् प्रत्यंश-कलाविकलान्तस्थितत्वेनानन्तभेदसम्भवाच्चातः प्रागुक्तंव्याख्यानं ज्यायः । क्रान्तिसाम्यस्य च महापात इतिनाम । एतस्य निन्द्यतामाह वसिष्ठः “दोषो महा-पात इति प्रसिद्धः सवैधृतोहन्ति बधूं वरं च । तं र-क्षितुं लग्नगुणास्त्वशक्ताः स्वबान्धवा नाऽशनितोऽपघातम्” ।अशनिर्वज्रम् । नारदोऽपि “यस्मिन् दिने महापातस्तद्दिनं वर्जयेत् शुभे” इति अतएव पतननात्पातः सकल-शुभकर्मणामित्यन्वर्थतापि । सा च स्पष्टा सोमसिद्धान्ते ।“यच्छुभानां विनाशाय नदन्निव पतत्ययम् । व्यतीपातःप्रसिद्धोऽत्र संज्ञाभेदेन वैधृतिः” इति । महापातशब्दस्यरूढिस्तु रवीन्दुक्रान्तिसाम्य एव नत्वन्येषां ग्रहाणां क्रान्तिसाम्ये । यथा जलजशब्दस्य रूढिः कमले न तु भेकाद्रौ ।क्रान्तिर्नाम ग्रहाणां दक्षिणोत्तरवृत्ते गमनम् । या च सू-र्यस्य क्रान्तिः सा यदा चन्द्रक्रान्त्या तुल्या स्यात्स पातम-ध्यकालः । तत्रोत्सर्गतोरवीन्दुक्रान्त्योः समानत्वं भुज-साम्ये सति मवति । भुजोनाम “त्र्यूनं भुजः स्यात्त्र्यधिकेन हीनं भार्द्धञ्च भार्द्धादधिकं विभार्द्धम् । नवा-धिकेनोनितमर्कभं चेति” लक्षणलक्षितः तत्साम्यं तुसूर्याचन्द्रमसोर्योगे षड्राशितुल्ये द्वादशराशितुल्ये वासति भवति । अतएव ग्रन्थकृता तादृशायोगा एव पठिताः ।“विनाशपातेन्दुमिहायनांशकैर्युतोरविः शीतकरश्च गृह्यते ।समापमत्वे व्यतिपात वैधृताह्वयास्तदैक्ये रसभेऽर्कभे क्रमात्”इति भास्कराचार्य्योक्तिमङ्गीकृत्य सामान्यतः क्रातिसाम्य-दिवसस्य शीघ्रोपस्थित्यर्थं भुजसाम्यप्रतिपादनम् । तदुक्तंवसिष्ठेन स्वसिद्धान्ते “चक्रे चक्रार्द्धतुल्ये वा कियद्भागाधि-कोनके । सायनार्केन्दुयोगे चेत्तदा पातस्य सम्भवः ।शुभमङ्गलकर्माणि लोकानां च बिनाशयेत् । स्नानदा-नादिकं तत्र जपश्राद्धादिकाः क्रियाः । कदापि कुरुते-मर्त्यः सुमहत् फलमश्नुते । सूर्यग्रहे कुरुक्षेत्रे कोटिस्व-र्णार्पणे फलम् । तत् फलं लभते पाते स्नानश्राद्धजपा-दिना । उत्पत्तौ लक्षगुणितं भ्रमणे कोटिसङ्गुणम् ।पातेऽथार्बुदसङ्गुण्यं पतिते दत्तमक्षयमिति” । तथा सूर्यसि-द्धान्तेऽपि । “एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा ।तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः । विपरीता-यनगतौ चन्द्रार्को क्रान्तिलिप्तिकाः । समास्तदा व्यती-पातोभगणार्द्धन्तयोर्युतौ । तुल्यांशुजालसम्पर्कात्तयोस्तु प्र-वहाहतः । तादृक् क्रीधोद्भवोवद्विर्लोकाभावाय जायते”इति । अतएवानन्तरोत्पन्नक्रान्तिसाम्ये महापातदोषोनास्त्येव । तदुक्तं गणेशदैवज्ञैः “पूर्वं तत् स्यात् पातमध्यंद्वितीयं पूर्वैर्नोक्तं तद्यतोनातिदुष्टमिति” । अनेनैवा-शयेन वसिष्ठेन स्वसंहितायामुक्तम् । “शास्त्रात् समानीतमहातिपातः सवैधृतोहन्ति वधूं वरं च । त्रिःसप्तवारा-निव जामदग्न्यक्रोधोऽचिरात् क्षत्रकुलं समस्तमिति” ।शास्त्राद्गणितशास्त्रोक्तान्महापाताधिकारादित्यर्थः । तत्रहि योगादेव महापातस्यानित्यत्वात्तस्यैव दोषत्वं नान्य-स्येत्यर्थादुक्तं भवति । किञ्चपञ्चाङ्गीयोऽपि योगः सूर्याच-न्द्रमसीर्योगादेव साधितः स्पष्टाधिकारेऽतस्तस्मादेव महा-पातोऽपि साधयितुमुचित एव “पी० धा० ।अथ खार्जूरापरपर्यायैकार्गलदोषः“व्याघातगण्डव्यतिपातपूर्वे शूलान्त्यबज्रे परिघातिगण्डेएकार्गलाख्योह्यभिजित्समेतोदोषः शशी चेद्विषमर्क्षगो-ऽर्कात्” मु० चि० । “अन्त्योवैधृतिः । अन्ये प्रसिद्धाः । यस्मि-न्दिने व्याघातादिके विरुद्धे दुष्टयोगे सति अर्कादर्कनक्षत्रा-च्छशी चन्द्रोऽभिजित्समेतोविषमे विषमसंख्याके ऋक्षे नक्षत्रेस्यात्तदा खार्जूरचक्रोत्पन्न एकार्गलाख्योदोषः स्यात् ।यदा समे स्यात्तदा न दोषः इत्यर्थः । यदाह त्रिविक्रमः“विरुद्धनामयोगेषु साभिजिद्विषमर्क्षगः । अर्कादिन्दुस्तदायोगोनिन्द्य एकार्गलाभिधः” इति वसिष्ठेन तच्च-क्रमभिहितम् । “अन्त्यातिगण्डपरिघव्यतिपातपूर्वव्याघा-तगण्डवरशूलमहाशनीषु । चित्रानुराधपितृपन्नगदस्र-भेषु साहित्यमूनशशिसूरिषु मूर्द्धभेषु । “रेखामेकामूर्द्ध्व-गां षट् च सप्त तिर्यक् कृत्वाप्यत्र खार्जूरचक्रे । तिर्यग्रेखासंस्थयोश्चन्द्रभान्चोर्दृक्सम्पातोदोष एकार्गलाख्यः । “खर-करतुहिनांश्वोर्दृष्टिसम्पातजातस्त्वनलमयशरीरस्तूद्गिरन्नग्निसंस्थान् । भुवि पतति जनानां मङ्गलध्वंसनाय गुण-गणशतसङ्घैरप्यवार्योऽग्निकोपः” इति अत्र वसिष्ठवाक्येऽभिजित्साहित्यमास्त न वेति सन्देहः नारदस्त्वमिजिद्वर्जितंचक्रमाह “व्याघातशूलपरिघपातपूर्वेषु सत्स्वपि ।गण्डातिगण्डकुलिशवैधृत्या सहितेषु च । अदितीन्दु-मघाह्याद्यमूलमैत्रेज्यभानि च । ज्ञेयानि सहचित्राभि-र्मूध्नि भानि यथाक्रमम् । लिखेदूर्ध्वगतामेकान्तिर्यग्रेखा-स्त्रयोदश । तत्र खार्जूरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् ।भान्येकरेखागतयोः सूर्याचन्द्रमसोर्मिथः । एकार्गलोदृष्टिपाताच्चाभिजिद्वर्जितानि वै । लाङ्गले कमठे चक्रे-फणिचक्रे त्रिनाडिके । अभिजिद्गणना नास्ति चक्रेखार्जूरिके तथेति” । कश्यपेनापि एकार्गलोदृष्टिपात-श्चाभिजिद्रहितानि वै” इति । तत्र त्रिविक्रमकेशवार्क-वाक्ययोः समूलत्वस्य शिष्टसम्मतत्वान्नारदादिवाक्यैः सहविकल्पः ततोऽनयोः पक्षयोर्यंथादेशाचाराद्व्यवस्थेतियुक्तं प्रतीमः” पी० धा० । खार्जूरवेधे ज्यो० ति०“एकामूर्द्ध्वगतां त्रयोदश तथा तिर्यग्गताः स्थापयेत् ।रेखाश्चक्रमिदं बुधैरभिहितं खार्जूरिकं तत्र तु । व्या-घातादि तु मूर्ध्नि भन्तु कथितं तत्रैक्यरेखास्थयोः सूर्या-चन्द्रमसोर्मिथोनिगदितो दृक्पात एकार्कलः” “व्याघा-तादीति व्याघातयोगसंख्याङ्कस्त्रयोदशाङ्कः । तथा चहस्तादीनि नक्षत्राणि देयानीत्यर्थः” इति यद्व्याख्यातंतच्चिन्त्यमुक्तवाक्यैःः व्याघातादिदुष्टयोगयुक्तदिवसे एवखार्जूरवेधप्रतिपादनात् तत्र लेख्यनक्षत्रादीनां चनारदेन विशेषाभिधानाच्च ।अथोपग्रहदोषः स च उपग्रहशब्दे १२०२ पृ०उक्तप्रायः विशेषार्थं पुनरुच्यते ।“शराष्टदिक्शक्रनगातिघृत्यस्तिथिर्घृतिश्च प्रकृतेश्चपञ्च । उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशेकुरुबाह्लिकानाम्” । “सूर्यभतः सूर्यक्रान्तनक्षत्राद-ब्जताराः चन्द्रनक्षत्राणि पञ्चाष्टदचतुर्दशसप्तैकोन-विंशतिपञ्चदशाष्टादशैकविंशतिद्वाविंशतित्रयोविंशतिचतु-र्विंशतिपञ्चविंशतिसंख्याकाश्चेत्स्युस्तदोपग्रहनामकादोषाःस्युः प्रकृतिरेकविंशतिः ततः पञ्च । यदाह नारदः“भूकम्पः सूर्यभात्सप्तमर्क्षे विद्युच्च पञ्चमे । शूलोऽ-ष्टमे च नवमेऽशनिरष्टादशे ततः । केतुः पञ्चदशेद-ण्डश्चोल्का एकोनविंशतौ । निर्घातपातसंज्ञश्च ज्ञेयःस नवपञ्चमे । मोहनिर्घातकम्पाश्च कुलिशं परिवेषकम् ।विज्ञेयाश्चैकविंशाख्यादारभ्य च यथाक्रमम् । चन्द्रयुक्तेषुभेष्वेषु शुभकर्म्म न कारयेदिति” । वराहः “उपग्रहर्क्षेषुविवाहिता स्त्री सूर्यर्क्षतो दुर्भगतामुपैति” । अन्यत्रापि ।“गृहप्रवेशे द्रारिद्र्यं विवाहे मरणं भवेत् । प्रस्थानेविपदः प्रोक्ता उपग्रहदिने यदीति” । एवं सामान्यतोनिषेधमभिधाय देशभेदेन परिहारमाह । शुभाइति । “बाह्लिके कुरुदेशे च वर्जयेद्भमुपग्रहमिति” कश्य-पोक्तेः” पी० धा० । अत्रापवादः ।“पातोपग्रहलत्तासु नेष्टोऽङ्घ्रिः स्वेटपत्समः” मु० चि० ।“पातश्चण्डीशचण्डायुधाख्योदोषः उपग्रहः प्रागुक्तएव । लत्ता ज्ञराहुपूर्णेन्दु सिताः” इत्यादिनोक्ता, तत्रखेटपत्समः ग्रहचरणतुल्यो नक्षत्रचरणोऽनिष्टः अस्यार्थःपाते उपग्रहे च रविर्यस्मिन् स्यात्तत्संख्यचरणस्तस्यनक्षत्रस्य वर्ज्योनान्यः लत्तायान्तु लत्ताकारिणोग्रहा-यच्चरणे स्युस्तत्संख्य एव पादी वर्ज्योनान्यः । उक्तं चमुहूर्त्तदीपिकायाम् “उपग्रहेषु लत्तायां तथा चण्डायु-धाह्वये ग्रहोऽस्ति यत्प्रमाणांशे विद्धांशस्तत्प्रमाणकः” इतिउपग्रहचण्डायुधयोः सूर्यकृतोऽङ्घ्रिर्ग्राह्यस्तस्यैव सम्भ-वात् । अयञ्च परिहारस्तुल्यन्यायत्वात् खार्जूरकेऽपिद्रष्टव्यः । सूर्यो यस्मिन् पादे भवेत्तत्समसंख्यश्चरण एकरे-खावस्थितचन्द्रनक्षत्रस्य वर्ज्य इत्यर्थः “खार्जूरिकसमा-ङ्घ्रिभमिति” नारदोक्तेः ज्योतिर्निबन्धे गर्गः “पूर्वाह्णेदण्डदोषः स्यादपराह्णे तु मोहजः । उल्का चैवार्द्धरात्रेतु कम्पोऽहोरात्रदूषकः” । तत्रापि “कम्पोल्कादण्डमो-हानामङ्घ्रिभमिति” नारदोक्तेः कालभेद एव वर्ज्यः“स्वरमासदशर्त्तव ७, १२, १०, ६, आदितो घटिकास्तेषुवर्जनीयाः पराः शुभा” पी० धा० ।अथ वारदोषः । स च अर्द्धयामकुलिकयमघण्टभे-दात् त्रिविधः । ते च कश्यपेनोक्ताः यथा “शैलाक्षश्रु-तयः सूर्य्ये चन्द्रे षड्वेदपर्वताः । भौमे वाणाग्निनेत्राणिसौम्ये वेदाक्षिवायवः । गुरुवारेऽग्निचन्द्रेभाः शुक्रे ने-त्राद्रिवह्नयः । शनौ चन्द्रेभतर्काःस्युः कुलिकोयमघण्टकः ।अर्द्धपहरसंज्ञश्च मङ्गलेषु विवर्जयेत् । वारदोषेण दुष्ट-न्तल्लग्नं सर्वगुणान्वितम् । त्यजेद्यथा पुरोडाशं वायसोप-हतन्तयेति” । फलमाह वसिष्ठः “निधनं प्रहरार्द्धे तुनिस्वत्वं यमघण्टके । कुलिके सर्व्वनाशः स्याद्रात्रावेते नदोषदाः” पी० धा० । दिवसाष्टमभागात्मकाश्चैते । तत्रअर्द्धयामशब्दे ३७६ पृ० अर्द्धयामविशेष उक्तः । मुहू-र्त्तात्मककुलिकस्तु कुलिकशब्दे वक्ष्यते तत्र कुलिकमुहू-र्त्तमुपक्रम्य श्रीपतिना “यात्रायां मरणं काले वैध्यव्यंपाणिपीडने । व्रने ब्रह्मबधः प्रोक्तः सर्वं कर्म ततस्त्य-जेत्” उक्तम् ।अथ जामित्रदोषः । “लग्नाच्चन्द्रान्मदनभवनगे खेटे नस्यादिह परिणयनम् । किंवा वाणाशुगमितलवगेजामित्रं स्यादशुभकरमिदम्” मु० चि० । “विवाह-लग्नाच्चन्द्राद्वा सप्तमं भवनं गृहं जामित्रं तत्र गते खेटे-परिणयनं न स्यात् । उक्तञ्च “जामित्रं द्विविधं प्रोक्तंगर्गगालवगौतमैः । तस्माल्लग्नाच्च चन्द्राच्च जामित्रं परि-वर्ज्जयेदिति” । तत्स्वरूपमाह महेश्वरः “लग्नाच्छीत-कराद्ग्रहा द्युनगता नेष्टा विवाहे स्मृताः” इति । वसिष्ठःलग्नप्रकरणे” सर्वे जामित्रसंस्थाविदधति मरणम्” इत्याहस्म ।लल्लः “पापात् सप्तम्गः शशी यदि भवेत् पापेन युक्तोऽथवायत्नेनापि विवर्जयेन्मुनिमते दोषोऽपि संकथ्यते ।उद्वाहे विधवा, व्रते तु मरणं, शूलञ्च पुंस्कर्मणि, यात्राय ।विपदो, गृहेषु दहनः, क्षौरेऽपि रोगो महान्” । भुज-बलः “चन्द्रात् सप्तमराशिगे दिनकरे त्यक्ता धनैः कन्यकाभौमे च प्रमदा प्रयाति विलयं, सौरे च बन्ध्या सरुक् ।जीवः शुक्रशशाङ्कजौ शुभकराः केचिद्वदन्ति क्रमात्भर्तृप्रेप्सितदीक्षितास्तभवने नित्यं प्रवासान्वितेति” । अस्या-पवादमाह । किंवाशब्दोविकल्पे पूर्वग्रहाधिष्ठितराशेःमप्तमराशिस्थितत्रिंशद्भागात्मके लग्नेऽपि चन्द्रोनिषिद्धइत्युक्तमिदानीन्तदधिष्ठितराशिनवांशमारभ्य वाणाशुगाः पञ्चपञ्चाशत् तन्मितनवांशगे लग्नेचन्द्रे सति जामित्रं स्यात् ।यथा मेषराशौ पञ्चमनवांशे भौमोऽस्ति तस्मात् तुलायां प-ञ्चमनवांशस्थं लग्नं तत्र चन्द्रो वा निषिद्धोऽन्येऽष्टौ नवांशाःशुभाः । एवंविधं सूश्मं जामित्रमिदमशुभकरं स्यात् ।यदाह महेश्वरः “कैश्चित् कामनवांशकादिषु शरैस्तु-ल्ये नवांशे स्थिताः” इति । केशवार्कस्तु चन्द्रनवांशाः-देवाह । “हिमरश्मिनवांशकात् खलो यदि खेटः शरःसायकांशके । अयमन्यगुणैर्न हन्यते निबिडैरत्युपसर्गडम्ब-रः” अपवादान्तरमाह राजमार्त्तण्डः “तुङ्गत्रिकोणभवनेभवने निजे वा सौम्याधिमित्रगृहगोऽपि तदीक्षितो वा ।जामित्रवेधजनितानपहृत्य दोषान् दोषाकरः सुखमनेक-विधं विधत्ते” इति । व्यवहारसमुच्चयेऽपि । “स्वोच्चेऽथवास्व भवने स्फुरदंशुजालः सौम्यालये हितगृहे शुभवर्गगोवा । जामित्रकारिपरिसञ्चितदोषराशिं हृत्वा ददातिबहुशः सुखमेव चन्द्रः” । कालखण्डे वात्स्यायनः “गुरु-श्चन्द्रश्च जामित्रे तिष्ठेद्यदि बलान्वितः । धनसौभाग्य-पुत्रांश्च लभते नात्र संशयः । मणिमुक्ताप्रवालैश्च सुवर्ण्णाभ-रणैः शुभैः । शोभिता तु सदा तिष्ठेद्गुरुणापि निरीक्षिते ।सा तु भर्त्तुः प्रिया नित्यं बुधे चन्द्रस्य सप्तमे” पी० धा० ।“एकार्गलोपग्रहपातलत्ताजामित्रकर्त्तर्युदयास्तदोषाः ।नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा”मु० चि० । “एकार्गलः खार्जूरचक्रोक्तः उपग्रहः शरा-ष्टेत्यादिनोक्तः पातश्चण्डीशचण्डायुधम् लत्ता ज्ञरांह्वित्या-दिनोक्ता, जामित्रमधुनोक्तम् । कर्त्तरी, लग्नात् पापादि-त्याद्युक्ता उदयास्तदोषा वक्ष्यन्ते । एवंविधादोषा नश्यन्ति ।कदा विवाहलग्ने चन्द्रार्कयोर्बलं स्वोच्चमित्रादिराशि-स्थितत्वरूपं विहितस्थानस्थितत्वञ्च तेनोपपन्ने सहितेसति । अर्कस्य सूर्य्यस्याभ्युदये दोषा रात्रिर्यथा नश्य-तीर्त्यर्थः । गाढान्धकारयुक्तापि रात्रिरेकाकिना सूर्य्यस्यो-दयेन स्वयमेव नश्यतीति यथा” पी० धा० ।प्रसङ्गादन्यान्यदोषस्य देशान्तरविषयत्वमाह “उपग्रहर्क्षंकुरुबाह्लिकेषु कलिङ्गवङ्गेषु च पातितम्भम् । सौराष्ट्रशाल्वेषुच लत्तितम्भं त्यजेत् तु विद्धं किल सर्वदेशे” मु० चि० ।“कुरवोवाह्लीकाश्च पश्चिमदेशास्तेषूपग्रहदोषाक्रान्त-म्भं त्यजेन्न तदरिक्तसर्वदेशेषु तेषु शुभमेवेत्यर्थः । कलि-ङ्गोवङ्गश्च प्राग्देशौ बहुवचनान्मगधाङ्गादयोऽपि । तेषुचण्डीशचण्डायुधापरपर्यायं पातं त्यजेत् । न तु क्रान्ति-साग्यरूपं पातं तस्य महापातत्वव्यवहारात् । सौराष्ट्रःशाल्वदेशः पश्चिमदेशविशेषः बहुवचनाद्ग्रामबाहुल्यंतेषु लत्तितं लत्तासंजातास्य तद्भं परित्यजेत् । विद्धंक्रूरेण शुभेन वा पञ्चशलाकादिचक्रद्वारा भिन्नम्भं भूत-लवर्त्तिसर्वदेशेषु त्यजेत् । किल निश्चयेन नत्वस्य देशभेदेनपरिहारः एतदपि वाक्यं सम्मत्यन्तरं नार्हति । विवाह-पटलेऽपि “लत्तामालवके देशे पातः कोशलेके तथा ।एकार्गलन्तु काश्मीरे वेधं सर्वत्र वर्जयेदिति” । वराहः ।“युतिदोषस्तु विन्ध्याख्ये देशे नान्येषु केषु चेति” । दश-योगो भवेद्गौडे जामित्रस्य च यामुने । वेधदोषश्च शेषेषुइत्यादि वाक्यानां यथादेशाचारात् व्यवस्था” पी० धा० ।अथ दशयोगः “शशाङ्गसूर्य्यर्क्षयुतेर्भशेषे खं भूयुगा-ङ्गानि दशेशतिथ्यः नागेत्पवोऽङ्केन्दुमिता नखाश्चेद्भवन्ति चैते दशयोगसंज्ञाः” मु० चि० । “चेद्यदिचन्द्रसूर्य्यनक्षत्रयोर्युतेर्योगाद्भैः सप्तविंशत्याभक्ताद्यच्छे-षस्तस्मिन शून्यैकचतुःष्दशैकादशपञ्चदशाष्टादशैकोन-विंशतिविंशतिसंख्याके सति एते अङ्काः दशयोग-संज्ञा भवन्ति नान्ये इत्यर्थः । शिष्टामां दशानामङ्का-नामभिहितत्वाद्दशयोग इत्यन्वर्थसंज्ञा तदुक्तं दीपिका-याम् “तिथ्यङ्गवेदैकदिगूनविंशभैकादशाष्टादशविंश-संख्याः । इष्टोडुना सूर्य्ययुतोडुना वा योगादमी चेद्दश-योगदोषः” । लल्लोऽपि “यस्मिन्नृषे रविस्तिष्ठेद् यस्मि-न्नृक्षे शशी तधा । धिष्ण्ये द्वयोर्योगहृते शेषः स्यात्वादितोदश । शून्यवेदर्त्तुरूपाणि दिग्रुद्रतिथयोधृतिः ।जनविंशा नखाश्चेति दश योगाः प्रकीर्त्तिता” इति पी० धा०तत्फलम् “वाताभ्राग्निमहीपचोरमरणं रुग्वज्ववादाः क्ष-तिर्योगाङ्के दलिते सभे मनुयुतेऽयौजे तु सैकेऽर्द्धिते ।भन्दास्रादथ सम्मितास्तु मनुभीरेखाः क्रमात् संलिखेद्वेधी-ऽस्मिन् ग्रहचन्द्रयोर्न शुभदः स्यादेकरेखास्थयोः” मु० चि० ।“शून्यशेषे वातदोषः स्यात् एकशेषेऽभ्रान्मेघात्, चतुर्ष्व-वशिष्टेष्वग्नेः, षट्सु महीपाद्राज्ञः, दशसु चौरात्, एकाद-शसु मरणं द्वयोरन्यतरस्य वा, पञ्चदशसु रुक् अष्टादशसुवज्रम् एकोनविंशतिशेषे वादः कलहः, विंशतिशेषे क्षतिःद्रव्यनाशः स्यात् । यदाह लल्लः “मरुन्मेघाग्निभूपालचौर-मृत्युरुजोऽशनिः । कलिर्हानिर्दशोद्वाहे दोषास्त्याज्याःसदा बुधैः” । विवाहादौ प्रतिष्ठायां व्रते पुंसवने तथा ।कर्णवेधे च चूडायां दशयोगं विवर्जयेदिति” । अथा-पवाद उच्यते । योगाङ्क इति । योगाङ्के समेयुग्मसंख्याके सति दलिते सत्यर्द्धीकृते मनुभिश्च चतुर्दशभिर्युते योगाङ्के तदा दास्रादश्विनीतोभं नक्षत्रंस्यात् । यथा समाङ्के अङ्कयोगः दशाङ्कः १० अर्द्धितः५मनुयुतः १९मूलनक्षत्रं जातम् । अथ योगाङ्के अ-युग्मसंख्याके सति सैके एकयुक्तं ततोऽर्द्धिते अश्विनीतोभंस्यात् । यथा विषमाङ्को योगःपञ्चदश सैकः १६ अ-र्द्धितः ८ पुष्यनक्षत्रं जातम् । तच्चक्रं यथा अथ मनुभिःसम्मिताश्चतुर्दश रेखास्तिर्यक् क्रमात् संलिखेत् । अ-नेन पकारेण यन्नक्षत्रमागतं तत आरभ्य साभिजिन्न-क्षत्रवृन्दमस्मिंश्चके लेख्यं तत्र स्वाक्रान्तनक्षत्रे स्थाप्याः ।दिननक्षत्रे च चन्द्र एवं सति यदि ग्रहचन्द्रावेकरेखास्थौस्यातां तयोस्तादृशयोः परस्परावलोकनरूपोवेधोनशुभदः । उक्तञ्च ज्योतिःसागरे “योगाङ्के विषमे सैकेसमे सवसुलोचने२८ । दलीकृतेऽश्विनीपूर्वदशयोगमुदाहृतम् ।दशयोगे महाचक्रे प्रमादाद्यति विध्यते । क्रूरैः सौम्य-ग्रहैर्वापि दम्पत्योरेकनाशनमिति” दशयोगापवादान्तर-माह भरद्वाजः । “गुरौ लग्नाधिपे शुक्रे सवीर्ये लग्न-केन्द्रगे । दश दोषा विनश्यन्ति यथाग्नौ तूलराशयः” ।व्यासोऽपि “शुक्रेण गुरुणा वापि संयुतं दृष्टमेव च ।दशयोगसमायुक्तमपि लग्नं शुभावहमिति” पी० धा० ।अपवादान्तरं ज्यो० त० । “आद्यपादस्थिते सूर्ये तुरी-यांशः प्रदुष्यति । द्वितीयस्थे तृतीयस्थो विपरीतमतोऽ-ग्यथा” । विपरीतं चतुर्थस्थे आद्यः तृतीयस्थे द्वितीयोदुष्यति नात्यस्थे नान्यपादो दुष्यतीत्यर्थः ।अथ वाणदोषः “लग्नेनाढ्यायाततिथ्योऽङ्कतष्टाः शेषेनागद्व्यब्धितर्केन्दुसंख्ये रोगोवह्नीराजचौरौ च मृत्यु-र्वाणश्चायं दाक्षिणात्यप्रसिद्धः” मु० चि० । “शुक्लपक्षप्रतिप-दमारभ्य गततिथ्योऽङ्कैर्नवभिस्तष्टाः शेषे नागसंख्येऽष्टसंख्येरोगाख्योवाणः । एवं द्विसंख्ये शेषे वह्न्याख्यः चतुःसंख्येशेषे राजा । तर्काः षट् तत्संख्ये शेषे चौराख्यः एकसंख्येशेषे मृत्युसंज्ञोवाणः । अयं च दाक्षिणात्येषु महाराष्ट्रदे-शीयेषु प्रसिद्धः तेन देशाचारात् व्यवस्थया बाणस्य त्यागः ।न तु प्राच्योदीच्यपाश्चात्त्यानाम् । तौक्तं सप्तर्षिमते विवा-हपटले । “गततिथियुतलग्नं पञ्चधा स्थापनीयं तिथि१५ रवि १२ दश १० नागै ८ र्वेद ४ युक्तं क्रमेण । नव ९ हृत-शर५ शेषे वाणसंज्ञाः क्रमेण रुगनलनृप चौराः पञ्चमो-मृत्युसंज्ञ इति” पी० धा० अथ प्राच्याख्यवाणापवादौ“रसगुणशशिनागाब्ध्याढ्यसंक्रान्तियातांशकमितिरथतष्टाङ्कैर्यदा पञ्चशेषाः । रुगनलनृपचौरा मृत्युसज्ञश्चवाणो नवहृतशरशेषे शेषकैक्ये सशल्यः” मु० चि० ।“रसगुणशशिनागाब्धिभिराढ्याचासौ संक्रान्तियातांशकमितिश्चेति स्पष्टनिरयनांशसूर्यसंक्रान्तिभुक्तांशानाम्मितिःसंख्या पञ्चधा स्थाप्या कलादिकमुपेक्ष्यम् । सा क्रमेणपटत्र्येकाष्टचतुर्भिराढ्या संयोज्याङ्कैर्नवभिस्तष्टा सतीयदा पञ्चशेषा यस्मिन् स्थले पञ्चावशिष्यन्ते तत्र क्रमेण-रुगादिवाणीज्ञेयः । यथा आदौ पञ्चशेषेरोगवाणः द्वितीयेपञ्चशेषेऽग्निवाणः तृतीये पञ्चशेषे राजवाणः चतुर्थे पञ्चशेषेचौरवाणः पञ्चमे पञ्चशेषे मृत्युवाणः तस्मात्तस्माद्भयं भव-तीत्यर्थः । यदाह कश्यपः “संक्रान्तियातांशकनन्दशेषस्त-र्काग्निरूपाष्टयुगैः समेतः । तष्टोग्रहै रोगहुताशभूपस्तेना-मृतिश्चेति च पञ्च वाणाः । इति पञ्चेति पृथक् पृथक् पदंशिष्यन्ते तदा वाणाः स्युरित्यर्थः । तत्र वाणीद्विविधःएकः काष्ठशल्योऽपरोलोहशल्यः तत्राभिहितो वाणःकाष्ठशल्य उच्यते । अस्य नाम प्राच्याख्यो वाण इ-त्याहुः । तेन तादृशे वाणे लग्ने तथा पीडा न भवेत्त-दर्थं तदपवादभूतो लोहशल्यसहितो वाण उच्यते नवेति । यानि प्रागागतानि शेषाणि तेषामैक्ये नवहृतेपश्चाच्छरशेषे सति सशल्यः लोहसहितोवाणः स्यात् ।पञ्चव्यतिरिक्ते शेषे शल्यसहितो दुष्टवाणः । अयं तुल्य-न्यायत्वात् प्राक् पद्योक्तेऽपि बाणे सशल्यो वाणोज्ञेयःज्योतिश्चिन्तामणावन्यथा वाणीऽभिहितः । “तिथिवारभ-लग्नाङ्कोरसाग्न्यब्जाष्टवेदयुक् ६, ३, १, ८, ४, नन्दाप्त पञ्च-शेषे रुग्वह्निराट्चौरमृत्युकृदिति” पी० धा० । अथसमयादिभेदेन वाणापवादः “रात्रौ चौररुजौ दिवाऽग्निनृपती त्याज्यौ सदा सन्ध्ययोर्भृत्युश्चाथ शनौ नृपो-विदि मृतिर्भौमेऽग्निचौरौ रवौ । रोगोऽथ व्रतगेहगोप-नृपसेवायानपाणिग्रहे वर्ज्याश्च क्रमतो बुधैरुगनलक्ष्मा-पालचौरा मृतिः” मु० चि० ।“रात्रौ चोररुजौ वाणौ त्याज्यौ, दिवा दिवसेऽग्निनृपतीवह्निराजवाणौ त्याज्यौ सन्ध्ययोः प्रातःसायंसन्ध्ययोःसदा मृत्युर्वाणस्त्याज्यः । ज्योतिःप्रकाशे “रोगञ्चौर-न्त्यजेद्रात्रौ दिवा राजाग्निपञ्चकम् । उभयोः सन्ध्य-योर्मृत्युमन्यकाले न निन्दितः” । अथ शनौ शनिवारेनृपवाणः, विदि बुधवारे मृतिवाणः, भौमेऽग्निचौरबाणौरवौ रोगवाणः त्याज्यः । उक्तञ्च दैवज्ञम० “रवौ रोगं, कुजे वह्निं, शनौ च नृपपञ्चकम् । वर्जयेच्च कुजेचौरं, बुधवारे च मृत्युदमिति” । एतेषु शुभकर्म्मसु एतेवाणा वर्ज्याः यथा व्रते यज्ञोपवीते रुक्, गेहं गृहंतस्य गोप आच्छादनं तत्रानलोऽग्निः, नृपसेवायां क्ष्मा-पालोराजा, याने यात्रायां चौरः पाणिग्रहे मृतिर्वाणोवर्ज्य इत्यर्थः । तदुक्तं ज्योतिःप्रकाशे “नृपाख्यं राज-सेवायां गृहगोपेऽग्निपञ्चकम् । याने चौरं, व्रते रोग-न्त्यजेन्मृत्युं करग्रहे इति” । केचिदेवं पाठमाहुः । व्रतेविवर्जद्रोगं गृहगोपेऽग्निपञ्चकम् । यात्रायां राजचौ-रख्यौ विवाहे मृतिपञ्चकमिति” पी० धा० ।अथ लग्नसप्तमयोः शुद्धाबुपयोगिग्रहदृष्टिभेदः “त्र्याशंत्रिकोणं चतुरस्रमस्तं पश्यन्ति खेटाश्चरणाभिवृद्ध्या । मन्दो-गुरुर्भूमिसुतः परे च क्रमेण संपूर्णदृशो भवन्ति” मु० चि० ।“खेटाग्रहायन्मिन् स्थाने तिष्ठन्ति तस्मात् कथ्यमानानिस्थानानि चरणाभिवृद्ध्या पादवृद्ध्या पश्यन्ति तद्यथात्र्याशं तृतीयं दशमञ्चैकचरणदृष्ट्या पश्यन्ति त्रिकोणंनवपञ्चमं द्विचरणदृष्ट्या पश्यन्ति । चतुरस्रं चतुर्थम्अष्टमं च त्रिचरणदृष्ट्या पश्यन्ति । अस्तं सप्तमस्थानं चतु-श्चरणदृष्ट्या पश्यन्ति । अनेन तत्तद्ग्रहोद्भवशुभफलं चर-णाभिवृद्ध्यैव मवतीत्यपि सूचितम् । तदुक्तं वराहेण“दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रं च । पश्यन्तिपादवृद्ध्या फलानि चैवं प्रयच्छन्तीति” । मन्द इति । मन्दःशनैश्चरः स्वस्थानात् त्र्याशं संपूर्णदृक् चतुश्चरणदृष्टिः । एवंगुरुस्त्रिकोणं, भूमिसुतः चतुरस्रं, परे चन्द्रबुधसूर्यशुक्राःक्रमेण सप्तमे संपूर्णदृश इत्यर्थः यदाह गार्गिः । “दुश्चि-क्यदशमान्, सौरिस्त्रिकोणस्थान् वृहस्पतिः । चतुर्थाष्टम-गान् भौमः शेषाः सप्तमसंस्थितान् । भवन्ति वीक्षणे नित्य-मेवाधिकफला ग्रहाः” इति । वराहोऽपि “पूर्णं पश्यतिरविजस्तृतीयदशमे त्रिकोणमपि जीवः । चतुरस्रं मूमिसुतःसितार्कवुधहिमकराः कलत्रं चेति” पी० धा० । अत्रापिशब्दात् सप्तमस्थानेऽपि पूर्णदृष्टिः एवं शनिकुजयोः । अत-एव मु० चि० परे चेत्युक्तम् तत्प्रमाणञ्च ग्रहदृष्टिशब्दे वक्ष्यते ।अथ लग्ननिरूणम् । दीपिका कन्यातुलाभृन्मिथु-नेषु साध्वी शेषेष्वसाध्वी धनवर्जिता च । निन्द्येऽपिलग्ने द्विपदांश इष्टः कन्यादिलग्नेष्वपि नान्यभागः” ।कन्यादिलग्नेष्वपि द्विपदांशएव इष्टोनान्य इत्यर्थः ।वक्ष्यमाणवचने चरे चराशवर्ज्जनात् चरलग्नेऽपि तुला-तिरिक्तद्विपदांशस्य ग्राह्यता “धनुषि कुलटा तत्पूर्व्वार्द्धेसतीत्यपरे जगुः” विवाहपटले धनुरुत्तरार्द्धनिषेधात्पूर्व्वार्द्धस्य ग्राह्यतैव । मासभेदे लग्नभेदानां शून्यत्वात्तत्तन्मासे शून्यलग्ने विवाहो नेष्टः यदाह व्यव० च० “घट-मत्स्यवृषा युग्ममेषकन्यालयतुला । चापः कर्की मृगःसिंहश्चैत्रादौ शून्यराशयः” पङ्ग्वादिलग्नानि यानि वक्ष्यन्तेतान्यपि तत्रत्काले वर्ज्ज्यानि ।अथ लग्नसप्तमशुद्धी “यदा लग्नांशेशोलवमथतनुं पश्यति युतोभवेद्वाऽयं वोढुः शुभफलमनल्पंरच-यति । लवद्यूनस्वामी लवमदनभं लग्नमदनम् प्रपश्येद्वाबध्वाः शुभमितरथा ज्ञेयमशुभम्” मु० चि० । “यदा ल-ग्नांशेशोलग्नांशस्तस्येशः स्वामी लवं नवांशं पश्यति ।अथ वाऽयं नवांशेन सहयुतो वा भवेत्तदा वोढुर्वरस्यानल्पंबहुशुभफलं रचयति । यथा मेषलग्ने मिथुनांशस्तदीशोबुधः तुलायां मिथुनं पश्यति तत्र तिष्ठति वा अय-मुदयशुद्धेः प्रथमः कल्पः । तदलाभे तु लग्नांशेशस्तनुंलग्नं पश्यति लग्नेन सह युतो वा भवेत्तदापि वोढुःशुभफलमनल्पं स्यात् यथा मेषलग्न एव मिथुननवांश-स्वामी बुधोमकरे स्वनवांशं न पश्यति किन्तु लग्नंपश्यति अथवा मेष एव तिष्ठति । अयं लग्नशुद्धेःद्वितीयः प्रकारः । लवेति । लवद्यूनस्वामी लवान्नवां-शात् द्यूनं सप्तमनवांशस्त्रत्स्वामी लवमदनभं लवान्मदनभंसप्तमनवांशं पश्यति तेन सह युतो वा भवेत् तदा बध्वाअनल्पं शुभं रचयति । यथा मिथुननवांशात् सप्तमोध-नुरंशस्तदधीशोगुरुर्मेषु धनुः पश्यति तत्र तिष्ठति वाअयमस्तशुद्धेः प्रथमः प्रकारः । तदलाभे तु लवद्यूनस्वामीलग्नमदनं सप्तमभवनं पश्यति सप्तमभवनेन सह-युतो वा भवेत्तदा बध्वाः शुभं यथा मेषलग्ने गुरुःकर्के सप्तमतुलागतं स्वनवांशं धनूरूपं न पश्यति किन्तुसप्तमभवनं तुलां पश्यति अथवा तुलायामेवास्ति । अथ-मस्तशुद्धेर्द्वितीयः प्रकारः । इतरथेति इतरथा यदा ल-ग्नांशेशोलवन्तनुं वा न पश्यति तत्र युतो वा न स्यात्तदावरस्याशुभं मृत्युः स्यात् । यदा त्वस्तांशेशोऽस्तांशमस्त-भवनं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्यायाअशुभं मृत्युरित्यर्थः । यदाह कश्यपः “स्वस्वेशेनोदयास्तांशौवीक्षितौ वाथ संयुतौ । लग्नं वास्तगृहं तत्तदंशेशेने-क्षितं युतमिति” तदाऽशुभमित्यनुषङ्गः । वसिष्ठः इष्टो-दयांशे निजपत्यदृष्टे वरस्य मृत्युस्तनुसंयुते च । अस्तांशकेऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्येति” । तुल्य-न्यायत्वाल्लग्नेऽप्यस्तलग्नेऽपि उदयलवांशास्तांशस्वामि-नोर्दृष्ट्यभावेऽप्येतदेव फलं ध्येयम् । “लवेशोलवंलग्नपोलग्नगेहं प्रपश्येन्मिथो वा शुभं स्याद्वरस्य । लव-द्यूनपोऽंशं द्युनं लग्नपोऽस्तं मिथोवेक्षते स्याच्छुभं क-न्यकायाः” मु० चि० । “नवांशस्वामी नवांशं प्रपश्ये-ल्लग्नस्वामी लग्नं प्रपश्येत्तदा वरस्य शुभं स्यात् । अथ वामिथः परस्परं लवस्वामी लग्नं लग्नेशोलवकं प्रपश्येत्तदाऽपि वरस्य शुभम् एवं लवद्यूनपोनवांशात्सप्तम-नवांशस्वामी अंशं द्यूनमंशं सप्तमराशिमीक्षते लग्नपःलग्नस्वामी अस्तं लग्नात्सप्तमभवनमीक्षते तदा कन्यायाःशुभं स्यात् । वा अथवा मिथः सप्तमाधीशोलग्नस-प्तमं वीक्षते लग्नात्सप्तमाधीशश्चांशसप्तममीक्षते तदापिकन्यायाः शुभं स्यात् । अत्रान्यथात्वे दम्पत्योरशुभमित्यर्थः ।यदाह नारदः “लग्ननवांशकौ स्वस्वपतिना वीक्षितौयुतौ । न चेद्वान्योऽन्यपतिना शुभमित्रेण वा थवा । वरस्यमृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ । एवन्तौ वीक्षितौ युक्तौमृत्युर्बध्वाः करग्रहे” । वसिष्ठोऽपि “उदयांशः सस्व-नाथो मित्रसौम्येन वा युतः । प्रेक्षितो वा तथास्तांशोदम्पत्योः पुत्रपौत्रदः” इति । परस्परवीक्षणेऽप्येतदेव फलंध्येयं नारदवाक्यस्वरसात् पी० धा० ।“लवपतिशुभमित्रं वीक्षतेऽंशन्तनुं वा परिणयनकरस्य स्याच्छुभं शास्त्रदृष्टम् । मदनलवपमित्रं सौम्यमं-शद्युनं वा तनुमदनगृहं चेद्वीक्षते शर्म बध्वाः” मु० चि० ।“अथ पूर्वोक्तप्रकारेणोदयास्तशुद्धेरभावेऽपि तृतीयप्रकारउच्यते । लवपतीति शुभमित्रं शुभञ्च तन्मित्रं चेति कर्मधारयः । लवपतेर्लग्ननवांशेशस्य शुभग्रहः सो-मबुधगुरुशुक्राणामन्यमश्चेन्मित्रंस्यात्स चेदंशं स्वनवां-शन्तनुं लग्नं वा वीक्षते तदा परिणयनकरस्य वरस्यशास्त्रदृष्टं वसिष्ठोक्तपुत्रपौत्रादिप्राप्तिरूपं शुभं फलंस्यात् अथ वा एवं मदनलवस्यास्तांशेशस्य मित्रं सौम्यं चेत्स्यात्तच्चांशात् द्यूनं सप्तमनवांशं चेद्वीक्षते वा अथवा तनुमदनगृहं लग्नात्सप्तमभवनज्ञेद्वीक्षते तदा बध्वाःशास्त्रदृष्टं शर्म स्यात् । यद्युभयत्रापि नवांशस्वामिनोमित्रं पापग्रहश्चेत्तस्य दृष्टिरशुभैवेति फलितार्थः । यदाहवराहः “शुद्धस्त्विह स्यान्न यदोदयांशोलग्ने नवां-स्तांशमुपैति शुद्धिम् । तदा सुहृत्सौम्यनिरीक्षितोयःशुभाय स स्यात्प्रपदन्ति सन्तः” इति । कश्यपः “रा-श्यंशौ मित्रसौम्येन वीक्षितौ वाथ संयुतौ । उदयास्तां-शयोः शुद्धिस्त्रिविधा मङ्गलप्रदेति” । वसिष्ठः “लग्ना-स्तशुद्ध्या रहितः सदीषः करोति मृत्युं वरकन्ययोश्च ।त्रातुं तदा लग्नगुणास्त्वशक्तास्तं बन्धुवर्गा इव सर्पदष्ट-मिति” । केचित्तु विवाहादौ वज्रयोगं निषिद्धमाहुस्त-ल्लक्षणम् । “तिथिवारं च नक्षत्रं नवभिश्च समन्वितम् ।सप्तभिस्तु हरेद्भागं शेषाङ्के फलमादिशेत् । त्रिशेषेतु जलं विद्यात् पञ्चशेषे प्रभञ्जनः । सप्तशेषे वज्र-पातोज्ञेयं वज्रस्य लक्षणमिति टोडरानन्दे” पी० धा०अथ सूर्य्य संक्रातिदोषः “विषुवायनेषु परपूर्ब्धमध्यमान्दिव-सांस्त्यजेदितरसंक्रमेषु हि । घटिकास्तु षोडश शुभ-क्रियाविधौ परतो पि पूर्व्वमपि सन्त्यजेद्बुधः” मु० चि० ।“विषुवन्तुलामेषसंक्रान्ती अयनं कर्कमकरसंक्रान्ती एव-ञ्चतसृषु विषुवायनाख्यासु संक्रान्तिषु परपूर्व्वमध्यमान्दिवसान्बुधः शुभक्रियाविधौ विवाहयज्ञोपवीतादिशुभकार्य्येषु त्यजेत् । इतरास्वष्टसंक्रान्तिषु संक्रमकाला-त्परतोऽग्वेऽपि पूर्व्वं प्रागपि षोडश घटिकाः मिलि-त्वा द्वात्रिंशद्घटिकास्त्यजेत्! यदाह वसिष्ठः “विषुवतोरयनयोर्दिवसत्रयं हरिपदे षडशीतिमुखेषु च ।पूर्वतोऽपि परतोऽपि संक्रंमान्नाडिकाश्च खलु षोडश त्य-जेत् । संक्रान्तिदोषे त्वचिरात् कृतं यदुद्वाहपूर्वाखिलमङ्गलाद्यम् । लाक्षासमूहज्वलिताग्निमध्ये बिलीयतेतद्वदशेषमेतदिति” उद्वाहादिग्रहणात्स्नानादावनिषेधः ।तद्वाक्यानि संक्रान्तिप्रकरणेऽस्माभिरुक्तानि । किन्त-द्दिनत्रयं त्याज्यं किं संक्रान्तिकालात् प्राग्दिनत्रयमुततदनन्तरमुत मध्यमं वेति पक्षत्रयसम्भवे निर्णयमाह-गुरुः । “अयने विषुवे पूर्व्वम्परं मध्यन्दिनन्त्यजेत् । अन्यसंक्रमणे पूर्व्वाः पराः षोडश नाडिका इति” । अयञ्च नि-षेधः सायनसंक्रान्तिष्वपि ध्येयः । यदाह वसिष्ठः “यदाऽ-यनप्रवेशः स्यात्तदा तद्राशिसंक्रमः । तस्मिन्नपि दिनेत्याज्या नाड्यः षीडश षोडशेति” । शौनकः “अयनद्वयेसमूढा भर्त्तारं नाभिनन्दते नारी । विषुवद्वयेऽपि बिधवाषडशीतिमुखेषु सा म्रियते । विष्णुपदेषु विगीता कन्याविकलेन्द्रिया व्यतीपाते । वैधृतिविष्ट्योर्भ्रष्टा सुभगा शेषेषुकरणेष्विति” पी० धा० ।अथ पङ्ग्वन्धादिलग्नदोषः “घस्रे तुलाली बधिरौ मृगाश्वौरात्रौ च सिंहाजवृषा--दि वान्धाः । कन्यानृयुक्कर्कटकानिशान्धा दिने घटीऽन्त्यो निशि पङ्गुसंज्ञः” मु० चि० ।“घस्रे दिवसे तुलावृश्चिकौ बधिरौ स्मृतौ, मृगाश्वौ मक-रधनुषी रात्रौ न तु दिवसे, सिंहाजवृषा दिवान्धादिवसे बधिरौ न तु रात्रौ । कन्या नृयुक्कर्कटा निशा-न्धारात्र्यन्धा न तु दिवान्धाः । घटः कुम्भोदिने पङ्गु-संज्ञो नतु रात्रौ । अन्त्योमीनो निशि पङ्गु संज्ञोन तुदिने । यदाह वसिष्टः “मेषादिचान्धकं षट्कं चत्वारोब-धिराः स्मृताः । द्वौ पङ्गूचेति विज्ञेयावित्येतद्रा शिल-क्षणम् । मेषो वृषो मूगेन्द्रश्च दिवसेऽन्धाः प्रकी-र्त्तिता । नृयुक्कर्कटकन्याश्च रात्रावन्धाः प्रकीर्त्तिंताः ।तुला च वृश्चिकश्चैव दिवसे बधिरौ तथा । धनुश्च मकरश्चैवबधिरौ निशि कीर्त्तितौ । कुम्भमीनौ च पङ्गू द्वौ दिवा-रात्रौ यथाक्रममिति” । कुम्भोदिवा पङ्गुर्मीनो रात्रौ पङ्गुः, अनेन यस्मिन्काले लग्नस्य योऽन्धपड्ग्वादिदोषः उक्त-स्तस्मिन्नेव काले तल्लग्नन्दोषावहं न कालान्तरे” पी० धा० ।तत्फलम् । “दारिद्र्यम्बधिरतनौ दिवान्धलग्ने वैधव्यंशिशुमरणं निशान्धलग्ने पङ्ग्वङ्गे निखिलधनानि नाश-मीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः” मु० चि० ।“वसिष्ठः “अन्धे वैधव्यमाप्नोति दारिद्र्यं बधिरे तथा ।अथ नाशो भवेत् पङ्गाविति धात्रा विनिर्म्मितम्” । व्यासः“मासशून्याह्वयास्तारा राशयो बधिरादयः । गौडमाल-वयोस्त्याज्यास्त्वम्यदेशे न गर्हिता इति पी० धा० ।अथ नवांशशुद्धिः । “कार्मुकतौलिककन्यायुग्मलवे झषगेवा । यर्हि भर्वदुपयामस्तर्हि सती खलु कन्या” मु० चि० ।“कार्मुकं धनुस्तौलिकं तुला नृपुग्मं मिथुनम् एषामंशे न-वांशे झषगे मीनगते वाशब्दश्चेकीयमसूचनार्थः धनुरादि-नवांशाः सर्वमुनिसम्मता इत्यर्थः तेष्वंशेष यर्हि यदा उ-पयामो विवाहो भवेत्तर्हि कन्या विवाहोत्तरं सती पतिव्रताखलु यदाह विसष्ठः “लग्ने हि सर्वे शुभराशयश्च शुभेक्षितावाथ युताः शुभाः स्युः । नवांशकस्तौलिनृयुग्मकन्याचापाद्य-भागः शुभदो न चान्ये । द्विभर्तृका मेषनवांशके स्यात् झ-षांशके सा पशुशीलयुक्ता । धनान्विता पुत्रवती तृतीये कुली-रकांशे कुलटाप्यजस्रम् । सिंहांशके सा पितृमन्दिरस्था क-न्यांशके वित्तयुता सुशीला । तुलांशके सर्व्वगुणास्पदा साकीटां शके निःस्वतराविशीला । चापांशकाद्ये धनिनी द्वि-तीये भागेऽन्यसक्ता मलिना गदाढ्या१ निःस्वा मृगांशे वि-गुणा घटांशे विभर्तृका योगरता विशीर्णा । मीनांशके भर्तृ-सुतार्थहीना शुभग्रहै र्युक्तनिरीक्षिते वा । तस्मात्सदैवो-क्तनवांशकेषु कुर्याद्विवाहङ्गुणसंघवृद्ध्यै । नवांशदोषःसकलङ्गुणौघं लग्नोत्थसौम्यग्रहसम्भवञ्च । ध्रुवं निह-न्त्येव वृकोऽजसङ्घंषड्वर्गजं सौम्यवियच्चराणाम्” । पशु-शीलयुक्ता पशुचारपरा गदोरोगः एते एव चनवांशाः सकलमुनिभिरुक्ताः “तुलामिथुनकन्यां-शाधनुराद्यार्द्धसंयुताः । एते नवांशाः शुभदा यदि नान्त्यां-शकाः खल्विति” नारदोक्तेः शौनकस्तु मीनांशकमपिशुभमाह “सुदती सौभाग्यवती प्रहसितवदना च मीनांशे”इति । तत्र निबेधस्य तुल्यबलत्वात्षोडशीग्रहाणाग्रहण-वद्विकल्प इत्याहुः तन्न एकबाधेनोपपत्तावनेकबाधोन-न्याय्य इति वहुमुनिवचनप्रामाण्यात् मीनांशत्याग एवो-चितेनि त्वेकमुनिवचनानुरोधात्पाक्षिकोविकल्पविधिस्त-स्याष्टदोषग्रस्तत्वात् । का तर्हि शौनकवाक्यस्य गतिरितिचेत् गुणवद्वरोपलब्धौ लग्रान्तरासम्भवे मीनांशको निषिद्धोऽपिप्रशस्त इत्येवं विषया गतिर्युक्ता” पी० धा० ।“अन्त्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा ।नो चरलग्ने चरलवयोगे तौलिमृगस्थे शशभृति कुर्य्या-त्” मु० चि० । “विहितनवांशेष्वपि यथा मेषलग्ने धनु-र्नवांशोऽन्तिम इत्येवं विधिविषये लग्नान्तिमनवांशे काचनकन्या न परिणेया न विवाह्या । परन्तु वर्गोत्तमं नवांशंहित्वा तत्र विवाह उचित एव । यथा मिथुनलग्ने मिथु-नांशोऽन्तिमोऽपि वर्गोत्तमः । यदाह कश्यपः “अन्त्यांशकाअपि श्रेष्ठा यदिवर्गोत्तमाह्वयाः । अनुक्तांशास्तु न ग्रा-ह्या यतस्ते कुनवांशकाः” इति । वसिष्ठोऽपि “वर्गोत्तमंविनान्त्यांशे विवाहो न शुभप्रदः । वर्गोत्तमश्चेदन्त्यांशःपुत्रपौत्रादिवृद्धिदः” इति । अन्यच्च नो चरलग्ने इति ।तौलिमृगस्थे तुलामकरस्थे शशभृति चन्द्रे सति चरलग्नेविहितचरलवयोगे नो कुर्य्यात् । यथा मेषलग्ने तुलांशेउक्तञ्च केशवार्केण “चरलवं चरवेश्मगमुत्सृजेन्मृगतुलाधरगे मृगलक्ष्मणि । युवतिरत्र भवेत् कृतकौतुका मदन-वत्यनवत्यजनोन्मुखीति” । अनवो जीर्ण्णोभर्त्ता तस्य त्यजनेत्यागे उन्मुखी परपुरुषरता स्यादित्यर्थः पी० धा० ।अथ लग्नादिस्थ ग्रहदोषः “व्यये शनिः स्वेऽवनिजस्तृतीयेभृगुस्तनौ चन्द्रखला न शस्ताः । लग्नेट् कविर्ग्लौश्च रिपौमृतौ र्ग्लार्लग्नेट्णुभाराश्च मदे च सर्वे” मु० चि० ।“व्यये द्वादशस्थाने स्थितः शनिः न शस्तः “सोम-पकुलेऽपि हि जातां द्वादशगे मद्यपां कुरुते” इति शौ-नकोक्तेः । अत्र रविसुते इत्यनुवर्त्तते । “खे दशमेऽवनिजोमङ्गलो न शस्तः । “शाकिनी व्योम्नि वक्रे” इति केश-वार्कोक्तेः । तृतीयो भृगुः शुक्रः न शस्तः “धन्या धनगेशुक्रे कृपणत्वं प्राप्नुयान्नारी । दुश्चिक्यगते तु कन्यात्र्यब्दाद्भर्द्रुः कनीयसा--स्वजते” इति शौनजोक्तेः । तनौलग्ने चन्द्रः खलाः पापग्रहाश्च न शस्ताः । “लग्नस्थे-ऽर्के कन्या विधवा संवत्सरेऽष्टमे भवति । लग्नस्थो हिम-रश्मिर्मृत्यु कुर्य्यात् त्रयोदशे मासे । भौमः सद्यो विधवांलग्नस्थोऽव्दान्न सोम्यदृग्योगात् । कामयति नीचवर्णाल्लँग्नस्थे रविसुते बहून् पुरुषान् । शनिवद्विधुन्तुदस्यतु विज्ञेयं सदसदिति विज्ञैरिति” शौनकीक्तेः । लग्नेट्लग्नस्वामी, कविः शुक्रः ग्लओश्चन्द्रश्च रिपौ षष्ठस्तानेन शस्तः । “रन्ध्रे कुजे सौम्यस्वगे च मृत्युः षष्ठाष्टगेजग्नपतौ च मृत्युरिति” ज्योतिर्निबन्धोक्तेः । “भृगु-षट्काह्वयो दोषोलग्नात् षष्ठगते सिते । उच्चगे शुभ-संयुक्ते तल्लग्नं सर्वदा त्वजेदिति” नारदोक्तेः । “अव्द-चतुष्कान् मृत्युर्दम्पत्योः षष्ठगे चन्द्रे” इति शौनकोक्तेः ।ग्लौश्चन्द्रः लग्नेट्ट् शुभाश्चन्द्रबुधगुरुशुक्राः आरोभौम-श्चैते मृतावष्टमस्ताने न शस्ताः “मासत्रयेण विधवां निधन-गश्चन्द्रमाः कुरुते” मासत्रयेण कन्या निधनस्थे याति पञ्च-त्वम्” । बुधैत्यनुवर्त्तते । “दम्पत्योर्निधनस्थः सप्तदशाव्दा-द्वियोगदो जीवः । पञ्चत्वं नयति भृगुर्निधनस्थः सप्त-भिर्वर्षैरिति” शोनकोक्तेः । नारदः “कुजाष्टमो महा-दोषो लग्नादष्टमगे कुजे । शुभत्रययुतं लग्नं त्यजेत्तत्तुङ्गगो यदि” । अत्र सम्मतिः प्रागुक्ता । लग्नेट् चपुनः सर्व्वे सूर्य्यादयोग्रहा मदे सप्तमस्याने न शसाःनिषिद्धाः । “सर्वे जामित्रसंस्थाविदधति मरणमिति”वसिष्ठोक्तेः । कश्यपोऽपि “सप्तस्थानगाः सर्वे ग्रहाःकुर्व्वन्ति शीघ्रतः । दम्पत्योर्मरणं यत् स्यादेकस्य चन संशयः” इति अर्थादन्येषु स्थानेषु ग्रहाः समी-चीनास्तत्र केषुचित् स्थानेषु शुभा एव केषुचिन्मध्यमाएवेत्येतदपि वक्ष्यति । अतोऽमुमर्थमतिसंक्षिप्य त्रिविकमेण निषिद्धस्थानान्येवोक्तानि । “त्याज्या लग्नेऽव्धयो-मन्दात्, षष्ठे शुक्रेन्दुलग्नपाः । रन्ध्रे चन्द्रादयः पञ्च सर्व्वे-ऽस्ते ऽब्जगुरू समाविति” । (मन्दादब्धयः चत्वारो मन्दरविचन्द्रकुजा इत्यर्थः) । अब्जगुर्वोः समत्वं शौनकमतेनतादृशविरुद्धफलाभावात् । यदाह “कन्यास्तिस्रो जनयतिसापत्न्यं चैव सप्तमे शशिनि” । “शीलचरित्रोपेताङ्क-रोति पत्युः कलत्रगे द्वेष्यामिति” । गुरुरित्यनुवर्त्ततेअत्र वचनद्वयप्रामाण्याद्विकल्पः । यत्त्वत्रिणोक्तं “जा-मित्रगो यदि भवेदुशना बुधो वा गीर्वाणनाथसचिवःसितचन्द्रपक्षे । कन्याविवाहसमये परिहृत्य दोषान् सौ-भाग्यपुत्रसहितां वनितां करोतीति” तच्चन्द्रजामित्र-विषयम् । तथा च भुजबलः “स्त्रीणां विवाहे तुबलैरुपेताः पत्युः प्रणाशं विहगा विदध्युः । त्यक्त्वा-बुधं दैत्यगुरुं गुरुं च निशाकरादस्तगृहप्रपन्नाः” इति ।अतएव दीपिका “रविमन्दकूजाक्रान्तं मृगाङ्कात् सप्तमंत्यजेत् । विवाहयात्रा चूडासु गृहकर्म्मप्रवेशने” इतिपी० धा०अथ लग्नतःस्थानविशेषे ग्रहभेदानां शस्तता “त्र्यायाष्ट-षट्सु रविकेतुतमोऽर्कपुत्रास्त्र्यायारिगः क्षितिसुतोद्विगुणायगोऽब्जः । सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्ट-त्रिद्यूनषड्व्ययगृहान् परिहृत्य शस्तः” मु० चि० ।“तृतीयैकादशाष्टमषष्ठस्थानेषु रविकेतुतमोऽर्कपुत्राःशस्ताः शुभफलदातारः । यदाह शौनकः “बन्धुजनेभ्यःपूजां त्रिंशद्वर्षाणि सहजगे त्वर्के । प्राप्नोति धनं षष्ठेत्र्यव्दादूर्द्धं सुताश्चैव । दम्पत्योः सह मरणं निधन-स्थेऽर्केऽष्टसप्तत्या । कारयति धनविवृद्धिं त्र्यव्दाधूर्द्धं तथायगः सवितेति” (रवेः) धनदान्यपुत्रयुक्तां पञ्चमसं-वत्सरात्तृतीयस्थः । षष्ठः षड्भिर्मासैरसपत्नीं कन्यकांकुरुते । निधनगतार्किः कुर्य्यादामरणादामयवियुक्ताम् ।आयगतार्किः कन्यां त्रिवर्गयोग्यां करोति षण्मासादिति”(शनेः) अत्र राहुकेत्वोश्च फलं शनिवदेवेति “स्वर्भानौ वाप्य-थ शिखिनि वा लग्नबावादिसंस्थे” इति वसिष्ठोक्तेः त्र्या-यारिगः तृतीयैकादशषष्ठस्थानस्थितः क्षितिसुतो भौमःशस्तः । “सहजस्थो भूमिसुवः सौभाग्यकरस्तु यावदायुष्यम् ।संवत्सरेण विपुलं धनागमं शत्रुसंस्थस्तु । मणिकाञ्च-नरत्नाढ्यामेकादशगः कुजोऽव्दषट्केन” इति शौनकीक्तेः ।अब्जश्चन्द्रोद्विगुणायगोद्वितीयतृतीयैकादशस्थः शस्तः । “अव्-दाद्धनसंयुक्तां करोति चन्द्रो धने नार्य्याः । चन्द्रस्तृतीयराशौ सौभाग्यकरस्तु यावदायुष्यम् । लग्नादेकादश-गः कन्यामिन्दुर्धनान्वितां कुरुते” इति शौनकोक्तेः । ज्ञगुरूबुधवृहस्पती सप्तमद्वादशाष्टमातिरिक्तस्थानस्थितौ शस्तौ ।उक्तस्थानानाम् अशुभत्वादन्येषां शुभदातृत्वात् । यदाहवसिष्ठः । “प्रीतिर्वृद्धिः सगुणनिरतिर्वन्धुपूजा सुताप्तिःसद्वैपक्ष्यं तनयरहितं त्वन्यथा भर्त्तृनाशः । धर्मे बुद्धि-र्भवति धरणीलब्धिरत्येव वृद्धिर्हानिः स्त्रीणां हिम-करसुते लग्नभावादिसंस्थे” इति । “लक्ष्मीप्राप्तिर्भवतिसुयशाः प्रीतिरन्योन्यवृद्धिरिष्टप्राप्तिर्बहुविधमयं चाश्रमाणांविरक्तिः । पापासक्तिः सुकृतविरतिर्भूरिलाभः सुरेज्ये स्त्रीणांसौख्यं रिपुकृतभयं लग्नभावादिसंस्थे” इति अयं शुभ-दैवं अयः शुभावहो विधिहित्यमरः । क्लीबत्वं त्वार्षम्केचिद्बहुविधभयमिति” पठन्ति तन्मकारे भवकारभ्रान्तेः“उभयकुलानन्दकरीं करोति न चिराद्गुरुः षष्ठे” इतिषष्ठस्थानस्थितगुरोः शौनकेनापि सम्यक्फलाभिधानात् ।सित इति अष्टमतृतीयसप्तषड्द्वादशस्थानानि परिहृत्यत्यक्त्वात्येषु स्थानेषु सितः शुक्रः शस्तः । तदुक्त वसिष्ठेन“भोगप्राप्तिर्विविधविभवं स्वैरवृत्तिर्महत्त्वं द्युम्नाधिक्यंभवति निधनं सर्व्वनाशोऽवसुत्वम् । तथ्यप्रीतिर्बहुविध-गुणाः सर्वसम्पत्समृद्धिरस्वं स्त्रीणामुशनसि तथा लग्न-भावादिसंस्थे” इति द्युम्नं द्रविणम् । अवसुत्वं दरिद्र्यता ।अस्वं दारिद्र्यम् । वसिष्ठः “मृत्युर्नैस्वं बहुविधधनंभ्रातृहानिः प्रजानां व्याधिः सौख्यं बहुविधमतोभर्त्तृ-हानिश्चिरायुः । श्रेयोहानिर्भवति हृदयव्याधिरर्थागमश्चभानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे । (रवेः) नाशःसम्पद्बहुविधयशोबन्धुवृद्धिः प्रजाप्तिः शस्त्रान्म्रत्युर्भवति नचिराद्दीर्घसापत्न्यबाधा । प्रव्रज्यात्वं दुहितृजननं वर्द्धनंभोगमाक्त्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नभावादिसं-स्थे (इन्दोः) । अत्र चतुर्थचन्द्रस्य प्रजाप्तिः फलमभिहितम्श्रीपतिनापि “सुखे तु कथितो बन्धुक्षयः कैश्च-नेत्येकीयमतमनुसृत्योक्तमिति ग्रन्थकृता चतुर्थस्थानस्यमध्यमत्वमङ्गीकृतम् । “बधूं श्वशुरवियुक्तां चतुर्थस्थःशशी त्वाव्दादिति” शौनकः । विरुद्धार्थयोः का गतितिचेत् । बालचन्द्रविषयमशुभफलम् तद्भिन्नचन्द्रविषयंशुभफलम् । उक्तञ्च केशवार्केण “वालोऽब्जः प्रियविरहंशनिः स्तनाम्भःशून्यत्वं सृजति सुखे सुवासिनीनामिति”वसिष्ठः “मुत्युः शोको बहुविधधनं भ्रातृवैरं कुबुद्धिर्लक्ष्मी-प्राप्तिर्भवति मरणञ्चोभयोर्वंशनाशः । स्त्रीणां द्वेषो व्यसननिरतिः पुत्रपौत्रादिसिद्धिर्भीतिर्भूमेर्बलिनि तनये लग्नभावा-दिसंस्थे” (कुजस्य) । स्वच्छन्दत्वं कदशनरतिर्वल्लभत्वं विशीलंव्याधिः सुश्रीर्मृतिरथ सुखं गर्भपातप्रवृत्तिः द्यूतासक्तिर्भ-वति रविजे वैभवं वक्त्ररोगं स्वर्भानौ वाप्यथ शिखिनि वालग्नभावादिसंस्थे” पी० धा० बुधादीनामनुपदमुक्तम् ।अथ लग्नादिभञ्जककर्त्तर्य्यादिदोषापवादः“पापौ कर्त्तरिकारकौ रिपुगृहे नीचास्तगौ कर्त्तरी-दोषोनैव सितेऽरिनीचगृहगे तत्षष्ठदोषोऽपि न । भौ-मेऽस्ते रिपुनीचगे न हि भवेद्भौमोऽष्टमो दोषकृन्नीचे नीच-नवांशके शशिनि रिप्फाष्टारिदोषोऽपि न” मु चि० ।“तत्र कर्त्तरीयोगलक्षणं लग्नात् पापावित्यादिनोक्तं यौक्रूरौ ग्रहौ कर्त्तरिकारकौ रिपुगृहे शत्रुगेहे स्थितौ नी-चेऽस्तगौ स्वनीचराशिस्थितौ अस्तं गतौ वा तदा कर्त्तरी-नैव स्यात् यदाहुः कश्यपनारदवसिष्ठाः “पापयोः कर्त्तरी-कर्त्त्रीः शत्रुनीचगृहस्थयोः । यदा चास्त गयोर्वापि कर्त्त-री नैव दोषदा” इति इदं विशेषणं शत्रुगृहस्थत्वादिकंसमुच्चितं व्यस्तं समस्तं वा ध्येयम, अपवादान्तरमुक्तं दैव-ज्ञम० गर्गेण । “क्रूरकर्त्तरिसंयुक्तं लग्नं चन्द्रं च नत्यजेत् । केन्द्रत्रिकोणसंस्थेषु गुरुभार्गववित्सु च” ।“विधौ धनोपगे शुभग्रहेऽथवान्त्यगे गुरौ । न कर्त्तरीभवत्यहोजगाद वादरायणः । क्रूरद्वयस्यान्तरगंविलग्नंमृतिप्रदं चन्द्रमसञ्च रोगदम् । शुभैर्धनस्थैरथ वाऽन्त्यगेगुरौ न कर्त्तरी स्यादिह भार्गवाविदुरिति” ।अथ षष्ठशुक्रापवाद उच्यते । “सिते शुक्र्ऽरिगृहगे नीच-गृहगे वा सति तत्षष्ठदोषो भृगुषट्कदोषोऽपि न स्यात्यदाह कश्यशः “नीचराशिगते शुक्रे शत्रुक्षेत्रगतेऽपिवा । भृपुषट्कोत्थितो दोषो नास्ति तत्र न संशयः”अथाष्टममौमदोषापवाद उच्यते । भौमेऽस्ते अस्तं गतेरिपुनीचगे शत्रुगृहे वा स्वनीचगृहगे वा सत्यष्टमोभौमो न दोषकृत् स्यात् । उक्तं च कश्यपेन “अस्तगेनीचगे भौमे शत्रुक्षेत्रगतेऽपि वा । कुजाष्टमोद्भवोदोषोन किञ्चिदपि विद्यते” इति । अथ षडष्टद्वादशस्थानचन्द्रापवाद उच्यते । शशिनि चन्द्रे नीचनवांशके वासति रिप्फाष्टारिदोषोऽपि द्वादशाष्टमशत्रुस्थानस्थितचन्द्रदोषोऽपि न स्यात् । “नीचराशिगते चन्त्रे नीचांश-कगतेऽपि वा । चन्द्रे षष्ठारिरिप्फस्थे दोषो नास्ति नसंशयः इति” कश्यपोक्तेः पी० धा० ।अथाव्दाद्यादिदोषापवादः “अव्दायनर्तुतिथिमासभपक्षदग्धतिथ्यन्धकाणबाधिराङ्गमुखाश्च दोषा । नश्यन्ति विद्गुरु-सितेष्विह केन्द्रकोणे तद्वच्च पापविधुयुक्तनवांशदोषाः”मु० चि० ।“अव्ददोषः१ अयनदोषः२ ऋतुदोषः३ तिथिदोषो-रिक्तादिः४ मासदोषः५ नक्षत्रदोषः क्रूरसहि-तादिः ६ । पक्षदोषस्त्रयोदशदिनात्मकादि ७ दग्धातिथिः प्रसिद्धा चापान्त्यगेत्यादिनोक्ता ८ । अन्धकाण-बधिराख्योलग्नदोषः९ तन्मुखास्तदादयोऽन्ये अकाल-वृष्ट्याद्या दोषा विद्गुरु सितेषु केन्द्रकोणे केन्द्रं सप्तमस्था-नरहितं विवक्षितं जामित्रदोषस्य सत्त्वात् । अतएवो-क्तमग्रे “त्रिकोणे केन्द्रे वा मदनरहिते” इति कोणे नव-पञ्चमे सत्सु नश्यन्ति । उक्तञ्च कश्यपेन “अव्दायनर्त्तु-मासोत्थाः पक्षतिथ्यृक्षसम्भवाः । ते सर्वे नाशमायान्तिकेन्द्रसंस्थे शुभग्रहे । काणान्धबधिरोद्भूता दग्धलग्न-तिथेर्भवाः । ते दोषानाशमायान्ति केन्द्रसंस्थे शुभ-ग्रहे” इति । “अकालजाश्च नीहारविद्युत्पांश्वभ्रसम्भवाः ।परिवेषप्रतिसूर्यशक्रचापध्वजादयः । दोषप्रदा मङ्गलेषुकालजाश्चेन्न दोषदाः । गुररेकोऽपि केन्द्रस्थः शुक्रो वायदि वा बधः । हरेः स्मृतिर्यथा हन्ति तद्वद्दोषानकाल-जान् । लत्तोपग्रहचण्डीशचन्द्रजामित्रसम्भवान् ।तत् केन्द्रगोगुरुर्हन्ति सुपर्णः पन्नगानिवेति” । तद्वच्चेतितथा यदि पापः क्रूरोविधुयुक्तराशेर्नवांशे स्याद्यथासचन्द्रे मेषे सूर्यनवांशस्तद्दीषोऽभिहितो यज्ञोपवीतप्रकरणेतदा तत्कृतदोषो नश्यति । उक्तञ्च संहिताप्रदीपे“सचन्द्रराशेरशुभीनवांशः प्रीक्तः सपापोऽपि विलग्नसंस्थः ।त्रिकोणकेन्द्रेषु गुरुः सितो वा यदा तदाऽ सावशुभोऽपिशस्तः पी० धा० ।अथ बहुविधदोषापवादः “केन्द्रे कोणे जीव आये रवौ वालग्ने चन्द्रे वा पि वर्गोत्तमे वा । सर्वे दोषानाशमायान्तिचन्द्रे लाभे तद्वद्दुर्मुहूर्तांशदोषाः” मु० चि० । “केन्द्रं प्र-सिद्धं कोणं नवपञ्चमं तत्र च जीवो गुरुः स्यात्तदा सर्वेदोषानाशमायन्ति उपलक्षणत्वाद्बुधशुक्रावपि । यदाहनारदः उक्तानुक्ताश्च ये दोषास्तान्निहन्ति बली गुरुः केन्द्र-संस्थः सितोवापि पन्नगान् गरुडो यथेति” सितो बुधस्या-प्युपलक्षकः । उक्तञ्च कश्यपेन “काव्ये गुरौ वा सौम्येवा यदा केन्द्रत्रिकोणगे । नाशं यान्त्यखिलादोषाः पापा-नीव हरिस्मृतेरिति” तत्रापि लग्नाख्यकेन्द्रस्यातिबलत्वा-त्तत्र स्थितो जीवः सर्वारिष्टहरः तदुक्तं वसिष्ठेन “कुनवांशदोषाः ये लग्नदोषाः पापैः कृता दृष्टिनिपातदोषाः । लग्नेगुरुस्तान्विमलीकरोति फलं यथाम्भः कतकद्रुमस्येति” ।अयवा आये एकादशे रवौ सति दोषनाशः । “यत्रैका-दशगे सूर्ये दोषा नाशं ययुस्तदा । स्मरणादेव रुद्रस्य पापंजन्मशतोद्भवमिति” । अथवा लग्ने वर्गोत्तमे स्वनवांश-युक्ते यथा मिथुने मिथुनांशः तदा दोषनाशः । अथवाचन्द्रे वर्गोत्तमे स्वनवांशस्थिते वा सति दोषनाशः । द्वि-तीयवाशब्दस्यानुक्तसमुच्चयार्थत्वाच्चन्द्रो लग्नादुपचय ३, १०, ११स्थाने चेत् स्यात्तदापि सर्वदोषनाशः । एवं क्रमेण प-रिहारत्रयमुक्तं यदाह कश्यपः “वर्गोत्तमगते लग्नेवर्गदोषा स्वयं ययुः । चन्द्रे वोपचये वापि ग्रीद्मे कुसरितोयथेति” । चन्द्रे इति तद्वत्तेनैव प्रकारेण दुर्मुहूर्त्ता र-वावर्यभेत्यादयः, अंशदोषाः पापग्रहनवांशाख्यास्ते सर्वेचन्द्रे लामे एकाशस्थानस्थिते सति नाशमायान्ति ।“मुहूर्तलग्नषड्वर्गकुनवांशग्रहीद्भवाः । ये दोषास्तान्निह-न्त्येव यत्रैकादशगः शशीति” । अन्यदप्याह कश्यपः“लग्नाद्दुःस्थानगव्योमचरोत्थं दोषसञ्चयम् । शुभः केन्द्र-गतोहन्ति दावाग्निर्विपिनं यथेति” पी० धा० ।“त्रिकोणे केन्द्रे वा मनरहिते दोषशतकं हरेत् सौम्यः शु-क्रोद्विगुणमपि लक्षं सुरगुरुः । भवेदाये केन्द्रेऽङ्गप उतलबेशो यदि तदा समूहं दोषाणां दहन इव तूलं शम-यति” मु० चि० । “त्रिकोणे ५, ९ केन्द्रे सप्तरहिते१, ४, १०, यदि सौम्यो बुधस्तिष्ठेत्तदा दोवशतकंहरेत् । उक्तस्थानस्थितः शुक्रोऽपि द्विगुणं दोषश-तकं दोषद्विशतीं हरेत् । तथोक्तस्थानस्थितो गुरुरपिलक्षं दोषान् हरेत् । यदाह नारदः “दोषाणां हिशतं हन्ति बलवान् केन्द्रगोबुधः । अपहाय द्युनंशुक्रोद्विगुणं लक्षमङ्गिराः” । अत्र शतशब्देनानेकसंख्या-त्वं विवक्षितम् । अतएवाह कश्यपः “बलवान् केन्द्रगः सौ-म्यो हन्ति दोषशतत्रयम् । द्यूनं विहान दैत्येज्यः सहस्रंलक्षमङ्गिराः” इति । भवेदिति अङ्गपोलग्नस्वामी उत श-ब्दोवार्थे लवेशो लग्नगतांशनाथो वा आये ११ केन्द्रे १, ४, १० यदि भवेत्तदा स दोषाणां समूहं शमयतितत्र दृष्टान्तः दहनोऽग्निस्तूलं कार्पासमिव शमयति ।तदुक्तं नारदेन “लग्नेट् लग्नांशनाथो वा चायनः केन्द्र-गोऽपि वा । राशिं निहन्ति दोषाणामिन्धनानीव पावकः”अथ ग्रहवशेन श्वशुरादिशुभाशुभनिरूपणम् “श्वश्रूः सि-तोऽर्कः श्वशुर, स्तनुस्तनु, र्जामित्रपः स्याद्दयितो, मनः शशी ।एतद्बलं संप्रतिभाव्य तान्त्रिकस्तेषां सुखं संप्रवदेद्विवा-हतः” मु० चि० । “शुक्रः श्वश्रूः सूर्यः श्वशुरः, अत्रकन्यानिमित्तशुभाशुभस्य विचारास्पदत्वात्तस्याः कन्यायाःश्वश्रूर्वरमाता श्वशुरोवरपिता, तनुर्लग्नं तनुः स्वशरीरं, जा-मित्रपः सप्तमाधीशोदयितो भर्त्ता ज्ञेयः, शशी मनो-ज्ञेयम् एतद्बलम् एतेषां शुक्रादीनां बलं विचार्य-तान्त्रिकः तन्त्रसिद्धान्तवित् विवाहतो विवा-हादनन्तरं तेषां श्वश्र्वादीनां सुखं स्यादिति प्रव-देत् । यदाह शौनकः “श्वशुरः सहस्रकिरणः श्वश्रू-र्भृगुनन्दनो विनिर्दिष्टः । होरागमार्थकुशलैर्जामित्रपतिःपतिः स्त्रीणाम् । शरीरं लग्नवशात् सुखदुःखं मानसं-शशाङ्कवशादिति” । शार्ङ्गीयेऽपि “श्वशुरोऽर्कः, सितः श्वश्रूः, स्त्रीणामस्तपतिः पतिः । एभिरुच्चोपगैरेषां शुभं नी-चादिगैरसदिति” विशेषान्तरमप्युक्तं शार्ङ्गीये “सूर्या-त्पतिः, स्त्री च विधो, स्तथाराद्वित्तं, सुतो ज्ञाच्छ्वशुरं गुरोश्च ।धर्मः सितादर्कसुताच्च वेश्म, ब्रूयात्समुद्वाहविधौ स्वयुक्त्या, एतैर्नीचस्थितैः शत्रुगतैर्वाहादिकं न सत् । स्वगृहोच्चत्रिकोणस्थैः शुभमेषां यथोदितमिति” ।अथ संकीर्ण जातीनां विवाहे नियतकालविशेषः “कृष्णेपक्षे सौरिकुजार्केऽपि च वारे वर्ज्येनक्षत्रे यदि वा स्यात्क-रपीडा । संकीर्णानां तर्हि सुतायुधनलाभ प्रीतिप्रास्यै सा भ-वतीह स्थितिरेषा” मु० चि० “कृष्णपक्षे शनिभौमार्कवारेविवाहोक्तनक्षत्रादिभिन्ननक्षत्रेषु चकाराद्व्याघातशूलेत्यादिदुष्टयोगेष्वपि यदि संकीर्णानाम् अनुलोमप्रतिलोमजानांकरपीडा विवाहः स्यात् । तर्हि सा करपीडा सुतायुर्ध-नलाभप्रीतिप्रात्यै भवति । एषा स्थितिराचारोऽस्त्रि, अनु-लोमजामूर्द्धावसिक्तादयः प्रतिलोमजाश्चाण्डालादयः । वा-कारग्रहणमेतदभावे विवाहाद्यावश्यकत्वे च प्रागुक्तदि-नेऽपि स्यादिति सूचनार्थन् । तदुक्तं शार्ङ्गीये “कृष्णेपक्षेभानुभौमार्कजानां वारे योगे चापि विष्ण्ये निषिद्धे ।संकीर्णानां दारकर्म प्रशस्तं प्रीत्यर्थायुःप्राप्तये शौनकाद्याः”इति । केशवार्कः “प्रायेण सङ्करभुवामशुभर्क्षपक्षक्रूरक्षणेषु शुभकृत् करपीडनं स्यात्” इतिअथ लग्ने वक्तव्ये तदलाभे नोधूलिनिरूपणप्रशंसे“नास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिन्ता नो वावारो न च लवविधिर्नोमुहूर्त्तस्य चर्चा । नो वा योगोन मृतिभवनं नैव जामित्रदोषो गोधूलिः ला मुनिभि-रुदिता सर्वकार्येषु शस्ता” मु० चि० ।“यदयं न ऋक्षमित्यादिः स स्तुत्यर्थवादः तेन गोधूल्याःप्रशंसायां तात्पर्यं न तु विधिरन्यथा निषिद्धेषु अमावा-स्याभद्राभरणीत्यादिष्यपि गोधूलिलग्नं भवितुं युक्तंस्यात् । सामान्यवैयर्थ्यापत्तेरिष्टापत्तिरपि वक्तुमशक्या ।तस्मादभिहिततिथ्यादिष्वेव यावच्छक्याखिलदोषप्ररिहारपूर्वकघटीलग्नं कार्यं तदभावे गोधूलिलग्नं कार्यम् ।यदाह लल्लः “लग्नं यदा नास्ति विशुद्धमन्यद्गोधूलिकां साधुतदा वदन्ति । लग्ने विशुद्धे सति वीर्यवुक्ते गोधूलिकामेव फलं विधत्ते । शुभाशुभयुतं सर्वं राशेर्दोषन्त्वनि-न्दितम् । विवाहलग्नवच्छेषङ्गोधूलीं प्राह भागुरिरिति”किञ्च “कुलिकं क्रान्तिसाम्यं च मूर्तौ षष्ठाष्टमः शशी ।पञ्च गोधूलिके त्याज्या अन्ये दोषाः शुभावहाः” इतिदैवज्ञमनहरीयवाक्यमपि सार्थकम् । गोधूल्यधिकारेआह नारदः “प्राच्यानां च कलिङ्गानां मुख्यंगोधूलिकं स्मृतम् । गान्धर्वादिविवाहेषु वैश्योद्वाहेचायोजयेत् । चतुर्थमभिजिल्लग्नमुदयर्क्षात्तु सप्तमम् ।गोघूलिकं हि भवति सम्पत्पुत्रादिसौख्यदमिति” । दैव-ज्ञम० “घटीलग्नं यदा नास्ति तदा गोधूलिकं शु-भम् । शूद्रादीनां बुधाः प्राहुर्न द्विजानां कदाचन ।महादोषान् परित्यज्य प्रोक्तधिष्ण्यादिकेषु च । कारये-द्गोरजोयावत्तावल्लग्नं शुभावहमिति । लग्नशुद्धिर्यदानास्ति कन्या यौवनशालिनी । तदा वै सर्ववर्णानां लग्नंगोधूलिकं शुभमिति” । अतएव भूपालवल्लभे “विप्रेषु घ-टिकाऽलाभे दातव्यं गोरजो बुधैः । संकीर्णे गोरजः शस्तंपरेषु द्वितयं शुभमिति” तत्र गोधूलिसूक्ष्मकालसमयःकेशवार्केणोक्तः “अत्रोभयत्र घटिकादलमिष्टमाहुर्ग्राह्यंतदम्बरमणेरपि चार्द्धबिम्बादिति” केचित्तु यावद्दिना-न्ते दिशि पश्चिमाषां पश्येत्तॄतियं रविबिम्बभागम् ।तस्मात्परं नाडीकयुग्ममेके गोधूलिकालं मुनयोवदन्तीति, तदेतयोः पक्षयोर्यथादेशाचारं व्यवस्था पी० धा० ।“पिण्डीगूते दिनकृति हेमन्तर्तौ स्यादर्द्धास्ते तपसमयेगोधूलिः । संपूर्णास्ते जलधरमालाकाले त्रेधा यीज्यासकलशुभे कार्यादौ” मु० चि० । “हेमन्ताख्ये ऋतौ हेमन्तशब्दे-न शीतकाल उपलक्ष्यते मार्गशीर्षादिमासचतुष्टये इत्य-र्थः तत्र दिनकृति सूर्ये पिण्डीमूते ओदनगोलकसदृशेसन्ध्यायां नीहाराद्यावृतत्वेन निःप्रभे इत्यर्थः । तस्मिन्समये गोधूलिर्ज्ञेया तथा तपसमये उष्णकाले चैत्रादि-चतुष्टये सूर्येऽर्द्धास्ते अर्द्धबिम्बस्य दृश्यत्वे च सति गोधूलिः ।जलघरामेघास्तेषां मालासमूहस्तस्योत्पादके काले वर्षा-काले श्रावणादिमासचतुष्टये सूर्ये संपूर्णास्तेऽदर्शनं गते सतिगोधूलिः । केवलमियं न विवाहे एव किन्तु सकलशुभेसमस्तशुभकार्यादिष्वपि ज्ञेया । यदाह वराहः “गोधूलिंत्रिविधां वदन्ति मुनयो नारीविवाहादिके हेमन्ते शिशिरेप्रयाति मृदुतां पिण्डीकृते भास्करे । ग्रीष्मेऽर्द्धास्तमितेवसन्तसमये भानौ गते दृश्यतां सूर्ये चास्तमुपागते भगवतिप्रावृट्शरत्कालयोरिति” । पी० धा० ।अथ गोधूलिसमयेऽवश्यवर्ज्यदोषाः “अस्तं याते गुरुदिवसेसौरे सार्के लग्नान्मृत्यौ रिपुभवने लग्ने चैन्दौ । कन्या-नाशस्तनुमदमृत्युस्थे भौमे वोढुर्लाभे धनसहजे चन्द्रेसौख्यम्” मु० चि० ।“गोधूलिरित्यतुन्वर्त्तते गुरुदिवसे वृहस्पतिवारे, सूर्य्ये-ऽस्तंयाते सूर्य्यास्तादनन्तरं गोधूलिः शुभा स्यात्न तु सूर्य्यातात्पूर्वमर्द्धघटिकङ्गोधूलिलग्नं कार्य्यमर्द्धया-मसद्भावात् । तथा सौरे शनिवारे सार्के सूर्य्यदर्शनस-हिते गोधूलिः शुभा । न तु सूर्य्यास्तादनन्तरङ्कुलिकस-द्भावात् । उपलक्षणत्वात् क्रान्तिसाम्यमपि त्याज्यम् तथालानात्सायङ्कालीनलग्नान्मृत्यावष्टमे रिपुभवने षष्ठे वालग्न एव वा चन्द्रे सति कन्यानाशः स्यात् । तदुक्तंदैवज्ञ० “कुलिकङ्क्रान्तिसाम्यञ्च मूर्त्तौ षष्ठाष्टमः शशी ।पञ्च गोधूलिके त्याज्या अन्ये दोषाः शुभाबहाः” । अत्रकुलिकशब्देन तत्कालसम्भाव्यार्द्धयामाख्योवारदोषोगृह्यते अन्येषान्त्वसम्भव एव । लग्नस्थे मदनस्थेमृत्युस्थे वा भौमे सति वोढुर्वरस्य नाशो भवति तदुक्त-ञ्ज्योतिःसंहितासारे “षष्ठेऽष्टमे मूर्त्तिगते शशाङ्के गोधू-लिके मृत्युमुपैति कन्या” । कुजेऽष्टमे मूर्त्तिगतेऽथवास्तेवरस्य नाशं प्रवदन्ति गर्गाः” अन्योऽपि विशेषस्त-त्रैव “षष्ठाष्टमे चन्द्रजचन्द्रजीवे क्षौणीसुते वा भृगुनन्दनेवा । मूर्तौ च चन्द्रे नियमेन मृत्युर्गोधूलिकं स्यादिहवर्जनीयमिति” । “धिष्ण्यङ्क्रूरयुतन्त्याज्यं मूर्त्तौ षष्ठाष्टमःशशी । गोरजस्तत्प्रशसन्ति सन्तः शनिदिनं विनेति” ।उक्तञ्च “केशवार्केण गोधूलिकेऽपि विधुरष्टमषष्ठमूर्त्तौयन्मोचयन्ति तदथो स्वरुचिंप्रपन्नाः । पञ्चाङ्गशुद्धिमयमेवविवाहधिष्ण्यैर्यस्मादिदं सततमस्तगते पतङ्गे । नांशो नलग्नमिह दृष्टयुतं स्वभर्त्त्रा नार्कारसौरितमसामपि सङ्गभङ्गः । किञ्चान्द्रचारभयमेकमिहास्तु किञ्च नात्रप्रमाणवचनङ्किमपि श्रतं नः” । सार्के शनौ विरविचित्रशिखण्डिसूनौतत्केवलङ्कुलिकयामदलोपलम्भादिति” । चन्द्रेलाभस्थे वित्ते द्वितीयस्थे सहजस्थे वा सति स्त्रीपु-रुषयोः सौख्यं स्यात् । तदुक्तं संहितासारे “यत्रैका-दशगश्चन्दोद्वितीयो वा तृतीयगः । गोधूलिका स विज्ञे-या शेषा धूलिरिति स्मृतेति” पी० धा०ज्यो० त० मासभेदे फलभेदः । “मार्गे गोधूलियोगे प्रभवतिविधवा, माघमासे तथैव, पुत्रायुर्धनयौवनेन सहिता कुम्भेस्थितेभास्करे । वैशाखे शुभदा, प्रजाबलवती, ज्यैष्ठे पतेर्मा-नदा आषाढे धनधान्यपुत्रबहुला, पाणिग्रहे कन्यका ।अथ विवाहादौ वर्ज्ज्यदोषसमष्टिः “उत्पातान् सह पात-दग्धतिथिभिर्दुष्टांश्च योगांस्तथा चन्द्रेज्योशनसामथास्तमयनंतिथ्याः क्षयर्द्धी तथा । गण्डान्तञ्च सविष्टि संक्रमदिनंतन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान् पापस्यवर्गांस्तया । सेन्दुक्रूरखगोदयांशमुदयास्ताशुद्धिचण्डायु-धम् । खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम् ।वाणोपग्रहपापकर्तरि तथा तिथ्यृक्षयोगोत्यितं दुष्टं योग-मथार्द्धयामकुलिकाद्यान् वारदोषानपि । क्रूराक्रान्तविमु-क्तभं ग्रहणभं यत् क्रूरगन्तव्यभं त्रेधोत्पातहतञ्च केतुह-तभं सन्ध्योदितम्भं तथा । तद्वच्च ग्रहभिन्नयुद्धगतभंसर्वानिमान् सन्त्यजेदुवाहे शुभकर्मसु ग्रहकृतान् ल-ग्नस्य दोषानपि” मु० चि० । “उत्पातादीन्दोषानुद्वाहे यज्ञोपवीतादिशुभकर्मसु च सन्त्यजेदिति तृतीयश्लोकेनान्वयः । उद्वाहग्रहणं गोबलीवर्द्दन्यायेन मुख्य-त्वसूचनार्थम् । उत्पातान् त्रिविधान् दिव्यान्तरिक्ष-भौमान् लक्षणया तत्सम्बन्धिनः सप्त वर्ज्यदिवसांस्त्यजेत् ।यदाह गुरुः “दिग्दाहे वा महादारुपतने चाम्बुवर्षणे ।उल्कापाते महावाते महाशनिनिपातने । अनभ्राशनिपाते च भूकम्पे परिवेषयोः । ग्रामोत्पाते शिवाशब्देदुर्निमित्ते नशोभने । केतवो यत्र दृश्यन्ते स धूमा वापृथग्विधाः । चन्द्रसूर्य्यग्रहे चैव वर्जयेद्दिनसप्तकमिति” ।पातो महापातः क्रान्तिसाम्यमिति यावत् तद्गणितप्रसि-द्वम् । दग्धतिथयः “चापान्त्यगे गोषटगे इत्यादिनोक्ताःएतैः सह त्यजेदिति सम्बन्धः तथा दुष्टान् योगान् व्यतीपातवैधृतिपरिवार्द्धादीन् । अथ चन्द्रेज्योशनसां चन्द्रगुरुशुक्राणाम् अस्तमयनमस्तं च तिथ्याः क्षयर्द्धी तिथिक्षयं ति-थिवृद्धिं च पुनर्गण्डान्तं नक्षत्रतिथिलग्नैः त्रिविधं विष्टि-र्भद्रा संक्रमदिनं तद्दिवसे वर्ज्या घटिकाः, ग्रयनेषु विषुवेषुच पूर्बापरं त्रिदिनमिति विशेषोध्येयः । ताभ्यां सहि-तमिति पूर्बेण सम्बन्धः । तन्वंशन्तनुर्लग्रम् अंशोलग्नगतविहितनवांशः तौ पातः तन्वंशपौ तयोरस्तं लग्नाधीशास्तंलग्नगतनवांसाधीशास्तं चेत्यर्यः तथा तन्वंशेशविधून्लग्ननवांशेशचन्द्रान् अष्टरिपुगान् अष्टमगतान् षष्ठस्थान्इन्दुश्च क्रूरखगश्चेन्दुक्रूरखगौ उदयो लग्नञ्च अंशोनवांशश्च उदयांशमिति समाहारद्वन्द्वैकवचनं इन्दुक्रूर-खगाभ्यां सहितमुदयांशम् । इन्दुसहितं लग्नं लग्नाशच क्रूरग्रहेण सहितं लग्नं लग्नांशं चेत्यर्थः । पापस्येत्येकत्वमविवक्षितं पापानां वर्गानित्यर्थः उदयाशुद्धिरस्ताशुद्धि-श्च उदयास्ताशुद्धिः चण्डायुधम् “चण्डायुधं हर्षणवैधृतिसा-ध्येत्यादिनोक्तम् । खार्जूरं व्याघातगण्डेत्यादिनोक्तं दश-योगः “सूर्यर्क्षचन्द्रर्क्षयुतेरित्यादिनोक्तः, योगो ग्रहयुतिश्च तत्-सहितं जामित्रलत्ताव्यधम् समाहारद्वन्द्वैकवचन जामित्रद्विविधं लग्नजामित्रं चन्द्रजामित्रञ्च लग्नाच्चन्द्रेत्यादि-नोक्तं लत्ता “ज्ञराहुपूर्णेन्दुसिता” इत्युक्ता व्यधम् वेघं सप्तशला-कोक्तं पञ्चशलाकोक्तञ्च । वाणाः पञ्चकम् उपग्रहः प्रसिद्धःशराष्टदिक् शक्रेत्यादिः पापकर्त्तरी क्रूरग्रहकर्त्तरी समा-हारद्वन्द्वैकवचनं तिथ्यृक्षवारोत्थितं दुष्टं योगं तिथिनक्षत्रवा-रै रुथितं उत्पन्नं दुष्टयोगम् । तथा तिथिनक्षत्रो-द्भवं वैश्वमादिमे इत्यादि । तिथिवारोद्भवं सूर्य्येशपञ्चे-त्यादिनक्षत्रवारोद्भवं याम्यन्त्वाष्ट्रमित्यादि अनेकं दुष्ट-योगम् अथार्द्धयामकुलिकाद्यान् वारदोषानपि स्पष्टार्थम्आदिशब्देन दुर्मुहूर्त्तादिकान् । क्रूराक्रान्तविमुक्तभं क्रूरा-क्रान्तं क्रूरविमुक्तञ्च भंग्रहणभं यस्मिन् भे सूर्य्यचन्द्रोपरागोजातस्तद्भं यत् क्रूरगन्तव्यभं क्रूरेण जिगमिषितं यद्भं न-क्षत्रं त्रेधोत्पातहतञ्च भम् । त्रिविधीत्पातैर्दिव्यभौमान्त-रिक्षैर्हतं तन्मासषट्कं त्याज्यमेवं ग्रहणनक्षत्रमपि ।केतुहतभञ्च केतुना हतम्भञ्च । सन्ध्योदितम्भम् अत्र स-न्ध्याशब्देन साथंसन्ध्या गृह्यते । तत्रोदितं तत्काले य-न्नक्षत्रस्य क्षितिजे उदयस्तत्तु सूर्य्यर्क्षाच्चतुर्दशं नक्षत्रमित्य-र्थः । न तु प्रातःसन्ध्यायान्तत्र हि सूर्य्येणाक्रान्तभुक्ता-न्यतरत्वसत्त्वात् । यदुक्तं केशवार्केण “तरणितारकतोऽपिचतुर्दशं तदस्विलेऽपि खिलं शुभकर्मणीति” । तारकशब्दःक्लीबेऽपि । ननूपग्रहत्वादेव निषेधे सिद्धे पुनर्दोषाभिधानकिमर्थम् उच्यते उपग्रहर्क्षदोषस्य सत्यावश्यकत्वे कुरुबा-ह्लिकदेशविषयत्वाच्चतुर्दशस्य च दोषाधिक्यसूचन्कादावश्य-केऽपि सर्वदेशविषयत्वेन निषैधो यथा स्यादिति ।ग्रहभिन्नयुद्धगतभं ग्रहेण भेदितं ग्रहयुद्धगतञ्च षण्मासनिषिद्धं तथा ग्रहकृतान् लग्नस्य दोषान् । “व्यये शनिःखेऽवनिजैत्यादिकान् लग्नसम्बन्धिदोषान् सन्त्यजेत्” ।पी० धा० । ज्यी० त० ज्योतिःसारसंग्रहवाक्यम् “विवाहेतु दिवाभागे कन्या स्यात् पुत्रवर्जिता । विरहानलदग्धासा नियतं स्वामिघतिनी” एतद्वचनस्यार्षमूलानुपलम्भात्पाश्चात्त्यादिभिरप्रामाणिकत्वमुररीकृत्यं दिवाऽपि विवाहआचर्यते । कन्यादानं च रात्रावपि कर्त्तुं शक्यते यथाहज्यो० त० भारतम् “रात्रौ दानं न शंसन्ति विना चा-भयदक्षिणाम् । विद्यां कन्यां द्विजश्रेष्ठाः दीपमन्नं प्रति-श्रयम्” । तत्रैव व्यासः रिक्तासु विधवा कन्या दर्शेऽपि स्याद्विवाहिता । शनैश्चरदिने चैव यदा रिक्ता तिथिर्भवेत् ।तस्यां विवाहिता कन्या पतिसन्तानवर्द्धिनी” इत्युक्तेःशनिवारे रिक्तायामपि विवाह इति गौडाः । पाश्चात्त्यादि-भिरेतद्वचनममूलकमेवेति मत्वा शनियुक्तरिक्तायां न तदाचर्य्यते । अथ विवाह्यस्त्रीशुभाशुभलक्षणान्युच्यन्ते । वृह०७० अ० “स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समो-पतिचचारुनिगूढगुल्फौ । श्लिष्टाङ्गुली कमलकान्तितलौ चयस्यास्तामुद्वहेद्यदि भुवो ऽधिपतित्वमिच्छेत् । मत्स्याङ्कु-शाब्जयवव्ज्रहलासिचिह्नावस्वेदनौ मृदुतलौ चरणौ प्रश-स्तौ । जङ्घे च रोमरहिते विशिरे सुवृत्ते जानुद्वयंसममनुल्वणसान्धिदेशम् । ऊरू घनौ करिकरप्रतिमाव-रोमावश्वत्यपत्रसदृशं विपुलं च गुह्यम् । श्रोणीललाटमुरुकूर्म्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमाद-धाति । विस्तीर्णमांसोपचितो नितम्बो गुरुश्च धत्ते रशना-कलापम् । नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणा-वर्तगता प्रशस्ता । मध्यं स्त्रियास्त्रिवलिनाथमरोमशं चवृत्तौ घनावविषमौ कठिनावुरस्यौ । रोमापवर्जितमुरोमृदु चाङ्गनानां ग्रीवा च कम्बुनिचितार्थसुखानि धत्ते ।बन्धुजीवकुसुमोपमो ऽधरो मांसलो रुचिरविम्बरूपभृत् ।कुन्दकुड्मलनिभाः समा द्विजा योषितां पतिसुखामिता-र्यदाः । दाक्षिण्ययुक्तमशठं वरपुष्टहंसवलुगु प्रभाषित-मदीनमनस्पसौख्यं । नासा समा समपुटा रुचिरा प्र-शस्ता दृग्नीवनीरजदलद्युतिहारिणी च । नो सङ्गतेनातिपृथू न लग्ने शस्ते भ्रुवौ बालशशाङ्कवक्रे । अर्द्धेन्दु-संस्थानमरोमशं च शखं ललाटं न नतं न तुङ्गम् । क-र्णयुग्ममपि युक्तमांसकं शस्यते मृदु समं समाहितम् ।स्निग्धनीलमृदुकुञ्चितैकजा मूर्धजाः सुखकराः सभं शिरः ।भृङ्गारासनवाजिकृञ्जररथश्रीवृक्षयूपेषुभिर्मालाकुण्डलचाम-राङ्कुशयवैः शैलैर्ध्वजैस्तेरणैः । मत्स्यस्वस्तिकवेदिका-व्यजनकैः शङ्खातपत्राम्बुजैः पादे पाणितले ऽपि वा युवतयोगच्छन्ति राज्ञीपदम् । निगूढमणिबन्धनौ तरुणपद्म-गर्मोपमौ करौ नृपतियोषितां तनुविकृष्टपर्वाङ्गुली ।न निम्नमति नोन्नतं करतलं सुरेखान्वितं करोत्यविधवांचिरं सुतसुखार्थसम्भोगिनीम् । मध्याङ्गुलिं या मणिव-न्धनोत्या रेखा गता पाणितले ऽङ्गनायाः । ऊर्ध्वस्थितापादतले ऽथवा या पुंसो ऽथवा राज्यसुखाय सा स्यात् ।कनिष्ठिकामूलभवा गता या प्रदेशिनीमध्यमिकान्तरालम् ।करोति रेखा परमायुषः सा प्रमाणमूना तु तदूनमायुः ।अङ्गृष्ठमूले प्रसवस्य रेखाः पुत्रा बृहत्यः प्रमदास्तु तन्व्यः ।अच्छिन्नदीर्घा वृहदायुषां ताः स्वल्पायुषां छिन्नलघु-प्रमाणाः । इतीदमुक्तं शुभमङ्गनानामतो विपयस्तमनि-ष्टमुक्तम् । विशेषतो ऽनिष्टफलानि यानि समासतस्तान्य-नुक्वीर्तयामि । कनिष्ठिका वा तनदन्तरा वा महीं नयस्याः स्पृशती स्त्रियाः स्यात् । गताऽथ वाङ्गुष्ठमतीत्य यस्याःप्रदेशिनी सा कुलटातिपापा । उद्वद्धाभ्यां पिण्डिकाभ्यांशिराले शुष्के जङ्घे रोमशे चातिमांसे । वामावर्तं नि-म्नमल्पं च गुह्यं कुम्भाकारं चोदरं दुःखितानाम् ।ह्रस्वयाऽतिनिःस्वता दीर्घया कुलक्षयः । ग्रीवया पृथूत्ययायोषितः प्रचण्डता । नेत्रे यस्याः केकरे पिङ्गले वासा दुःशीला श्यावलोलेक्षणा च । कूपौ यस्या गण्ड-योश्च स्मितेषु नि सन्दिग्धं बन्धकीं तां वदन्ति । प्रवि-लम्बिनि देवरं ललाटे श्वगुरं हन्त्युदरे स्फिचोः पतिंच । अतिरोमचयान्वितीत्तरोष्ठी न शुभा भर्तुरतीव याच दीर्घा । स्तनौ सरोमौ मलिनोल्बणौ च क्लेशं दधातेविषमौ च कर्णौ । स्थूलाः कराला विषमाश्च दन्ताः क्ले-शाय चौर्याय च कृष्णमांसाः । क्रव्यादरूपैर्वृककाककङ्क-सरीसृपोलूकसमानविह्नैः । शुष्कैः सिरालैर्विषमैश्च हस्तै-र्भवन्ति नार्य्यः सुखवित्तहीनाः । या तृत्तरोष्ठेन समु-न्नतेन रूक्षाग्रकेशी कलहप्रिया सा । प्रायो विरूपासुभवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति । पादौ स-गुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं च सजानुचक्रे ।मेढ्रोरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चेति चतुर्थ-माहुः । उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतः स्तना-न्वितम् । अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्ध-रे । नवमं नयने च सभ्रुणी सकलाटं दशमं शिरस्त-था । अशुभेष्वशुभं दशाफलं चरणाद्येष शुभेषु शोभनम्” ।काशीखण्डे ३७ अध्याये स्त्रीणां शुभाशुभलक्षणान्युक्तानियथा “सदा गृही सुखं भुङ्क्ते स्त्री लक्षणवती यदि । अतःसुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत् । वपुरावर्त्तोगन्धश्च छायासत्वं स्वरोगतिः । वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका ।आपादतलमारभ्य यावन्मौलिरुहं क्रमात् । शुभाशुभानिवक्ष्यामिलक्षणानि मुने । शृणु । आदौ पादवले रेखा ततो-ऽङ्गुष्ठाङ्गुलीनखाः । पृष्ठं गुल्फद्वयं पार्ष्णी जङ्घे रोमाणिजानुनी । ऊरू कटिर्नितम्बः स्फिग् भगोजघनवस्तिके ।नाभिः कुक्षिद्वयं पार्श्वोदरमध्यबलित्रयम् । रोमाणिहृदयं वक्षो वक्षोजद्वयचूचकम् । जत्रुस्कन्धांसकक्षादो-र्मणिबन्धकरद्वयम् । पाणिपृष्ठं पाणितलं रेखाङ्गु-ष्ठाङ्गुलीनखाः । पृष्ठं कृकाटिकाकण्ठे चिवुकञ्च हनुद्व-यम् । कपोलवक्त्रमधरोत्तरौष्ठद्विजजिह्विकाः । घण्टि-कातालुहसितं नासिका क्षुतमक्षिणी । पक्ष्मभ्रूकर्णभा-लानि मौलिसीमन्तमौलिजाः । षष्टिः षडुत्तरा योषिदङ्गलक्षणसत्खनिः । स्त्रीणां पादतलं स्निग्धं मांसलंमृदुलं समम् । अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृ-तम् । रूक्षं विवर्णं परुषं खण्डितप्रतिविम्बकम् । सू-र्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् । चक्रस्वस्तिकशङ्खाब्जध्वजमीनातपत्रवत् । यस्याः पादतलेरेखा सा भवेत् क्षितिपाङ्गना । भवेदखण्डभोगार्हा या-मध्याङ्गुलिसङ्गता । रेखाखुसर्पकाकाभा दुःखदारिद्र्यसूचिका । उन्नतोमांसलोऽङ्गुष्ठो वर्त्तुलोऽतुलभोगदः ।वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभञ्जकः । विधवा वि-पुलेन स्याद्दीर्घाङ्गुष्ठेन दुर्भगा । मृदवोऽङ्गुलयः शस्ता-घनावृत्ताः समुन्नताः दीर्घाङ्गुलीभिः कुलटा, कृशाभिरतिनिर्द्धना । ह्रस्वायुष्या अ ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्त्तिनी ।चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी । परस्परं समा-रूढा यदाङ्गुल्यो भवन्ति हि । हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् । यस्याः पथि समायान्त्या रजो-भूमेः समुच्छलेत् । सा पांशुला प्रजायेत कुलत्रयविना-शिनी । यस्याः कनिष्ठिका भूमिं न गच्छन्त्याः परिस्पृशेत् ।सा निहत्य पतिं पापा द्वितीयं कुरुते पतिम् । अनामिका-च मध्या च यस्या भूमिं न संस्पृशेत् । पतिद्वयं निहन्त्याद्याद्वितीया च पतित्रयम् । पतिहीनत्वकारिण्यौ हीने ते-द्वे इमे यदि । प्रदेशिनी भवेद्यस्याश्चाङ्गुष्ठव्यतिरेकिणी ।कन्यैव कुलटा सा स्यादेषएव विनिञ्चयः । स्निग्धाः समु-न्नतास्ताम्रावृत्ताः पादनखाः शुभाः । राज्ञीत्वमूचकंस्त्रीणां पादपृष्ठं समुन्नतम् । अस्वेदमसिराढ्यं च मसृणंमृदुमांसलम् । दरिद्रा मध्यनम्रेण सिरालेन सदाऽध्वगा ।रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा । गूढौगुल्फौ शुमायोक्तावसिरालौ सुवर्त्तुलौ । सुपुष्टौ शिपि-लौ दृश्यौ स्यातां दौर्भाग्यसूचकौ । समपार्ष्णिः शुभा-नारी पृथुपार्ष्णिश्च दुर्भगा । कुलटोन्नतपार्ष्णिश्च दीर्घ-पार्ष्णिश्च दुःखभाक् । रोमहीने समे स्निग्धे यज्जङ्घे क्र-मवर्त्तुले । सा राजपत्नी भवति विसिरे सुमनोहरे ।एकरोमा राजपत्नी द्विरोमापि सुखास्पदम् । त्रिरोमा रो-मकूपेषु भवेद्वैधव्यदुःखभाक् । वृत्तं पिशितसंलग्नंजानुयुग्मं प्रशस्यते । निर्मांसं स्वैरचारिण्या दरिद्रा-याश्च विश्लथम् । विसिरैः करभाकारैरुरुभिर्मसृणै-र्घनैः । सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः । बैधव्यं रो-मशैरुक्तं दौर्भाग्यं चिपिटैरपि । मध्यच्छिद्रैर्महादुःखंदारिद्र्यं कठिनत्वचैः । चतुर्भिरङ्गुलैः शस्ता कटिर्विंशतिसंयुतैः । समुन्नतनितम्बाढ्या चतुरस्रा मृगीदृशाम् । वि-नता चिपिटा दीर्घा निर्मांसा सङ्कटा कटिः । ह्रस्वरोम-युता नार्य्या दुःखवैधव्यसूचिका । नितम्बविम्बो नारीणा-मुन्नतोमांसलः पृथुः । महाभोगाय संप्रोक्तस्तदन्योऽ श-र्म्मणे मतः । कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ ।स्फिचौ बलिविनिर्युक्तौ रतिसौख्यप्रवर्द्धमौ । शुभः क-मठपृष्ठाभोगजस्कन्धोपमोभमः । वामीन्नतस्तु कन्याजः पु-त्रजोदक्षिणोन्नतः । आखुरोमा गूढमांसः सुश्लिष्टः संह-तः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्यदलाकृतिः ।तुरङ्गखुररूपोऽयश्चुल्लीकोढरसन्निभः । रोमशोविवृतास्यञ्चदृश्यनासोऽतिदुर्भणः । शङ्खावर्त्तोभगोयस्याः सा गर्भमिह ने-च्छति । चिपिटः कर्पराकारः किङ्करीपददो भगः । वंश-वेतसपत्राभो गजरोमोग्रनासिकः । विकटः कुटिलाकारोलम्बगल्लस्तथा शुभः । भगस्य भालं जघनं विस्तीर्णंतुङ्गमांसलम् । मृदुलं मृदुलोमाढ्यं दक्षिणावर्त्तमी-लितम् । वामावर्त्तं च जिमांसं भुग्नं वैध्यव्यसूचकम् ।सङ्कटस्यपुटं रूक्षं जधनं दुःखदं सदा । वस्तिः प्रश-स्ता विपुला मृद्वी स्तोकसमुन्नता । लोमशा च सिराला चरेखाङ्का नैव शोभना । गम्भीरा दक्षिणावर्त्ता नाभी स्यात्सुखसम्पदे । वामावर्त्ता समुत्ताना व्यक्तग्रन्धिर्न शोमना ।सूते सुतान् बहून्नारी पृथुकुक्षिः सुखास्पदम् । क्षिती-शं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा । उन्नतेन व-लीभाजा मावर्त्तेनापि कुक्षिणा । बन्ध्या प्रव्रजिता दासीक्रमाद्योषा भवेदिह । समैः समांसैर्मृदुभिर्योषिन्मग्नास्थि-भिः शुभैः । पार्श्वैः सौभाग्यसुखयोर्निधानं स्यादसं-शयम् । यस्या दृश्यसिरे पार्श्वे उन्नते रोमसंयुते ।निरपत्या च दुःशाला सा भवेद्दुःखशेवधिः । उदरेणा-तितुच्छेन विसिरेण मृदुत्वचा । योषिद्भवति भोग्याढ्या-नित्यमिष्टान्नसेविनो । कुम्भाकारं दरिद्राया जठरं चमृदङ्गवत् । कुष्माण्डाभंयवाभं च दुःपूरं जायते स्त्रियाः ।सुविशालोदरी नारी निरपत्था च दुर्भगा । प्रलम्बज-ठरा हन्ति श्वशुरं चापि देवरम् । मध्यक्षामा च सुभगा-भोगाढ्या सबलित्रया । ऋज्वी तन्वी च रोमाली यस्याःसा नर्मशर्मभूः । कपिला जटिला स्थूला व्युच्छिन्ना रोमरा-जिका । वैरवैधव्यदौर्भाग्यं विदध्यादिह योषितां ।निर्लोम हृदयं यस्याः समं निम्नत्ववर्जितम् । ऐश्वर्यं चाप्य-वैधव्यं प्रियप्रेम च सा लभेत् । विस्तीर्णहृदया योषा पुंश्च-ला निर्दया तथा । उद्भिन्नरोमहृदया पतिं हन्ति विनि-श्चितम् । अष्टादशाङ्गुलततमुर पीवरमुन्नतम् । सुखाय, दुःखाय भवेद्रोमशं विषमं पृथु । घनौ वृत्तौ दृढौ पानौसमौ शस्तौ पयोधरौ । स्थूलाग्रौ विरलौ सूक्ष्मौ वामो-रूणां न शर्मदौ । दक्षिणोन्नतवक्षोजा पुत्रिणीष्वग्रणीर्मता ।वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम् । अवघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ । पीवरास्यौ सान्तरालौपुथूपान्तो न शोभनौ । मूलेस्थूलौ क्रमकृशावग्रेतीक्ष्णीपयोधरौ । सुखदौ पूर्वकाले तु पश्चादत्यन्तदुःखदौ ।सुदृश्यं चूचुकयुगं शस्तं श्यामं सुवर्त्तुलम् । अन्तर्मग्नं चदीर्घं च कृशं क्लेशाय जायते । पीवराभ्यां च बाहुभ्यांधनधान्यनिधिर्बधूः । श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यांदरिद्रिणी । अबन्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ ।वक्रास्थूलौ च रोमाढ्यौ प्रेष्यवैधव्यसूचकौ । निगूढसन्धीस्रस्ताङ्गौ शुभावंसौ सुसंहतौ । वैधव्यदौ समुच्चाग्रौ निर्मां-सावतिदुःस्वदौ । कक्षे सुसूक्ष्मरोमे च तुङ्गे स्निग्धे चमांसके । शस्ते, न शस्ते गम्भीरे सिराले स्येदमेदुरे ।स्यातां दौषौ स्वनिर्दोषौ गूढास्थिग्रन्थिकोमलौ ।विस्सिरौ च विरोमाणौ सरलौ हरिणीदृशाम् । वैधव्यं स्थू-लरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ । परिक्लेशाय नारीणांपरिदृश्यशिरोभुजौ । अम्भोजमुकुलाकारमङ्गुष्ठाङ्गुलिसन्नखम् । हस्तद्वयं मृगाक्षीणां बहुभीगाय जायते । मृदु-मध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् । प्रशस्तं शस्त-रेखाढ्यमल्परेखं शुभाश्रयम् । विधवा बहुरेखेण विरेखेणदरिद्रिणी । भिक्षुकी शुषिराढ्येन नारी करतलेन वै ।विरोम विसिरं शस्तं पाणिपृष्ठं समुन्नतम् । वैधव्यहेतुरोमाढ्यं निर्म्मासं स्नायुमत् त्यजेत् । व्यक्ताव्यक्ता गभीरा चस्निग्धा पूर्ण्णा च वर्त्तुला । कररेखाङ्गनायाः स्याच्छुभाभाग्यानुसारतः । मत्स्येन सुभागा नारी स्वस्तिकेन चसुप्रजाः । पद्मेन भूपतेः पत्नी जनयेम्भूपतिं सुतम् ।चक्रवर्त्तिस्त्रियाः पाणौ नन्द्यावर्त्तः प्रदक्षिणः । शङ्खा-तपत्रकमठा देवमातृत्वसूचकाः । तुलामालाकृती रेखा ब-णिकपत्नीत्वहेतुका । गजवाजिवृषाकाराः करे वामे मृगी-दृशाम् । रेखाः प्रासादवज्राभा ब्रूयुस्तीर्थकराः शुभम् ।कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा । तोमराङ्कुश-कोदण्डै राजपत्नी भवेत् ध्रुवम् । अङ्गुष्ठमूलान्निर्गत्य रेखायाति कनिष्ठिकाम् । यदि सा पतिहन्त्रा स्याद्दूरतस्तांत्यजेत् सुधीः । त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया ।नितम्बिनी कीर्त्तिमती पादेन पृथिवीतले । कङ्कजम्बूक-मण्डूकवृकवृश्चिलभोगिनः । रासभोष्ट्रविडालाः स्युःकरस्था दुःखदाः स्त्रियाः । शुभदः सरलाङ्गुष्ठोवृत्तोवृत्तनखोमृदुः । अङ्गुल्यश्च सुपर्व्वाणो दीर्घा वृत्ताःक्रमात् कृशाः । चिपिटाच्छपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः । अतिह्रस्वाः कृशा वक्रा विरला रोगहे काः ।दुःखायाङ्गुलयः स्त्रीणां बहुपर्व्वसमन्विताः । अरुणाःसशिखास्तुङ्गाः करजाः सुदृशां शुभाः । निम्ना विवर्णाःसूक्ष्माभाः पीता दारिद्र्यदायकाः । नखेषु विन्दवःश्वेताः प्रायः स्युः सैरिणीस्त्रियाः । पुरुषा अपिजायन्ते दुःखिनः पुष्पितैर्नखैः । अन्तर्निमग्नवंशा-स्थिः पृश्निः स्यान्मांसला शुभा । पृष्ठेन रोमयुक्तेन वै-धव्यं लभते ध्रुवम् । भुग्नेन विनतेनापि ससिरेःनापि दुःखिता । ऋज्वो कृकाटिका श्रेष्ठा समांसा चसमुन्नता । शुष्का सिराला लोमाढ्या विशाला कुटिलाऽ-शुभा । मांसलो वर्त्तुलः कण्ठः प्रशस्तश्चतुरङ्गुलः ।शस्ता ग्रीवा त्रिरेखाढ्या त्वव्यक्तास्थिसुसंहता । निर्मांसात्रिपिटा दीर्घा स्थपुटा न शुभप्रदा । स्थूलग्रीवा च वि-धवा वक्रग्रीवा च किङ्करी । बन्ध्या हि चिपिटग्रीवाह्रस्वग्रीवा च निःसुता । चिवुकं द्व्यङ्गुलं शस्तं वृत्तपीनं सुकोमलम् । स्थूलं द्विधा संविभक्तमायतं रोमशंत्यजेत् । हनुश्चिवुकसंलग्ना निर्लोमा सुघना शुभा । वक्रास्थूला कृशा दीर्घा रोमशा न शुभप्रदा । शस्तौ कपोलौवामाक्ष्याः प्रीनौ वृत्तौ समुन्नतौ । रोमशौ परुषौनिम्नौ निर्मांसौ परिवर्ज्जयेत् । समं समांसं सुस्निग्धंस्वामोदं वत्तुलं मुखम् । जनेतृवदनच्छायं धन्या-नामिह जायते । पाटलो वर्त्तुलः स्निग्धोरेखाभूषितमध्य-मूः । सीमन्तिनीनामधरी धराजानिप्रिया भवेत् । कृशःप्रलम्बः स्फुटितो रूक्षो दौर्भाग्यसूचकः । श्यावः स्थूलोऽ-धरौष्ठः स्माद्वैधव्यकलहप्रदः । मसृणोमत्तकाशिन्याश्चो-त्तरोष्ठः सुभोगदः । किञ्चिन्मध्योन्नतोऽ रोमा विपरीतोविरुद्धकृत् । गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाःशुभाः । अधस्तादुपरिष्टाच्च समस्तोकसमन्विताः ।पीताः श्यावाश्च दशनाः स्थूला दीर्घा द्विपङ्क्तयः ।शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारिणः । अधस्ताद-धिकैर्दन्तैर्भर्त्तारं भक्षयेत् स्फुटम् । पतिहीना च विकटैःकुलटा विरलैर्भवेत् । जिह्वेष्टमिष्टभोक्त्री स्याच्छोणा-मृद्वी तथा सिता । दुःखाय मध्यसंकीर्ण्णा पुरोभागसवि-स्तरा । सितया तोयमरणं श्यामया कलहप्रिया । दरि-द्रिणी मांसलया लम्बयाऽभक्स्यभक्षिणी । विशालया रसनयाप्रमदातिप्रमादभाक् । स्निग्धं कोकनदाभासं प्रशस्यं ता-लु कोमलम् । सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।कृष्णेऽपत्यवियोगार्त्ता रूक्षे चौरकुटुम्बिनी । कण्ठेस्थूला सुवृत्ता च क्रमतीक्ष्णा च लोहिता । अप्रलम्बा-ण्डभा घण्टा स्थूला कृष्णा च दुःखदा । अलक्षितद्विजंकिञ्चित् किञ्चित्फुल्लकपोलकम् । स्मितं प्रशस्तं सुदृ-शामनिमीलितलोचनम् । समवृत्तपुटा नासा लघुच्छिद्रा शु-भावहा । स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ।आकुञ्चितारुणाग्रा च वैधव्यक्लेशदायिनी । परप्रेष्या चचिपिटा ह्रस्वा दीर्घा कलिप्रिया । दीर्घं सकृत् क्षुतंदीर्घं युगपद्द्वित्रिपिण्डितम् । ललनालोचने शस्ते रक्तान्तेकृष्णतारके । गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी ।उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् । मेषाक्षी महि-षाक्षी च केकराक्षी न शीभना । कामग्रहिला नितरांगोपिङ्गाक्षी सुदुर्वृता । पारवताक्षी दुःशीला रक्ताक्षी भर्त्तृ-घातिनी । कोटरानयना दुष्टा गजनेत्रा न शोभना ।पुंश्चली वामकाणाक्षी बन्ध्या दक्षिणकाणिका । मधुपिङ्ग-लाक्षी रमणी धनधान्यसमृद्धिभाक् । पक्ष्मभिःसुघनैः स्निग्धैःकृष्णैः सूक्ष्मैः सुपुण्यभाक् । कपिलैर्विरलैः स्थूलै-र्निन्द्या भवति भावनी । भ्रुवौ सुवर्त्तुले तन्व्यौ स्निग्धेकृष्णे सुसंहते । प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मु-काकृती । खररोमा च पृथुला विकीर्ण्णा सरला स्त्रियाः ।न भ्रूः प्रशस्ता मिलिता दीर्घलोमा च पिङ्गला । ल-म्बकर्ण्णौ शुभावर्त्तौ सुखदौ च शुभप्रदौ । शष्कुलीर-हितौ निन्द्यौ सिरालौ कुटिलौ कृशौ । भालः सिरावि-रहितौ निर्लोमार्द्धेन्दुसन्निभः । अनिम्नस्त्र्यङ्गुलोनार्य्याःसौभाग्यारोग्यकारणम् । व्यक्तस्वस्तिकरेखञ्च ललाटंराज्यसम्पदे । प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम् ।रोमशेन सिरालेन प्रांशुला रोगिणी मता । सीमलःसरलः शस्तोमौलिः शस्तः समुन्नतः । गजकुम्भ-निभो वृत्तः सौभाग्यैश्वर्य्यसूचकः । स्थूलमूर्द्धा चविधवा दीर्घशीर्षा च बन्धकी । विशालेनापि शिरसामवेद्दौर्भाग्यभाजनम् । केशा अलिकुलच्छायाः सूक्ष्माःस्निग्धाः सुकोमलाः । किञ्चिदाकुञ्चिताग्राश्च कुटिलाअतिशोभनाः । परुषाः स्फुटिताग्राश्च विरलाश्च शि-रोरुहाः । पिङ्गलालघवोरूक्षा दुःखदारिद्र्यबन्धदाः ।तिलकं लाञ्छनं वापि हृदि सौभाग्यकारणम् । यस्यादक्षिणवक्षोजे शोणे तिलकलाञ्छने । कन्याचतुष्टयं सूतेसूते सा च सुतत्रयम् । भ्रुवोरन्तर्ललाटे वा मसकोराज्य-सूचकः । वामे कपोले मसकः शोणोसिष्टान्नदः स्त्रियाः ।तिलकं लाञ्छनं शोणं यस्या वामकुचे भवेत् । एकंपुत्रं प्रसूयादौ ततः सा विधवा भवेत् । गुह्यस्य दक्षिणेभागे तिलकं यदि योषितः । तदा क्षितिपतेः पत्नीसूते वा क्षितिपं सुतम् । नासाग्रे मसकः शोणोमहिष्या एव जायते । कृष्णः स एव भर्त्तृघ्न्याः पुंश्चल्याश्चप्रकीर्त्तितः । नाभेरधस्तात् तिलकं मसको लाञ्छनंशुभम् । मसकस्तिलकश्चिह्नं गुल्फदेशे दरिद्रकृत् । करे-कर्ण्णेकपोले वा कण्ठे वामे भवेद् यदि । एषां त्रया-णामेकन्तु प्राग्गर्भे पुत्रदं भवेत् । भालगेन त्रिशूलेननिर्म्मितेन स्वयम्भुवा । नितम्बिनी सहस्राणां स्वामित्वंयोषिदाप्नुयात् । सुप्ता परस्परं या तु दन्तान् कटकटा-यते । सुलक्ष्मापि न सा शस्ता यत् किञ्चित् प्रलपेत्तथा । पाणौ प्रदक्षिणावर्त्तो धर्म्यो वामो न शोभनः ।नाभौ श्रुतावुरसि वा दक्षिणावर्त्त ईरीतः । सुखाय दक्षि-णावर्त्तः पृष्ठवंशस्य दक्षिणे । अन्तःपृष्टे नाभिसमो वृद्धायुः-पुत्रवर्द्धनः । राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः ।स चेच्च कटिभागे स्याद्वह्वपत्यसुखप्रदः । कटितोगुह्यवेधेनपत्यपत्यनिपातनः । स्यातामुदरवेधेन पृष्ठावर्त्तौ नशोभनौ । एकेन हन्ति भर्त्तारं भवेदन्येन पुंश्चली ।कण्ठगोदक्षिणावर्त्तो दुःखवैधव्यहेतुकः । सीमन्तेऽथललाटे वा त्याज्यौ दूरात् प्रयत्नतः । सा पतिं हन्ति-वर्षेण यस्या मध्येकृकाटिकम् । प्रदक्षिणो वा वामो वारोम्णामावर्त्तकः स्त्रियाः । एको वा मूर्द्धनि द्वौ वा वामेवामगती अपि । आदशाहं पतिघ्नौ तौ त्याज्यौदूरात् सुबुद्धिना । कठ्यावर्त्ता च कुलटा नाभ्यावर्त्तापतिव्रता । पृष्ठावर्त्ता च भर्त्तृघ्नी कुलटा वाऽथ जायते” ।अथ कन्यायाः समयविशेषे जन्मवशात् विषकन्यात्वदोषः यथाह जातकालङ्कारे । “भौजङ्गे ९ कृत्ति-कायां शतभिषजि तथा सूर्य्यमन्दारवारे भद्रासंज्ञेतिथौ या ननु जननमियात् सा कुमारी विषाख्या ।लग्नस्थौ सौम्यखेटावशुभगगनगश्चैकआस्ते ततो द्वौवैरिक्षेत्रानुयातौ यदि जनुषि तदा सा हि कन्याविषाख्या । मन्दाश्लेषाद्वितीया यदि तदनु कुजेसप्तमी वारुणर्क्षे २४ द्वादश्यां वा द्विदैवे १६ दिनमणिदिवसे यज्जनिः सा विषाख्या । धर्म्मस्थो भूमिसूनु-स्तनुसदनगतः सूर्य्यसूनुस्तदानीं मार्त्तण्डः सूनु-यातो यदि जनिसमये सा कुमारी विषाख्या । लग्ना-दिन्दोः शुभो वा मदनगृहपतिर्द्यूनयायी विषाख्यं दोषंचैवानपत्यं तदनु च नियतं हन्ति वैधव्यदोषम्” ।अन्योऽपि वैधव्यादियोगोऽन्यत्रोक्तः यथा होरागम-रत्ने “त्यक्ता धवेनोष्णकरेऽस्तसंस्थे बाल्येऽपिभौमे विधवा प्रदिष्टा । पापग्रहालोकनवर्गयाते कन्यैवबन्ध्या भवतीति सूतौ । वैधव्यं क्रूरखेटैर्मदनगृहगतै-र्मित्रितैः स्यात् पुनर्भूः पापैस्तैर्वीर्य्ययुक्तैर्भवति परि-हृता प्रेयसा सौम्यदृष्टे । अन्योन्यांशस्थयोश्च क्षिति-सुतसितयोर्बन्धकी योषिदुक्ता चन्द्रोर्व्वीसूनुशुक्रा यदिमदनगृहे प्रेयसोऽनुज्ञया सेति” “लग्ने व्यये चपाताले इत्यादि” प्रागुक्तम् । एवमन्येऽपि वैधव्यादियोगाआकरे दृश्याः । मु० चि० तत्पपिहाराय विधि-रुक्तः यथा “जन्मोत्यं च विलोक्य बालविधवायोगंविधाय व्रतं सावित्र्या उत पैप्पलं हि सुतया दद्यादिमां वा रहः । सल्लग्नेऽच्युतमूर्त्ति पिप्पलघटैः कृत्वाविवाहं, स्फुटं दद्यात्तां चिरजीविनेऽत्र न भवेद्दोषःपुनर्भूभवः” संहितासारे “अवैधव्यकरैर्योगैर्विवाहपट-लोदितैः । वरायायुष्मते देया कन्या वैधव्ययोगजा”ज्ञानभास्करे “बलवद्विधवायोगे बाल्ये सति मृगे-क्षणाम् । पिता रहसि कुर्व्वीत तद्भङ्गं शास्त्रसम्मतम्”मार्क० “बालवैधव्ययोगेऽपि कुम्भद्रुप्रतिमा-दिभिः । कृत्वा लग्नं रहः पश्चात् कन्योद्वाह्येतिचापरे” । तत्र सावित्रीपिप्पलादिव्रतविष्णुप्रतिमादिविवा-हप्रयोगादयश्च” पी० धा० विधानपारिजातादौ च दृश्याः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
