| YouTube Channel

उपमालङ्कारः (upamAlaGkAraH)

 
शब्दकल्पद्रुमः
Sanskrit
उपमालङ्कारः,
पुं,
(उपमैव अलङ्कारः ।) साम्या-लङ्कारः यथा उपमामाह ।“साम्यं वाच्यमवैधम्म्यं वाक्यैक्ये उपमा द्वयोः” ।तद्भेदाः सा द्विविधा पूर्णा लुप्ता तल्ल-क्षणम् यथा, --“सा पूर्णा यदि सामान्यधर्म्म औपम्यवाचि च” ।इयं पुनः श्रौत्यार्थी तल्लक्षणन्तु ।“श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः”
द्वे त्रिधा तद्धिते समासेऽथ वाक्ये उदाहरणम् ।“सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले”
अत्र क्रमेण त्रिविधा श्रौती ।“मधुरः सुधावदधरःपल्लवतुल्योऽतिपेलवः पाणिः ।चकितमृगलोचनाभ्यांसदृशी चपले लोचने तस्याः”
अत्र क्रमेण त्रिविधा आर्थी पूर्णा षडेव तत् ।“लुप्ता सामान्यधर्म्मादेरेकस्य यदि वा द्वयोः
त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्व्ववत्”
इयञ्च तद्धिते श्रौत्या असम्भवात् पूर्व्वोक्तरीत्यापञ्चप्रकाराः उदाहरणम् ।“मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ।वाचः सुधा इवौष्ठस्ते विम्बतुल्यो मनोऽश्मवत्”
“सा लुप्ता पञ्चधा पुनः ।आधारकर्म्मविहिते द्विविधे क्यचि क्यङि ।कर्म्मकर्त्रोर्णमुलि स्यादेवं पञ्चधा पुनः”
उदाहरणम् ।“अन्तःपुरीयसि रणेषु सुतीयसि त्वंपौरं जनं तव सदा रमणीयते श्रीः ।दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र-सञ्चारमत्र भुवि सञ्चरसि क्षितीश”
तदेवं दशप्रकारा लुप्ता सा पुनर्द्विधा वाक्य-गता समासगता यथा ।“उपमानानुपादाने द्विधा वाक्यसमासयोः” ।श्रौत्यार्थोत्वभेदेन चतुर्व्विधत्वसम्भवेऽपि प्राचीन-रीत्या द्विप्रकारत्वमेवोक्तम् पुनर्द्विधा ।“औपम्यवाचिनो लोपे समासे क्विपि द्विधा”उदाहरणम् ।“वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्” ।“गर्द्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः”पुनर्धर्म्मोपमानयोर्लोपे द्विधा तद्यथा ।“द्विधा समासे वाक्ये लोपे धर्म्मोपमानयोः” ।उदाहरणम् ।“तस्या मुखेन सदृशं रम्यं नास्ते वा नयनतुल्यम्” ।पुनर्द्विधा ।“क्विप्समासगता द्वेधा धर्म्मे वादिविलोपने” ।उदाहरणम् विधवति मुखाब्जमस्या इत्यादि ।“उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि” ।उदाहरणम् ।“अरातिविक्रमालोकविकश्वरविलोचनः ।कृपाणोदग्रदोर्द्दण्डः सहस्रायुधीयति”
धर्म्मोपमेयलोपेऽन्या उदाहरणम् “यशसिप्रसरति भवतः क्षीरोदीयन्ति सागराः सर्व्वे” ।त्रिलोपे समासगा यथा राजते मृगलोच-नेत्यादि ।“तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः” ।पूर्णा षड्विधा लुप्ता चैकविंशतिविधेति मि-लित्वा सप्तविंशतिप्रकारोपमा” इति साहित्य-दर्पणस्य १० परिच्छेदात् संगृहीतः