| YouTube Channel

उपपन्नम् (upapannam)

 
E Bharati Sampat
Sanskrit
(वि) १.प्राप्तम् उप्+पद(गतौ)+क्तः। ‘निष्ठा’ ३.२.१०२। ‘अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः’ रघुः३.४१। २.सम्पृक्तम् ‘बभौ सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना’ रघुः२.१६। ३.स्वभावसिद्धम् ‘सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि साधकं च’ कुमार०३.१२। ४.योग्यम् ‘उपपन्नमिदमस्मिन् राजनि’ शाकु०२। ५.पूर्णम् ‘उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः। सह तैरेव तद्रिक्थं संप्राप्तोऽप्यन्नगोत्रतः’ मनुः९.१४१