उपनयनं (upanayanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशब्दकल्पद्रुमः
Sanskritउपनयनं, (अध्ययनार्थं आचार्य्यस्य उप समीपंनीयते येन कर्म्मणा इति । उप + नी ल्युट् ।)ब्राह्मणक्षत्रियवैश्यानां यज्ञसूत्रधारणादिरूपप्र-धानसंस्कारः । अध्यापनार्थमाचार्य्यसमीपं नीयतेयेन कर्म्मणा तदुपनयनम् । यथा स्मृतिः ।“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।बालो वेदाय तद्योगाद्बालस्योपनयं विदुः” ॥
* ॥
तत्पर्य्यायः । वटूकरणम् २ । इति त्रिकाण्डशेषः ॥
उपनायः ३ उपनयः ४ आनयः ५ । इति हेम-चन्द्रः ॥
तस्य कालः ।“गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।राज्ञामेकादशे सैके विशामेके यथाकुलम् ।ब्रह्मवर्च्चसकामस्य कार्य्यं विप्रस्य पञ्चमे” ॥
ब्राह्मणस्य गर्भावधिषोडशवर्षपर्य्यन्तम् ॥
तत्र-गर्भाष्टमवर्षो मुख्यः । क्षत्रियस्य द्वाविंशतिवर्ष-पर्य्यन्तम् । तत्रैकादशवर्षो मुख्यः । वैश्यस्य चतु-र्व्विंशतिवर्षपर्य्यन्तम् । तत्र द्वादशवर्षो मुख्यः ।इति स्मृतिः ॥
सैके द्वादशे । तत्राशक्तौ प्रायश्चित्तंकृत्वा तदुत्तरे कार्य्यम् ।“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।बालो वेदाय तद्योगाद्बालस्योपनयं विदुः ॥
रक्तस्रावे तथा शस्त्रक्षते पाठनिषेधनात् ।उपनयनं न तत्र स्यात् इति मन्वादिसम्मतम्” ॥
कृत्यचिन्तामणौ ।“जन्मोदये जन्मसु तारकासुमासेऽथवा जन्मनि जन्मभे वा ।व्रतेन विप्रो न बहुश्रुतोऽपिविद्याविशेषैः प्रथितः पृथिव्यां ॥
अस्तं गते दैत्यगुरौ गुरौ वाऋक्षेऽपि वा पापयुतेऽप्यनुक्ते ।व्रतोपनीतो दिवसे प्रणाशंप्रयाति देवैरपि रक्षितो यः” ॥
उदये लग्ने । व्रतेन उपनयनेन । भुजबलभीमकृत्य-चिन्तामण्योः ।“स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरि-ष्विन्दौ तोयपतौ भगे दितिसुते भाद्रद्वये सागरे ।केन्द्रस्थे भृगुजेऽङ्गिरःशशिसुते चन्द्रे च तारे शुभेकर्त्तव्यं व्रतकर्म्म मङ्गलतिथौ वाराः सितार्केज्यकाः” ॥
तोयपतिः शतभिषा । अदितिसुतौत्तरफल्गुनी ।सागरः पूर्व्वाषाढा । दीपिकायाम् ।जीवार्केन्दूडुशुद्धौ हरिशयनवहिर्भास्करे चोत्तरस्थे, स्वाध्याये वेदवर्णाधिपैहशुभदे क्षौरिभे नादितौच ।शुकार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोह्य षष्ठाष्टमेन्दुं, नो जीवास्तातिचारेऽर्कसितगुरुदिने कालशुद्धौव्रतं स्यात्” ॥
रविमदनतिथिं सप्तमीं त्रयोदशीम् ॥
* ॥
कृत्यचिन्तामणौ ।“माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः ।चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥
ज्यैष्ठे गहननीतिज्ञ आषाढे क्रतुभाजनः ।शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं निशि च व्रतम्” ॥
राजमार्त्तण्डे ।“पुनर्व्वसौ कृतो विप्रः पुनःसंस्कारमर्हति” ।वृद्धगर्गः ।“स्मृतियुक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् ।पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्” ॥
चैत्रशुक्लतृतीया आशाढशुक्लदशमी मन्वन्तरा-दित्वेन निषिद्धा वैशाखशुक्लतृतीया युगादित्वेननिषिद्धेति । षष्ठ्यामशुचिरमार्य्यो रिक्तासु बहु-दोषभाक् । शुक्लपक्ष एव विहितः प्रागुक्ताश्व-लायनवचनात् ॥
* ॥
सामगानां कुजवारेऽप्युप-नयनं श्रीपतिरत्नमालाकृत्यचिन्तामणिधृतवात्स्य-वचनात् । यथा ।“शाखाधिपे बलिनि केन्द्रगतेऽथ वास्मिन्वारेऽस्य चोपनयनं कथितं द्विजानाम् ।नीचस्थितेऽरिगृहगेऽथ पराजिते वाजीवे भृगावुपनयः स्मृतिकर्म्महीनः” ॥
अस्य शाखाधिपस्य ॥
दीपिकायां ।“ऋग्वेदाधिपतिर्जोवो यजुर्व्वेदाधिपः सितःसामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट्” ॥
वेदाधिपकथनम् ॥
* ॥
“ब्राह्मणे शुक्रवागीशौ क्षत्रिये भौमभास्करौ ।चन्द्रो वैश्ये बुधः शूद्रे पतिर्मन्दोऽन्त्यजे जने” ॥
वर्णाधिपकथनम् ॥
* ॥
पराजयलक्षणं वक्ष्येयात्रायाम् ।अत्रापि विवाहवद्दशयोगभङ्गवर्ज्जनम् ।विष्णुधर्म्मोत्तरे ।“षोडशाब्दो हि विप्रस्य राजन्यस्य द्विविंशतिः ।विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता ॥
सावित्री नातिवर्त्तेत अत ऊर्द्ध्वं निवर्त्तते” ॥
अत्र षोडशवर्षस्य उपनयनाङ्गता प्रतीयते ॥
“पतिता यस्य सावित्री दशवर्षाणि पञ्च च ।ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥
प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः” ॥
इति यमवचने तदनङ्गता प्रतीयते । अनयोर्गर्भ-जन्मप्रभृतिगणनाभ्यामविरुद्धार्थता । तथाच मा-ण्डव्यः । “व्रतबन्धविवाहे च वत्सरपरिकल्पन-माहुराचार्य्याः । आधानपूर्व्वमेके प्रसूतिपूर्व्वंसदान्ये तु” ॥
* ॥
यत्तु द्विजानुपक्रम्य पैठिनसि-वचनं द्वादशषोडशविंशतिश्चेदतीता अवरुद्ध-काला भवन्ति इति द्वादशवर्षाद्युपरि ब्राह्मणा-दीनां महाव्याहृतिहोमप्रायश्चित्तार्थम् । षोड-शोपरि तु व्रात्यहोमादिगुरुप्रायश्चित्तार्थमिति ।इत्युपनयनम् । इति ज्योतिस्तत्त्वम् ॥
अथ उपनयनस्यानुष्ठानक्रमः ।तत्र प्रथमं प्रातः कृतस्नानः कृतवृद्धिश्राद्धः पिताकृतवृद्धिश्राद्धेन पित्रान्यएवाचार्य्यो वृतस्तद-सम्भवे माणवकवृतो वा समुद्भवनामानमग्निं सं-स्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्यमाणवकं प्रातर्भोजयित्वा अग्न्युत्तरतो नीत्वाशिखया सह मुण्डितं स्नापितं कुण्डलाद्यलङ्कृतंक्षौमवस्त्रावृतं तदसम्भवे शुक्लाहतकार्पासैक-वस्त्रावृतं माणवकं दक्षिणे पूर्व्वाभिमुखं निधायप्रकृतकर्म्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधंतूष्णीमग्नौ हुत्वा तत्तन्मन्त्रैर्व्यस्तसमस्तमहाव्याहृ-तिहोमं कुर्य्यात् । तत आचार्य्यः पञ्चभिर्म्मन्त्रैःपञ्चाहुतीर्जुहुयात् । तत आचार्य्यः उदगग्रेषुकुशेषु कृताञ्जलिः प्राङ्मख ऊर्द्ध्वस्तिष्ठेत् । अग्न्या-चार्य्ययोर्म्मध्ये माणवकोऽपि कृताञ्जलिराचार्य्या-भिमुख उदगग्रेषु कुशेषु ऊर्द्ध्वस्तिष्ठेत् । माणव-कस्य दक्षिणतः स्थितो मन्त्रवान् ब्राह्मणो माण-वकस्य अञ्जलिमुदकेन पूरयति पश्चात् आ-चार्य्यस्यापि । ततो गृहीतजलाञ्जलिराचार्य्योगृहीतजलाञ्जलिं माणवकं पश्यन् मन्त्रंजपति । तत आचार्य्यो माणवकं मन्त्रं पाठ-यति । ततो माणवकस्याभिवादनार्थं देवता-श्रयं नक्षत्राश्रयं गोत्राश्रयं वा माणवकनामकल्पयित्वा आचार्य्यो माणवके कथयति । तत-आचार्य्यो माणवकं मन्त्रेण नामधेयं पृच्छति ।माणवकः पूर्व्वाचार्य्यकल्पितं नाम मन्त्रेण कथ-यति । तत आचार्य्यमाणवकौ पूर्व्वगृहीतजला-ञ्जली त्यजेताम् । आचार्य्यस्तु दक्षिणेन पाणिनामाणवकस्य साङ्गुष्ठं दक्षिणं पाणिं मन्त्रेण गृह्णाति ।ततो गृहीतमाणवकहस्तो मन्त्रं जपत्याचार्य्यः ।ततो माणवकमाचार्य्यो मन्त्रेण प्रदक्षिणेन भ्राम-यित्वा प्राङ्मुखं करोति । ततो माणवकस्य दक्षिण-स्कन्धं स्पृष्ट्वा अवतीर्णेन दक्षिणपाणिना अव्यव-हितं नाभिदेशं आचार्य्यो मन्त्रेण स्पृशति । ततोमाणवकस्य नामेरुपरिदेशं मन्त्रेण आचार्य्यःस्पृशति । ततो माणवकहृदयदेशं मन्त्रेणाचार्य्यःस्पृशति । ततो दक्षिणे पाणिना आचार्य्योमाणवकस्य दक्षिणस्कन्धं स्पृशन् मन्त्रं जपति ।ततो वामेन पाणिना माणवकस्य वामस्कन्धंस्पृशन्नाचार्य्यो मन्त्रं जपति । अथाचार्य्यो माण-वकं मन्त्रेण सम्बोधयति । अथ सम्बोधितं माण-वकं आचार्य्यो मन्त्रेण प्रेषयति । ब्रह्मचारी तुसर्व्वत्र वाढमिति ब्रूयात् । ततोऽग्नेरुचरमागेगत्वा आचार्य्य उदगग्रेषु कुशेषु प्राङ्मुख उप-विशति । तत आचार्य्याभिमुखो भाणवकः पाति-तदक्षिणजानुः उदगग्रेषु कशेषु उपविशति ।ततः प्रवरसंख्यया पञ्च वा त्रयो वा मेखला-यज्ञोपवीतरूपग्रन्थयः कर्त्तव्याः । अथैनं माण-वकमाचार्य्यस्त्रिःप्रदक्षिणं कारयित्वा त्रिवृतांमुञ्जमेखलां परिधापयन् मन्त्रद्वयं वाचयति ।ततो यज्ञोपवीतं कृष्णसाराजिनान्वितं आचार्य्योमाणवकं मन्त्रेण परिधापयेत् । ततो माणवक-आचार्य्यस्य उपसन्नो भवति । ततस्तमुपसन्नमाण-वकं आचार्य्यः प्रथमं पादं पादं ततोऽर्द्धमर्द्धं ततःकृत्स्नां सावित्रीं अध्यापयेत् । तत आचार्य्योमाणवकं महाव्याहृतीः पृथक् पृथक् कृत्वाप्रणवपूर्व्विका अध्यापयेत् । ततो वैल्वं पालाशंवा माणवकपरिमाणदण्डं माणवकाय प्रयच्छन्आचार्य्यो माणवकं मन्त्रं वाचयति । अथ गृहीत-दण्डो ब्रह्यचारी प्रथमं मातरं भिक्षां प्रार्थयति ।ततो मातृबन्धून् ततः पितरं ततः पितृबन्धून्ततोऽन्यांश्च प्रार्थयेत् । ततः सर्व्वंलब्धभैक्षं आचा-र्य्याय निवेदयेत् । ततः पूर्व्ववदाचार्य्यो व्यस्तसमस्त-महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तांसमिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म्म समाप्यउदीच्यं शाट्यायनहोमादिवामदेव्यगानान्तं कर्म्मनिर्व्वर्त्तयेत् । ततः यदि पितैवाचार्य्यस्तदा कर्म्म-कारयितृब्राह्मणाय दक्षिणां दद्यात् । अथान्य-एवाचार्य्यो वृतः तदा येन वृतः स तस्मै दक्षिणांदद्यात् । ब्रक्ष्मचारी तु तत्रैव स्थाने दिनान्तं यावत्वाग्यतस्तिष्ठेत् । ततः प्राप्तायां सन्ध्यायां सन्ध्या-मुपास्य कुशण्डिकोक्तविधानेन समुद्भवनामान-मग्निं संस्थाप्य मन्त्रं जप्त्वा दक्षिणं जानुं भूमौनिधाय दक्षिणपश्चिमोत्तरक्रमेण उदकाञ्जलि-सेकमग्निपर्य्युक्षणञ्च कृत्वा समिद्धोमं कुर्य्यात् ।ततः प्रादेशप्रमाणघृताक्तसमित्त्रयं गृहीत्वा आद्य-न्तयोस्तूष्णीं मध्ये समन्त्रकं अग्नौ जुहुयात् । ततःकर्म्मशेषोक्तविधिना पुनरपि अग्निपर्य्युक्षणोप-क्रमं दक्षिणपश्चिमोत्तरक्रमेण उदकाञ्जलिसेकंकुर्य्यात् । ततः ब्रह्मचारी अग्निमभिवाद्य मन्त्रे-णग्निं विसृज्य अतीतायां सन्ध्यायां भिक्षालब्ध-मन्नं क्षारलवणवर्जितं सघृतमुदकेनाभ्युक्ष्य भक्षण-प्रकरणोक्तविधिना भुञ्जीत । एतच्चाग्निकर्म्मसमावर्त्तनपर्य्यन्तं प्रत्यहं सायं प्रातः कर्त्तव्यम् ॥
इत्युपनयनकर्म्म समाप्तम् ॥
इति भवदेवभट्टः ॥
(ब्राह्मण-क्षत्त्रिय-वैश्यानामन्यतममन्वय-वयः शील-शौर्य्य -- शौचाचार-विनय-शक्ति-बल-मेधा-धृति-स्मृति-मति-प्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृ-जुवक्त्राक्षिनासं प्रसन्नचित्त-वाक्चेष्टं क्लेशसहञ्चभिषक् शिष्यमुपनयेत् । अतो विपरीतगुणंनोपनयेत् ।उपनयनीयस्तु ब्राह्मणः प्रशस्तेषु तिथिकरण-मुहूर्त्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशेचतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेनदर्भैः संस्तीर्य्य पुष्पैर्लाजभक्तैः रत्नैश्च देवताः पूज-यित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य चदक्षिणतो ब्राह्मणं स्थापयित्वाग्निमुपसमाधायखदिर-पलाश-देवदारु-विल्वानां समिद्भिश्चतुर्णांवा क्षीरवृक्षाणां न्यग्रोधोडुम्बराश्वत्थमधूकानांदधि-मधु-घृताक्ताभिर्दार्व्वीहौमिकेन विधिना-स्नुवेणाज्याहुतीर्जुहुयात् । सप्रणवाभिर्महाव्या-हृतिभिस्ततः प्रतिदैवतमृषींश्च स्वाहाकारञ्चकुर्य्यात् शिष्यमपि कारयेत् ॥
ब्राह्मणस्त्रयाणांवर्णानामुपनयनं कर्त्तुमर्हति राजन्यो द्वयस्य वैश्योतैश्यस्यैवेति । शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्ज्ज-मनुपनीतमध्यापयेदित्येके ॥
ततोऽग्निं त्रिः परि-णीयाग्निसाक्षिकं शिष्यं ब्रूयात् । काम-क्रोध-लोभ-मोह-मानाहङ्कारेर्ष्यापारुष्य--पैशुन्यानृतालस्याय-शस्यानि हित्वा नीच-नख-रोम्ना शुचिना कषाय-वाससा सत्यव्रतब्रह्मचर्य्याभिवादनतत्परेणावश्यंभवितव्यं मदनुमतस्थान-गमन-शयनासन-भोज-नाध्ययन-परेण भूत्वा मत्प्रियहितेषु वर्त्तितव्य-मतोऽन्यथा ते वर्त्तमानस्याधर्म्मो भवत्यफला चविद्या न च प्राकाश्यं प्राप्नोति । अहं वा त्वयिसम्यग्वर्त्तमाने यद्यन्यथादर्शो स्यामेनोभाग् भवेय-मफलविद्यश्च । द्विज-गुरु-दरिद्र-मित्र-प्रव्रजितो-पनत-साध्वनाथाभ्युपगतानां चात्मबान्धवानामिवस्वमेषजैः प्रतिकर्त्तव्यमेवं साधु भवति । ब्याधशाकु-निक-पतित-पापकारिणां न च प्रतिकर्त्तव्यमेवं वि-द्या प्रकाशते मित्रयशो धर्म्मार्थकामांश्च प्राप्नोति ॥
भवतश्चात्र ॥
“कृष्णेऽष्टमी तन्निधनेहनी द्वेकृष्णेतरेऽप्येवमहर्द्विसन्ध्यम् ।अकालविद्युत्-स्तनयिन्तुघोषेस्वतन्त्रराष्ट्रक्षितिपव्यथासु ॥
श्मशानयानाद्यतनाहवेषुमहोत्सवौत्पातिकदर्शनेषु ।नाध्येयमन्येषु च येषु विप्रा-नाधीयते नाशुचिना च नित्यम्” ॥
इति सुश्रुते सूत्रस्थाने द्वितीयोऽध्यायः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
