| YouTube Channel

उपनयन (upanayana)

 
शब्दसागरः
English
उपनयन
n.
(-नं) See the preceding.
E.
As before, affix ल्युट्
also with
अण् added उपनायन.
Capeller Eng
English
उपनयन
n.
the same +
seq.
Yates
English
उप-नयन (नं) 1.
n.
Idem.
Spoken Sanskrit
English
उपनयन - upanayana -
n.
- that ceremony in which a Guru draws a boy towards himself and initiates him into one of the three twice-born classes
Wilson
English
उपनयन
n.
(-नं) See the preceding.
E.
as before affix ल्युट्
also with अण् added उपनायन.
Apte
English
उपनयनम् [upanayanam], 1 Leading to or near.
Presenting, offering
धारासारोपनयनपरा नैगमाः सानुमन्तः
V.*
4.13.
Investiture with the acred thread
गर्भाष्टमे ब्राह्मण उपनेय इत्युपनयनं संस्कारार्थम्
Mbh.*
6.6.84. आसमावर्तनात्कुर्यात् कृतोपनयनो द्विजः
Ms.*
2.18, 173.
Employment, application.
Introduction (into any science).
Apte 1890
English
उपनयनं 1 Leading to or near.
2 Presenting, offering
V. 4. 4.
3 Investiture with the sacred thread
आसमावर्तनात्कुर्यात् कृतोपनयनो द्बिजः Ms. 2. 108, 173.
Monier Williams Cologne
English
उप-नयन
n.
the act of leading to or near, bringing,
R.
BhP.
Vikr.
employment, application,
Car.
introduction (into any science),
Prab.
leading or drawing towards one's self
that ceremony in which a Guru draws a boy towards himself and initiates him into one of the three twice-born classes (one of the twelve Saṃskāras or purificatory rites [prescribed in the Dharma-sūtras and explained in the Gṛhya-sūtras] in which the boy is invested with the sacred thread [different for the three castes] and thus endowed with second or spiritual birth and qualified to learn the Veda by heart
a Brāhman is initiated in the eighth year [or seventh according to Hiraṇyakeśin
or eighth from conception, according to Śāṅkhāyana
&c.
], a Kṣatriya in the eleventh, a Vaiśya in the twelfth
but the term could be delayed)
See
IW.
p.
201
RTL.
p.
360 seqq.
ĀśvGṛ.
i, 19-22
ŚāṅkhGṛ.
ii, 1-6
PārGṛ.
ii, 2-5
Gobh.
ii, 10
HirGṛ.
i, 1 seqq.
Mn.
ii, 36
Yājñ.
i, 14.
Monier Williams 1872
English
उप-नयन, अम्, n. leading to, bringing
leading
to a teacher, initiation. See उप-नय।
Benfey
English
उपनयन उपनयन, i. e. उप-नी +
अन,
n.
1. Bringing, Vikr. 76.
2.
The initiation of the three first classes,
Man. 2, 108.
Apte Hindi
Hindi
उपनयनम्
नपुं*
- उप+नी+ल्युट्
निकट ले जाना
उपनयनम्
नपुं*
- उप+नी+ल्युट्
"उपहार, भेंट"
उपनयनम्
नपुं*
- उप+नी+ल्युट्
जनेऊ संस्कार
उपनयनम्
नपुं*
- उप+नी+ल्युट्
"नियोजन, नियुक्ति, अनुप्रयोग"
Shabdartha Kaustubha
Kannada
उपनयन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸಮೀಪಕ್ಕೆ ಒಯ್ಯುವುದು /ಹತ್ತಿರಕ್ಕೆ ತರುವುದು
निष्पत्तिः - > उप +णीञ् (प्रापणे) - "ल्युट्" (३-३-११५)
उपनयन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ವೇದಾಭ್ಯಾಸಕ್ಕಾಗಿ ಬಾಲಕನನ್ನು ಗುರುವಿನಲ್ಲಿಗೆ ಕಳುಹಿಸಿಕೊಡಲು ಮಾಡುವ ಒಂದು ಸಂಸ್ಕಾರ
निष्पत्तिः - > उप +णीञ् (प्रापणे) - कर० "ल्युट्" (३-३-११७)
L R Vaidya
English
upanayana {% n. %} 1. Leading to or near
2. investiture with the sacred thread, आसमावर्तनात्कुर्यात् कृतोपनयनो द्विजः M.ii.108, 173.
Aufrecht Catalogus Catalogorum
English
उपनयन dh. CS 2, 256.
शब्दकल्पद्रुमः
Sanskrit
उपनयनं,
क्ली,
(अध्ययनार्थं आचार्य्यस्य उप समीपंनीयते येन कर्म्मणा इति उप + नी ल्युट् ।)ब्राह्मणक्षत्रियवैश्यानां यज्ञसूत्रधारणादिरूपप्र-धानसंस्कारः अध्यापनार्थमाचार्य्यसमीपं नीयतेयेन कर्म्मणा तदुपनयनम् यथा स्मृतिः ।“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।बालो वेदाय तद्योगाद्बालस्योपनयं विदुः”
*
तत्पर्य्यायः वटूकरणम् इति त्रिकाण्डशेषः
उपनायः उपनयः आनयः इति हेम-चन्द्रः
तस्य कालः ।“गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।राज्ञामेकादशे सैके विशामेके यथाकुलम् ।ब्रह्मवर्च्चसकामस्य कार्य्यं विप्रस्य पञ्चमे”
ब्राह्मणस्य गर्भावधिषोडशवर्षपर्य्यन्तम्
तत्र-गर्भाष्टमवर्षो मुख्यः क्षत्रियस्य द्वाविंशतिवर्ष-पर्य्यन्तम् तत्रैकादशवर्षो मुख्यः वैश्यस्य चतु-र्व्विंशतिवर्षपर्य्यन्तम् तत्र द्वादशवर्षो मुख्यः ।इति स्मृतिः
सैके द्वादशे तत्राशक्तौ प्रायश्चित्तंकृत्वा तदुत्तरे कार्य्यम् ।“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।बालो वेदाय तद्योगाद्बालस्योपनयं विदुः
रक्तस्रावे तथा शस्त्रक्षते पाठनिषेधनात् ।उपनयनं तत्र स्यात् इति मन्वादिसम्मतम्”
कृत्यचिन्तामणौ ।“जन्मोदये जन्मसु तारकासुमासेऽथवा जन्मनि जन्मभे वा ।व्रतेन विप्रो बहुश्रुतोऽपिविद्याविशेषैः प्रथितः पृथिव्यां
अस्तं गते दैत्यगुरौ गुरौ वाऋक्षेऽपि वा पापयुतेऽप्यनुक्ते ।व्रतोपनीतो दिवसे प्रणाशंप्रयाति देवैरपि रक्षितो यः”
उदये लग्ने व्रतेन उपनयनेन भुजबलभीमकृत्य-चिन्तामण्योः ।“स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरि-ष्विन्दौ तोयपतौ भगे दितिसुते भाद्रद्वये सागरे ।केन्द्रस्थे भृगुजेऽङ्गिरःशशिसुते चन्द्रे तारे शुभेकर्त्तव्यं व्रतकर्म्म मङ्गलतिथौ वाराः सितार्केज्यकाः”
तोयपतिः शतभिषा अदितिसुतौत्तरफल्गुनी ।सागरः पूर्व्वाषाढा दीपिकायाम् ।जीवार्केन्दूडुशुद्धौ हरिशयनवहिर्भास्करे चोत्तरस्थे, स्वाध्याये वेदवर्णाधिपैहशुभदे क्षौरिभे नादितौच ।शुकार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोह्य षष्ठाष्टमेन्दुं, नो जीवास्तातिचारेऽर्कसितगुरुदिने कालशुद्धौव्रतं स्यात्”
रविमदनतिथिं सप्तमीं त्रयोदशीम्
*
कृत्यचिन्तामणौ ।“माघे द्रविणशीलाढ्यः फाल्गुने दृढव्रतः ।चैत्रे भवति मेधावी वैशाखे कोविदो भवेत्
ज्यैष्ठे गहननीतिज्ञ आषाढे क्रतुभाजनः ।शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं निशि व्रतम्”
राजमार्त्तण्डे ।“पुनर्व्वसौ कृतो विप्रः पुनःसंस्कारमर्हति” ।वृद्धगर्गः ।“स्मृतियुक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् ।पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्”
चैत्रशुक्लतृतीया आशाढशुक्लदशमी मन्वन्तरा-दित्वेन निषिद्धा वैशाखशुक्लतृतीया युगादित्वेननिषिद्धेति षष्ठ्यामशुचिरमार्य्यो रिक्तासु बहु-दोषभाक् शुक्लपक्ष एव विहितः प्रागुक्ताश्व-लायनवचनात्
*
सामगानां कुजवारेऽप्युप-नयनं श्रीपतिरत्नमालाकृत्यचिन्तामणिधृतवात्स्य-वचनात् यथा ।“शाखाधिपे बलिनि केन्द्रगतेऽथ वास्मिन्वारेऽस्य चोपनयनं कथितं द्विजानाम् ।नीचस्थितेऽरिगृहगेऽथ पराजिते वाजीवे भृगावुपनयः स्मृतिकर्म्महीनः”
अस्य शाखाधिपस्य
दीपिकायां ।“ऋग्वेदाधिपतिर्जोवो यजुर्व्वेदाधिपः सितःसामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट्”
वेदाधिपकथनम्
*
“ब्राह्मणे शुक्रवागीशौ क्षत्रिये भौमभास्करौ ।चन्द्रो वैश्ये बुधः शूद्रे पतिर्मन्दोऽन्त्यजे जने”
वर्णाधिपकथनम्
*
पराजयलक्षणं वक्ष्येयात्रायाम् ।अत्रापि विवाहवद्दशयोगभङ्गवर्ज्जनम् ।विष्णुधर्म्मोत्तरे ।“षोडशाब्दो हि विप्रस्य राजन्यस्य द्विविंशतिः ।विंशतिः सचतुर्थी वैश्यस्य परिकीर्त्तिता
सावित्री नातिवर्त्तेत अत ऊर्द्ध्वं निवर्त्तते”
अत्र षोडशवर्षस्य उपनयनाङ्गता प्रतीयते
“पतिता यस्य सावित्री दशवर्षाणि पञ्च ।ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः
प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः”
इति यमवचने तदनङ्गता प्रतीयते अनयोर्गर्भ-जन्मप्रभृतिगणनाभ्यामविरुद्धार्थता तथाच मा-ण्डव्यः “व्रतबन्धविवाहे वत्सरपरिकल्पन-माहुराचार्य्याः आधानपूर्व्वमेके प्रसूतिपूर्व्वंसदान्ये तु”
*
यत्तु द्विजानुपक्रम्य पैठिनसि-वचनं द्वादशषोडशविंशतिश्चेदतीता अवरुद्ध-काला भवन्ति इति द्वादशवर्षाद्युपरि ब्राह्मणा-दीनां महाव्याहृतिहोमप्रायश्चित्तार्थम् षोड-शोपरि तु व्रात्यहोमादिगुरुप्रायश्चित्तार्थमिति ।इत्युपनयनम् इति ज्योतिस्तत्त्वम्
अथ उपनयनस्यानुष्ठानक्रमः ।तत्र प्रथमं प्रातः कृतस्नानः कृतवृद्धिश्राद्धः पिताकृतवृद्धिश्राद्धेन पित्रान्यएवाचार्य्यो वृतस्तद-सम्भवे माणवकवृतो वा समुद्भवनामानमग्निं सं-स्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्यमाणवकं प्रातर्भोजयित्वा अग्न्युत्तरतो नीत्वाशिखया सह मुण्डितं स्नापितं कुण्डलाद्यलङ्कृतंक्षौमवस्त्रावृतं तदसम्भवे शुक्लाहतकार्पासैक-वस्त्रावृतं माणवकं दक्षिणे पूर्व्वाभिमुखं निधायप्रकृतकर्म्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधंतूष्णीमग्नौ हुत्वा तत्तन्मन्त्रैर्व्यस्तसमस्तमहाव्याहृ-तिहोमं कुर्य्यात् तत आचार्य्यः पञ्चभिर्म्मन्त्रैःपञ्चाहुतीर्जुहुयात् तत आचार्य्यः उदगग्रेषुकुशेषु कृताञ्जलिः प्राङ्मख ऊर्द्ध्वस्तिष्ठेत् अग्न्या-चार्य्ययोर्म्मध्ये माणवकोऽपि कृताञ्जलिराचार्य्या-भिमुख उदगग्रेषु कुशेषु ऊर्द्ध्वस्तिष्ठेत् माणव-कस्य दक्षिणतः स्थितो मन्त्रवान् ब्राह्मणो माण-वकस्य अञ्जलिमुदकेन पूरयति पश्चात् आ-चार्य्यस्यापि ततो गृहीतजलाञ्जलिराचार्य्योगृहीतजलाञ्जलिं माणवकं पश्यन् मन्त्रंजपति तत आचार्य्यो माणवकं मन्त्रं पाठ-यति ततो माणवकस्याभिवादनार्थं देवता-श्रयं नक्षत्राश्रयं गोत्राश्रयं वा माणवकनामकल्पयित्वा आचार्य्यो माणवके कथयति तत-आचार्य्यो माणवकं मन्त्रेण नामधेयं पृच्छति ।माणवकः पूर्व्वाचार्य्यकल्पितं नाम मन्त्रेण कथ-यति तत आचार्य्यमाणवकौ पूर्व्वगृहीतजला-ञ्जली त्यजेताम् आचार्य्यस्तु दक्षिणेन पाणिनामाणवकस्य साङ्गुष्ठं दक्षिणं पाणिं मन्त्रेण गृह्णाति ।ततो गृहीतमाणवकहस्तो मन्त्रं जपत्याचार्य्यः ।ततो माणवकमाचार्य्यो मन्त्रेण प्रदक्षिणेन भ्राम-यित्वा प्राङ्मुखं करोति ततो माणवकस्य दक्षिण-स्कन्धं स्पृष्ट्वा अवतीर्णेन दक्षिणपाणिना अव्यव-हितं नाभिदेशं आचार्य्यो मन्त्रेण स्पृशति ततोमाणवकस्य नामेरुपरिदेशं मन्त्रेण आचार्य्यःस्पृशति ततो माणवकहृदयदेशं मन्त्रेणाचार्य्यःस्पृशति ततो दक्षिणे पाणिना आचार्य्योमाणवकस्य दक्षिणस्कन्धं स्पृशन् मन्त्रं जपति ।ततो वामेन पाणिना माणवकस्य वामस्कन्धंस्पृशन्नाचार्य्यो मन्त्रं जपति अथाचार्य्यो माण-वकं मन्त्रेण सम्बोधयति अथ सम्बोधितं माण-वकं आचार्य्यो मन्त्रेण प्रेषयति ब्रह्मचारी तुसर्व्वत्र वाढमिति ब्रूयात् ततोऽग्नेरुचरमागेगत्वा आचार्य्य उदगग्रेषु कुशेषु प्राङ्मुख उप-विशति तत आचार्य्याभिमुखो भाणवकः पाति-तदक्षिणजानुः उदगग्रेषु कशेषु उपविशति ।ततः प्रवरसंख्यया पञ्च वा त्रयो वा मेखला-यज्ञोपवीतरूपग्रन्थयः कर्त्तव्याः अथैनं माण-वकमाचार्य्यस्त्रिःप्रदक्षिणं कारयित्वा त्रिवृतांमुञ्जमेखलां परिधापयन् मन्त्रद्वयं वाचयति ।ततो यज्ञोपवीतं कृष्णसाराजिनान्वितं आचार्य्योमाणवकं मन्त्रेण परिधापयेत् ततो माणवक-आचार्य्यस्य उपसन्नो भवति ततस्तमुपसन्नमाण-वकं आचार्य्यः प्रथमं पादं पादं ततोऽर्द्धमर्द्धं ततःकृत्स्नां सावित्रीं अध्यापयेत् तत आचार्य्योमाणवकं महाव्याहृतीः पृथक् पृथक् कृत्वाप्रणवपूर्व्विका अध्यापयेत् ततो वैल्वं पालाशंवा माणवकपरिमाणदण्डं माणवकाय प्रयच्छन्आचार्य्यो माणवकं मन्त्रं वाचयति अथ गृहीत-दण्डो ब्रह्यचारी प्रथमं मातरं भिक्षां प्रार्थयति ।ततो मातृबन्धून् ततः पितरं ततः पितृबन्धून्ततोऽन्यांश्च प्रार्थयेत् ततः सर्व्वंलब्धभैक्षं आचा-र्य्याय निवेदयेत् ततः पूर्व्ववदाचार्य्यो व्यस्तसमस्त-महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तांसमिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म्म समाप्यउदीच्यं शाट्यायनहोमादिवामदेव्यगानान्तं कर्म्मनिर्व्वर्त्तयेत् ततः यदि पितैवाचार्य्यस्तदा कर्म्म-कारयितृब्राह्मणाय दक्षिणां दद्यात् अथान्य-एवाचार्य्यो वृतः तदा येन वृतः तस्मै दक्षिणांदद्यात् ब्रक्ष्मचारी तु तत्रैव स्थाने दिनान्तं यावत्वाग्यतस्तिष्ठेत् ततः प्राप्तायां सन्ध्यायां सन्ध्या-मुपास्य कुशण्डिकोक्तविधानेन समुद्भवनामान-मग्निं संस्थाप्य मन्त्रं जप्त्वा दक्षिणं जानुं भूमौनिधाय दक्षिणपश्चिमोत्तरक्रमेण उदकाञ्जलि-सेकमग्निपर्य्युक्षणञ्च कृत्वा समिद्धोमं कुर्य्यात् ।ततः प्रादेशप्रमाणघृताक्तसमित्त्रयं गृहीत्वा आद्य-न्तयोस्तूष्णीं मध्ये समन्त्रकं अग्नौ जुहुयात् ततःकर्म्मशेषोक्तविधिना पुनरपि अग्निपर्य्युक्षणोप-क्रमं दक्षिणपश्चिमोत्तरक्रमेण उदकाञ्जलिसेकंकुर्य्यात् ततः ब्रह्मचारी अग्निमभिवाद्य मन्त्रे-णग्निं विसृज्य अतीतायां सन्ध्यायां भिक्षालब्ध-मन्नं क्षारलवणवर्जितं सघृतमुदकेनाभ्युक्ष्य भक्षण-प्रकरणोक्तविधिना भुञ्जीत एतच्चाग्निकर्म्मसमावर्त्तनपर्य्यन्तं प्रत्यहं सायं प्रातः कर्त्तव्यम्
इत्युपनयनकर्म्म समाप्तम्
इति भवदेवभट्टः
(ब्राह्मण-क्षत्त्रिय-वैश्यानामन्यतममन्वय-वयः शील-शौर्य्य -- शौचाचार-विनय-शक्ति-बल-मेधा-धृति-स्मृति-मति-प्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृ-जुवक्त्राक्षिनासं प्रसन्नचित्त-वाक्चेष्टं क्लेशसहञ्चभिषक् शिष्यमुपनयेत् अतो विपरीतगुणंनोपनयेत् ।उपनयनीयस्तु ब्राह्मणः प्रशस्तेषु तिथिकरण-मुहूर्त्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशेचतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेनदर्भैः संस्तीर्य्य पुष्पैर्लाजभक्तैः रत्नैश्च देवताः पूज-यित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य चदक्षिणतो ब्राह्मणं स्थापयित्वाग्निमुपसमाधायखदिर-पलाश-देवदारु-विल्वानां समिद्भिश्चतुर्णांवा क्षीरवृक्षाणां न्यग्रोधोडुम्बराश्वत्थमधूकानांदधि-मधु-घृताक्ताभिर्दार्व्वीहौमिकेन विधिना-स्नुवेणाज्याहुतीर्जुहुयात् सप्रणवाभिर्महाव्या-हृतिभिस्ततः प्रतिदैवतमृषींश्च स्वाहाकारञ्चकुर्य्यात् शिष्यमपि कारयेत्
ब्राह्मणस्त्रयाणांवर्णानामुपनयनं कर्त्तुमर्हति राजन्यो द्वयस्य वैश्योतैश्यस्यैवेति शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्ज्ज-मनुपनीतमध्यापयेदित्येके
ततोऽग्निं त्रिः परि-णीयाग्निसाक्षिकं शिष्यं ब्रूयात् काम-क्रोध-लोभ-मोह-मानाहङ्कारेर्ष्यापारुष्य--पैशुन्यानृतालस्याय-शस्यानि हित्वा नीच-नख-रोम्ना शुचिना कषाय-वाससा सत्यव्रतब्रह्मचर्य्याभिवादनतत्परेणावश्यंभवितव्यं मदनुमतस्थान-गमन-शयनासन-भोज-नाध्ययन-परेण भूत्वा मत्प्रियहितेषु वर्त्तितव्य-मतोऽन्यथा ते वर्त्तमानस्याधर्म्मो भवत्यफला चविद्या प्राकाश्यं प्राप्नोति अहं वा त्वयिसम्यग्वर्त्तमाने यद्यन्यथादर्शो स्यामेनोभाग् भवेय-मफलविद्यश्च द्विज-गुरु-दरिद्र-मित्र-प्रव्रजितो-पनत-साध्वनाथाभ्युपगतानां चात्मबान्धवानामिवस्वमेषजैः प्रतिकर्त्तव्यमेवं साधु भवति ब्याधशाकु-निक-पतित-पापकारिणां प्रतिकर्त्तव्यमेवं वि-द्या प्रकाशते मित्रयशो धर्म्मार्थकामांश्च प्राप्नोति
भवतश्चात्र
“कृष्णेऽष्टमी तन्निधनेहनी द्वेकृष्णेतरेऽप्येवमहर्द्विसन्ध्यम् ।अकालविद्युत्-स्तनयिन्तुघोषेस्वतन्त्रराष्ट्रक्षितिपव्यथासु
श्मशानयानाद्यतनाहवेषुमहोत्सवौत्पातिकदर्शनेषु ।नाध्येयमन्येषु येषु विप्रा-नाधीयते नाशुचिना नित्यम्”
इति सुश्रुते सूत्रस्थाने द्वितीयोऽध्यायः
)
वाचस्पत्यम्
Sanskrit
उपनयन
न०
उप + नी--ल्युट् स्मृत्युक्ते संस्कारभेदे उप-नयार्थे समीपप्रापणे तत्रोपनयसंस्कारविभागकाला-दिर्दर्श्यते संस्कारः त्रिविधः नित्यःकाम्योनैमि-त्तिकश्च तत्र द्विजातीनामधिकारः तत्र नित्यः अष्टम-वर्षादिकाले बिहितः, ब्रह्मवर्चसादिकामस्य पञ्चमादिवर्ष-विहितः काम्यः, नैमित्तकस्तु पुनःसंस्कारप्रयोजकपापाप-नोदनार्थं प्रायश्चित्तात्मकः तत्र नित्यस्य कालोऽपि द्विविधःमुख्योगौणश्च तेषु मुख्यकालः “गर्भाष्टमेऽष्टमे वाव्दे ब्रा-ह्मणस्योपनायनम् राज्ञामेकादशे सैके विशामेके यथा-कुलम्” मनुः “गर्भादित्यस्य सर्वत्रानुषङ्गः यथाह आपस्तम्बः“गर्भाष्टमेषु ब्राह्मणमपनयेत् गर्भैकादशे राजन्यम् गर्भद्वादशेवैश्यम्” अत एव “अष्टमे वर्षे ब्राह्मणमुपनयेत् गर्भाष्टमेवा एकादेशे क्षत्रियम् द्वादशे वैश्यम् आश्व० सूत्रवृत्तौ “जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् गर्भप्रभृत्थष्टमेवा जन्मप्रभृति गर्भप्रभृति वा एकादशवर्षे क्षत्रियमुपन-येत् जन्मप्रभृति गर्भप्रभृति वा द्वादशेवर्षे वैश्यम् इतिनारायणोपाध्यायः शङ्खोऽप्याह “गर्भाष्टमाव्दे कर्त्तव्यंब्राह्मणस्योपनायनम् गर्भादेकादशे राज्ञो गर्भात्तु द्वादशेविशः” तत्रापि गर्भाष्टमादिरेव मुख्यःकालः अत एवमनुना यथाकुलमित्य नेन जन्मतोऽष्टमादीनां कुलानुसारेणग्राह्यतामात्रमुक्तम् तेनास्य कुलानुसारेण उभयोरपिमुख्यतेत्यपरे आहुः अतएवानयोः प्रशंसापि दृश्यते ।“प्राप्ते गर्भाष्टमे वर्षे शुद्धिर्यस्य विद्यते तस्योपनयनंकार्य्यं चैत्रे मीनगते रवौ” व्यवहारचमत्कारः “शुविर्नैवगुरुर्यस्य वर्षे प्राप्तेऽष्टसे यदि चैत्रे मीनगते भानौतस्योपनयनं शुभम्” नि० सि० स्मृ० अत्र शुद्धिश्च“रबिगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्ता रविगुर्वोर्गोचरश्रुद्धिः ।किञ्च “अष्टमैकादशे चैव द्वादशाव्दे व्रतस्य मुख्यंकालं विजानीयाद् ब्रह्मक्षत्रविशां क्रमात्” वचने अष्टमादि-वर्षाणां वर्ण्णभेदेन मुख्यत्वमाह “गर्भाष्टमेषु ब्राह्मणमुप-नयेत गर्भैकादशेषु क्षत्रियस्य गर्भद्वादशेषु वैश्यम्” गोभिलः“व्यक्तमाह माण्डव्यः “व्रतबन्धविवाहे वत्सरपरिगणनमाहुराचार्य्याः आधानपूर्व्वमेके प्रसूतिपूर्वं सदान्ये तु” ।काम्यकालः “ब्रह्मवर्चसकामस्य कुर्याद्विप्रस्य पञ्चमे राज्ञोबलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” मनुः “षष्ठे तुबलकामस्य विद्याकामस्य सप्तमे अष्टमे सर्वकामस्य, नवमेकान्तिमिच्छतः” नि० सि० विष्णुः अथ काम्यानि, सप्तमेब्रह्मवर्चसकामम्, अष्टमे आयुष्कामं नवमे तेजस्कामंदशमेऽन्नाद्यकामम्, एकादशे इन्द्रियकामम्, द्वादशे पशु-कामम् उपनयेत्” पैठो० गौणकालोऽपि द्विविधः मध्यमो-ऽधमश्च स्वल्पाधिकप्रायश्चित्तनिमित्तताभेदात् ब्रह्मक्षत्रिय-विशामुपक्रमे “द्वादश षोडश विंशतिश्चेदतीता अवरुद्ध-कालाभवन्ति” पैठी० ब्राह्मणस्य द्वादशवर्षात् क्षत्रस्यषोडशाव्दात् वैश्य स्य विंशत्यव्दात् उत्तरं अवरुद्धका-लतादोषश्रवणात् तत्र महाव्याहृतिहोमरूपं प्रायश्चित्तंविप्रादेः षोडशाद्यतीतत्वे चान्द्रायणादि गुरु प्रायश्चित्त-मिति भेदः एवमेव सं० त० रघु० तथा गौण-कालमध्ये द्वादशाब्दादयो मध्याः तदुत्तरमधम इति भेदःतत्राधमगौणस्तु “आषोडशाद् ब्राह्मणस्य सावित्री नातिवर्त्तते द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः”मनुः “आ षोडशाब्दात् द्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।ब्रह्मक्षत्रविशां काल औपनायनिकः परः” या० स्मृ० तत्रआ इत्यस्य सर्वत्रान्वयः आङ् चात्राभिविधौ मर्यादायाम्“षोडशाव्दो हि विप्रस्य राजन्यस्य द्विविंशतिः विंशतिःसचतुर्थी वैश्यस्य परिकीर्त्तिता” विष्णुध० उक्तेः अतःषोडशाद्यव्दानामुपनयकालता “अत ऊर्द्ध्वं त्रयोऽप्येतेयथाकालमसंस्कृताः सोवित्रीपतिताः व्रात्या भव-न्त्यार्य्यविगर्हिताः” मनुः अत्र सर्वत्र गर्भावधिषो-डशादव्दाग्राह्याः “सावित्री पतिता यस्य दश वर्षाणि पञ्चच ब्राह्मणस्य विशेषेणेति” यमवचने पञ्चदशवर्षातिक्रमेगुरुपायश्चित्तविधानात्” एतच्च जन्मावधिपरं तेन षोडशा-व्दादिभिः सममवविरुद्धम् एवमेव सं० त० रघु० पञ्च-दशपञ्च द्विमासाधिकपञ्चदशपरमिति कल्प्यते सर्वसा-मञ्जस्यात् अतएव “पञ्चदशवर्षादूर्द्धमपि कियत्कालातिक्रमेतूद्दालकव्रतमिति” वदता मिताक्षराकृता तथैव सूचितम् ।एवं तत्तर्ण्णभेदेन सामान्यकाले निरूपिते इदानीं शुभमूचकविशेषकालोऽभिधीयते तत्रादौ वर्णभेदेन ऋतुभेदस्य मु-ख्यता यथा प्रमि० कश्यपः “ऋतौ वसन्ते विप्राणांगीष्मे राज्ञां शरद्यथो विशां मुख्यञ्च सर्व्वेषां द्विजा-नाञ्चोपरायनम्” नारदः “शरद्ग्रीष्मवसन्तेषु व्युत्क्र-माच्च द्विजन्मनाम् मुख्यं साघारणं तेषां व्रतं माघा-दिपञ्चसु” नि० सि० गर्गः “विप्रं वसन्ते क्षितिपंनिदाघे वैश्यं घनान्ते व्रतिनं निदध्यात् माघादिशुक्रा-न्तकपञ्चमासाः साधारणं वा सकलद्विजानाम्” ।शुक्रोज्यैष्ठः माघादिमासप्राशस्त्यमाह हेमाद्रौ ज्योतिषे” ।“माघादिषु मासेषु मौञ्जी पञ्चसु शस्यते” अन्य-त्रापि “ब्राह्मणक्षत्रवैश्यानां माघादिष्वपि पञ्चसु ।साधारणं तु सर्व्वेषां व्रतोपनयनं विदुः” तत्र मास-भेदे फलभेदः यथाह व्यव० च० सुरेश्वरः” “माघे मासिभहागुणोधनपतिः प्राज्ञोधनी फाल्गुने मेधावी भवतिव्रतोपनयने चैत्रे वेदान्वितः वैशाखे सुभगः सुखीपटुमतिर्ज्यैष्ठे वरिष्ठोबुधोऽप्याषाढेऽपि महाविपक्षवि-जयी ख्यातो महापण्डितः” कृत्यचि० “माघेद्रविणशीलाढ्यः फाल्गुने दृढव्रतः चैत्रे भवतिमेधावी वैशाखे कोविदोभवेत् ज्यैष्ठे गहननीतिज्ञआषाढे कतुभाजनम् शेषेष्वन्येषु रात्रिः स्यान्निषिद्धंनिशि ब्रतम्” निषिद्धमिति विप्रक्षत्रियविषयं वैश्यपरं तस्य “शरदि वैश्यमिति” श्रुत्या प्रागुक्तकाश्यपेन चशरय्युपनयनविधानात् यत्तु “विप्रस्य क्षत्रियस्यापिव्रतं स्यादुत्तरायणे दक्षिणे विशां कार्य्यं नानध्यायेन संक्रमे” इति गर्गवचने चकारात् विप्रक्षत्रयोर्द-क्षिणायने उपनयविधानं तत् प्रायश्चित्तोपनयनपर-नितिं स० त० रघु० वस्तुतः चस्त्वर्थे दक्षिणायनेतु वैश्यस्य मुख्योपनयनपरम् “उदगयने आपूर्य्यमाणे पक्षेकल्याणे नक्षत्रे चूडोपनयनगोदानविवाहाः” आश्व०सूत्रं तु विप्रक्षत्रविषयम् प्रायश्चित्तोपनयनपरत्वे “ना-नध्याये संक्रमे” इति पर्य्यृदासानुपपत्तिः अग्रे प्रदर्श-यिष्याणगर्गवचनेन प्रायश्चित्तोपनयनस्यानध्यायेऽपि कर्त्तव्य-तावगमात् “जन्मलग्ननक्षत्रमासराशिषु उपनयनप्राशस्त्य-माह” कृत्यचि० लल्लः “जन्मोदये जन्मसु तारकासुमासेऽथवा जन्मनि जन्मभे वा व्रतेन विप्रो बहु-श्रुतोऽपि विद्याविशेषेः प्रथितः पृथिव्याम्” “विवाहेमेखलावन्धे जन्ममासं विवर्ज्जयेत् विशेषाज्जन्मपक्षन्तुवशिष्ठाद्यैरुदाहृतम्” गर्गवाक्यं तु क्षत्रियवैश्यपरम् नतु ब्राह्मणविषयं लल्लवाक्यविरोधात्” अथ पक्ष-निर्ण्णयः व्य० च० “श्रेष्ठं पक्षमुशन्ति शुक्लमसितस्याद्यंत्रिभागं तथा रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोःसन्धिञ्च शेषाः शुभाः” इति आपूर्य्यमाणे पक्षे इत्या-दिप्राप्रक्ताश्वलायनसूत्रम् “पक्षे कृष्णेतरेः” भुज-बलभीमः तिथिनिर्णयः निर्णया० “तृतीयैकादशीग्राह्या पञ्चमी द्वादशी तथा” “द्वित्रीषु रुद्ररविदिक्-प्रमिते तिथौ कृष्णादिमत्रिलवकेऽपि चापराह्णे”मु० चि० निर्ण्णया० व्यव० चम० “न षष्ठ्यामथा-ष्टम्यां पञ्चदश्यां पर्व्वणि रिक्तासु कर्त्तव्यंत्र्यहस्पृग्दिवसे तथा” अष्टमीपञ्चदश्योरनध्य यत्वेऽपिपृथगुपादानं नैमित्तिकविषयमेवमग्रेऽपि “षष्ठ्यामशुचिरभार्य्यो रिक्तासु बहुदोषभाक्” सं० त० “रिक्तायाभर्थहानिस्यात् पौर्ण्णमास्यान्तथैव प्रतिपद्यपि चाष्टम्यां कुलवुद्धिविनाशनमिति” अन्यत्रापि “सप्तम्यामष्टम्याम्प्रतिपदि रिक्तात्रयोदश्याम् आयुर्व्विद्यानाशोब्रतवन्धेपञ्चदश्याञ्च” “द्वितीया पञ्चमी षष्ठी सप्तमी दशमी तथा ।त्रयोदशी तृतीया शुक्ले श्रेष्ठोः प्रकीर्त्तिता” इत्यत्र स-सप्तमीत्रयोदश्योर्यंत् प्राशस्त्यमुक्तं तद्वसन्ताभिप्रायेण ।नि० सि० नारदेन व्यतिरेकमुखेण वसन्ते गलग्रहादि-प्रतिप्रसवोक्तेः यथा “विनर्त्तुना वसन्तेन कृष्णपक्षे गल-ग्रहे अपराह्णे चोपनीतः पुनः संस्कारमर्हति” ।गलग्रहमाह मदनरत्ने नारदः “कृष्णपक्षे चतुर्थी सप्त-म्यादिदिनत्रयम् त्रयोदशी चतुष्कञ्च अष्टावेते गल-ग्रहाः” रा० मा० “आरम्भानन्तरं यत्र प्रत्यारम्भोनविद्यते गर्गादिमुनयः सर्व्वे तमेवाहुः गलग्रहम्” ।दैवज्ञमनोहरे “प्रदोषे निश्यनध्याये सन्ध्यागर्ज्जे गल-ग्रहे मधुं विनोपनीतस्तु पुनः संस्कारमर्हति” एवं दिवा-चतुर्द्ददीगस्त्रयोदृश्यां यदा भवेत् द्वादशी तत्र वर्ज्ज्यास्यात् गलग्रहतया मतेति ज्यो० वचनात् तादृशद्वादश्या-वर्ज्यता वृद्धगर्गः “स्मृतिषूक्तान ध्यायान् सप्तमीञ्चत्रयोदशीम्” वर्जयेदित्यनुषङ्गः तत्रानध्यायप्रदोषकालौअनध्यायशब्दे १४५ पृ० दर्शितौ “अनध्याययेऽपि कर्त्तव्यंयस्य नैमित्तिकं भवेत्” वृद्धगर्गवचनात् “प्रायश्चित्तोप-नयनेऽनध्यायस्य दूषकताऽपिकारात् कृष्णपक्षगल-ग्रहायीः समुच्चयः “नो जीवास्तातिचारे सितगुरु-दिवसे कालशुद्धौ व्रतं सत्” दीपिकोक्तेः समया-शुद्धिमात्रं वर्ज्जनीयम् गुरुशुक्रास्तादिषूपनयने दोष-माह तत्रैव “अस्तङ्गते दैत्यगुरौ गुरौ वा ऋक्षेऽपिवा पापयुतेऽप्यनुक्ते व्रतोपनीतो दिवसैः प्रणाशं प्रयातिदेवैरपि--रक्षितोयः” नक्षत्रनिर्णयः सं० त० भुजब०“स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरिष्विन्दौतोयपतौ भगे दितिसुते भाद्रद्वये सागरे” १५, १८, २३, १, १७, १३, २७, ८, १४, २२, ५, २४, ११, १२, २५, २६, २०एतत्संख्यकेषु सप्तदशसु नक्षत्रेषु उपनयनं सत् मु० चि०प्रमि० विशेषः “क्षिप्रध्रुवाहिचरमूलमृदुत्रिपूर्वारीद्रेऽर्क-विद्गुरुसितेन्दुदिने व्रतं सत्” अस्य व्याख्या प्रमि०“प्राजापत्यादि षडृक्षे भगर्क्षादिषु पञ्चसु मूलादिदशकेचैव समैत्रे व्रतबन्धनम्” तेन २२ द्वाविंशतिर्नक्षत्राणिविहितानि अत्र पुनर्वसुग्रहणं क्षत्रियवैश्यविषयं तुब्राह्मणविषयम् “पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीतिराजमा० “त्र्यहस्पृशि मले मासि शूद्रत्वमधिगच्छति ।पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीति” सारसंग्रहे”च विप्रोपनयननिषेधात् तथा “भरणीकृत्तिकाम-घाविशाखाज्येष्ठासूपनयनं कार्य्यम् एतानि नक्ष-त्राणि सर्वशास्वामलयप्रायाणि यथोक्तं तत्रैव “भरणीकृत्तिकापित्र्यविशाखाशक्रभानि सर्वशाखामलं प्रोक्तंव्रतं तत्र विवर्ज्जयत्” वेदिभेदे नक्षत्रभेदो यया ज्यो-तिर्निबन्धे व्यव० च० “मूलहस्तात्रये सार्पे शैवे पूर्वात्रयेतथा “ऋग्वेदाध्यायिनां कार्यं मेस्वलाबन्धनं बुधैः” १९, १३, १४, १५, ९, ६, ११, २०, २५, एतन्मितानिऋग्वेदिविषयाणि “पुष्ये पुनर्वसौ पौष्णे २७ हस्तेमैत्रे १७ शशाङ्कभे ध्रुवेषु १२, २१, २६, चप्रशस्तं स्याद्यजुषां मौञ्जीबन्धनम्” पुष्यपासव २३ हस्ता-श्विशिव६ कर्णोत्तरात्रयम् २२, १२, २१, २६ प्रशस्तंमेखलाबन्धे वटूनां सामगायिनाम्” भगो ११ मैत्रा १७श्विनीहस्तारेवत्यदिति वासवम् २३ अथर्वपाठिनां श-स्तोभगणोऽयं व्रतार्पणे” नि० सि० “पूर्वा ११, २०, २५, हस्तात्रये १३, १४, १५, सार्पे श्रुतिमूले” २२, २९, बह्वृ-चाम् यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः साम-गानां हरीशार्कवसुपुष्योत्तराश्विनी धनिष्ठादितिमैत्रार्का-श्वेन्दुपौष्णेष्वथर्वणाम्” ५, २७, अन्यत्रापि “पूर्वा-हस्तत्रयाऽश्लेषाशिवमूलानि भानि ऋग्वेदाध्यायिनांशस्तभान्याहुर्ब्रतबन्धने उत्तरारोहिणीयुग्मपुष्यापौष्णक-रादितौ मेत्रे यजुर्विदाञ्चोपनयनन्तु प्रशस्यते उत्तरा-श्रवणार्द्राश्विपुष्याहस्ताधनेषु सामगानां व्रतं शस्तमिति वेदविदोविदुः अश्विनी रेवती हस्ता भगमैत्र-धनादितौ अथर्व्ववेदिनाञ्चोपनयनन्तु शुभावहमिति”प्रमि० धृतप्रागुक्तवचने ज्येष्ठायामलत्वेनोक्तावपि प्रागुक्तभुजजलादिवचने “अश्विनीमृगचित्रासु हस्ते स्वात्याञ्चशक्रभे पुष्ये पूर्व्वफल्गुन्यां श्रवणे पौष्णभे तथा ।वासवे शततरासु व्रतबन्धः प्रशस्यते” श्रीपतिवचनेच ज्येष्ठायाग्रहणमत्यन्तापद्विषयम् वेदभेदेन विहितनक्षत्रेषु तस्याः अकीर्त्तनेऽपि वेदभेदेन प्राशस्त्यमात्रत्वप्रतीतेस्तदलाभेऽन्यवेदिविहितनक्षत्रस्यापि ग्रहणार्थं मुहू०चि० द्वाविंशतिनक्षत्राणां सामान्यतो ग्रहणवदत्रापि तथेतिबोध्यम् ज्येष्ठायास्त्वत्यन्तापद्विषय एव ग्राह्यता केष्वपि वेदिषुतदनुक्तेःव्यव० च० गुरुः “त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रेच वासवे त्वाष्ट्रे सौम्यपुनर्वस्वोरुत्तमं ह्यौपनायनम् ।वारुणे वैष्णवे पुष्ये वायव्ये पौष्णभे तथा अश्विन्यांषट्सु भेषूक्तं मध्यमं तु चतुर्मुखैः शेषेषु वर्जयेद्धी-मान् द्विजानामौपनायनम्” अत्रान्येषां वर्ज्ययोक्तिरपिअनापद्विषया” एतदरिक्तनक्षत्राणां प्रागुक्तवचनैर्विहि-त्वात् ज्योतिर्निबन्धे नारदः “श्रेष्ठान्यर्कत्रयान्त्येज्य-चन्द्रादित्युत्तरात्रयम् बिष्णुत्रयाश्विमित्राब्जयोनिभान्यु-पनायने” वर्जनीययोगानाह व्यव० च० गुरुः “व्याघातंपरिघं वज्रं व्यनीपातञ्च वैधृतिम् गण्डातिगण्डौ शू-लञ्च विस्कुम्भञ्च विवर्ज्जयेत्” अन्यत्रापि “विष्कुम्भ-शूलपरिघव्यतिपातगण्डव्याघातवैधृतियुतं त्वतिगण्डव्रज्रम् योगं विहाय कुजमन्दपराह्णसन्ध्यां हित्वा निरंशमशुभञ्च व्रतं प्रशस्तम्” प्रमिता० “क्षीणचन्द्रेऽस्तगेशुक्रे निरंशे चैव भास्करे कर्त्तव्यं नोपनयनं नान-ध्याये गलग्रहे” निरंशसूर्यमाह तत्रैव “राशेःप्रथमभागस्थो निरंशः सूर्य उच्यते” तेन रघुनन्दनेननिरंशशब्दस्य संक्रान्तिपरत्वस्य कल्पनं चिन्त्यम् वारनिर्ण-यमाह नारदः “आचार्य्यसौम्यकाव्यानां वाराः शस्ताःशशीनयोः वारौ मध्यफलौ प्रोक्तावितरौ निन्दितौ व्रते”तत्राप्यस्तमितस्य बुधस्य वारोवर्जनीयः “अस्तं गतस्यसौम्यस्य वारो वर्ज्योद्विजन्मनामिति” नारदोक्तेः अन्य-त्र तु “शुभो बुधोनास्तमितः पापग्रहयुतो चेति” ।चन्द्रवारस्तु कृष्णे वर्ज्जनीयः “पापग्रहाणां वाराःस्युर्न शुभाश्चन्द्रवासरः सितपक्षे प्रशस्तः स्यात्कृष्णे वारोविधोनंहीति” व्य० च० उक्तेः सामागानांकुजवारेऽप्युनयनमुक्तं श्रीपतिना “शाखाधिपे बलिनिकेन्द्रगतेऽथवास्मिन् वारेऽस्य चोपसयनं कथितंद्विजानाम् नीचस्थितेऽरिगृहगेऽऽथ पराजिते वा जीवे-मृगावुपनयः स्मृतिकर्महीनः” ज्योतिर्निवन्धे नारदः“सर्वषा जीवशुक्र ज्ञवाराः प्रोक्ता व्रते शुभाः चन्द्रार्कौ मध्यमौ ज्ञेयौ सामब हुजयोः कुजः शाखाधिपति-वाराश्च शाखाधिपबलं तथा शाखाधिपतिलग्नञ्च दुर्लभंत्रितयं व्रते” मु० चि० “शाखेशवारतनुवीर्य्यमतीवशस्तं शाखेशसूर्यशशिजीवबले व्रतं सत् जीवे भृगौ रिपुगृहे विजितेऽथ नीचे स्याद्वेदशास्त्रविधिना रहितो-व्रतेन” वशिष्ठः “शाखेशगुरुशुक्राणां मौढ्ये बाल्येच वार्द्धके नैवोपनयनं कार्य्यं वर्णेशे दुर्बले सति” ।तेन भौमबुधयोरस्तादिषु सामगाथर्वणशाखिनोरुपन-यनादि भवतीति गम्यते तत्र नीचाद्यवस्थितत्वे स्वनवां-शस्वोच्चांशस्थितत्वेन शाखेशादेरपवादमाह वशिष्ठः “शत्रु-नीचांशशत्रुस्थे स्वांशे वा स्वोच्चभागगे शाखेशे वा गुरौशुके नीचफलमश्नुते” शाखेशवर्णेशास्तु “विप्राधीशौ भार्गवेज्यौ कुजार्कौ राजन्यानामोषधीशोविशाञ्च ।शूद्राणां ज्ञश्चान्त्यजानां शनिः स्याच्छाखेशाःस्युर्जीवशुक्रार-सौम्याः” मु० चि० “ऋग्वेदाऽथ यर्जुर्वेदः सामवेदो-ह्यथर्वणः वेदानामधिपोजीवशुक्रभौमबुधाः क्रमात्”गुरुः “ऋग्वेदाधिपतिर्जीवोयजुर्व्वेदाधिपो भृगुः ।सामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट” दीपिका ।लग्नभेदे फलमाह व्यव० च० वशिष्ठः “मेषे भवतिवाक्कुण्ठो वित्तविद्यार्ज्जितो वृषे युग्मे वेदार्थदर्शी चकुलीरे षडङ्गवित् शिल्पकर्म्मकरः सिंहे षष्ठे भवतिपण्डितः तुलायां विनयप्राप्तः काण्डस्पृष्ठोऽथ दृश्चिके ।सर्व्वत्र पूजितश्चापे शूद्रवृत्तिर्मृगे तथा राजप्रेष्यान्वितःकुम्भे मीने वेदान्तपारगः” लग्नकेन्द्रस्थरव्यादि ग्रहफल-माह मु० चि० “राजसेवी वैश्यवृत्तिः शस्त्रवृत्तिश्च पाठकःप्राज्ञोऽर्थवान् म्लेच्छसेवी केन्द्रे सूर्य्यादिखेचरे” व्यव०च० गुरुः “रवौ लग्नादिकेन्द्रस्थे दोषः स्फुरित-संज्ञकः तत्रोपनीतस्य शिशोः कुलनाशो भवेत् तदा, कुजे लग्नादिकेन्द्रस्थे दोषः कूजितसंज्ञकः तत्रोपनीतंवक्तारं हन्ति वर्षान्न संशयः शनौ लग्नादिकेन्द्रस्थे दोषो-रुदितसंज्ञकः करोति महतीं पीडां व्रतिनो वा गुरो-स्तथा राहौ लग्नादिकेन्द्रस्थे दोषोरन्ध्राह्वयोभवेत् ।व्रातनोजननीं हन्ति चाथबा धनसञ्चयम् केतौलानादि-केन्द्रस्थे दोषश्च ग्राससंज्ञकः समग्रं व्रतिनोवृत्ति-वित्तविद्याविनाशनम्” लग्नषष्ठाष्टमान्त्यस्थः करोत्येवनिशाकरः व्रतिनोदेहमथनं निधनं दुःखसञ्चयम्” ।वशिष्ठः “विशेषान्निधनस्थाने ग्रहान्नेच्छन्ति सर्व्वदा ।आचार्य्यन्त्वशुभा घ्नन्ति शिष्यं घ्नन्त्यशुभेतराः” “केन्द्र-त्रिकोणगे जीवे भानौ शुक्रेऽथवा व्यये द्वितीये ज्ञेशुभोयोगो द्विजानामौपनायने” लग्नावधिकस्थानमेदेग्रहविशेषस्थितौ फलभेदमाह काश्यपः “षष्ठाष्टमं विनाजीवः सर्व्वत्र शुभकृत् सदा सर्व्वत्र शुभकृच्छुक्रः षष्ठसप्ता-ष्टमं विना भास्करोलग्नगः कुर्य्याद्वटुं भूपतिसेवकम् ।वसुस्थः स्वर्णरहितं भ्रातृस्थः सुखिनं सदा बन्धुगोदुः-खिनं नित्यं सुतगोमतिवर्ज्जितम् शत्रुगोरोगरहितं स-प्तमे मार्गवर्ज्जितम् अष्टमे दृष्टिरहितं नवमे धर्म्म-हारिणम् व्यापारगोभिषग्वृत्तिं दीर्घायुष्यं तथाऽऽयगः रिप्फगोहानियुक्तञ्च फलमेतद्गुरावपि सितेचन्द्रे लग्नसंस्थे शुभं स्यादसितेऽशुभम् वसुगे स्याद्धनप्रा-प्तिस्तृतीये सुखसंस्थितिः चतुर्थे बुद्धिवृद्धिं पञ्चमे सौ-ख्यमुत्तमम् षष्ठे तु व्याधिपीडा स्यात् सप्तमे सुखस-न्ततिः अष्टमे निर्धनः प्राणी नवमे धर्म्मसञ्चयः दश-मे स्यात् सदाचारो लाभे स्याद्धनसञ्चयः दारिद्र्यं रि-प्फगे विद्याच्चन्द्रे फलमुदाहृतम् मृतिर्नाशः सुखं कार्य्यहानिर्वृद्धिर्मृतिर्गदः अधर्मोदुम्मतिर्वृद्धिर्नाशो लग्नात्कुजे फलम् बुद्धिर्वृद्धिर्वित्तनाशो लाभः पुत्रोमृतिःसुखम् आयुःक्षयो धर्मसौख्ये कोषलाभः क्षयः क्रमात्सौम्ये लग्नादिराशीनां फलमेतदुदाहृतम् निन्दां हानिंसुखं रोगं द्यूतङ्कामं जडं मतिम् विपत्क्लेशं सुखंमृत्युमुदयात् कुरुते शनिः चन्द्रे विशेषमाह लल्लः ।“पापात् सप्तमगञ्चन्द्रं पापग्रहेण वा युतम् व्रते विव-र्ज्जयेद् यत्नाद्दोषमाहुर्मनीषिणः तत्फलं तत्रैव “पाप-ग्रहात् सप्तमगं शशाङ्कं पापग्रहेणापि युतञ्च हित्वा ।ब्रतं प्रशस्तं मुनयोवदन्ति नोचेत्तदा मृत्युमुपैति शीघ्रम्” ।गुरुस्तु “पापग्रहेक्षिते लग्ने जीवितार्थी कारयेत् ।चन्द्रो वा क्रूरदृग्युक्तो मूढत्वं संप्रयच्छति” ।वर्ज्ययोगमाह मु० चि० “कवीज्यचन्द्रलग्नपारिपौमृतौ व्रतेऽधमाः व्ययेऽब्जभार्गवौ तथा तनौमृतौ सुते खलाः” अन्यत्रापि “लग्नाघिनाथसितजीवनिशाधिनाथान् षष्ठाष्टमे व्ययगतावपि चन्द्रशुक्रौ ल-ग्नाष्टपञ्चमगतानशुभग्रहांश्च यत्नात् त्यजेद्व्रतविधौमुनयोवदन्ति” सारसंग्रहे “मेखलाबन्धकाले तु सर्व्वदापञ्चमङ्गृहम् शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा” ।योगान्तरमाह प्रमि० महेश्वरः “जीवे लग्नमधिष्ठितेभृगुसुते धर्मात्मजस्थे विधौ शुक्रांशेऽखिलवेदविद्रविसुत-स्यांशे कृतघ्नोऽधमः” तत्रैव एव “विधौ सितांशगेगुरौ तनौ त्रिकोणगे भृगौ समस्तवेदविद्व्रती यमांशके-ऽतिनिर्घृणः” नवांशफलमाह व्यव० च० गुरुः “गुरु-ज्ञशुक्रांशकगे चन्द्रे विद्याधनायुःसुखवान् द्विजन्मा ।माहेयमन्दार्कनवांशकस्थे हिंस्रो जडो मूर्खतरीऽतिनिःस्वः”मु० चि० “क्रूरो जडो भवेत् पापः पटुः षट्कर्म-कृद्वटुः यज्ञार्थभाक् तथा मूर्खोरव्याद्यंशे तनौ क्रमात् ।विद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः ।चन्द्रे स्वलवे बहुदुःखयुतः कर्णादितिभे धनवान् स्वलवे” ।प्रमि० नारदः “श्रवणादितिनक्षत्रे कर्कांशस्थे निशा-करे तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्” ।एतच्छुक्लपक्षविषयम् “शुक्ले स्वांशे निशानाथे वित्तवान्यज्ञकृद्भवेत् कृष्णे स्वांशगतश्चन्द्रोजातिभ्रंशङ्करोति हि”वशिष्ठोक्तेः “रविगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्तेर्व्रते गुरु-शुद्धिरावश्यकी तत्र गुरुशुद्धौ विशेषमाह” मु० चि०“वटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः श्रेष्ठोगुरुः खषट्त्र्याद्ये पूजयाऽन्यत्र निन्दितः” “स्वोच्चे स्वमे स्वमैत्रेवा स्वांशे वर्गोत्तमे गुरुः रिप्फाष्टतुर्य्यगोऽपीष्टो नीचा-रिस्थः शुभोऽप्यसन्” अत्र जीवस्य नीचस्थत्व इव अरि-गृहस्थत्वेऽपि वर्ज्यता प्रतीयते अतएव “जन्मभादष्टमेसिंहेनीचे वा शत्रुभे गुरो! मौञ्जीबन्धः शुभः प्रोक्त-श्चैत्रे मीनगते रवाविति” निर्णयसिन्धुधृतवचने मीन-गतरविकालएव प्रतिप्रसवसार्थक्यम् एतेन “शाखाधिपेबलिनि” इत्यादिवाक्ये उपक्रमे शाखाधिपश्रवणात्गुरोररिगृहस्थत्वे तस्य ऋग्वेदाधिपतया तद्वेदिनामेवो-पनयननिषेधकल्पनमपि निरस्तम् “शाखेशसूर्य्यशशिजीवबले”इत्यादिप्रागुक्तवचने शाखेशात् पृथक्त्वेन जीवस्य ग्रहणे-नारिगृहस्थत्वेऽपि सर्ववेदिनां दोषस्यावश्यकत्वात् एतेन“नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ”इत्यादिवचने क्रमान्वयं वदन् परास्तः तथात्वे प्रति-प्रसवानर्थक्यापत्तेः अन्यदाकरे दृश्यमिति दिक्तत्तद्विद्याग्रहणार्थे कर्म्मभेदे तत्र चिकित्साविद्याङ्गोपनयनप्रकारो दर्शितः सुश्रुतेन यथा ।“अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः ।ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचा-चारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनु-जिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेश-सहञ्च भिषक् शिष्यमुपनयेत् ततो विपरीतगुणं नोपनयेत्उपनयनीयस्तु ब्राह्मणः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषुप्रशस्तायां दिशि शुचौ समेदेशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुप-लिप्य गोमयेन दर्भैः संस्तीर्य पुष्पैर्लाजभक्तैरत्नैश्च देवतांपूजयित्वा विप्रान् भिषजश्च, तत्रोल्लिख्याभ्युक्ष्य दक्षिणतोब्रह्माणं स्थापयित्वाग्निमुपसमाधाय खदिरपलाशदेवदारु-विल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां न्यग्रोधोडुम्बरा-शात्थमधूकानां दधिमधुघृताक्ताभिः, दर्व्व्या हौमिकेनविधिना स्रुवेणाज्याहुतीर्जुहुयात् सप्रणवाभिर्महाव्या-हृतिभिस्ततः प्रतिदैवतमृषींश्च स्वाहाकारञ्च कुर्यात् शि-ष्यमपि कारयेत् ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्त्तुमर्हति राजन्यो द्वयस्य, वैश्यो वैश्योस्यैवेति शूद्रमपिकुलगुणसम्पन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके ततो-ऽग्निं त्रिःपरिणीयाग्निसाक्षिकं शिष्यं ब्रूयात् काम-क्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायश-स्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा स-त्यव्रतब्रह्मचर्याभिवादनतत्परेणाऽवश्यं भवितव्यं मदनुम-तस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहि-तेषु वर्त्तितव्यमतोऽन्यथा ते वर्त्तमानस्याधर्मो भवत्यफलाच विद्या प्राकाश्यं प्राप्नोति अहं वा त्वयि सम्य-ग्वर्त्तमाने यदन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च ।द्विजगुरुदरिद्रमित्रप्रब्रजितोपनतसाध्वनाथाभ्युपगतानांचात्मबान्धवानामिव स्वभेषजैः प्रतिकर्त्तव्यमेवं साधु भ-वति व्याधशाकुनिकपतितपापकारिणां प्रतिकर्त्तव्यमेवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्रा-प्नोति” एवं धनुर्विद्याग्रहणाङ्गमप्युपनयनं द्रष्टव्यम् ।उपनयनाय हितम् उपनयनीय उपनयनावेदकेशास्त्रे
त्रि०
तत्र साधु उपनयनीय उपनयनकारकेगुरौ
पु०
उभयस्य उदा० उक्त सुश्रुतवाक्ये दर्शितम्
Capeller
German
उपनयन
n.
dass., Aufnahme eines Schülers,
Weihe, Darbringung.
Stchoupak
French
उप-नयन-
nt. fait de conduire vers ou près de
initiation
religieuse de l'étudiant brâhmanique, instruction spirituelle
°नायन-
id.