| YouTube Channel

उपनतः (upanataH)

 
E Bharati Sampat
Sanskrit
(वि) उप+णम(प्रह्वत्वे शब्दे)+क्तः। ‘गत्यर्थाकर्मक०’ ३.४.७२। १.समीपमागतः। ‘इदमुपनतमेवं रूपमक्लिष्टकान्तिः प्रथमपरिगृहीतं स्यान्नवेति व्यवस्यन्’ शाकु०५.१९। २.नम्रः। ‘तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः’ रघुः१७.८१। ३.प्राप्त ‘अथ प्रभावोपनतैःकुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः’ रघुः ५.५२।
शब्दकल्पद्रुमः
Sanskrit
उपनतः, त्रि, (उप + नम् + क्त ।) उपस्थितः इतिहेमचन्द्रः
(“अचिरोपनतां मेदिनीं” इतिरघुः
नम्रः यथा, माघे १२ ३३ ।“शौरेः प्रतापोपनतैरितस्ततःसमागतैः प्रश्रयनम्रमूर्त्तिभिः”
)