उपदेशः (upadezaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishउपदेशः [upadēśḥ], 1 Instruction, teaching, advice, prescription
एष आदेशः, एष उपदेशः Tait. 1.11.4. सुशिक्षितो$पि सर्व उपदेशेन निपुणो भवति 1 (see the act inter alia)
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः 1.3
अचिरप्रवृत्तोपदेशं नाट्यम् 1, 2.1
2.3
8.272
29
12.57
26
6
परोपदेशे पाण्डित्यम् 1.99.
Pointing out or referring to
शब्दानामितरे- तरोपदेशः Nir.
Specification, mentioning, naming.
A plea, pretext.
Initiation, communication of an initiatory Mantra or formula
चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥
(In ) A form in a rule, an indicatory form (any word or part of a word, such as an affix, augment with itsanubandhas which show what particular grammatical rules are to be applied. उपदेश आद्योच्चारणम् Sk. -अर्थवाक्यम्, -वचनम् a parable, moral fable. -साहस्री of a philosophical work by Śaṅkarāchārya.
Apte 1890
Englishउपदेशः 1 Instruction, teaching, advice, prescription
सुशिक्षितोपि सर्व उपदेशेन निपुणो भवति M. 1 (see the act inter alia)
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः Ku. 1. 30
अचिरप्रवृत्तोपदेशं नाट्यं M. 1, 2. 10
Ś. 2. 3
Ms. 8. 272
Amaru. 26
R. 12. 57
K. 26
M. 6
परोपदेशे पांडित्यं H. 1. 103.
2 Pointing out or referring to: शब्दानामितरेतरोपदेशः Nir.
3 Specification, mentioning, naming.
4 A plea, pretext.
5 Initiation, communication of an initiatory Mantra or formula
चंद्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मंत्रमात्रप्रकथनमुपदेशः स उच्यते ॥.
6 (In gram.) A form in a rule, an indicatory form
any word or part of a word, such as an affix, augment &c. with its anubandhas which show what particular grammatical rules are to be applied.
Comp.
अर्थवाक्यं,
वचनं a parable, moral fable.
सहस्री N. of a philosophical work by Śaṅkarācārya.
Hindi
Hindiसलाह
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiउपदेशः
- उप+दिश्+घञ्
"शिक्षण, अध्ययन, नसीहत, निर्देशन"
उपदेशः
- उप+दिश्+घञ्
"विशिष्ट निर्देश, उल्लेख"
उपदेशः
- उप+दिश्+घञ्
"व्यपदेश, बहाना"
उपदेशः
- उप+दिश्+घञ्
"दीक्षा, दीक्षा-मन्त्र देना"
E Bharati Sampat
Sanskrit(पुं) शिक्षणम् । उप+दिश(अतिसर्जने)+घञ् । ‘भावे’ ३.३.१८। १.बोधनम् । ‘उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः। श्यामायते न विद्वत्सु यः काञ्चनमिवाग्निषु’ माल०२.९। २.हितबोधकः। ३.सूर्यचन्द्रग्रहणपुण्यकाले पुण्यक्षेत्रे स्तोत्रपाठः। ४.व्याकरणाशास्त्रप्रर्तकैः प्रथमोच्चरितम् । ‘धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशाःउपदेशाः प्रकीर्तिताः॥’
Wordnet
Sanskrit मर्शनम्, मन्त्रणम्, उपदेशः
बोधनस्य क्रिया।
"विद्यालये मर्शनस्य समये सर्वे नूतनाः छात्राः उपस्थिताः आसन्।"
विशेषवर्गम्, अध्यापनम्, शिक्षणम्, उपदेशः
विद्यालयस्य समयाद् अतिरिक्ते समये कञ्चित् शुल्कं स्वीकृत्य शिक्षकेण कृतं पाठनम्।
"इदानींतनीये काले छात्राः विशेषवर्गे एव पठितुम् इच्छन्ति।"
सूचना, उपन्यासः, उपक्षेपः, प्रस्तावः, मन्त्रणम्, उपदेशः, बुद्धिः
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
"अस्मिन् विषये भवानपि सूचनां करोतु।"
उपदेशः, शिक्षा, अनुदेशः
हितकारकं कथनम्।
"भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।"
उपदेशः
एका लेखनपद्धतिः यस्यां मन्त्रमात्र कथनं वर्तते ।
"प्रत्येकस्मिन् शास्त्रे उपदेशग्रन्थं वर्तते"
उपदेशः
उपग्रन्थानां वर्गः ।
"उपदेशस्य उल्लेखः बौद्धसाहित्ये अस्ति"
शब्दकल्पद्रुमः
Sanskritउपदेशः, (उप + दिश् + घञ् ।) मन्त्रकथनम् ।तत्पर्य्यायः । दीक्षा २ । यथा ।“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।मन्त्रमात्रप्रकथनमुपदेशः स उच्यते” ॥
इति रामार्च्चनचन्द्रिका ॥
कलावत्यादिदीक्षाया-मसामर्थ्ये संक्षेपो यथा ।“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् ।तदम्बुनाभिषिच्याष्टवारं मूलेन केकरम् ॥
निधायाष्टौ जपेत् कण उपदेशे त्वयं विधिः” ॥
इति विश्वसारतन्त्रम् ॥
हितकथनम् ।(यथा, हितोपदेशे विग्रहे उक्तम् ।“उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये” ॥
)शिक्षणम् ॥
(यथा, मनुः ८ । २७२ ।“धर्म्मोपदेशं दर्पण विप्राणामस्य कुर्व्वतः” ।“एवमित्युपदेशः । यथा । तथा न जागृयात्रात्रौ दिवास्वप्नञ्च वर्जयेदनेन कारणेनेत्युपदे शः ॥
अथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति” ।इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“दिश अतिसर्जने”@} 2 अतिसर्जनम् = त्यागः, दानं च।
देशकः-शिका, देशकः-शिका, 3 दिदिक्षकः-क्षिका, देदिशकः-शिका
4 उपदेष्टा-ष्ट्री, देशयिता-त्री, दिदिक्षिता-त्री, देदिशिता-त्री
5 दिशन्-ती, देशयन्-न्ती, दिदिक्षन्-न्ती
-- देक्ष्यन्-न्ती-ती, देशयिष्यन्-न्ती-ती, दिदिक्षिष्यन्-न्ती-ती
-- दिशमानः, देशयमानः, दिदिक्षमाणः, देदिश्यमानः
देक्ष्यमाणः, देशयिष्यमाणः, दिदिक्षिष्यमाणः, देदिशिष्यमाणः
6 दिक्-दिग्-दिशौ-दिशः, दिशा
-- -- -- 7 दिष्टम्-दिष्टः-दिष्टवान्, देशितः, दिदिक्षितः, देदिशितः-तवान्
8 दिशः, 9 उपदेशी, प्रादेशिनी, देशः, दिदिक्षुः, देदिशः
देष्टव्यम्, देशयितव्यम्, दिदिक्षितव्यम्, देदिशितव्यम्
देशनीयम्, देशनीयम्, दिदिक्षणीयम्, देदिशनीयम्
देश्यम्, देश्यम्, दिदिक्ष्यम्, देदिश्यम्
10 ईषद्देशः-दुर्देशः-सुदेशः
-- -- -- दिश्यमानः, देश्यमानः, दिदिक्ष्यमाणः, देदिश्यमानः
11 देशः, 12 प्रादेशः, सन्देशः, उपदेशः, देशः, दिदिक्षः, देदिशः
देष्टुम्, देशयितुम्, दिदिक्षितुम्, देदिशितुम्
दिष्टिः, 13 दिष्टिः, देशना, दिदिक्षा, देदिशा
देशनम्, देशनम्, दिदिक्षणम्, देदिशनम्
दिष्ट्वा, देशयित्वा, दिदिक्षित्वा, देदिशित्वा
अतिदिश्य, उपदेश्य, प्रदिदिक्ष्य, प्रदेदिश्य
14 नाम्न्यादेशं नामादिश्य वा युध्यन्ते।
देशम् २ देष्ट्वा २ देशम् २ देशयित्वा २ दिदिक्षम् २ दिदिक्षित्वा २ देदिशम् २
देदिशित्वा २।
01 (८४१)
02 (६-तुदादिः-१२८३। सक। अनि। उभ।)
03 [[१। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति तकारस्य ककारे च रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04 [[२। तृचि, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षकारे, तकारस्य, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारे च रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
05 [[३। शतरि, ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य शित्त्वेन सार्वधातुकत्वाद् ङिद्वद्भावातिदेशाच्चाङ्गस्य गुणो न। एवं शानजन्तेऽपि ज्ञेयम्।]]
06 [[४। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिग्--’ (३-२-५९) इत्यादिना क्विन्नन्तो निपातितः। तेन, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति शकारस्य कुत्वम्। व्रश्चादिषत्वस्यापवादोऽयम्। चर्त्वविकल्पः। ‘आपं चैव हलन्तानां यथा वाचा निशा दिशा।।’ इति भागुरिवचनात् स्त्रियां टाब् भवति।]]
07 [[५। दिष्टं = दैवम्। ‘दैवं दिष्टं भागधेयं भाग्यं--’ इत्यमरः। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः।]]
08 [[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
09 [[७। ताच्छील्ये, साधुकारिणि वा णिनिप्रत्ययान्तोऽयम्।]]
10 [पृष्ठम्०७४७+ २४]
11 [[१। दिश्यतेऽनेनेति देशः = स्थलम्। ‘अकर्तरि च कारके संज्ञायाम्’ (३-३-१९) इति कर्मणि घञ्।]]
12 [[२। प्रदिश्यत इति प्रदेशः = अग्रभागः। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति दीर्घः। तत्र ‘बहुलम्’ इत्युक्तेः प्रादेशः इत्यपि साधुः।]]
13 [[३। दिष्टिः = दैवम्। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्।]]
14 [[४। द्वितीयान्ते नामनि उपपदे, आङ्पूर्वकादस्मात् णमुल् भवति ‘नाम्न्यादिशि- ग्रहोः’ (३-४-५८) इत्यनेन। ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
