उपक्रमणीय (upakramaNIya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English उपक्रमणीय upakramaNIya to be undertaken or commenced
उपक्रमणीय upakramaNIya to be treated
उपक्रमणीय upakramaNIya treating of attendance
उपक्रमणीय upakramaNIya to be approached or gone to
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishउपक्रमणीय [upakramaṇīya],
To be gone to, approached, commenced
Relating to the attendance (on a patient). -यम् A work on medicine.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishShabdartha Kaustubha
Kannadaउपक्रमणीय
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಆರಂಭಿಸಲ್ಪಡುವ
निष्पत्तिः - > उप + क्रमु (पादविक्षेपे) -"अनीयर्" (३-१-९६)
उपक्रमणीय
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಚಿಕಿತ್ಸೆಗೆ ಬೇಕಾದ ದೀರ್ಘಾಯುಷ್ಯವನ್ನು ತಿಳಿಸುವ ಲಕ್ಷಣ
व्युत्पत्तिः - > उपक्रमणे साधु
उपक्रमणीय
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ರೀಗಿಯ ಚಿಕಿತ್ಸೆಗೆ ಸಂಬಂಧಿಸಿದ ಗ್ರಂಥ
वाचस्पत्यम्
Sanskritउपक्रमणीय उप + क्रम--अनीयर् । १ आरम्भणीये । उप-क्रमणे साधु--छ । २ चिकित्साङ्गेदीर्घायुष्यादिज्ञानसाधनेलक्षणभेदे । आतुरचिकित्सार्थं यथोपक्रमणं कर्त्तव्यं तदावेदके ३ ग्रन्थे च । तत्प्रकारादि सुश्रुते दर्शितं यथा ।“अथात आतुरोपव्रमणीयमध्यायं व्याख्यास्यामः । आतु-रमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत । सत्येवायुषिव्याध्यृत्वग्निवयोदेहबलसत्वसात्म्यप्रकृतिभेषजदेशान् परी-क्षेत । तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्ध-ललाटदीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्त-नान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवगम्भीरसत्वखरनाभिमनु-च्चैर्बद्धस्तनमुपचितमहारोमशकणं पश्चान्मस्तिष्कं स्रातानु-लिप्तं मूर्द्ध्वानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमा-णहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति । तमेकान्ते-नोपक्रमेत् । एभिर्लक्षणैर्विपरीतैरल्पायुर्मिश्रैर्मध्यमायुरिति ।गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः । उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते । गर्भात् प्रभृत्यरोगो यःशनैः समुपचीयते । शरीरज्ञानविज्ञानैः स दीर्घायुः स-मासतः । मध्यमस्यायुषोज्ञानमत ऊर्द्ध्वं निबोध मे । अ-धस्तादूर्द्ध्वयोर्यस्य लेखा स्युर्व्यक्तमायताः । द्वे वा तिस्रो-ऽधिका वापि पादौ कर्णौ च मांसलौ । नासाग्रमूर्द्ध्वञ्चभवेदूर्द्ध्वलेखाश्च पृष्ठतः । यस्य स्युस्तस्य परममायुर्भवतिसप्ततिः । जघन्यस्यायुषो ज्ञानमत ऊर्द्ध्वं निबोध मे ।ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् । तथोरस्यवलीढानि न च स्यात् पृष्ठमायतम् । ऊर्द्ध्वञ्च श्रवणौ स्था-नान्नासा चोच्चा शरीरिणः । हसतो जल्पतो वापि दन्त-मांसं प्रदृश्यते । प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविं-शतिमु । अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसा-रानुपदेक्ष्यामः । तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसितदयवाः प्रत्यङ्गानीति । तत्र स्वैरङ्गलैः पादाङ्गुष्ठप्रदेशिन्यौद्व्यङ्गुलायते । प्रदेशिन्यास्तु मध्यमाऽनामिका कनिष्ठिकायथोत्तरं पञ्चमभागहीना । चतुराङ्गुलायते पञ्चाङ्गल-विस्तृते प्रपदप्रादतले । पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः ।चतुर्दशाङ्गुलायतः पादः । चतुर्दशाङ्गुलपरिणाहानिपादगुल्फजङ्घाजानुमध्यानि । अष्टादशाङ्गुला जङ्घाजानूपरिष्टाद्द्वात्रिंशदङ्गुलमेवंपञ्चाशत् । जङ्घायामस-मावूरू । द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्ण-मूलनयनान्तराणि । चतुरङ्गुलानि मेहनवदनान्तरनासा-कर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि । द्वादशाङ्गुलानि भगवि-स्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्र-कोष्ठस्थौल्यानि । इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरा-यामः षोडशाङ्गुलः । चतुर्विंशत्यङ्गुलो हस्तः । द्वात्रिं-शदङ्गुलपरिमाणौ भुजौ । द्वात्रिंशदङ्गुलपरिणा-हावूरू । मणिबन्धिकूर्परान्तरं षोडशाङ्गुलम् । तलंषट्चतुरङ्गुलायामविस्तारम् । अङ्गुष्ठमूलप्रदेशिनीश्रव-णापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले । अर्द्धपञ्चाङ्गुलेप्रदेशिन्यनामिके । सार्द्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ । चतु-र्विंशतिविस्तारपरिणाहं मुखग्रीवम् । त्रिभागाङ्गुलि-विस्तारा नासापुटमर्य्यादा । नयनत्रिभागपरिणा-हा तारका । नवमस्तारकांशो दृष्टिः । केशान्तम-स्तकान्तरमेकादशाङ्गुलम् । मस्तकादवटुकेशान्तो दशाङ्गुलः ।कर्णावट्वन्तरं चतुर्दशाङ्गुलम् । पुरुषोरःप्रमाणविस्तीर्णा स्त्री-श्रीणिः । अष्टादशाङ्गुलविस्त्रीर्णमुरः । तत्प्रमाणा पुरुषस्यकटी । सविंशमङ्गुलशतं पुरुषायाम इति भवन्ति चात्रपञ्चविंशे ततो वर्षेपुमान् नारी तु षोडशे । समत्वागतवीर्य्यौतौ जानीयात् कुशलो भिषक् । देहः स्वैरङ्गुलैरेव यथा-वदनुकीर्त्तितः । युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽ-ङ्गना । दीर्घमायुरवाप्नोति वित्तञ्च महदृच्छति । मध्यममध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् । अथ सारान् वक्ष्या-मि ॥
स्मृतिभक्तिप्रज्ञाशौर्यशौचोपेतं कल्याणाभिनिवेशंसत्वसारं विद्यात् । स्निग्धं संहतश्वेतास्थिदन्तनखं बहुलकामप्रजं शुक्रेण । अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौ-भाग्योपपन्नं महानेत्रञ्च मज्ज्ञा । महाशिरःस्कन्धदृढदन्त-हन्वस्थिनस्वमस्थिभिः । स्निग्धमूत्रखेदस्वरं वृहच्छरीरमाया-ससहिष्णुं मेदसा । अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोप-चितञ्च मांसेन । स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणि-पादतलं रक्तेन । सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं वि-द्यादित्येषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरपि । भवतिचात्र सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः । परीक्ष्यायुःसुनिपुणो भिषक् सिध्यति कर्मसु ।व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः सा-ध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेतकिमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति । तत्रौपस-र्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुप-सृजति स तन्मूलएवोपद्रवसंज्ञः । प्राक्केवलो यः प्रागेवोत्पन्नोव्याघिरपूर्वरूपोऽनुपद्रवश्च । अन्यलक्षणो यो भविष्यद्व्या-धिख्यापकः स पूर्वरूपसंज्ञः । तत्र सोपद्रवमन्योन्या-विरोधेनोपक्रमेत बलवन्तमुपद्रवं वा प्राक्केवलं यथास्वंप्रतिकुर्वीत । अन्यलक्षणे त्वादिव्याधौ प्रयतेत । भवतिचात्र । नास्तिरोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् ।प्रागभिहिता ऋतवः । शीते शीतप्रतीकारौष्णे चोष्म-निवारणम् । कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं नहापयेत् । अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृताक्रिया । क्रियाहीनाऽतिरिक्ता वा साघ्येष्वपि न सिध्यति ।या तृदीर्ण्णं शमयति नान्यं व्याधिं करोति च । सा क्रियान तु या व्याधिं हरत्यन्यमुदीरयेत् ।प्रागभिहितोऽग्निरन्नस्य पाचकः (व्रणप्रश्ने) स चतुर्व्विघोभवति दोषानभिपन्न एको विक्रियामापन्नस्त्रिविधो भवतिविषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थःसमः सर्वसाम्यादिति तत्र यो यथाकालमन्नमुपयुक्तं सम्यक्पचति स समः, समैर्दोषैः । यः कदाचित्सम्यक्पचतिकदाचिदाध्मानशूलोदावर्त्तातिसारजठरगौरवान्त्रकूजनप्र-वाहणानि कृत्वा स विषमः । यः प्रभूतमप्युपयुक्तमन्नमाशुपचति स तीक्ष्णः, स एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यतेस मुहुर्भुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति पाकान्ते चगलताल्वोष्ठशोषदाहसन्तापान् जनयति । यः स्वल्पम-प्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानिकृत्वा महता कालेन पचति स मन्दः । विषमो वातजान्रोगान् तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दोविकारान् कफसम्भवान् । तत्र समे परिरक्षणं कुर्व्वीतविषमे स्निग्धाम्लवणैः क्रियाविशेषैः प्रतिकुर्व्वीत तीक्ष्णेमधुरस्निग्धशीतैर्व्विरेकैश्च । एवमेवात्यग्नौ विशेषेण माहिषैश्चक्षीरदधिसर्पिर्भिर्मन्दे कटुतिक्तकषायैर्वमनैश्च । जाठरोभगवानग्निरीश्वरोऽन्नस्य पाचकः । सौक्ष्म्याद्रसानाददानोविवेक्तुं नैव शक्यते । प्राणापानसमानैस्तु सर्वतः पवनै-स्त्रिभिः । ध्मायते पाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः ।वयस्तु त्रिविघं बालं मध्यं वृद्धमिति । तत्रोनषोडशवर्षाबालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादा-इति तेषु संवत्सरपराः क्षीरपा द्विसंवत्-रपराः क्षीरा-न्नादाः परतोऽन्नादा इति । षोडशसप्तत्योरन्तरे मध्यंवयस्तस्य विकल्पो वृद्धिर्य्यौवनं संपूर्ण्णता हानिरिति ।तत्रा विंशतेर्वृद्धिरात्रिंशतो यौवनमा चत्वारिंशतः सर्व्व-धात्विन्द्रियबलवीर्य्यसम्पूर्ण्णता । अतऊर्द्ध्वमीषत् परि-हाणिर्य्यावत्सप्ततिरिति । सप्ततेरूर्द्धं क्षीयमाणधात्वि-न्द्रियबलवीर्य्योत्साहमहन्यहनि वलीपलितस्वालित्यजुष्टंकासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्व्वक्रिया-स्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ।तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्रा-विशेषा भवन्त्यृते च परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत ।भवन्ति चात्र । पाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् । अग्निक्षार-विरेकैस्तु बालवृद्धौ विवर्जयेत् । तत्साध्येषु विकारेषुमृद्वीं कुर्य्यात् क्रियां शनैः ।देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः । कर्श-येद्वृंहयेच्चापि सदा स्थूलकृशौ नरौ । रक्षणञ्चैवमध्यस्य कुर्व्वीत सततं भिषक् ।बलमभिहितगुणं दौर्ब्बल्यञ्च स्वभावदोषजरादिभिरवे-क्षितव्यम् । यस्माद्बलवतः सर्व्वक्रिया प्रवृत्तिस्तस्माद्बलमेवप्रधानमधिकरणानाम् । केचित् कृशाः प्राणवन्तः स्थूलाश्चा-ल्पबला नराः । तस्मात् स्थिरत्वव्यायामैर्ब्बलंवैद्यःप्रतर्कयेत् ।सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेष्ववैकल्यकरम् ।सत्ववान् सहते सर्व्वं संस्तभ्यात्मानमात्मना । राजसःस्तभ्यमानोऽन्यैः सहते नैव तामसः ।प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः (प्रकृतिं शारीरस्थाने, भेषजं तत्तत्प्रकरणे) ।सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुधान्यपि यान्यबाधकराणि भवन्ति ।यो रसः कल्पते यस्य सुखायैव निषेवितः । व्यायामजातमन्यद्वा तत् सात्म्यमिति निर्दिशेत् ।देशस्त्वानूपो जाङ्गलः साधारण इति । तत्र बहूदकनि-म्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्व्वतवृक्षोमृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चा-नूपः । आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्र-स्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलःस्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्ग-लः । उभयदेशलक्षणः साधारण इति । भवन्ति चात्र ।समाः साधारणं यस्माच्छीतवर्षोष्ममारुताः ।दोषाणां समता जन्तोस्तस्मात्साधारणो मतः । न तथाबलवन्तः स्युर्जलजा वा स्थलाहृताः । स्वदेशे निचितादोषा अन्यस्मिन् कोपमागताः । उचिते वर्त्तमानस्य नास्तिदेशकृतं भयम् । आहारस्वप्नचेष्टादौ तद्देशस्य गुणेसति देशप्रकृतिसात्म्यर्त्तुविपरीतोऽचिरोत्थितः । मम्पत्तौभिषगादीनां बलसत्वायुषा तथा । केवलः समदेहाग्नेःसुखसाध्यतमो गदः । अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रोव्यामिश्रलक्षणः । क्रियायास्तु गुणालाभे क्रियामन्यांप्रयोजयेत् । पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ।गुणालाभेऽपि सपदि यदि सैव क्रिया हिता । कर्त्तव्यैवतदा व्याधिः कृच्छ्रसाध्यतमो यदि । यएवमेनं विधिमेक-रूपं विभर्त्ति कालादिवशेन धीमान् । स मृत्युपाशान्जगतोगदौघान्छिनन्ति भैषज्यपरश्वधेन” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
