| YouTube Channel

उपकुर्व्वाण (upakurvvANa)

 
वाचस्पत्यम्
Sanskrit
उपकुर्व्वाण
पु०
उपकुरुते गुरोर्दक्षिणादानादिना उप + कृ-शानच् समावर्त्तनयोग्ये स्वाध्यायग्रहणावधिकब्रह्मचर्य्य-वति व्रह्मचारिणि “न पूर्व्वं गुरवे किञ्चिदुपकुर्वीत धर्म्म-वित् स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्व्वर्थमाहरेत्”मनुना स्नास्यतएव गुरूपकारविधानेन ततः पूर्व्वमु-पाकारकर्त्तृत्वनिषेधेन चास्यैवोपकर्त्तृत्वात्तथात्वम् ब्रह्म-चारी हि द्विविधः नैष्ठिक उपकुर्वाणश्च यो निरवधिमरणान्तम् उपनयनादूर्द्ध्व गुरौ वसति नैष्ठिकः ।यस्तु स्वाध्यायग्रहणान्तं गुरौवसन् गुरुणानुज्ञातः गुरो-रुपकारं कृत्वा स्नानगार्हस्थ्य करोति उप-कुर्व्वाणः स्नास्यतो दक्षणा मनुनोक्तायथा “क्षेत्रं हिरण्यं गामश्व छत्रोपानहमासनम् ।धान्यं शाकञ्च वासांसि गुरवे प्रीतिमावहेत्” आश्व०गृ० ३, ८, १, तु “अथैतान्युपकल्पयीत समावर्त्त्यमानेमणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्म-र्द्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्य्य च” “य-द्युभयोर्न विन्देताचार्य्यायैव” एकादश द्रव्याण्युक्तानिएतच्चोपलक्षणं गुरोरभिलषितं दद्यादित्यत्रैव तात्पर्य्यम्अत एव या० स्मृ० “गुरवे तु वरं दत्त्वा स्नायीत तदन-ज्ञया” तद्वरदानमेवोक्तम् “गुरवे पूर्बोक्ताय वरमभिलषितंयथाशक्ति दत्त्वा स्नायात् तदशक्तौ तदनुज्ञयाऽदत्त-वरोऽपि” मिता० संज्ञाया कन् तत्रैव “उपकुर्वाण-कास्तु स्वाध्यायग्रहणार्थाः” छा० उ० भा० ताच्छील्येचानश् उपकारशीले
त्रि०