| YouTube Channel

उपकलक्षणम् (upakalakSaNam)

 
E Bharati Sampat
Sanskrit
(न) १.दर्शनम् दृष्ट्वा ज्ञानम् उप+लक्ष(दर्शनाङ्कनयोः)+ल्युट् ‘ल्युट् च’ ३.३.११५। ‘वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन’ शाकु०४। २.ज्ञापनम् ३.अजहत् स्वार्थलक्षणया स्वापरार्थाज्ञापनम् ‘काकेभ्यो दधि रक्ष्यताम्’ अत्र अजहत् स्वार्थलक्षणया काकाः, अपरार्थे शुनकादयः बोध्यन्ते ‘स्वार्थ प्रतिपादकत्वे सति स्वार्थसदृशेतरार्थप्रतिपादकत्त्वमुपलक्षणम् ।’ ४.विशेष्यवस्त्वन्वेषणाय चिह्नम् ‘काकवत् देवदत्तगृहम् ।’ अत्र काकः उपलक्षणम्