| YouTube Channel

उन्मुखः (unmukhaH)

 
E Bharati Sampat
Sanskrit
(वि) उत् उपरिकृतं मुखं यस्य १.ऊर्ध्वमुखः, ऊर्ध्वदृष्टिः। ‘मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः’ रघुः१.३९। २.उद्युक्तः। ३.उत्सुकः। ‘तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे’ कुमार०६.३४। ४.सिद्धः। ‘पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव’ रघुः ३.१२।
शब्दकल्पद्रुमः
Sanskrit
उन्मुखः, त्रि, (उदूर्द्ध्वं मुखं यस्य ।) ऊर्द्ध्वमुखः तत्-पर्य्यायः उत्पश्यः इति हेमचन्द्रः
(“मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” ।इति रघुः ३९ ।) उत्सुकः यथा कुभारे ३४
“तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे” ।“पतिः प्रतीतः प्रसवोन्मुखीं प्रियाम्” इतिरघुः १२
“अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः” ।इति मेघदूते पूर्व्वमेघे १४ ।“इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा” ।इति मेघदूते उत्तरमेघे ३९ श्लोकः
)