| YouTube Channel

उन्माद (unmAda)

 
शब्दसागरः
English
उन्माद
mfn.
(-दः-दा-दं) Mad, insane, extravagant.
m.
(-दः)
1. Madness,
extravagance.
2. (In medicine, ) Mania.
E.
उत् much, मद् to be
mad, affix घञ्.
Capeller Eng
English
उन्माद
a.
mad, insane
m.
madness, insanity.
Yates
English
उन्मा_द (दः) 1.
m.
Madness.
a. Mad.
Spoken Sanskrit
English
उन्माद - unmAda -
adj.
- crazy
उन्मत्त - unmatta - adverb - crazy
योगित - yogita -
adj.
- crazy
भौत - bhauta -
adj.
- crazy
वातुल - vAtula -
adj.
- crazy
कितव - kitava -
m.
- crazy person
कार्यपुट - kAryapuTa -
m.
- crazy or hair-brained man
उन्माद unmAda
m.
bloom
बोध bodha
m.
bloom
पुष्पायति { पुष्प्य } puSpAyati { puSpya } verb bloom
प्रबुध्यते { प्रबुध् } prabudhyate { prabudh } verb bloom
विकसति { विकस् } vikasati { vikas } verb bloom
स्मयते { स्मि } smayate { smi } verb bloom
स्फोटते { स्फुट् } sphoTate { sphuT } verb 1 bloom
स्फोटति { स्फुट् } sphoTati { sphuT } verb 1 bloom
स्फुटति { स्फुट् } sphuTati { sphuT } verb 1 bloom
स्फुटती { स्फुट् } sphuTatI { sphuT } verb 6 bloom
पुष्पित puSpita
adj.
in bloom
अभिनव abhinava
adj.
blooming
उच्छ्वसित ucchvasita
adj.
blooming
उत्स्मय utsmaya
adj.
blooming
पुष्पवत् puSpavat
adj.
blooming
पुष्पित puSpita
adj.
blooming
प्रफुल्ल praphulla
adj.
blooming
प्रपुष्पित prapuSpita
adj.
blooming
विकासिन् vikAsin
adj.
blooming
समुत्कच samutkaca
adj.
blooming
उन्माद unmAda
m.
craze
उन्मदिष्णु unmadiSNu
adj.
insane crazed
Wilson
English
उन्माद
mfn.
(-दः-दा-दं) Mad, insane, extravagant.
m.
(-दः)
1 Madness, extravagance.
2 (In medicine, ) Mania.
E.
उद् much, मद to be mad, affix घञ्.
Apte
English
उन्माद [unmāda],
a.
Mad, insane.
Extravagant.
दः Madness, insanity
अहो उन्मादः
U.*
3
Māl.
9.
Intense passion, intoxication or extravagance of love
Māl.
3, 2.11
वीररभसोन्मादः
Mv.*
2.22 rapturous joy.
Lunacy, mania (considered as a disease of the mind)
मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः मानसो$यमतो व्याधिरुन्माद इति कीर्तितः Suśr.
(In
Rhet.
) Madness considered as one of the 33 subordinate feelings
चित्त- संमोह उन्मादः कामशोकभयादिभिः S. D.* 3
or according to R. G. विप्रलम्भमहापत्तिपरमानन्दादिजन्मा$न्यस्मिन्नन्यावभास उन्मादः.
Bloom
उन्मादं वीक्ष्य पद्मानाम् S. D.* 2.
A kind of पिशाच
Bhāg.*
2.1.39.
Apte 1890
English
उन्माद a. 1 Mad, insane.
2 Extravagant.
दः 1 Madness, insanity
अहो उन्मादः U. 3
Māl. 9.
2 Intense passion, intoxication or extravagance of love
Māl. 3, 2. 11
वीररभसेन्मादः Mv. 2. 22 rapturous joy.
3 Lunacy, mania (considered as a disease of the mind)
मदयंत्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः Suśr.
4 (In Rhet.) Madness considered as one of the 33 subordinate feelings
चित्तसंमोह उन्मादः कामशोकभयादिभिः S. D. 3
or according to R. G. विप्रलंभमहापत्तिपरमानंदादिजन्माऽ न्यस्मिन्नन्यावभास उन्मादः.
5 Bloom
उन्मादं वीक्ष्य पद्मानां S. D. 2.
Monier Williams Cologne
English
उन्-माद
mfn.
mad, insane, extravagant,
BhP.
उन्-माद
m.
insanity, madness
mania (as illness)
intoxication,
MBh.
Suśr.
Sāh.
&c.
Monier Williams 1872
English
उन्-माद, अस्, आ, अम्, mad, insane, extravagant
(अस्), m. madness, extravagance
(in medicine) mania.
—उन्माद-वत्, आन्, अती, अत्, mad, insane, wild, ex-
travagant.
Macdonell
English
उन्माद un-mād-a,
m.
madness
-i-tā,
f.
madness
🞄-in,
a.
mad, insane: -ī,
f.
N. of a princess.
Benfey
English
उन्माद उन्माद, i. e. उद्-मद् + अ,
m.
Madness, Rām. 5, 31, 40.
--
Comp.
कृत-,
adj.
,
f.
दा (MBh. 14, 2009), feigning
madness, Kathās. 18, 242.
स-,
adj.
mad.
Apte Hindi
Hindi
उन्माद
वि* - उद्+मद्+घञ्
"पागल, विक्षिप्त"
उन्माद
वि* - उद्+मद्+घञ्
असंतुलित
उन्मादः
पुं*
- उद्+मद्+घञ्
"पागलपन, विक्षिप्ति"
उन्मादः
पुं*
- उद्+मद्+घञ्
तीव्र संक्षोभ
उन्मादः
पुं*
- उद्+मद्+घञ्
"विक्षिप्तता, सनक"
उन्मादः
पुं*
- उद्+मद्+घञ्
३३ संचारिभावों में से एक
उन्मादः
पुं*
- उद्+मद्+घञ्
खिलना
Shabdartha Kaustubha
Kannada
उन्माद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹುಚ್ಚು /ಚಿತ್ತಪಲ್ಲಟ
निष्पत्तिः - > उद् +मदी (हर्षे) - "घञ्" (३-३-१८)
उन्माद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಾತಕ ಲಕ್ಷಣೋಕ್ತವಾದ ಒಂದು ವ್ಯಭಿಚಾರಿಭಾವ
प्रयोगाः - > "चित्तसम्मोह उन्माद कामशोकभयादिभिः"
उल्लेखाः - > सा० द० ३-१६०
L R Vaidya
English
unmAda {% (I) m. %} 1. Madness, extravagance
2. lunacy considered as a disease of the mind (in medicine)
3. madness. considered as one of the 33 subordinate feelings (in rhetoric)
it is thus defined- चित्तसंमोह उन्मादः कामशोकभयादिभिः S.D.iii.
4. bloom, e.g. उन्मादं वीक्ष्य पद्मानाम्.
unmAda {% (II) a. (f. दा) %} See उन्मद I.
Bopp
Latin
उन्माद m. (r. मद् praef. उत् s. अ) insania, dementia.
UR. 57. 7. infr.
Edgerton Buddhist Hybrid
English
Unmāda, n. of a class of demons (causing madness), = Unmada, which occurs in a similar list: Māy 〔219.9〕 etc.
अभिधानचिन्तामणिः
Sanskrit
--source--
दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेशः परिश्रमः ३१९
प्रयासायासव्यायामा उन्मादश्चित्तविप्लवः
-wordlist-
दैन्य (क्ली), कार्पण्य (क्ली), श्रम (पुं), क्लम (पुं), क्लेश (पुं), परिश्रम (पुं), प्रयास (पुं), आयास (पुं), व्यायाम (पुं), उन्माद (पुं), चित्तविप्लव (पुं)
Mahabharata
English
Unmāda^1, a companion of Skanda. § 615u (Skanda): IX, 45, 2553 (given to Skanda by Pārvatī).
Unmāda^2 = Śiva (1000 names^2).
शब्दकल्पद्रुमः
Sanskrit
उन्मादः,
पुं,
(उत् + मद् + घञ् (महादेवः ।यथा महाभारते महादेवसहस्रनामकथने १३१७ ६९
“उन्मादो मदनः कामो ह्यश्वत्थोऽर्थ-करी यशः” ।) वातिकरोगविशेषः तत्पर्य्यायः ।चित्तविभ्रमः इत्यमरः
मतिभ्रंशः उन्मनाः४ इति राजनिर्घण्टः
(चित्तविप्लवः ५२ २३४ ।इति हेमचन्द्रः
) मानसरोगविशेषः ।तस्यौषधं यथा, --“वचा त्रिकटुकञ्चैव करञ्जं देवदारु ।मञ्चिष्ठा त्रिफला श्वेता शिरीषो रजनीद्वयम्
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनम् तथा
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।भूतेभ्यश्च भयं हन्ति राजद्वारे शासनम्”
इति गारुडे १९९ अध्यायः
*
अथ उन्मादा-धिकारः
तत्र उन्मादस्य निरुक्तिमाह ।“मदयन्त्युद्धता दोषा यस्मादुन्मार्गमास्थिताः ।मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः”
अयमर्यः यस्माद्धेतोरुद्धताः प्रवृद्धा दोषाःउन्मार्गमास्थिताः मदयन्ति चित्तं विक्षिपन्त्य-स्मिन् अतोऽयमुन्माद इति कीर्त्तितः सःउन्मादः मानसो व्याधिः मनोवैकृत्यकरणात्
*
तस्यैवावस्थाभेदेन नामान्तरमाह चाप्रवृद्ध-स्तरुणो मदसंज्ञां बिभर्त्ति उन्मादस्तरुणोनवीनः
*
उन्मादस्य विप्रकृष्टनिदानमाह ।“विरुद्धदुष्टाशुचिभोजनानिप्रधर्षणं देवगुरुद्विजानाम् ।उन्मादहेतुर्भयहर्षपूर्व्वोमनोऽभिघातो विषमाश्च चेष्टाः
”दुष्टं धत्तरवीजादिसहितम् अशुचि रजस्वलादि-स्पृष्टम् प्रधर्षणमभिभवः विषमाश्च चेष्टाःबलवद्विग्रहादयः
*
सन्निकृष्टं निदानमाह ।“एकैकशः सर्व्वशश्च दोषैरत्यर्थमुच्छ्रितैः ।मानसेन दुःखेन पञ्चविध उच्यते
विषाद्भवति षष्ठश्च यथास्वं तत्र भषजम्”
*
तस्य सम्प्राप्तिमाह ।“तैरल्पसत्त्वस्य मलाः प्रदुष्टाःबुद्धेर्निवासं हृदयं प्रदूष्य ।स्रोतांस्यधिष्ठाय मनोवहानिप्रमोहयन्त्याशु नरस्य चेतः”
अल्पसत्त्वस्य अल्पसत्त्वगुणस्य मला वातादयः ।बुद्धेर्निवासं हृदयं प्रदूष्येति एतेनाश्रयस्य दुष्ट्यातदाश्रिताया बुद्धेरपि दुष्टिरुक्ता मनोवहानिस्रोतांसि हृदयाश्रितानि दश एतानि विशे-षतो बोद्धव्यानि यतश्चरकेण सकलशरीर-स्रोतांस्येव मनोऽधिष्ठानत्वेनोक्तानि प्रमोहयन्तिविकृतं कुर्व्वन्ति
*
उन्मादस्य सामान्यं रूपमाह ।“धीविभ्रमः सत्त्वपरिप्लवश्चपर्य्याकुला दृष्टिरधीरता ।अबद्धवाक्त्वं हृदयञ्च शून्यंसामान्यमुन्मादगदस्य लिङ्गम्”
धीविभ्रमः शुक्तिकायां रजतज्ञानम् सत्त्वपरिप्लवःसत्त्वं मनस्तस्य चाञ्चल्यम् अबद्धवाक्त्वं असम्ब-द्धभाषित्वम् शून्यं स्मृतिशून्यम्
*
वातिकोन्मादस्य निदानपूर्व्विकां सम्प्राप्तिमाह ।रूक्षाल्पशीतान्नविरेकधातु-क्षयोपवासैरनिलोऽतिवृद्धः ।चिन्तातिदुष्टं हृदयं प्रदूष्यबुद्धिं स्मृतिं वाप्युपहन्ति शीघ्रम्”
प्रदूष्य प्रकर्षेण दूषयित्वा
*
तस्यैव रूपमाह ।“अस्थानहास्यस्मृतिनृत्यगीत-वागङ्गविक्षेपणरोदनानि ।पारुष्यकार्श्यारुणवर्णताश्चजीर्णे बलञ्चानिलजस्य रूपम्”
अस्थाने अनवसरे हास्यादीनि रोदनान्तानि ।जीर्णे आहारे बलं व्याधेः
*
पैत्तिकस्य निदानपूर्व्विकां सम्प्राप्तिमाह ।“अजीर्णकट्वम्लविदाह्यशीतै-र्भाज्यैश्चितं पित्तमुदीर्णवेगम् ।उन्मादमत्युग्रमनात्मकस्यहृदि स्थितं पूर्व्ववदाशु कुर्य्यात्”
हृदि स्थितं पित्तं चितं सञ्चितम् पुनः अजीर्ण-कट्वम्लविदाह्यशीतैर्भोज्यैरुदीर्णवेगं सत् उन्मादंकुर्य्यात् पूर्व्ववत् हृदयं प्रदूष्य इत्यर्थः
*
तस्य रूपमाह ।“अमर्षसंरम्भविनग्नभावाःसन्तर्जनाभिद्रवणौष्ण्यचोषाः ।प्रच्छायशीतान्नजलाभिलाषःपोतावभाः पित्तकृतस्य लिङ्गम्”
अमर्षोऽसहिष्णुता संरम्भः आरभटी आडम्बर-इति यावत् सन्तर्जनं परत्रासनम् अभिद्रवणंपलायनम् औष्ण्यं गात्रे चोषो दाहविशेषः ।प्रच्छाय इत्यादि छायायां शीतयोरन्नजलयोरभि-लाषः
*
श्लैष्मिकस्य निदानपूर्व्विकां सम्प्राप्तिमाह ।“सम्पूरणैर्मन्दविचेष्टितस्यसोष्मा कफो मर्म्मणि संप्रवृद्धः ।बुद्धिं स्मृतिं वाप्युपहन्ति चित्तंप्रमोहयन् संजनयेद्विकारम्”
संपूरणैर्भोजनादिभिः मन्दविचेष्टितस्य व्यायाम-रहितस्य सोष्मा कफ इति कफोऽप्युन्मादं करि-ष्यन् पित्तं सहायमपेक्षते व्याधिस्वभावात् ।मर्म्मणि अत्र मर्म्मशब्देन हृदयमुच्यते विकार-मुन्मादरूपम्
*
तस्य रूपमाह ।“वाक्चेष्टितं मन्दमरोचकश्चनारीविविक्तप्रियता निद्रा ।छर्दिश्च लाला बलञ्च भुक्तेनखादिशौक्ल्यञ्च कफात्मके स्यात्”
वाक्चेष्टितं मन्दं वचनमल्पम् नारीविविक्त-प्रियता नारीप्रियता विजनप्रियता भुक्ते सतिबलं व्याधेः
*
सान्निपातिकस्य निदानपूर्व्वकं लक्षणमाह ।“यः सन्निपातप्रभवोऽतिघोरःसर्व्वैः समस्तैः तु हेतुभिः स्यात् ।सर्व्वाणि रूपाणि बिभर्त्ति तादृ-ग्विरुद्धभैषज्यविधिर्व्विवर्ज्यः”
सान्निपातिक उन्मादः सन्निपातग्रहणेनैवसर्व्वात्मकत्वं लब्धम् पुनः सर्व्वैरिति यत्कृतं तद्र-जस्तमःप्रापणार्थम् तेन रजस्तमोमिलितैरि-त्यर्थः तेन वातादयो रजस्तमोभिर्मनोदोषैर्म्मि-लिताः समस्तैश्च निदानैः कुपिता उन्मादं जन-यन्ति सर्व्वैर्हेतुभिः समस्तैर्म्मिलितैः स्यात् यतो-ऽन्यो व्याधिः सर्व्वैर्हेतुभिर्मिलितैरेव भवतीतिनियमो नास्ति अयन्तु व्याधिप्रभावात् सर्व्वैर्हेतु-भिर्म्मिलितैः स्यात् तादृगुन्मादः विरुद्धभैष-ज्यविधिः विरुद्धभैषज्यविधिरिति कोऽर्थः त्रि-दोषजे प्रत्येकं वातादिप्रत्यनीका कार्य्या सा चपरस्पराविरोधिनी त्रिदोषं हन्ति किञ्चिदेवद्रव्यमामलकादि तच्चात्रायौगिकम् अतएव वि-वर्ज्यः चिकित्स्य इत्यर्थः
*
मनोदुःखजस्य विप्रकृष्टं निदानमाह ।“चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यै-र्वित्रासितस्य धनबान्धवसंक्षयाद्वा ।गाढं क्षते मनसि प्रियया रिरंसो-र्जायेत चोत्कटतरो मनसो विकारः”
अन्यैर्हिंस्रादिभिः गाढमतिशयेन क्षते अभि-हते प्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्यविकारः उन्मादरूपः
*
तस्य रूपमाह ।“चित्रं ब्रवीति मनोऽनुगतं विसंज्ञोगायत्यथो हसति रोदिति चातिमूढः” ।चित्रमाश्चर्य्यं मनोऽनुगतं गोप्यमपि विसंज्ञोविरुद्धज्ञानः अतीवमूढः अतीवज्ञानशून्यः अत्रविकल्पो बोद्धव्यः
*
विषजस्य रूपमाह ।“रक्तेक्षणो हतबलेन्द्रियभाः सुदीनःश्यावाननो विषकृते तु भवेत् परासुः” ।परासुः मृतः
*
अरिष्टमाह ।“अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः ।जागरूको ह्यसन्देहमुन्मादेन विनश्यति”
*
अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह।“अमर्यवाग्विक्रमवीर्य्यचेष्टोज्ञानादिविज्ञानबलादियुक्तः ।प्रकोपकालो नियतश्च यस्यदेवादिजन्मा मनोविकारः”
अमर्त्यवाग्विक्रमवीर्य्यचेष्टः मर्त्यस्येव मनुष्यस्येववागादयो यत्र सः विक्रमः पराक्रमः वीर्य्यंशौर्य्यम् ज्ञानादिविज्ञानबलादियुक्तः ज्ञानंबुद्धिः आदिषदेन तद्भेदा मेधा-विचारणा-स्मृत्या-दयो गृह्यन्ते विज्ञानं शिल्पादिविषयकं ज्ञानम् ।चेष्टा पाटवम् आदिपदेनाभिमानादि गृह्यते ।नियतः वक्ष्यमाणतिथ्यादिभिः मनोविकार उ-न्मादः
*
तत्र देवाविष्टस्य लक्षणमाह ।“सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धोनिस्तन्द्रोऽवितथसंस्कृतप्रभाषी ।तेजस्वी स्थिरनयनो वरप्रदाताब्रह्मण्यो भवति नरः देवजुष्टः”
अतिदिव्यमाल्यगन्धः अतिशयो दिव्यमाल्यस्येवगन्धो यस्य सः निस्तन्द्रः निद्रारहितः अवितथंसत्यम् ब्रह्मण्यः ब्राह्मणभक्तः
*
दैत्याविष्टमाह ।“संस्वेदी द्विजगुरुदेवदोषवक्ताजिह्माक्षो विगतभयो विमार्गदृष्टिः ।सन्तुष्टो भवति चान्नपानजातै-र्दुष्टात्मा भवति देवशत्रुजुष्टः”
विमार्गट्टष्टिः कुमार्गरतः दुष्टात्मा दुष्टस्वभावः ।गन्धर्व्वाविष्टमाह ।“हृष्टात्मा पुलिनवनान्तरोपसेवीस्वाचारः प्रियपरिगीतगन्धमाल्यः ।नृत्यन् वै प्रहसति चारु चाल्पशब्दंगन्धर्व्वग्रहपरिपीडितो मनुष्यः”
हृष्टात्मा हृष्टजीवात्मा पुलिनंतोयोत्थितं तटम् ।वनान्तरं वनमध्यम् तयोः सेवी स्वाचारःअनिन्दिताचारः प्रियाणि परि समन्ततो भावेनगीतगन्धमाल्यानि यस्य तथा चारुचाल्प-शब्दमिति हसनक्रियाया विशेषणम्
*
यक्षाविष्टमाह ।“ताम्राक्षः प्रियतनुरक्तवस्त्रधारीगम्भीरोऽद्भुतगतिरल्पवाक् सहिष्णुः ।तेजस्वी वदति किं ददामि कस्मैयो यक्षग्रहपरिपीडितो मनुष्यः”
*
पित्राविष्टमाह ।“प्रेतानां दिशति संस्तरेषु पिण्डान्शान्तात्मा जलमपि वापसव्यवस्त्रः ।मांसेक्षुतिलगुडपायसाभिकाम-स्तद्भक्तो भवति पितृग्रहाभिजुष्टः”
प्रेतानां मृतानां पितणाम् दिशति ददाति ।अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः
*
नागाविष्टमाह ।“यस्तूर्व्व्यां प्रसरति सर्पवत् कदाचित्सृक्वण्यौ मुहुरपि जिह्वयावलेढि ।क्रोधालुर्घृतमधुदुग्धपायसेप्सु-र्विज्ञेयः खलु भुजङ्गमेन जुष्टः”
प्रसरति सर्पवत् उरसा चलति सृक्वण्यौ ओष्ठ-प्रान्तौ
*
राक्षसाविष्टमाह ।“मांसासृग्विविधसुराविकारलिप्सु-र्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः ।क्रोधालुर्विपुलबलो निशाविचारीशौचद्विट् भवति राक्षसैर्गृहीतः”
अतिनिष्ठुरोऽतिनिर्दयः
*
ब्रह्मराक्षसाविष्टमाह ।“देवविप्रगुरुद्वेषी वेदवेदाङ्गविच्छुचिः ।आत्मपीडाकरोऽहिंस्रो ब्रह्यराक्षससेवितः”
अहिंस्रः अहिंसाशीलः
*
पिशाचाविष्टमाह ।“उद्वस्त्रः कृशपरुषो विरुद्धभाषीदुर्गन्धो भृशमशुचिस्तथातिलोलः ।बह्वाशी विजनवनान्तरोपसेवीव्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः”
उद्वस्त्रः नग्नः दिगम्बर इति विदेहवचनात् ।कृशो निर्मांसः परुषो रूक्षः अतिलोलः सर्व्व-स्मिन् अन्नपाने लोलुपः व्याचेष्टन् विरुद्धमाचे-ष्टन् ग्रहा हिंसा क्रीडा पूजार्थं गृड्णन्ति अत-एवोक्तम् ।“अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाक्षतम् ।हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा”
*
तत्र हिंसार्थं गृहीतस्य लक्षणमाह ।“स्थूलाक्षो द्रुतमटनः सफेनवामीनिद्रालुः पतति कम्पते योऽति ।यश्चाद्रिद्विरदनगादिविच्युतः स्यात्सोऽसाध्यो भवति तथा त्रयोदशेऽब्दे
”यश्चाद्रीत्यादि यः पर्ब्बतादिपतितः सन् ग्रहैर्गृह्यत-इत्यर्थः आदिर्शब्देन भित्तिप्रासादादयो गृह्यन्ते ।त्रयोदशेऽब्दे सर्व्व एव देवादिगृहीतोऽसाध्यः
*
देवादीनामावेशसमयमाह ।“देवग्रहाः पौर्णमाम्यामसुराः सन्ध्ययोरपि ।गन्धर्व्वाः प्रायशोऽष्टम्यां यक्षश्च प्रतिपद्यपि
पितरः कृष्णपक्षे पञ्चम्यामपि चोरगाः ।रक्षःपिशाचा रात्रौ चतुर्द्दश्यां विशन्ति हि”
कृष्णपक्षे अमायाम् प्रायशःपदादन्यत्रापि ।तिथ्यमिधानप्रयोजनं लक्षणार्थं तत्र तिथौ बलि-दानार्थञ्च
*
ननु यदि देवादयो विशन्ति तदाविशन्तस्ते दृश्यन्ते कथं नेत्यत आह ।“दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहधृक्
विशन्ति दृश्यन्ते ग्रहास्तद्वच्छरीरिणाम्” ।दर्पणादीत्यादिशब्देनान्यदपि निर्म्मलद्रवद्रव्यं गृ-ह्यते छाया प्रतिविम्बम् स्वमणिं सूर्य्यमणिम् ।देहधृक् जीवात्मा
*
*
अथोन्मादस्य चिकित्सा ।“वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे ।कफजे वमनं कार्य्यं परो वस्त्यादिकक्रमःयच्चोपदेक्ष्यते किञ्चिदपस्मारे चिकित्सितम् ।उन्मादे तच्च कर्त्तव्यं सामान्याद्दोषदूष्ययोः
जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा ।रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते”
ते जलादयः
*
“ब्राह्मीकुष्माण्डीफलषड्ग्रन्थाः शङ्खपुष्पिकास्वरसाः ।दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः”
अत्र ब्राह्मीति पदं ब्राह्मीस्वरसपरम् कुष्माण्डी-फलं तद्वीजपरम् षड्ग्रन्थे तु यथाश्रुतार्थमेव ।तेनायमर्थः वरभीकरसतोरा कूटकचूर्ण-मासा मधुमासा पेयः इत्येको योगः
कोहण्डके वीजकचूर्णमासा कूटकचूर्णमासा २मधुना संनीयावलेह्यम् द्वितीयो योगः महा-भरीवचकचूर्णमासा कूटकचूर्णमासा मधुनावलेह्यम् तृतीयो योगः
शङ्खपुष्पीस्वरस-तोरा कूटकचूर्णमासा मधुमासा पेयः ।चतुर्थयोगः
*
“सिद्धार्थको हिङ्गु वचाकरञ्जौ देवदारु ।मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ।वस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्
नस्यमालेपनञ्चैव स्नानमुद्वर्तनं तथा ।अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहम्
भूतेभ्यश्च भयं हन्ति राजद्वारे शस्यते ।सर्पिरेतेन संसिद्धं सगोमूत्रं तथार्थकृत्”
सिद्धार्थकादि
*
“ब्रूयादिष्टविनाशञ्च दर्शयेदद्मुतानि ।बद्धं सर्षपतैलाक्तं रक्षेदुत्तानमातपे
कपिकच्छूथवा तप्तैर्लोहतैलजलैः स्पृशेत् ।कशाभिस्ताडयेत्तं वा सुबद्धं विजने गृहे
सर्पेणोद्धतदत्तेन दंशैः सिंहैर्गजैश्च तं ।त्रासयेच्छस्त्रहस्तैश्च शत्रुभिस्तस्करैस्तथा
अथवा राजपुरुषा वहिर्नीत्वा सुसंयतम् ।त्रासयेयुर्ब्बधैरेनं तर्ज्जयन्तो नृपाज्ञया
देहदुःखभयेभ्यो हि यतः प्राणभयं महत् ।ततस्तस्य शमं याति सर्व्वतो विप्लुतं मनः
इष्टद्रव्यविनाशेन मनो यस्याभिहन्यते ।तस्य तत्सदृशप्राप्त्या सान्त्वाश्वासैः शमं नयेत्
*
त्र्युषणं हिङ्गु लवणं वचा कदुकरोहिणी ।शिरीषस्य करञ्जस्य वीजं गौराश्च सर्षपाः
गोमूत्रपिष्टैरेभिस्तु वर्त्तिर्नेत्राञ्जने हिता ।हन्त्युन्मादमपस्मारं तथा चातुर्थकं ज्वरम्”
त्र्युषणाद्यञ्जनम्
*
“कुष्ठाश्वगन्धे लवणाजमोदेद्वे जीरके त्रीणि कदूनि पाठा ।मङ्गल्यपुष्पी समान्यमूनिसर्व्वैः समानाञ्च वचां विचूर्ण्य
ब्राह्मीरसेनाखिलमेव भाव्यंवारत्रयं शुष्कमिदं हि चूर्णम् ।अक्षप्रमाणं मधुना घृतेनलिह्यान्नरः सप्त दिनानि यावत्
सारस्वतमिदं चूर्णं ब्रह्मणा निर्म्मितं पुरा ।हिताय सर्व्वलोकानां दुर्म्मेधानां विचेतसाम्
एतस्याभ्यासतः पुंसां बुद्धिर्म्मेधा घृतिः स्मृतिः ।सम्पत्तिः कविताशक्तिः प्रवर्द्धेतोत्तरोत्तरम्”
मङ्गल्यपुष्पी शङ्खदूली इति लोके सारस्वतंचूर्णम्
*
“विश्वाजमोदरजनीद्वयसैन्धवोग्रा-षष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम् ।चूर्णं प्रभातसमये लिहतः ससर्पि-र्वाग्देवता निवसति स्वयमेव वक्त्रे”
विश्वाद्यं चूर्णम्
*
“क्वाथ्ये विचूर्णिते क्षिप्त्वा तत्षोडशगुणं जलम् ।पादशेषं प्रकर्त्तष्यमेष क्वाथविधिः स्मृतः
दशमूली तथा रास्ना वातारिस्त्रिवृता बला ।मूर्व्वा शतावरी चेति क्वाथ्यैस्तु कुडवैः पृथक्
कृते क्वाथे घृतं प्रस्थद्वयं मृद्वग्निना पचेत् ।कल्कीकृतैर्वक्ष्यमाणद्रव्यैः मम्यक् पुनः पचेत्
विशाला त्रिफला कौन्ती देवदार्व्वेलवालुकम् ।स्थिरानन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम्
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम् ।विडङ्गं ह्यग्निपत्री कुष्ठं चन्दनपद्मके
तालीसपत्रं वृहती मालतीकुसुमं नवम् ।अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक्
चतुर्गुणं जलं दत्त्वा पिष्टैस्तद्विपचेद्घृतम् ।महाचैतसनामेदं सर्व्वचेतोविकारहृत्
अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः ।वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके
मूत्रकृच्छ्रे कटीशूले विसर्पाभिहतेषु ।पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि
देवादिहतचित्तानां गद्गदानामचेतसाम् ।शस्तं स्त्रीणाञ्च बन्ध्यानां धन्यमायुर्बलप्रदम्
अलक्ष्मीपापरक्षोघ्नं सर्व्वग्रहनिवारणम् ।हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम्”
अग्निपत्री अग्निवतीति लोके अगिया इति ।महाचैतसं घृतम्
*
अथ देवाद्याविष्टानां चिकित्सा ।“पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः ।जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक्
कृष्णामरिचसिन्धूत्थमधुगोरोचनाकृतम् ।अञ्जनं सर्व्वदेवादिकृतोन्मादहरं परम्”
कृष्णाद्यञ्जनम्
*
“ऋक्षजम्बुकलोमानि शल्लकी लसुनं तथा ।हिङ्गु मूत्रञ्च वस्तस्य धूपमस्य प्रयोजयेत्
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः” ।ऋक्षलोमादिधूपः
*
“कल्याणकञ्च युञ्जीत महद्वा चैतसं घृतम् ।तैलं नारायणं चाथ महानारायणं तथा
ऋते पिशाचादन्येषु प्रतिकूलं चाचरेत् ।रोगिणं भिषजं यत्ते क्रुद्धा हन्युर्म्महौजसः”
इत्युन्मादाधिकारः इति भावप्रकाशः
(आत्रेय उवाच
“अयं मानसको व्याधिरुन्माद इति कीर्त्तितः ।प्रमत्ता ऊर्द्ध्वगा दोषा ऊर्द्ध्वं गच्छन्त्यमार्गताम्
उन्मादो नाम दोषोऽयं कष्टसाध्यो भिषग्वरैः ।सोऽपि पृथग्विधैर्दोषैर्द्वन्द्वजोऽन्यः प्रकीर्त्तितः ।अथान्यः सन्निपातेन विषाद्भवति चापरः
अशुचिविपथशून्यागारकेऽरण्यमध्येसभयगहनवीथीदेवतागारके ।अथ कथमपि भीत्या शङ्कया खिन्नचेतः-क्षुभितमनसमार्गत्याज्यमुन्मार्गयेति
चिन्ताव्यथासुभयहर्षविमर्षलोभात्देवातिथिद्विजनरेन्द्रगुरोर्विमानात् ।प्रेमाधिकाद्युवजनादपि विप्रयोगात्उन्मादहेतु नृणां कथितं वरिष्ठैः
तन गायति वा रौति विरूपं पठते यदा ।लोलयेच्छर्द्दते वापि कम्पते हसते तथा
धावते हनने चैव तथा जिह्वा विनश्यति ।नरो वा भ्रमतेऽत्यर्थं पश्येद्घनमथातुरः
तस्यापस्मारकं कर्म्म कर्त्तव्यं भिषजांवरैः ।विशेषेण भूतविद्यां मध्ये वक्ष्यामि चाग्रतः”
इति महर्ष्यात्रेयभाषिते हारीतोत्तरे तृयीय-स्थाने उन्मादनिदाननामा विंशोऽध्यायः
अस्य सम्प्राप्तिसहित-निदानलक्षण-चिकित्सिता-न्याह वाभटः
“उन्मादाः षट् पृथग्दोषनिचयाधिविषोद्भवाः ।उन्मादोनाम मनसो दोषैरुन्मार्गगैर्मदः
शारीरमानसैर्दुष्टैरहितादत्र पानतः ।विकृतासात्म्यसमलाद्विषमादुपयोगतः
विषमस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात् ।क्षीणस्य चेष्टावैषम्यात् पूज्यपूजाव्यतिक्रमात्
आधिभिश्चिचविभ्रंशाद्विषेणोपविषेण ।एभिर्विहीनसत्त्वस्य हृदि दोषाः प्रदूषिताः
धियो विधाय कालुष्यं हत्वा मार्गान् मनीवहान्उन्मादं कुर्व्वते तेन धीविज्ञानस्मृतिभ्रमात्
देहो दुःखसुखभ्रष्टो, भ्रष्टसारथिवद्रथः ।भ्रमत्यचिन्तितारम्भम्” --वातादिभेदेन लक्षणं यथा
“तत्र वातात् कृशाङ्गता
अस्थाने रोदनाक्रोशहसितस्मितनर्त्तनम् ।गीतवादित्रवागङ्गविक्षेपास्फोटनानि
असाम्ना वेणुवीणादिशब्दानुकरणं मुहुः ।आस्यात् फेनागमोऽजस्वमटनं बहुभाषिता
अलङ्कारोऽनलङ्कारैरयानैर्गमनोद्यमः ।गृद्धिरभ्यवहार्य्येषु तल्लाभे वावमानता
उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः
पित्तात् सन्तर्ज्जनं क्रोधो मुष्टिलोष्ट्राद्यभिद्रवः ।शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता ।असत्यज्वलनज्वालातारकादीपदर्शनम्
कफादरोचकश्छर्द्दिरल्पेहाहारवाक्यता ।स्त्रीकामता रहः प्रीतिर्लालासिङ्घाणकश्रुतिः
बैभत्स्यं शौचविद्वेषो निद्राश्वयथुरानने ।उन्मादो बलवान् रात्रौ भुक्तमात्रे जायते
सर्व्वायतनसंस्थानसन्निपाते तदात्मकम् ।उन्मादं दारुणं विद्यात् तं भिषक् परिवर्ज्जयेत्
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान् ।पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते
रोदित्यकस्मान् म्रियते तद्गुणान् बहु मन्यते ।शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते
विषेण श्याववदनो नष्ठच्छायाबलेन्द्रियः ।वेगान्तरेऽपि संभ्रान्तो रक्षाक्षस्तं विवर्जयेत्”
चिकित्सा यथा
“अथानिलज उन्मादे स्नेहपानं प्रयोजयेत् ।पूर्व्वमावृतमार्गे तु सस्नेहं मृदुशोधनम्
कफपित्तभवेऽप्यादौ वमनं सविरेचनम् ।तथास्य शुद्धदेहस्य प्रसादं लभते मनः
इत्थमप्यनुवृत्तौ तु तीक्ष्णं लावणमञ्जनम् ।हर्षणाश्वासनोत्त्रासभयताडनतर्ज्जनम्
अभ्यङ्गोद्वर्त्तनालेपधूमान् पानञ्च सर्पिषः ।युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः”
*
“द्वौ प्रस्थौ स्वरसाद्ब्रह्म्या घृतप्रस्थञ्च साधितम्
व्योषश्यामात्रिवृद्दन्तीशङ्खपुष्पीनृपद्रुमैः ।ससप्तलाक्रिमिहरैः कल्कितैरक्षसम्मितैः
पलवृद्ध्या प्रयुञ्जीत परं मात्राचतुष्पलम् ।उन्मादकुष्ठापस्मारहरं बन्ध्यासुतप्रदम्
वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम्”
इति ब्राह्मीघृतम्
*
“वरा विशाला भद्रैला देवदार्व्वेलबालुकैः ।द्विसारिवा द्विरजनी द्विस्थिरा फलिनी नतैः
वृहतीकुष्ठमञ्जिष्ठानागकेशरदाडिमैः ।वेल्लतालीशपत्रैलामालतीमुकुलोत्पलैः
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् ।प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मसु
पाण्डुकण्डुविषे शोफे मोहे मेहे गरे ज्वरे ।अरेतस्यप्रजसि वा दैवोपहतचेतसि
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके ।बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च”
इति कल्याणघृतम्
*
“एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम् ।रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरं चतुर्गुणम्
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः ।सूर्पपर्णोयुतैरेतन्महाकल्याणकं परम्
वृंहणं सन्निपातघ्नं पूर्व्वस्मादधिकं गुणैः”
इति महाकल्याणं घृतम्
*
“जटिला पूतना केशी चारटी मर्कटी वचा
त्रायमाणा जया वीरा चोरकः कटुरोहिणी ।कायस्था शूकरीच्छत्रा अतिच्छत्रा पलङ्कषा
महापुरुषदन्ता वनस्था नाकुलीद्वयम् ।कटम्भरा वृश्चिकाली शालिपर्णो तैर्घृतम्
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम् ।महापैशाचकं नाम घृतमेतद्यथामृतम्
बुद्धिमेधास्मृतिकरं बालानाञ्चाङ्गवर्द्धनम्”
इति महापैशाचकं घृतम्
*
“अवपीडाश्च विविधाः सर्षपाः स्नेहसंयुताः ।कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः
सहिङ्गुस्तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः
*
शृगालशल्यकोलूकजलूकावृषवस्तजैः
मूत्रपित्तशकृल्लोमनखचर्म्मभिराचरेत् ।धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्
धूपयेत् सततञ्चैनं श्वगोमत्स्यैस्तु पूतिभिः ।वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते
तिक्तकं जीवनीयञ्च सर्पिः स्नेहश्च मिश्रकः ।शिशिराण्यन्नपानानि मधुराणि लघूनि
विध्येच्छिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।निवाते शाययेदेवं मुच्यते मतिविभ्रभात्”
“भूतानुबन्धमीक्षेत प्रोक्ताल्लिङ्गाधिकाकृतिम्
यद्युन्मादे ततः कुर्य्याद्भूतनिर्द्दिष्टमौषधम् ।बलिञ्च दद्यात् पललं यावकं सक्तुपिण्डिकाम्
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान् ।पक्वामकानि मांसानि सुरामैरेयमासवम्
अतिमुक्तस्य पुष्पाणि जात्या सहचरस्य ।चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः ।निजागन्तुभिरुन्मादैः सत्त्ववान्न युज्यते
प्रसाद इन्द्रियार्थानां बुद्ध्यात्ममनसान्तथा ।धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्”
*
इति वाभटे उत्तरस्थाने सप्तमोऽध्यायः
अस्य सनिदानसंप्राप्तिर्यथा ।“इह खलु पञ्चोन्मादा भवन्ति तद्यथा, --वातपित्तकफसन्निपातागन्तुनिमित्तास्तत्र दोष-निमित्ताश्चत्वारः ।पुरुषाणामेवंविधानां क्षिप्रमभिनिर्वर्त्तन्ते तद्यथा, भीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदोषाणाञ्चमलविकृतोपहितानि अनुचितान्याहारजातानिवैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगवा विषममाचरतामन्यां वा चेष्टां विषमां समा-चरतामत्युपक्षीणदेहानाञ्च व्याधिवेगसमुद्भ्रमि-तानामुपहतमनसां वा काम-क्रोध-लोभ-हर्ष-भय-शोक-चिन्तोद्वेगादिभिः पुनरभिघाताभ्याहतानांवा मनस्युपहते बुद्धौ प्रचलितायामभ्युदीर्णाःदोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानिस्रोतांस्यावृत्य जनयन्त्युन्मादम् उन्मादं पुनर्मनो-बुद्धि-संज्ञा-ज्ञान-स्मृति-भक्ति-शील-चेष्टाहार-विभ्रमं विद्यात्”
तस्येमानि पूर्व्वरूपाणि तद्यथा, --“शिरसः शून्यभावः चक्षुषोः व्याकुलता स्वनःकर्ण-यीरुच्छ्वासस्याधिक्यमास्यसंस्रवणमनन्नाभिलाषो-ऽरोचकाविपाकौ हृदयग्रहो ध्यानायास-सम्मो-होद्वेगाश्चास्थाने सततं लोमहर्षो ज्वरश्चाभीक्ष्ण-मुन्मत्तचित्तत्वमुदर्द्दितत्वमर्द्दिताकृतिकरणञ्चव्याधेःस्वप्ने दर्शनमभीक्ष्णं भ्रान्तचलितानवस्थिता-नवस्थितानाञ्च रूपाणामप्रशस्तानाञ्च तिलपी-डकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनंनिमज्जनं कलुषाणामम्भसामावर्त्तेषु चक्षुषोश्चा-पसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्व्व-रूपाणि”
अत्र वातादिभेदेनास्य लक्षणानि यथा, --“ततोऽनन्तरमुन्मादाभिनिर्वृत्तिस्तत्रेदमुन्माद-विज्ञानं भवति तद्यथा, -- परिसर्पणमक्षिभ्रुवा-मोष्ठांस-हनु-हस्त-पादविक्षेपणमकस्मादनियता-नाञ्च सततङ्गिरामुत्सर्गः फेनागमनमात्स्यात् स्मित-हसित-नृत्य-गीत-वादित्र-प्रयोगाश्चास्थाने वीणा-वंश-शङ्ख-शस्यातालशब्दानुकरणमसाम्ना यान-मयानैरलङ्करणमनलङ्कारिकैर्द्रव्यैर्लोभोऽभ्यवहार्य्ये-ष्वलब्धेषु लब्धषु चावमानस्तीव्रं मात्सर्य्यं कार्श्यंपारुष्यमुत्पिण्डितारुणाक्षता वातोपशय-विपर्य्या-सानुपशयिता चेति वातोन्मादलिङ्गानि भवन्ति
अमर्षः क्रोध-संरम्भश्चास्थाने शस्त्रलोष्टकाष्ठ-मुष्टिभिरभिद्रवणं स्वेषां परेषां प्रच्छाय-शीतोद-कान्नाभिलाषः सन्तापोऽतिवेलम् ताम्रहरित-हारिद्रसंरब्धाक्षिता पित्तोपशयविपर्य्यासादनु-पशयिता चेति पित्तोन्मादलिङ्गानि भवन्ति
स्थानमेकदेशे तूष्णीम्भावोऽल्पशश्चंक्रमणं ला-लाशिङ्घाणकाप्रस्रवणमनन्नाभिलाषो रहस्कामताबीभत्सत्वं शौचद्वेषः स्वप्न-निद्रताश्वयथुरानने शुक्ल-स्तिमितमलोपदिग्धाक्षता श्लेष्मोपशयविपर्य्या-सादनुपशयिता चेति श्लेष्मोन्मादलिङ्गानि भवन्ति ।त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात् ।तमसाध्यमित्याचक्षते कुशलाः”
साधारणसाधनविधिर्यथा ।“साध्यानान्तु त्रयाणां साधनानि भवन्ति ।तद्यथा, -- स्नेह-स्वेद-वमन-विरेचनास्थापनानुवास-नोपशमननस्तः कर्म्म-धूप-धूम-पानाञ्जनावपीड-प्रधमनाभ्यङ्ग-प्रदेह-परिषेकानुलेपन-बध-बन्धना-वरोधन-वित्रासन-विस्मापन-विस्मारणापतर्पण-शिराव्यधनानि
भोजनविधानञ्च यथास्वं युक्त्या यच्चान्यदपिकिञ्चिन्निदानविपरीतमौषधं कार्य्यन्तत्स्यादिति ।उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः ।अनेन विधियुक्तेन कर्म्मणा यत्प्रकीर्त्तितम्”
इति
आगन्तुरुन्मादो यथा ।“यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थान-पूर्व्वरूपलिङ्गविशेषसमन्वितो भवत्युन्मादस्तमा-गन्तुमाचक्षते
केचित् पुनः पूर्व्वकृतं कर्म्माप्रशस्तमिच्छन्ति ।तम्य निमित्तं प्रज्ञापराध एवेति भगवान् पुनर्व्व-सुरात्रेय उवाच
प्रज्ञापराधाद्ध्ययं देवर्षि-पितृ-गन्धर्व्व-यक्ष-रा-क्षम-पिशाच-गरु-वृद्ध-मिद्धाचार्य्य-पूज्यानवमत्या-हितान्याचरति अन्यद्वा किञ्चित् कर्म्माप्रशस्त-सारमते ।तमात्मनोहतमुपघ्नन्तो देवादयः कुर्व्वन्त्युन्मत्तम्”
आगन्तून्मादस्य पूर्व्वरूपाणि यथा ।“तत्र देवादिप्रकोपनिमित्तेनागन्तून्मादेन पुर-स्कृतस्येमानि पूर्व्वरूपाणि तद्यथा -- देव-गो-ब्राह्मण-तपस्विनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायता अरतिरोजो-वर्णच्छाया-बल-वपुषा-ञ्चोपतप्तिः स्वप्ने देवादिभिरभिभर्त्सनं प्रवर्त्त-नञ्चेति ततोऽन्तरमुन्मादाभिनिर्वृत्तिः
तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यता-मारम्भविशेषो भवति तद्यथा अवलोकयन्तोदेवा जनयन्त्युन्मादं गुरुवृद्धसिद्धर्षयोऽभिशपन्तःपितरो धर्षयन्तः स्पृशन्तो गन्धर्व्वाः समाविशन्तोयक्षराक्षसास्त्वामगन्धमाघ्रापयन्तः पिशाचाः पुन-रारुह्य वाहयन्तः
तस्येमानि रूपाणि भवन्ति तद्यथा अमर्त्त्यबल-वीर्य्य-पौरुष-पराक्रम-ग्रहण-धारण-स्मरण-वचन-ज्ञान-विज्ञानान्यनियतश्चोन्मादकालः ।उन्मादयिष्यतामपि खलु देवर्षि-पितृ-गन्धर्व्व-यक्ष-राक्षस-पिशाचानां गुरुवृद्धसिद्धानां वा एष्व-न्तरेष्वभिगमनीयाः पुरुषा भवन्ति तद्यथा --पापस्य कर्म्मणः समारम्भे पूर्व्वकृतस्य वा कर्म्मणःपरिणामकाले एकस्य वा शून्यगृहवासे चतु-ष्पथाधिष्ठाने वा सन्ध्यावेलायामप्रयतभावे वापर्ब्बसन्धिषु वा मिथुनीभावे रजस्वलाभिगमनेवा विगुणे वाऽध्ययन-बलि-मङ्गल-होम-प्रयोगेनियमव्रतब्रह्मचर्य्ये वा महाहवे वा देव-कुल-पुर-विनाशे वा महाग्रहोपगमने वा स्त्रिया प्रव्रजन-काले विविधभूताशुचिसंस्पर्शने वा वमनरुधिर-स्रावाशुचेरप्रयतस्य चैत्य-देवायतनाभिगमने वामांस-मधु तिल-गुड-मद्योच्छिष्टे वा दिग्वाससिवा निशि नगर-निगम-चतुष्पथे पवनश्मशानाभि-गमने वा द्विज-गुरु-सुर-यति-पूज्याभिधर्षणे वाधर्म्माख्यातव्यतिक्रमे वा न्यस्यकर्म्मणोऽप्रशस्तस्या-रम्मे वा इत्याघातकालाः व्याख्याता भवन्ति
त्रिविधन्तु खलून्मादकराणां भूतानामुन्मादनेप्रयोजनम्भवति तद्यथा हिंसारतिरभ्यर्च्चन-ञ्चेति तेषां तत्प्रयोजनविशेषमुन्मत्ताचारविशेष-लक्षणैर्विद्यात् तत्र हिंसार्थमुन्माद्यमानोऽग्निंप्रविशत्यप्सु वा निमज्जति स्थलात् श्वभ्रे निपततिशस्त्र-कषा-काष्ठ-लोष्ट-मुष्टिभिर्हन्त्यात्मानमन्यच्चप्राणबधार्थमारभते तमसाध्यं विद्यात् साध्यौपुनर्द्वावितरौ तयोः साधनानि मन्त्रौषधि-मणि-मङ्गल-बल्युपहार-होम-नियम-प्रायश्चित्तोपवास-स्वस्त्ययन-प्रणिपात-गमनादीन्येवमेते पञ्चोन्मादाःव्याख्याता भवन्ति”
“नैव देवा गन्धर्व्वा पिशाचा राक्षसाः ।न चान्ये स्वयमक्लिष्टमुपक्लिश्यन्ति मानवम्
ये त्वेनमनुवर्त्तन्ते क्लिश्यमानं स्वकर्मणा ।न तन्निमित्तः क्लेशोऽसौ ह्यस्ति कृतकृत्यता”
इति चरके निदानस्थाने सप्तमोऽध्यायः
*
चिकित्साविशेष आगन्तून्मादकारणलक्षणविशेषश्च ।“समूडचेता सुखं दुःखनाचारधर्म्मः कुतएव शान्तिम् ।विन्दत्यपास्तस्मृतिबुद्धिसंज्ञोभ्रमत्ययञ्चेतैतस्ततश्च
समुद्भ्रमं बुद्धिमनःस्मृतीना-मुन्मादमागन्तुनिजोत्थमाहुः”
“देवर्षि-गन्धर्व्व-पिशाच-यक्ष-रक्षःपितॄणामभिधर्षणानि ।आगन्तुहेतुर्नियमव्रतादि-मिथ्याकृतं कर्म्म पूर्व्वदेहे”
“अदूषयन्तः पुरुषस्य देहंदेवादयः स्वैस्तु गुणप्रभावैः ।विशन्त्यदृश्यास्तरसा यथैवच्छायातपौ दपर्णसूर्य्यकान्तौ
आघातकालास्तु सपर्ब्बरूपाःप्रोक्ता निदानेऽथ सुरासुराद्यः ।उन्मादरूपाणि पृथक् निबोधकालञ्च गम्यान् पुरुषांश्च तेषाम्”
तद्यथा, -- सौम्यदृष्टिं गम्भीरमप्रधृष्यमकोपन-मस्वप्नमभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवाचंशुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्
गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्याना-नुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात्
अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाच-मनन्नाभिलाषारोचकाविपाकपरीतं पितृभिरुन्मत्तंविद्यात्
चण्डं साहसिकं तीक्ष्णं गम्भीरमप्रधृष्यं मुख-वाद्य-नृत्य-गीतान्नपान-स्नान-माल्य-धूप-गन्ध-रक्त-वस्त्र-बलिकर्म्म-हास्य-कथायोगप्रिपं शुभगन्ध-मिति गन्धर्व्वोन्मत्तं विद्यात्
असकृत् स्वप्नरोदनहास्यं नृत्य-गीत-वाद्य-कथान्नपान-स्नान-माल्य-धूप-गन्धरतिं रक्तविप्लु-ताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणमितियक्षोन्मत्तं विद्यात्
नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्रतिबलिनंशस्त्रशोणितमांसरक्तमाल्याभिलाषिणं सन्तर्ज्ज-कमिति राक्षसोन्मत्तं विद्यात्
प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिःस्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्म-पीडनेन ब्रह्मराक्षसोन्मत्तं विद्यात्
अस्वस्थचित्तस्थानमनभिमानं नृत्यगीतहासिनंबद्धाबद्धप्रभाषिणं सङ्करकूटमलिनरथ्याचेलतृणे-ष्वारोहणरतिं भिन्नरूक्षवर्णस्वरं नग्नं विधावन्तंनैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं पि-शाचोन्मत्तं विद्यात्
भूतादीनामावेशकालो यथा ।“तत्र शौचाचारं तपःस्वाध्यायकोविद नरंप्रायः शुक्लप्रतिपदि त्रयोदश्याञ्च देवाः, पानशुचि-विविक्तसेविनं धर्म्मशास्त्रश्रुतिकाव्यकुशलं प्रायःषष्ठीनवम्योरृषयः, मातृ-पितृ-गुरु-वृद्ध-सिद्धाचा-र्य्योपसेविनं प्रायो दशम्याममावस्यायाञ्च पि-तरः, गन्धर्व्वास्तु स्तुतिगीतवादित्ररतिं परदार-गन्ध-माल्य-प्रिय-शौचाचार द्वादश्याञ्चतुर्द्दश्याञ्च, सत्त्व-बल-रूप-गर्व्व-शौर्य्य-युक्तं माल्यानुलेपनं हा-स्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्त-म्याञ्च यक्षाः, स्वाध्याय-तपोनियमोपवासव्रतचर्य्या-देव-यति-गुरु-पूजारतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणंवा ब्रह्मवादिनं शूरमानिनं देवतागार-सलिल-क्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने चब्रह्मराक्षसाः, रक्षःपिशाचास्तु हीनसत्त्व-पिशुन-स्तेन-लुब्धं प्रायो द्वितीयातृतीयाष्टमीषु पुरुषं छि-द्रमवेक्ष्याभिधर्षयन्तीत्यपरिसंख्येयानां ग्रहाणा-माविस्कृततमा ह्यष्टावेते व्याख्याताः”
अत्र ये असाध्यास्तेषां लक्षणानि यथा ।“सर्व्वेष्वपि तु खल्वेष यो हस्तावुद्दम्य रोष-सं-रम्भो निःसंज्ञमन्येष्वात्मनि वा पातयेत् सह्यसाध्योज्ञेयस्तथा साश्रुनेत्रो मेढ्रप्रवृत्तरक्तः क्षतजिह्वःप्रस्रुतनासिकश्च्छिद्यमानमर्म्मा प्रतिहन्यमानपाणिःसततं विकूजन् दुर्व्वर्णस्तृषार्त्तः पूतिगन्धिश्च हिं-सार्थी उन्मत्तो ज्ञेयस्तं परिवर्जयेत् रत्यर्च्चना-कामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वातदङ्गोपहारबलिश्रमेण मन्त्रभैषज्यविधिनोपक्रमेत्”
अस्य चिकित्सा यथा ।“लशुनानां शतं त्रिंशदभयात्र्यूषणात्पलम् ।गवां चर्म्ममसी प्रस्थो द्व्याढकं क्षीरमूत्रयोः
पुराणसर्पिषः प्रस्थमेभिः सिद्धं प्रयोजयेत् ।हिङ्गुचूर्णं पलं शीते दत्त्वा मधुमालिकाम्
तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान् ।अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः”
लशुनाद्यं घृतम्
*
“विशेषतः पुराणञ्च घृतं तं पाययेद्भिषक् ।त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहमोक्षणम्
गुणकर्म्माधिकं स्थानादास्वादात् कटुतिक्तकम् ।उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्
लाक्षारसनिभं शीतं तद्धि सर्व्वग्रहापहम् ।मेध्यं विरेचेव्वग्र्यं प्रपुराणमतः परम्
नासाध्यं नाम तस्यास्ति यत्स्यात् वर्षशतं स्थितम् ।दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्व्वग्रहापहम्
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः”
“एतैरौषधवर्गैर्व्वा विधेयत्वं गच्छति ।अञ्जनोन्मादनालेपान्नावनादींश्च योजयेत्
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचाम् ।कुष्ठञ्च वस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्”
इति नस्याञ्जनम्
*
“प्रसेके पीनसे गन्धैर्धूमवर्त्तिं कृताम्पिबेत् ।वैरेचनिकधूमोक्तैः श्वेताद्यैर्व्वासहिङ्गुभिः”
इति धूमपानम्
*
“शङ्खके शान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् शिराम् ।उन्मादे विषमे चैव ज्वरेऽपस्मारएव च”
“कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान् ।परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्”
“देवर्षिपितृगन्धर्व्वैरुन्मत्तस्य तु बुद्धिमान् ।वर्ज्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म्म
सर्पिःपानादि तस्येह मृदुभैषज्यमाचरेत् ।पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा
शान्तिकर्म्मेष्टिहोमांश्च जपस्वस्त्ययनानि ।वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत्
भूतानामधिपं देवमीश्वरं जगतः प्रभुम् ।पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम्
रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये ।तेषां पूजाञ्च कुर्व्वाण उन्मादेभ्यो विमुच्यते”
इति चरके चिकित्सास्थाने चतुर्द्दशोऽध्यायः
अस्य विशिष्टपूर्व्वरूपं यथा ।“मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम्
वायुनोन्मथनञ्चापि भ्रमश्च क्रमतस्तथा ।यस्य स्यादचिरेणैवमुन्मादं सोऽधिगच्छति”
वातजादिभेदेन रूपाणि यथा
“रूक्षच्छविःपरुषवाक् धमनीततो वाश्वासातुरः कृशतनुः स्फुरिताङ्गसन्धिः ।आस्फोटयन् पठति गायति नृत्यशीलोविक्रोशति भ्रमति चाप्यनिलप्रकोपात्
तृट्स्वेददाहबहुलो बहुभुग्विनिद्र-श्च्छायाहिमानिलजलान्तविहारसेवी ।तीक्ष्णो हिमाम्बुनिचयेऽपि वह्निशङ्कीपित्ताद्दिवा नभसि पश्यति तारकाश्च
च्छर्द्यग्निसादसदनारुचिकासयुक्तोयोषिद्विविक्तरतिरल्पमतिप्रकारः ।निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवीरात्रौ भृशं भवति चापि कफप्रकोपात्
सर्व्वात्मके त्रिभिरपि व्यतिमिश्रितानिरूपाणि वातकफपित्तकृतानि विद्यात् ।सम्पूर्णलक्षणमसाध्यमुदाहरन्तिसर्व्वात्मकं क्वचिदपि प्रवदन्ति साध्यम्”
अपरयोर्लक्षणानि प्रथमतोऽस्योक्तानि ।अस्य चिकित्सा यथा ।“स्निग्धं स्विन्नन्तु मनुजमुन्मादार्त्तं विशोधयेत् ।तीक्ष्णैरुभयतो भागैः शिरसश्च विरेचनः
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः ।योजयित्वा तच्चूर्णं ध्राणे नस्यन्तु योजयेत्
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः ।सर्षपाणाञ्च तैलेन नस्याभ्यङ्गौ हितौ सदा
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य ।भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः
भीषयेत् सततं पाशैः कशाभिर्वाथ ताडयेत् ।यन्त्रयित्वा सुषुप्तं वा त्रासयेत्तं तृणाग्निना
प्रतुदैर्दारयेच्चैनं मर्म्माघातं विवर्ज्जयेत् ।सापिधाने जरत्कूपे सततं वा निवासयेत्”
“वर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः ।तेनेदं त्रिफलाहिङ्गुवाजिगन्धामरद्रुमैः
वचाजमोदाकाकोलीमेदामधुकपद्मकैः ।सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम्
बालानां ग्रहजुष्टानां पुंसां दुष्टाल्पमेधसाम् ।ख्यातं फलघृतं स्त्रीणां बन्ध्यानाञ्चाशु गर्भदम्”
इति फलघृतम्
*
“उरोऽपाङ्गललाटेषु शिराश्चास्य विमोक्षयेत् ।अपस्मारक्रियाञ्चापि ग्रहोद्दिष्टाञ्च कारयेत् ।शान्तदोषं विशुद्धञ्च स्नेहवस्तिभिराचरेत्
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक् ।उन्मादेषु सर्व्वेषु कुर्य्याञ्चित्तप्रसादनम्
मृदुपूर्व्वं मदेऽप्येवं क्रियां विद्वान् प्रयोजयेत् ।विषजे मृदुपूर्व्वाञ्च विषघ्नीं कारयेत् क्रियाम्”
इति सुश्रुते उत्तरतन्त्रे द्विषष्टितमोऽध्यायः
*
“तपांसि तीव्राणि तथैव दानंव्रतानि धर्म्मो नियमश्च सत्यम् ।गुणास्तथाष्टावपि तेषु नित्याःव्यस्ताः समस्ताश्च यथाप्रभावम्
ते मनुष्यैः सह संविशन्तिन वा मनुष्यान् क्वचिदाविशन्ति ।ये वा विशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः
तेषां ग्रहाणां परिचारका येकोटीसहस्रायुतपद्मसङ्ख्याः ।असृग्वसामांसभुजः सुभीमाःनिशाविहाराश्च तमाविशन्ति”
“निशाचराणां तेषां हि ये देवगणसंसृताः ।ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः
देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये ।देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते देववत्
स्वामिशीलक्रियाचाराः क्रमएव सुरादिषु ।नैरृतेया दुहितरस्तासां प्रसवः स्मृतः
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृताः ।हिंसाविहारा ये केचिद्दिव्यं भावमुपाश्रिताः
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः ।ग्रहसंज्ञाभिभूतानि यस्माद्वेत्त्यनया भिषक्
विद्यया भूतविद्यात्वमतएव निरुच्यते ।तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः
जप्यैः सनियमैर्होमैरारभेत चिकित्सितम् ।रक्तानि गन्धमाल्यानि वीजानि मधुसर्पिषाम्
भक्ष्याश्च सर्व्वे सर्व्वेषां सामान्यो विधिरुच्यते ।वस्त्राणि मद्यमांसानि क्षीराणि रुधिराणि
यानि तेषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ।हिनस्ति मनुजान् येषु प्रायशो दिवसेषु
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये ।देवग्रहे देवगृहे हुत्वाग्निं प्राशयेद्बलिम्
कुशस्वस्तिकपूपाज्यच्छत्रपायससम्भृतम् ।असुराय यथाकालं विदध्याच्चत्वरादिषु
च्रतुष्पथे राक्षसस्य भोमेषु गहनेषु वा ।शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्
पूर्व्वमाचरितैर्मन्त्रैर्भूतविद्यादिदर्शितैः ।न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्”
“नक्तमालफलं व्योषं मूलं श्योनाकविल्वयोः ।हरिद्रे कृतावर्त्तिः पूर्व्ववन्नयनाञ्जनम्”
“न चायक्तं प्रयुञ्जीत प्रयोगं देवताग्रहे ।ऋते पिशाचादन्येषु प्रतिकूलं चाचरेत्
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्ध्वा महौजसः ।हिताहितविधानञ्च नित्यमेव समाचरेत्
ततः प्राप्स्यति सिद्धिञ्च यशश्च विपुलं भिषक्”
इति सुश्रुते उत्तरतन्त्रे षष्टितमोऽध्यायः
*
“सूतायस्तारमभ्रञ्च मुक्ता चापि समं समम् ।सूतपादोत्तमं वज्रं तालं गन्धं मनःशिला
तुत्थं रसाञ्जनं शुद्धमब्धिफेनं शिलाञ्जनम् ।पञ्चानां लवणानाञ्च प्रतिभागं वसोन्मितम्
भृड्गराजचित्रवज्रीदुग्धेनापि विमर्द्दयेत् ।दिनान्ते पिण्डितं कृत्वा रुद्ध्वा गजपुटे पचेत्
भूताङ्कुशो रसो नाम नित्यं गुञ्जाद्वयं लिहन् ।आर्द्रकस्य रसेनापि भूतोन्मादसवातजित्
पिप्पल्याक्तं पिबेच्चानु दशमूलकषायकम् ।स्वेदयेत् कटुतुम्ब्या तीक्ष्णमुष्णञ्च वर्ज्जयेत्
माहिषञ्च घृतं क्षीरं गुर्व्वन्नमपि भक्षयेत् ।अभ्यङ्गं कटुतैलेन हितो भूताङ्कुशो रसः”
इति भूताङ्कुशोरसः
*
उन्मादभञ्जिनीवटीयथा ।“शुद्धं मनःशिलाचूर्णं सैन्ववं कटुरोहिणी ।वचा शिरीषवीजञ्च हिङ्गुञ्च श्वेतसर्षपम्
करञ्जवीजं त्रिकटु मलं पारावतस्य ।एतानि समभागानि गोमूत्रैर्वटिकां कुरु
गिरिमल्लीवीजसमां छायाशुष्काञ्च कारयेत् ।प्रातःसन्ध्यानिशाकाले चक्षुषोरञ्जनं हितम्
मधुना दिवसे चाज्ज्यं रात्रौ चैव जलेन ।वटिकैषा समाख्याता नाम्ना चोन्मादभञ्जिनी ।चातुर्थकापस्मारहा सर्व्वोन्मादविनाशिनी”
इति वैद्यकरसेन्द्रसारसंग्रहे उन्मादाधिकारे
अत्र पथ्यानि यथा ।“स्नेहो विरेको वमनञ्च पूर्व्वंक्रमान्मरुत्पित्तकफोद्भवेषु ।ततः परं वस्तिविधिश्च नस्यम्सन्तर्ज्जनं ताडनमञ्जनञ्च
आश्वासनत्रासनबन्धनानिभयानि दानानि हर्षणानि ।धूपो दमो विस्मरणं प्रदेहःशिराव्यधः संशमनञ्च सेकः
आश्चर्य्यकर्म्माणि धूमपानंधीधैर्य्यसत्त्वात्मनिवेदनानि ।अभ्यञ्जनं स्नापनमासनञ्चनिद्रासुशीतान्यनुलेपनानि
गोधूममुद्गारुणशालयश्चधारोष्णदुग्धं शतधौतसर्पिः ।घृतं नवीनञ्च पुरातनञ्चकूर्म्मामिषं धन्वरसा रसालम्
पुराणकुष्माण्डफलं पटोलंब्रह्मीदलं वास्तुकतण्डुलीयम् ।खराश्वमूत्रं गगनाम्बुपथ्यासुवर्णचूर्णानि नारिकेलम्
द्राक्षाकपित्थं पनसञ्च वैद्यै-र्विधेयमुन्मादगदेष पथ्यम्”
“पूजाबल्युपहारशान्तिविधयो होमेष्टिमन्त्रक्रियाःदानं स्वस्त्ययनं व्रतानि नियमः सत्यञ्जपो मङ्गलम्
प्रायश्चित्तविधानमञ्जनविधीरत्नौषधीधारणंभूतानामनुरूपमिष्टचरणं गौरीपतेरच्चनम्
ये स्युर्भुवि गुह्मकाश्च प्रमथास्तेषां समाराधनंदेवब्राह्मणपूजनञ्च शमयेदुन्मादमागन्तुकम्”
अपथ्यानि यथा
“मद्यं विरुद्धाशनमुष्णभोजनंनिद्राक्षुधातृट्कृतवेगधारणम् ।व्यवायमाषाढफलं कठिन्नकंशाकानि पत्रप्रभवानि सर्व्वशः
तिक्तानि विम्बी भिषक् समादिशे-दुन्मादरोगोपहतेषुगर्हितम्”
इति वैद्यकपथ्यापथ्यविधौ उन्मादाधिकारः
*
)औत्सुक्यसन्तापादिकारितमनोविपर्य्याससमुत्थ-प्रियाश्रितवृथाव्यापारः इति रसमञ्जरी
(व्यभिचारिभावभेदः यथा, साहित्यदर्पणे३ १३६ ।“औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्या-धिसंत्रासलज्जाः” इति
अस्य लक्षणं सोदा-हरणमाह तत्रैव १५५ ।“चित्तसम्मोह उन्मादः कामशोकभयादिभिः ।अस्थानहासरुदितगीतप्रलपनादिकृत्”
उदाहरणम् ।“भ्रातर्द्विरेफ भवता भ्रमता समन्तात्प्राणाधिका प्रियतमा मम वीक्षिता किम् ?भृङ्गझङ्कारमनुभूय सानन्दम् --“ब्रूषे किमोमिति सखे ! कथयाशु तन्मेकिंकिं व्यवस्यति कुतोऽस्ति कीदृशीयम्”
)
उन्मादः, त्रि, (उत् + मद् + घञ् ।) उन्मादरोग-युक्तः क्षिप्तः उन्मत्तः इत्यमरटीकायां नील-कण्ठः
पागल इति भाषा
वाचस्पत्यम्
Sanskrit
उन्माद
पु०
उद् + मद--अधारे घञ् रोगभेदे सुश्रुते दर्शितोयथा “अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः
मदय-न्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः मानसोऽयमतोव्याधिरुन्माद इति कीर्त्तितः
एकैकशः समस्तैश्च दोषैर-त्यर्थमूर्च्छितैः मानसेन दुःखेन पञ्चविध उच्यते
विषाद्भवति षष्ठश्च यथास्वन्तत्र भेषजम् चाप्रवृद्धस्तरुणोमदसंज्ञां बिभर्त्ति
मोहोद्वेगौ स्वनः श्रोत्रे मात्राणाम-पकर्षणम् अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम्
वायुनोन्मथनञ्चापि भ्रमश्च क्रमतस्तथा यस्य स्यादचिरे-णैवमुन्मादं सोऽधिगच्छति
रूक्षच्छविः परुषवाक् धमनीततोवा श्वासातुरः कृशतनुः स्फुरिताङ्गसन्धिः आस्फोट-यन् पठति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्य-निलप्रकोपात्
तृट्स्वेददाहबहुलो बहुभुग्विनिद्रश्छायाहिमानिलजलान्तविहारसेवी तीक्ष्णो हि माम्बुनिचयेऽपि वह्निशङ्को पित्ताद्दिवा नभसि षश्यतितारकाश्च
छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्वि-विक्तरतिरल्पमतिप्रचारः निद्रापरोऽल्पकथनोऽल्पभुगुष्ण-सेवी रात्रौ भृशं भवति चापि कफप्रकोपात्
सर्व्वात्मकेत्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानिविद्यात् सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्व्वात्मकंक्वचिदपि प्रवदन्ति साध्यम्
चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा गाढं क्षते मनसिच प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः
चित्रं जल्पति मनोऽनुगतं विसंज्ञो गायत्यथो हसतिरोदिति चापि मूढः रक्तेक्षणो हतबलेन्द्रियभाःसुदीनः श्यावाननो विषकृतेन भवेत् परासुः
स्निग्धंस्विन्नन्त् मनुजमुन्मादार्त्तं विबोधयेत्” एतद्व्याख्याच्छलेनतत्रत्यविभागादि चोक्तं भावप्रकाशे “तत्र उन्मादस्य निरुक्ति-माह “मदयन्त्युद्धता इत्यादि” सुश्रुतवाक्यम् यस्माद्धेतो-रुद्धताः प्रवृद्धा दोषा उन्मार्गमास्थिताः मदयन्ति चित्तंविक्षिपन्त्यस्मिन् अतोऽयमुन्माद इति कीर्त्तितः उन्मादःमानसोव्याधिः मनोवैकृत्यकरणात् तस्यैवावस्थाभेदेनलक्षणान्तरमाह “स चाप्रवृद्धस्तरुणैत्यादि” सुश्रु०“उन्मादस्य विप्रकृष्टनिदानमाह “विरुद्धदुष्टाशुचिभोजना-नि प्रधर्षणं देवगुरुद्विजानाम् उन्मादहेतुर्भयहर्षपूर्वोमनोऽमिघातो विषमाश्च चेष्टाः” दुष्टं धत्तूरवीजादिस-हितम् अशुचि रजखलादिस्पृष्टम् प्रधर्षणमभिभवः ।विषमाश्च चेष्टाः बलवद्विग्रहादयः सन्निकृष्टं निदानमाह ।“एकैकशः इत्यादि” सुश्रु० तस्य सम्म्राप्तिमाह “तैरल्पसत्वस्यमलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य स्रोतांस्वधिष्ठायमनोवहानि प्रमोहयन्त्याशु नरस्य चेतः” अल्पसत्वस्यअल्पसत्वगुणस्य मलाः वातादयः बुद्धेर्निवासं हृ-दयं प्रदूष्येति एतेनाश्रयस्य दुष्ट्या तदाश्रिताया बुद्धेरपि दुष्टिरक्ता मनोवहानि स्रोतांसि हृदयश्रितानिदश एतानि विशेषतो बोद्धव्यानि यतश्चरकेण सक-लशरीरस्रोतांस्येव मनोधिष्ठानत्वेनोक्तानि प्रमोहयन्तिविकृतं कुर्वन्ति उन्मादस्य सामान्यं रूपमाह “धीवि-म्नमः सत्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता अ-बद्धवाक्चं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्” ।धीविभ्रमः शुक्तिकायां रजतज्ञानम् सत्वपरिप्लवः सत्वंमनस्तस्य चाञ्चल्यम् अबद्धवाक्त्वम् असम्बद्धभाषित्वम् ।शूव्यं स्मृतिशून्यम् वातिकोन्मादस्य निदानपूर्विकां सम्प्राप्तिमाह “रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनि-लोऽतिवृद्धः चिन्तातिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिंवाप्युपहन्ति शीघ्रम्” प्रदूष्य प्रकर्षेण दूषयित्वा ।तस्यैव रूपमाह “अस्थानहास्यस्मृतिनृत्यगीतवाग-ङ्गविक्षेपणरोदनानि पारुष्यकार्श्यारुणवर्णताश्च जीर्णेबलञ्चानिलजस्य रूपम्” अस्थाने अनवसरे हास्या-दीनि रोदनान्तानि जीर्णे आहारे बलं व्याधेः ।पैत्तिकस्य निदानपूर्विकां सम्प्राप्तिमाह “अजीर्णक-ट्वम्लविदाह्यशीतैर्भोर्ज्यैश्चितं पित्तमुदीर्णवेगम् उन्मा-दमत्युग्रमलात्मकस्य हृदिस्थितं पूर्ववदाशु कुर्यात्” ।हृदि स्थितं पित्तं चितं सञ्चितम् पुनः अजीर्ण क-ट्वम्लविदाह्यशीतैर्भोर्ज्यैरुदीर्णवेगं सत् उन्मादं कुर्यात्पूर्ववत् हृदयं प्रदूष्य इत्यर्थः तस्य रूपमाह “। अ-मर्षसंरम्भविनग्नमावाः सन्तर्जनाभिद्रवणौष्ण्यवोषः ।प्रच्छायशीतान्नजलाभिलाषः पीतावभा पित्तकृतस्यलिङ्गम्” अमर्षोऽसहिष्णुता संरम्भः आरभटी आड-म्बर इति यावत् सन्तर्जनं परत्रासनम् अभिद्रवणंपलायनम् औष्ण्यं गात्रे वोषो दाहविशेषः प्र-च्छायेत्यादि छायायां, शीतयोरन्नजलयोरभिलाषः ।श्लैष्मिकस्य निदानपूर्विकां संप्राप्तिमाह “सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि संप्रवृद्धः बुद्धिं स्मृतिंबाप्युपहन्ति चित्तं प्रमोहयन् सञ्जनबेद्विकारम्” संपूरणैर्भोजनादिभिः मन्दविचेष्टितस्य व्यायामरहितस्य ।सोष्मा कफ इति कफोऽप्युन्मादं करिष्यन् पित्तं सहायमपेक्षते व्याधिस्वभावात् मर्मणि अत्र मर्मशब्देन हृदय-मुच्यते विकारमुन्मादरूपम् तस्य रूपमाह “वाक्चे-ष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता निद्रा ।छर्दिश्च लाला बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मकेस्यात्” वाक्चेष्टितं मन्दं वचनमल्पम् नारीविविक्तप्रियता नारीप्रियता विजनप्रियता भुक्ते सति बलंव्याधेः सान्निपातिकस्य निदानपूर्वकं लक्षणमाह “यःसन्निपातप्रभवोऽतिधोरः सर्वैः समस्तैः तु हेतुभिः स्यात् ।सर्वाणि रूपाणि विभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः”स सान्निपातिक उन्मादा सन्निपातग्रहणेनैव सर्वात्मकत्वंलब्धम् मुनः सर्वैरिति यत्कृतं तद्रजःस्तमःप्रापणा-र्थम् तेन रजस्तमोमिलितैरित्यर्थः तेन वातादयोरजस्तमोभिर्मनोदोषैर्सिलिताः समस्तैश्च निदानैः कु-पिता उन्मादं जनयन्ति सर्वैर्हेतुभिः समस्तैर्मिलितैःस्यात् यतोऽन्योव्याधिः सर्वैर्हैतुभिर्मिलितैरेव भवतीतिनियमो नास्ति अयन्तु व्याधिस्वभावात् सर्वैर्हेतुभिर्मिलितैः स्यात् तादृगुन्मादः विरुद्धभैषज्यविधिः विरु-द्धभैषज्यविधिरिति कोऽर्थः त्रिदोषजे प्रत्येकं वातादि-प्रत्यनीका कार्य्या सा परस्पराविरोधिनी त्रिदोषंहन्ति किञ्चिदेव द्रव्यमामलकादि तच्चात्रायौगिकम् अ-तएव विवर्ज्यः चिकित्स्य इत्यर्थः” मनोदुःखजस्य वि-प्रकृष्टं निदानमाह “चोरै र्नरेन्द्रपुरुषैरित्यादि” सुश्रु० ।अन्यैर्हिंस्रादिभिः गाढमतिशयेन क्षते अभिहतेप्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्य विकारः उन्माद-रूपः तस्य रूपमाह “चित्रं प्रजल्पतीत्यादि” सुश्रु० चित्र-माश्चर्य्यम् मनोऽनुगतं गोप्यमपि विसंज्ञो विरुद्धज्ञानः ।अतीव मूढः अतीवज्ञानशून्यः अत्र विकल्पो बोद्धव्यः ।विषजस्य रूपमाह “रक्तेक्षण इत्यादि” सुश्रु० परासुःमृतः अरिष्टमाह “अवाङ्मुखस्तून्मुखो वा क्षीणमांसवलो नरः जागरूकोह्यसन्देहमुन्मादेन विनश्यति” ।अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह “अम-र्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः ।प्रकोपकालो नियतश्च यस्य देवादिजन्मा मनोविकारः” ।अमर्त्यवाग्विक्रमवीर्य्यचेष्टः मर्त्यस्येव मनुष्यस्येव वागादयोयस्य सः विक्रमः पराक्रमः वीर्यं शौर्य्यम् ज्ञानादिविज्ञानबलादियुक्तः ज्ञानं बुद्धिः आदिपदेन त-द्भेदा मेधाविचारणास्मृत्यादयो गृह्यन्ते विद्धानं शि-ल्पादिविषयकं ज्ञानम् चेष्टा पाटवम् आदिपदेनाभि-मानादि गृह्यते नियतः वक्ष्यमाणतिथ्यादिभिः मनो-विकारः उन्मादः तत्र देवाविष्टस्य लक्षणमाह “स-न्तुष्टःशुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रोऽवितथसंस्कृ-तप्रभाषी तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवतिनरः देवजुष्टः” अतिदिव्यमाल्यगन्धः अतिशयो दिव्य-माल्यस्येव गन्धो यस्य सः निस्तन्द्रः निद्रारहितः अ-वितथं सत्यम् ब्रह्मण्यःब्राह्मणभक्तः दैत्याविष्टस्याह ।“संस्वेदो द्विजगुरुदेवदोषभक्तो जिह्माक्षो विगतभयोविमार्गदृष्टिः सन्तुष्टो भवति चान्नपानजातैर्दुष्टात्माभवति देवशत्रुजुष्टः” विमार्गदृष्टिः कमार्गरतः दुष्टा-त्मा दुष्टस्वभावः गन्धर्वाविष्टस्याह “हृष्टात्मा पुलिनबनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः नृ-त्यन वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितोमनुष्यः” हृष्टात्मा हृष्टजीवात्मा पुलिनं तोयोत्यितंतटम् वनान्तरं वनमध्यम् तयोः सेवी स्वाचारःअनिन्दिताचारः प्रियाणि परि समन्ततीभावेन गीतगन्धमाल्यानि यस्य तथा चारु चाल्पशब्दमिति ह-सनक्रियायाविशेषणम् यक्षाविष्टस्याह “ताम्राक्षःप्रियतनुरक्तवस्त्रधारी गम्भीरोऽद्भुतगतिरल्पवाक् सहिष्णुः ।तेजस्वी वदति किं ददामि कस्मै यो यक्षग्रहपरिपी-डितो मनुष्यः” पित्राविष्टस्याह “प्रेतानां दिशतिसंस्तरेषु पिण्डान् शान्तात्मा जलमपि वाऽपसव्यवस्त्रः ।मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्र-हाभिजुष्टः” प्रेतानां मृतानां पितॄणाम् दिशति ददा-ति अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः नागाविष्टस्याह “यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ मुहुरपि जिह्वयावलेढि क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयःस खलु भुजङ्गमेन जुष्टः” प्रसरति सर्पवत् उरसाचलति सृक्वण्यौ ओष्ठप्रान्तौ राक्षसाविष्टस्याह “गां-सासृग्विविधसुराविकारलिप्सुर्निर्लज्जोभृशमतिनिष्ठूरोऽति-शूरः क्रोधालुर्विपुलबलो निशाविहारी शौचद्विट्भवति राक्षसैर्गृहीतः” अतिनिष्ठुरोऽतिनिर्दयःब्रह्मराक्षसाविष्टस्याह “देवविप्रगुरुद्वेषी वेदवेदाङ्ग-विच्छुचिः आत्मपीडाकरोऽहिंस्रो ब्रह्मराक्षससेवितः ।अहिंस्रः अहिंसाशीलः पिशाचाविष्टस्याह “उद्बस्त्रःकृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथातिलोलः ।बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन्पिशाचजुष्टः” उद्वस्त्रः नग्नः दिगम्बर इतिविदेहवचनात् (मु० सुश्रु० उद्धस्त इति पाठः)कृशो निर्मांसः परुषो रूक्षः अतिलोलः सर्व-स्मिन् अन्नपाने लोलुपः व्याचेष्टन् विरुद्धमाचेष्टन् ।ग्रहा हिंसाक्रीडापूजार्थं गृह्णन्ति अतएवोक्तम् ।“अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाऽक्षतम् हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा तत्र हिंसार्थंगृहीतस्य लक्षणमाह “स्थूलाक्षो द्रुतमटनः सफेणवामीनिद्रालुः पतति कम्पते योऽति यश्चाद्रिद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोद-शेऽव्दे यश्चाद्रीत्यादि यः पर्वतादिपतितः सन् ग्रहैर्गृ-ह्यत इत्यर्थः आदिशब्देन भित्तिप्रासादादयो गृह्यन्तेत्रयोदशेऽव्दे सर्व एव देवादिगृहीतोऽसाध्यः देवादीनामावेशसमयमाह “देवग्रहाः पौर्ण्यमास्यामसुराः सन्ध्ययोरप्रि गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यपि ।पितरः कृष्णपक्षे पञ्चम्यामपि चोरगाः रक्षःप्रिशा-चा रत्रौ चतुर्दश्यां विशन्ति हि” कृष्णपक्षे अमा-याम् प्रायशःपदादन्यत्रापि तिथ्यभिधानप्रयोजनंलक्षणार्थं तत्र तिथौ बलिदानार्थञ्च ननु यदि देवा-दयो विशन्ति तदा विशन्तस्ते दृश्यन्ते कथं नेत्यत आह ।“दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा स्व-मणिं भास्करार्च्चिश्च यथा देहञ्च देहधृक् विशन्तिन दृश्यन्ते ग्रहास्तद्ववच्छरीरिणम्” दर्पणादीत्यादिशब्देनान्यदपि निर्मलद्रवद्रव्यं गृह्यते छाया प्र-तिविम्बम् स्वमणिं सूर्वमणिम् देहधृक् जीवात्मा” ।भा० प्र० एतानि वाक्यानि सुश्रुतोत्तरतन्त्रस्थानि ।तत्र हि “गुह्यानागतविज्ञानमनवस्था सहिष्णुता ।क्रियावाऽमानुषी यस्मिन् ग्रहः परिकीर्त्त्यते” इति ग्रह-शब्दं परिभाष्य “असंख्येया ग्रहगणा ग्रहाधिपतयश्च ये ।व्यज्यन्ते विविधाकाराभिद्यन्ते ते तथाष्टधा देवास्तथाशत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरोभुजङ्गाः रक्षांसिया चापि पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः” इतिविभज्य “संतुष्टः शुचिरित्यादिना तज्जुष्टानां लक्षणान्थाह ।तानि भा० प्र० सङ्गसङ्गत्योदाहृत्य व्याख्यातानीति द्रष्टव्यम् ।अन्ते प्रकृतदेवादीनां क्वचित् प्रवेशः किन्तु तत्परि-चारकाणामेव देवाद्याचरवतां प्रवेश इत्युक्तं यथा सुश्रु०उत्त० “तपांसितीव्राणिंदया दानं व्रतानि धर्मो नियमश्चसत्यम् गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताश्चयथाप्रभावम् ते मनुष्यैः सह संविशन्ति वा मनु-ष्यान् क्वचिदाविशन्ति ये वा विशन्तीति वदन्ति मोहात्तेभूतविद्याविषयादपोह्याः तेषां ग्रहाणां प्ररिचारका येकोटीसहस्रायुतपद्मवंख्याः असृग्वसामांसभुजः सुभीमानिशाविहाराश्च समाविशन्ति निशाचराणां तेषां हि येदेवगणसंसृताः ते तु तत्सत्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ।देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये देववच्च नम-स्यन्ते प्रत्यर्थ्यन्ते देवववत् स्वामिशीलक्रियाचाराःक्रमएव सुरादिषु नैरृतेया दुहितरस्तासां प्रसवःस्मृतः सत्यचादपवृत्तेषु वृत्तिस्तेषां गणैः कृता हिंसा-विहारा ये केचिद्दिव्य भावमुपाश्रिताः भूतानीति कृतासंज्ञा तेषां संज्ञा प्रवक्तृभिः ग्रहसंज्ञाभिभूतानि यस्मा-द्वेत्त्यनया भिषक् विद्यया भूतविद्यात्वमतएव निरुच्यते” ।अथोन्मादस्य सामान्यचिकित्सा‘वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे कफजेवमनं कार्य्यं परे वस्त्यादिकक्रमः यच्चोपदेक्ष्यते कि-ञ्चिदपस्मारे चिकित्सितम् उन्मादे तच्च कर्त्तव्यं सामा-न्याद्दोषदूष्ययोः जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा ।रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते ते जला-दयः” विशेषचिकित्सा भा० प्र० आदौ दृश्या सचायंरोगः महापातककर्म्मविपाकजः “उन्मादस्त्वग्दोषोराजयक्ष्मेत्यादि” शु० त० नारदोक्तेः “चित्तसंमोहउन्मादः कामशोकभयादिभिः” सा० द० उक्ते व्यभि-चारिभावभेदे
Capeller
German
उन्माद
m.
Raserei, Tollheit.
Stchoupak
French
उन्-माद-
m.
folie
ivresse
passion
a. fou
-वन्त्- a.
extravagant, fou, ivre.