| YouTube Channel

उन्मण्डलनृ (unmaNDalanR)

 
वाचस्पत्यम्
Sanskrit
उन्मण्डलनृ
पु०
सि० शि० उक्ते अक्षक्षेत्रप्रदर्शनार्थे उन्मण्डल-शङ्कौ “अग्रादिखण्डं कथिता कोटिरुद्बृत्तना दोःश्रवणोऽपमज्या उद्वृत्तना कोटिरथाग्रकाग्रखण्डं भुज-स्तच्छ्रवणः क्षितिज्या खण्डं यदूर्द्ध्वं समवृत्तशङ्कोयत्तद्धृतेस्तावथ कोटिकर्णौ अग्रादिखण्डं मुज एवमष्टौक्षेत्राण्यमून्यक्षभवानि तावत्” शि० “अत्र किल निरक्षदेशोयदेव विषुमन्मण्डलं तदेव सममण्डलम् तथा क्षितिजा-दन्यदुन्मण्डं नाम वलयं नास्ति तत्र ध्रुवौ क्षि-तिजासक्तौ अथ निरक्षदेशाद्द्रष्टा यथा यथोत्तरतोगच्छति तथा तथोदग्ध्रुवमुन्नतं पश्यति तथा यैर्भागैर्ध्रुवउन्नतस्तैरेव भागैरक्षसंज्ञैः स्वस्वस्तिकाद्दक्षिणतो विषुव-न्मण्डलं नतं पश्यति विषुवन्मण्डलस्य तिर्यक्स्थित-त्वात् तदाश्रितान्यहोरात्रवृत्तानि स्वस्थाने तिरश्चीनानिभवन्ति अतः साक्षे देशे खगोलवलयानां तिरश्चीनखगोल-वलयानां संपातात् त्र्यस्राणि क्षेत्नाण्युत्पद्यन्ते तान्य-क्षक्षेत्रसंज्ञान्युपयोगित्वात् कथ्यन्ते अक्षभा नाम पलमाप्रसिद्धा सा भुजः द्वादशाङ्गुलः शङ्कुः कोटिः अक्ष-कर्णस्तत्र कर्णः” प्रमि० उद्वृत्तनाप्यत्र एवमुन्मण्डलादि-शङ्कुरप्यत्र