| YouTube Channel

उन्मण्डलकर्ण (unmaNDalakarNa)

 
वाचस्पत्यम्
Sanskrit
उन्मण्डलकर्ण
पु०
सि० शि० उक्तेछायया दिनज्ञानार्थे उन्म-ण्डलस्थार्कस्य छायाकर्णे तदानयनं तत्रैव यथा“युतायनांशार्कबृहद्भुजज्यया खरामतिथ्यभ्रभुवो” (१०१५३०) हृताः परः पलश्रुतिघ्नः पलभाविभाजितः परोऽ-थ वोद्वृत्तगते रवौ श्रुतिः” शि० “अर्कस्य सायनांशस्यबृहतीभुजज्या साध्या लघुखण्डज्येत्यथः तया ज्ययापूर्णाग्नितिथिशून्यशशिनो (१० १५ ३०) भाज्याः यल्लब्ध-मसौ पराख्यः परः पलकर्णेन गुण्यः पलभया भाज्यः ।फलमुन्मण्डलगतस्यार्कस्य छायाकर्णो वा भवति” प्रमि०