| YouTube Channel

उन्मण्डल (unmaNDala)

 
Spoken Sanskrit
English
उन्मण्डल - unmaNDala -
n.
- east and west hour circle or six o'clock line
Apte
English
उन्मण्डलम् [unmaṇḍalam], An imaginery circle going from South to North and meant for measuring the day
the east and west circle
Sūrya.
Monier Williams Cologne
English
उन्-मण्डल (उद्-म°)
n.
(in
astron.
) the east and west hour circle or six o'clock line,
Sūryas.
&c.
वाचस्पत्यम्
Sanskrit
उन्मण्डल
न०
उल्लग्नं मण्डलम् सि० शि० उक्ते दिनरात्र्योः क्षयवृद्धिसाधने मण्डलभेदे ययाह तत्रैव ।“पूर्बापरक्षितिजसंगभयोर्विलग्नं याम्ये ध्रुवे पललवैःक्षितिजादधःस्थे सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवे त-दुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” शि० “समवृत्त-क्षितिजयोर्यौ पूर्व्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्च सक्तंयन्निबध्यते तदुन्मण्डलसंज्ञम् दिनरात्र्योर्वृद्धिक्षयौ तद्व-शेन भवतः” प्रमि० सूर्य्यसिद्धान्ते रङ्गनायेन स्पष्टमुक्तं यथा“प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् उन्म-ण्डलं विषुवन्मण्डलं परिकीर्त्यते” सू० “प्राक्पश्चि-माश्रिता पूर्व्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते ।सैव रेखोन्मण्डलं विषुवन्मण्डलम् चः समुच्चये उभय-संज्ञकं कथ्यते अत्रोपपत्तिः क्षितिजपूर्बापरवृत्तसं-योगौ पूर्वापरे तत्सूत्रं पूर्वापरसूत्रमिति पूर्वापर-वृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेनादर्शनाद्रेखाकारतयैवदर्शनाच्च पूर्वापरवृत्तनपि तत्सूत्रम् पूर्वापरवृत्तस्य सममण्डलत्वेनाभिधानात् तद्रेखा सममण्डलसञ्ज्ञोक्ता अथस्वनिरक्षदेशक्षितिजवृत्तस्योन्मण्डलाख्यस्य तत्संयोगयोःसंलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात्पूर्वापरसूत्रमुन्मण्डलसञ्ज्ञम् एतेनान्यदेशक्षितिजसञ्ज्ञयास्वदेशक्षितिजसञ्ज्ञा सुतरां सिद्धेति पूर्वापरसूत्रस्यक्षितिजवृत्तसञ्ज्ञा द्योतिता पूर्वापरस्थानयोः क्षितज-वृत्तस्य संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च”रङ्ग० “उद्वृत्तादयोऽप्यत्र परोऽथ वोद्वृत्तगते रवौश्रुतिः” सि० शि० प्रा० स० ऊर्द्ध्वमण्डले
त्रि०