| YouTube Channel

उन्दी (undI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
उन्द्
मूलधातुः:
उन्दी
धात्वर्थः:
क्लेदने
गणः:
रुधादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
उनत्ति
धातुप्रदीपः
Sanskrit
उन्दीँ उन्दी क्लेदने
- उनत्ति उन्दाञ्चकार औन्दीत् उन्दिदिषति समुन्नं समुत्तम् समुद्रः 20
क्षीरतरङ्गिणी
Sanskrit
उन्दीँ उन्दी क्लेदने
- उनत्ति उन्दिदिषति घञि-अवोदैध (6429) इत्यवोदः क्लेदनम् नुदविदोन्दत्रा (8256)-इति वा नत्वम्-समुन्नम् समुत्तम् उन्देरिच्चादेः (उ0 112)-इन्दुः रक् (द्र0 उ0 213)-उद्रः उन्दुर खनकः उदकम् उन्देर्नलोपश्च 276) इति युच्-ओदनम् उत्सः प्रस्रवणम् 20
धातुवृत्तिः
Sanskrit
उन्दीँ उन्दी (अर्थः) क्लेदने
( उनत्ति उन्तः उदन्ति उनत्सि उनद्मि उन्द्वः उदाञ्चकार )"इजादेश्च गुरुमतोऽनृच्छः'' इत्याम् ( उन्दिता उन्दिष्यति उनत्तु उन्तात् उन्धि उनदानि औनत् औन्ताम् औन्दन् औनः औनत् औनद् औनदम्) "दश्च'' इति सिपि वा रुत्वम् ( उन्द्यात् उन्द्याताम् उद्यात् उद्यास्ताम् ) लिङौ, ( औन्दीत् औन्दिष्टाम् उन्दिदिषति ) "न न्द्राः'' इति नकारस्याद्वित्वम् ( उन्दयति औन्दिदत् उन्दित्वा उन्नम् उत्तम् ) ईदित्त्वादनिट्त्वम् नुदविदोन्द'' इति निष्ठानत्वविकल्पः ( अवोदः ) घञ् किञ्चिदार्द्रः उन्दनम् ( ओद्म ) मनिन्नौणादिकः ( ओद्मः ) "अवोदैधौद्म'' इति नलोपो घञ्यगुणत्वञ्च निपात्यते ( इन्दुः ) "उन्देरिच्चादेः'' इति उप्रत्यय इकारश्चोकारस्य ( ओदनम् ) "उन्देर्नलोपश्च'' इति युचि नलोपः ( उन्दम् ) "स्फायीतञ्चि'' इति रक् ( उदकः उदकम् ) क्वुन्नन्तो निपातित, ( उदधिः क्षीरोदः ) ( सूत्रम्) "उदकस्योदः संज्ञायाम्'' (इति सूत्रम्) इति पूर्वदस्योत्तरपदस्योदादेशः ( उदवासः ) उदकस्य वाहनः ( उदवाहनः ) उदधिर्घटः "पेषं वासवाहनाधिषु च'' इति पेषमादावुत्तरपदे उदकस्योदादेशः, असंज्ञार्थं वचनम् उदकस्य पात्रम् ( उकदपात्रम् उदपात्रम् ) ( सूत्रम्) "एकहलादौ पूरयितव्येऽन्यतरस्याम्'' (इति सूत्रम्) इति वोदभावः पूरयितव्यं पूरणीयं, तद्वाचिन्यसहाये हलादावुत्तरपदे उदकस्योद इति सूत्रार्थः ( उदमन्थः ) "मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च'' इति मन्थादिषूत्तरपदेषूदकस्योदभावः ( उदौदनः ) इत्यादि चोदाहार्यम् ( उदन्वान् ) घटः, ( उदन्वान् ) नाम ऋषिः "उदन्वानुदधौ च'' इति मतुप्युदकस्योदभावउदधौ संज्ञायां निपात्यते, उदधिग्रहणमसंज्ञार्थम् ( उदन्यति ) पिपासतीत्यर्थः "अशनायोदन्य'' इति क्यच्युदकस्योदभावः पिपासायाम् (उदक्यः) "उदकस्योदः संज्ञायाम्'' इति दिगादिपाठाद्यत् 20
कृदन्तरूपमाला
Sanskrit
1 {@“उन्दी क्लेदने”@} 2 उन्दकः-न्दिका, उन्दकः-न्दिका, 3 उन्दिदिषकः-षिका
उन्दिता-त्री, उन्दयिता-त्री, उन्दिदिषिता-त्री
4 उन्दन्-ती, उन्दयन्-न्ती, उन्दिदिषन्-न्ती
उन्दिष्यन्-न्ती-ती, उन्दयिष्यन्-न्ती-ती, उन्दिदिषिष्यन्-न्ती-ती
-- उन्दयमानः, उन्दयिष्यमाणः
5 उत्-उन्दौ-उन्दः
-- -- 6 उन्नः-न्नम्-न्नवान्, उन्दितम्-तः, उन्दिदिषितः-तवान्
7 समुत्तः-त्तम्-त्तवान्, उन्दितम्-तः, उन्दिदिषितः-तवान्
उन्दः, उन्दः, उन्दिदिषुः, उन्दिदयिषुः
उन्दितव्यम्, उन्दयितव्यम्, उन्दिदिषितव्यम्
उन्दनीयम्, उन्दनीयम्, उन्दिदिषणीयम्
8 उन्द्यम्, उन्द्यम्, उन्दिदिष्यम्
ईषदुन्दः, दुरुन्दः, सून्दः
-- 9 उद्यमानः, उन्द्यमानः, उन्दिदिष्यमाणः
10 अवोदः, उन्दः, उन्दः, उन्दिदिषः
ओद्म, उन्दः, उन्दः, उन्दिदिषः
उन्दितुम्, उन्दयितुम्, उन्दिदिषितुम्
उन्दा, उन्दना, उन्दिदिषा, उन्दिदयिषा
उन्दनम्, उन्दनम्, उन्दिदिषणम्
उन्दित्वा, उन्दयित्वा, उन्दिदिषित्वा
समुद्य, समुन्द्य, समुन्दिदिष्य
उन्दम् २, उन्दित्वा २, उन्दम् २, उन्दयित्वा २, उन्दिदिषम् २, उन्दिदिषित्वा
11 इन्दुः, 12 उदकम्-कः, 13 ओदनम्।
प्रासङ्गिक्यः
01
=>
(१०२)
02
=>
(७-रुधादिः-१४५७-अक। सेट्। पर।)
03
=>
[[१। ‘न न्द्राः--’ (६-१-३) इति नकारस्य द्वित्वनिषेधः।]]
04
=>
[[२। ‘श्नान्नलोपः’ (६-४-२३) इति नलोपे ‘श्नसोरल्लोपः’ (६-४-१११) इति अकारलोपः।]]
05
=>
[[३। ‘अनिदितां--’ (६-४-२४) इत्युपधानकारस्य लोपः।]]
06
=>
[[४। ‘श्वीदितः--’ (७-२-१४) इतीण्णिषेधः। ‘नुदविदोन्द--’ (८-२-५६) इति निष्ठानत्वं विकल्पेन भवति।]]
07
=>
[[आ। ‘को नस्तृणेढि हिनसाम समुत्तमास्रैः तं गोपसूनुमिति तैललवाक्तगात्राः।’ धा। का। ३-३।]]
08
=>
[पृष्ठम्०१००+ २४]
09
=>
[[१। ‘अनिदितां हल--’ (६-४-२४) इति नलोपः।]]
10
=>
[[२। ‘अवोदैधौद्मप्रश्रथहिमश्रथाः’ (६-४-२९) इत्यनेन अस्माद्धातोर्घञि नलोपः, मन्प्रत्यये नलोपः गुणश्च निपात्यते। अवोदः = ईषदार्द्रः। ओद्म = उन्दनम्।]]
11
=>
[[३। ‘उन्देरिच्चादेः’ (द। उ। १-१९७) इत्युः प्रत्ययः।]]
12
=>
[[४। ‘क्वुन् शिल्पिसंज्ञयोः’ (द। उ। ३-५) इत्यौणादिकः क्वुन्।]]
13
=>
[[५। ‘उन्देर्नलोपश्च’ (द। उ। ५-२२) इत्यौणादिको युच्।]]