| YouTube Channel

उध्रस (udhrasa)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
उध्रस्
मूलधातुः:
उध्रस
धात्वर्थः:
उञ्छे
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
उध्रस्नाति
अनुबन्धादिविशेषः:
ध्रस्नाति
टिप्पनी: उकारो धात्ववय इत्येके। ध्रस¦ कणश आदाने क्य्रा० पर० सक० सेट् ध्रस्नाति अध्र- सीत् अध्रासीत् दध्रास उदित् ध्रसित्वा ध्रस्त्वा ध्रस्तः ।--वाच..
धातुः:
ध्रस्
मूलधातुः:
उध्रस
धात्वर्थः:
उञ्छे
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ध्रस्नाति
धातुः:
ध्रस्
मूलधातुः:
उध्रस
धात्वर्थः:
उञ्छे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ध्रासयति-ते
शब्दकल्पद्रुमः
Sanskrit
उध्रस उञ्छे इति कविकल्पद्रुमः
(क्रादिं-परं-सकं-सेट् ।) एतस्यादौ पञ्चमस्वरः मध्ये केवल-धकारस्याधो रेफः क्र्यादावुध्रस उञ्छ इत्यय-मुदिच्चौरादिकः पट्यते तस्य ध्रासयतीति रूपंअपरं ध्रस्नाति येषां ध्रसेः उत्पूर्व्वस्य गणद्वयेऽपिपठनं तेषां मते श्नाविधावुध्रस्नाति निगद्यते णिचिकृतेऽप्युध्रासयत्यन्यतः अत्र उत्पूर्व्वस्येति तु उत्उकारः नतूपसर्गः उध्रस्नाति शस्यं दीनः ।इति दुर्गादासः
उध्रस उत्क्षेपे उञ्छे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) उध्रासयति धूलिं वायुः ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
उध्रस उञ्छे क्य्रा०
पर०
अक० सेट् उध्रस्नाति औध्रासीत्उध्रसाम्--बभूव आस चकार
उध्रस उत्क्षेपे उञ्छे (कणशआदाने)
चु०
सक०
सेट् उध्रसयति ते औदिध्रसत्
कृदन्तरूपमाला
Sanskrit
1 {@“उध्रस उञ्छे”@} 2 ‘ध्रस्नाति ध्रासयत्युञ्छे पदे तु श्नि णिचि ध्रसेः।’ 3 इति देवः।
4 उद्ध्रासकः-सिका, उदिध्रासयिषकः-षिका
उध्रासयिता-त्री, उदिध्रासयिषिता-त्री
उध्रासयन् 5 -न्ती, उदिध्रासयिषन्-न्ती
उध्रासयिष्यन्-न्ती-ती, उदिध्रासयिषिष्यन्-न्ती-ती
उध्रासयमानः, उदिध्रासयिषमाणः
उध्रासयिष्यमाणः, उदिध्रासयिषिष्यमाणः
उध्राः-उद्धासौ-उध्रासः
-- उध्रासितम्-तः-तवान्, उदिध्रासयिषितः-तवान्
उध्रासः, उदिध्रासयिषुः
उध्रासयितव्यम्, उदिध्रासयिषितव्यम्
उध्रासनीयम्, उदिध्रासयिषणीयम्
6 उध्रास्यम्, उदिध्रासयिष्यम्
ईषदुध्रासः-दुरुध्रासः-सूध्रासः
-- उध्रास्यमानः, उदिध्रासयिष्यमाणः
उध्रासः, उदिध्रासयिषः
उध्रासयितुम्, उदिध्रासयिषितुम्
उध्रासना, उदिध्रासयिषा
उध्रासनम्, उदिध्रासयिषणम्
उध्रासयित्वा, उदिध्रासयिषित्वा
समुध्रास्य, समुदिध्रासयिष्य
उध्रासम् २, उध्रासयित्वा २, उदिध्रासयिषम्
उदिध्रासयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०१)
02
=>
(१०-चुरादिः-१७४३। सक। सेट्। उभ।)
03
=>
(श्लो। १९०)
04
=>
[[१। ‘उध्रस’ इत्यत्र उकारः धात्ववयव इति काश्यपक्षीरस्वाम्यादीनां पक्षमव- लम्ब्य रूपाणि विलिख्यन्ते। क्र्यादावप्ययं धातुः पठ्यते। उभयत्र उकार इत्-- इत्यन्ये। देवोऽप्येवमेवाह।]]
05
=>
[[B। ‘शौर्याञ्चितेन धृतलिङ्गितचेलकेन संमोदितो हलधरोऽपि मुष्टिकेन। मुष्ट्या तुदन् मुहुरतित्रसदाशु दोर्भ्यामुध्रासयज्जननुतस्तममोचयच्च।।’ धा। का। ३-४२।]]
06
=>
[पृष्ठम्००९९+ २५]