| YouTube Channel

उद्विग्नः (udvignaH)

 
E Bharati Sampat
Sanskrit
(वि) उद्+आ विजी(भयचलनयोः)+क्तः। ‘गत्यर्थाकर्मक०’ ३.४.७२। १.भ्रान्तः। २.व्याकुलः। ३.भीतः। ‘निमग्नोद्विग्न संह्राणैः पप्रे दीनैश्च मेदिनी’ भट्टिः४.४२।
शब्दकल्पद्रुमः
Sanskrit
उद्विग्नः, त्रि, (उत् + विज + क्त ओदितश्चेति तस्यनः श्वीदित इति नेट् ।) उद्वेगयुक्तः यथा, --“तैर्वृक्नरुग्नसंभुग्नक्षुण्णभिन्नविपन्नकैः ।निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी”
इति भट्टिकाव्ये ४२
(तथा भारते, --“नोद्विग्नश्चरते धर्म्मं नोद्विग्नश्चरते क्रियाम्”
)