उद्वाहः (udvAhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishउद्वाहः [udvāhḥ], 1 Bearing up, supporting.
Marriage, wedding
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि 3.43. उद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः Nāg.2.13. (The Smṛitis mention 8 forms of marriage: ब्राह्मो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥ -ऋक्षम् A Nakṣatra auspicious for a marriage. उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः 1.53. 4. -तत्त्वम् of a work of Raghunandana on marriage ceremonies.
Apte 1890
EnglishApte Hindi
Hindiउद्वाहः
- उद्+वह्+घञ्
"संभालना, सहारा देना"
उद्वाहः
- उद्+वह्+घञ्
"विवाह, पाणिग्रहण"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्
सः धार्मिकः सामाजिकः वा संस्कारः येन स्त्रीपुरुषौ परस्परं पतिपत्नीरूपेण स्वीकुरुतः।
"सोहनस्य विवाहः राधया सह जातः।"
शब्दकल्पद्रुमः
Sanskritउद्वाहः, (उत् + वह + घञ् ।) विवाहः । इत्यमरः ।तस्य लक्षणं भार्य्यात्वसम्पादकग्रहणम् । तस्य स्वी-काररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात्वरकन्ययोर्विवाहकर्तृत्वकर्म्मत्वे । स तु अष्ट-विधः । वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्रदीयते स ब्राह्मः १ । यत्र यज्ञस्थायर्त्विजे कन्या-दानं स दैवः २ । यत्र वरात् गोद्वयं गृहीत्वातेनैव सह कन्यादानं स आर्षः ३ । यत्र अनयासह धर्म्मं चरतां इति नियमं कृत्वा कन्यादानंस कायः ४ । यत्र धनं गृहीत्वा कन्यादानं सआसुरः ५ । यत्र कन्यावरयोरन्योन्यानुरागात्त्वं मे भार्य्या त्वं मे पतिरिति निश्चयः स गान्धर्व्वः६ । यत्र बलात्कारेण कन्याहरणं स राक्षसः७ । यत्र सुप्तायां मत्तायां प्रमत्तायां वा कन्यायांनिर्जने गमनं स पैशाचः ८ । तस्य निर्णयः ।सगोत्रामनवरवयस्कां समानप्रवरां पित्रपेक्ष-योर्द्ध्वतनषण्णां पुरुषाणां पुत्रकन्यासन्ततिपरम्प-रया प्रत्येकसप्तमीपर्य्यन्तां अधस्तने तदपेक्षयासप्तमीपर्य्यन्तां पितृबन्ध्वपेक्षयोर्द्ध्वतनषण्णां प्रत्येका-पेक्षया सप्तमोपर्य्यन्तां अधस्तने तदपेक्षया सप्तमीपर्य्यन्तां मातामहसमानोदकां मातामहापेक्ष-योर्द्ध्वतनचतुर्णां पुरुषाणां पुत्त्रकन्यासन्तति-परम्परया प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तनेतदपेक्षया पञ्चमीपर्य्यन्तां मातृबग्ध्वपेक्षयोर्द्ध्वतन-चतुर्णां प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने त-दपेक्षया पञ्चमीपर्य्यन्ताञ्च कन्यां परित्यज्य उद्वाहःकर्त्तव्यः ॥
पितृबन्धुमातृबन्धुविरहेऽपि तयोर्योग्य-तामवलम्ब्य सप्तमीपर्य्यन्तायाः पञ्चमीपर्य्यन्तायाश्चकन्यायाः परिहारः । वर्ज्जनीयानां कन्यानांमध्येऽपि या त्रिगोत्रान्तरिता सा विवाह्या अत्रसप्तमगणनप्रतियोगिपितृपितृबन्धुपञ्चमगणनप्र-तियोगिमातामहमातृबन्धुगोत्रमादायैव त्रिगोत्र-गणनम् । शूद्रस्य सगोत्राविवाहे दोषाभावः ।मातृसपत्नीभ्रातृकन्यां तद्दौहित्रीं अध्यापयितृ-कन्यां शिष्यकन्यां ब्रह्मदगुरुकन्याञ्च परित्यज्यविवाहः कर्त्तव्यः ॥
अथ कन्यादानाधिकारिणः ।आदौ पिता । तदभावे पितामहः । तदभावेभ्राता ।तदभावे पितृज्ञातिः । तदभावे मातामहः । तद-भावे मातुलः । तदभावे माता । तदभावे माता-महज्ञातिः । एतेषामप्यभावे कन्या स्वयं वरंकुर्य्यात् ॥
अथ विवाहपूर्व्वकर्त्तव्यकर्म्म । अवश्यं-भावि शुभाशुभग्रहादिदोषशान्त्यर्थं होमो हि-रण्यगोवस्त्रदानम् । ततो नान्दीश्राद्धम् । लग्न-समये वरे उपस्थिते स्वस्तिवाचनादिकं विधायवरणम् । स्त्य्राचारादि । ततः कन्यादानं यथाशक्तिधनदानञ्च । ततः स्वगृह्योक्तविधिनाग्निं संस्थाप्यकुशण्डिकां समाप्य पाणिग्रहणं सप्तपदीगमनञ्चकर्त्तव्यम् ॥
* ॥
ज्येष्ठेऽकृतविवाहे विवाहकर्त्ताकनिष्ठः परिवेदनदोषविशिष्टो भवति । ज्येष्ठःपरिविन्नः । सा कन्या परिवेदनीया । कन्यादातापरिदायी । तत्पुरोहितः परिकर्त्ता । ते सर्व्वेपतिताः । किन्तु देशान्तरस्थक्लीवैकाण्डवैमात्रेय-वेश्यासक्तशूद्रतुल्यातिरोगिजडमूकान्धवधिरकु-ब्जवामनकुण्ठातिवृद्धनैष्ठिकब्रह्मचारिवानप्रस्थभि-क्षुकृषिसक्तनृपसक्तधनवृद्धिप्रसक्तकामकारिदत्त-कोन्मत्तचौरेषु ज्येष्ठेष्वनूढेष्वपि कनिष्ठविवाहे नदोषः । एवं विकृतरूपानूढा ज्येष्ठा कनिष्ठायाःसोदराया ऊढायाः परिवेदनाय न भवति । इत्यु-द्वाहतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
